SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ * अमुं निष्कासनाधानात् , प्रत्युपकुर्म आदरात् ॥ १५॥ ध्यात्वेति तेऽथ ध्यायन्तस्तस्योपायं बहिष्कृतौ । तदर्थे । सिंहमेवैकं चतुरं निरचिन्वत ॥ १६ ॥ त्रिभिर्विशेषकम् ॥ ततः संभूय भूयांसः, शृगाला हरिणाधिपम् । विधुः कूपे पपातेति, भक्तिनम्रा व्यजिज्ञपन् ॥१७॥अमन्दजगदानन्द दायिनोऽस्य सितद्युतेः । ज्योत्स्लया दिनदेशीय, निशीथिन्यां रमामहे ॥ १८॥ प्रभो प्रसद्य सद्योऽतः, समुद्धर सुधाकरम् । व्यापजलनिमग्नं तं, पुमांसमिव सज्जनः ॥१९॥ महतां विपदं हन्तुं, महान्तः कुशलाः खलु । ग्रीष्मतापं भुवो हन्तुर्विना मेघेन कःक्षमः॥२०॥5 त्रिभिर्विशेषकम् ॥ ततस्तान् स्माह सिंहोऽपि लास्वैको मम बालधि । तस्याप्यन्यः परोऽन्यस्य, यावदन्त्यस्य चन्द्रमाः॥ २१ ॥ एवं कृते प्लुतेनाहं, युष्मांश्चन्द्रं च हेलया । कूपान्निष्काशयिष्यामि, पुमानिव वरत्रया ॥२२॥ युग्मम् ॥ इति सिंहगिरं श्रुत्वा, पथ्यां तथ्यां मितां मताम् । तथैव विदधुस्तेऽपि सुशिष्या इव सद्गुरोः॥२३॥ कूपान्निष्काशयामास, प्लुतमात्रेण तान हरिः। नहि क्वचिदसामर्थ्य, तादृशां विदितौजसाम् ॥ २४ ॥ कालक्षेपात् क्षपानाथे, मस्तकात् परतो गते । अपश्यन्तः कूपमध्ये, पश्यन्तश्च नभोगणे ॥२५॥ जम्बुका रजनीजानि, हृष्टतुष्टाश्च कूजिरे । सिद्धिसौधारूढकार्यः, को नाम नहि हृष्यति ॥ २६॥ युग्मम् ॥ क्रीडन्तःपुनरन्येयुर्निश्यवक्षन्त जम्बुकाः । कूपाम्बुरजनीनाथप्रतिबिम्बकरंबितम् ॥ २७ ॥ ततोऽस्तोकशोकसिन्धुनिमग्नास्ते १ संभूय मिलित्वा भूयांसः शृगाला हरिणाधिपं सिंहं विधुश्चन्द्रः कूपे पपातेति व्यजिज्ञपन्नित्यर्थः। २ रजनिजानि चन्द्र नभोऽगने पश्यन्त इति सम्बन्धः सिद्धिरेव सौधं गृहं तत्रारूढं कार्य यस्य स तथा सिद्धकार्य इत्यर्थः । 'चैत्यव. २
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy