________________
चैत्यवन्दन॥७॥
:564564644
मुहुर्मुहुः । इतस्ततः पर्यटन्तो व्यषदन् व्यालपन् भृशम् ॥ २८ ॥ आत्म॑मान्यनात्मनीनो नवीनः कोऽपि जम्बुकः | कूपमण्डूकसंकाशस्तानूचेऽथ शुचाकुलान् ॥ २९ ॥ शशाङ्कसहितान् युष्मान्, केशरीव पराक्रमी । अहं निष्कासयिष्यामि मा कुरुध्वं शुचं मुधा ॥ ३० ॥ युग्मम् ॥ एवमूचुः शृगालास्तं, प्रवृद्धा दीर्घदर्शिनः । सरलैवमतिः प्रायः, स्थविराणां हि वल्गति ॥ ३१ ॥ वातूलतूलवतुच्छ न त्वं केशरिविक्रमम् । कर्तुं शक्नोषि रे, वैन्यसैरिभस्य विडालवत् ॥ ३२ ॥ युग्मम् । स ततः सस्मयं स्माह तनुवज्जीर्णबुद्धयः । सुरंगाधूलिवद् रेरे धीर्वो हृद्येव | हीयताम् ॥ ३३ ॥ सस्मराणां सस्मयानां, निविडाभिनिवेशिनाम् । हितोपदेशा वैफल्यं, भजन्ति, तुषवापवत् ॥ ३४ ॥ मुमूर्षुरेष न हितोपदेशं शृणुते ध्रुवम् । देवो हि दुर्म्मतिं दत्ते, चपेटां न कपोलयोः ॥ ३५ ॥ इति नि - श्चित्य ते सर्व उदासांचक्रिरेतराम् । विपाकविरसं जातु न कार्यं कुर्वते बुधाः ॥ ३६ ॥ त्रिभिर्विशेषकम् ॥ मुमूर्षव इव व्यात्तयमाननमिवावटम् । तस्य लांगूलमादाय, क्रोष्टारः प्राविशन्नवाः ॥ ३७ ॥ हरिणेव ते दत्तेतेन सोऽन्येऽपि जम्बुकाः । भग्नकूर्परदन्तोष्ठा न्यपतन् कूपकोटरम् ॥ ३८ ॥ अनुभूय व्यथां गुर्वी, ते जग्मुर्य| ममन्दिरम् । अनालोचितकार्याणां नायैतिः शुभकारिणी ॥ ३९ ॥ गम्भीर भैरव भवाटवकोटराद् यो निष्काशयत्यविरतं हरिवत् परं स्वम् । कर्मेभकुम्भतटपाटनपाटवं तं भव्या सदाऽऽदरपराः सुगुरुं भजध्वम् ॥ ४० ॥ | उच्छृंखलः स्खलित नीतिरधीनिधानं संसारकूपपतने खलु यो निदानम् । स्वस्यापरस्य च शृगाल इवाभिमानी १ आत्ममानी अहंकारी अनात्मनीनोऽनात्महितः । २ वन्यसैरिभस्य वनमहिषस्य । ३ आयतिरुत्तरः कालः ।
कुलकवृत्तिः मङ्गलम्.
॥ ७ ॥