________________
ग्रहः । निपद्योद्भूतमिथ्यात्वः, क्रोधात्साधूनदोऽभ्यधात् ॥ ३५ ॥ रे रे भ्रान्तावयंभूरि, ज्ञातं तत्त्वमदोऽधुना ।। क्रियमाणं कृतं नैव, कृतमेव कृतं स्फुटम् ॥ ३६॥ संस्तीर्यमाणस्संस्तीर्णः, संस्तरो भवद्भिश्च यत् । जगदे तदस-13 त्यं भो, वक्तुं युक्तं न धीमताम् ॥ ३७॥ जायमानं च यत् ज्ञानं, क्रियमाणं कृतं तथा । प्रवक्यहन्नयुक्तं, तदध्यक्षेण विबाधतः ।। ३८ ।। पूर्वोऽपरक्षणबात, जायमाने च वस्तुनि । प्रारंभाद्यक्षणे जातमित्येवं कथ्यते कथम् ।। ॥ ३९॥ करोत्यर्थक्रियां यच्च वास्तवं वस्तु तद्भवेत् । तस्मिन्माद्यक्षणोत्पन्नेऽर्थे क्रियाकारितापि न॥४०॥ यद्यारंभेऽपि भोः कार्य, क्रियमाणं कृतं तदा। शेषकाले तदाधानेऽनवस्थादोषसंभवः॥४१॥ तद्युक्तियुक्तमेतत् भोः, कृतमेवकृतं ध्रुवम् । अजातस्य शिशोर्नाम दीयते नहि केनचित् ॥४२॥ निर्दोष मम तत्पक्ष, कक्षीकुर्वतु साधवः। नयुक्तमित्युपादेयं, गृह्यते युक्ति संगतम् ॥४३॥ स विचिंत्येति सत्यं न वक्यहन्निति नो मतम् । मिथ्या सोप्याह यदोषात् , दूषयंति गुरूनपि ॥४४॥ एवं त्रुवाणमुन्मुक्तसीमानमभिमानतः। जमालिं स्थविरा:स्माहुः, प्रतिकूलं किमात्थ भोः ॥ ४५ ॥ आरंभाचक्षणे जातं, नोच्यते वस्तुचेत्तदा । सर्वक्षणाविशेषान्न निष्पद्यत क्षणांतरे ॥ ४६॥ वस्तुनो लक्षणं प्रोचेऽर्थक्रियाकारिता त्वया । अभिधा ज्ञाननिष्पत्ती, तदप्यर्थवदेवहि ।। ४७ ॥ तद्यथा वस्तुतादृक्षं, कुर्वन्नारंभतो नरः। किं निर्मासीति पृष्ठःसन् पटाद्यभिधया भणेत् ॥४८॥ यच्चारंभे कृतकार्येऽनवस्थाकरणे पुनः । भूतानुत्पाद्य कार्याणां, करणात्सा वृथा ध्रुवम् ॥४९॥ युक्तायुक्तविवेकीन, छद्मस्थस्त्वादृशोहि यः। सोऽधीः कथमुपेत्याहङ्गाषितं सोपपत्तिकम् ।।५०॥ केवलादर्शसंक्रांतलोकालोकस्थवस्तुकः। अहद्वीरःप्रमाणं नो