________________
चैत्यवन्दना
रकासयत् ॥ ८॥ संसूत्रयन् मित्रनिकारभावं, विस्तारयंस्तामसमांसलत्वम् । दृशः पिधानं विदधच्च पांशुर्यस्मिन् &खलाचारमलंबभार ॥ ९॥ रजखलाऽऽशासंङ्ग शङ्के कर्तुमकामुकः। खकरप्रसरं यत्र संजहार दिवाकरः॥१०॥मङ्गलम्।
ललाटंतपमार्तण्डमण्डलद्युतिपीडितम् । लोकमालोक्य फलदाः, शङ्के कारुणिका इव ॥११॥ वार्तेलान्दो-16 कलनोडीननिजपल्लवराजिभिः। यत्रातपत्रं विततं, रचयामासुरम्बरे ॥ १२॥ युग्मकम् ॥ अन्यदा तृषिता
स्तत्र, भ्रमन्तो जम्बुका निशि । अपश्यन्नम्बुसंक्रान्तचन्द्रबिम्बं महावटम् ॥ १३ ॥ असौ सुधाकरः सारसुधासारकरैः करैः। निवारयति नस्तापं, नैदाघं घनवजलैः॥१४॥ आत्मोपकारिणमतः, कूपान्तः पतितं द्रुतम् ।
१ संसूत्रयन् यस्मिन् प्रीष्मे पांशुः धूलिः खलस्य नीचस्याचारं बभार, कीदृशः पांशुः संसूत्रयन् कुर्वन् मित्रस्य निकारभावं तिरस्कार, खलपक्षे मित्रस्य सख्युः, पुनः कीदृशः पांशुस्तामसस्य तमःसमूहस्य मांसलत्वं पीनत्वं विस्तारयन् , खलपक्षे तामसस्याऽज्ञानसमूहस्य Mमांसलत्वं विस्तारयन् , पुनः कीद्गू पांशुः दृशो दृष्टेः पिधानं स्थगनं विदधत् , खलपक्षे दृशःज्ञानस्य पिधानमित्यर्थः । २ रजस्खला
| रजःपुजसमाकुला ऋतुमती वा स्त्री रजस्वला या आशा दिशः तासां संगः सम्बन्धस्तं स्वकरप्रसरमिति, स्वकराणां स्वकान्तीनां प्रसर-1 | स्तम् । कामुकोऽपि हि पुमान् रजस्खलायाः स्त्रियाः संग विरुद्धमिति कृत्वा कर्तृमनिच्छन् स्वकरप्रसरं स्वहस्तप्रसरं तदङ्गस्पशोय व्यापारित
संहरतीत्यर्थः । ३ ललाटंतपो ललाटवर्ती योऽसौ मार्तण्डः सूर्यस्तस्य मण्डलं बिम्बं तस्य द्युतिस्तया पीडितं, फळदा वृक्षाः। ४ वातूलो ॥ छावातसमूहस्तेन यदान्दोलनं चालनं तेन उड्डीना ये निजपल्लवास्तेषां राजिभियंत्र कानने आतपत्रं छत्रमम्बरे आकाशे रचयामासुरित्यर्थः ।
५ जम्बुकाः, शृगाला अम्बुनि संक्रान्तं चन्द्रबिम्बं यत्रैवंविधमहावटं महावृक्षमपश्यन्नित्यर्थः ।
453