SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कुलकवृचिः चैत्यवन्दन॥८२॥ ष्णव, श्रीदेवीलानवारिणा। स्लपयेः स्वां कनी वत्स!, नीरुजां चेच्चिकीर्षसि ॥२२॥ तदाकर्ण्य वणिग् स्वप्ने, देवताभणितं हितम् । सद्यः सुताहितचिकीर्जजागार सुजागरः॥२३॥श्रीदेवीस्नानपानीयमानीयौक्षत् सुतां प्रगे। वैद्यादिष्टं हितं मिष्टं, नौषधं विदधीत कः॥ २४॥ सद्यः स्वर्णशलाकाभा, तेन सा समपद्यत । जातुचिज्जातरूपीस्यात्, किं नायो रसवेधतः ॥२६॥ अन्येद्युमेदिनीनेतुनन्दनस्याप्यदीप्यत । गात्रे श्वित्रामयस्तीवः, स्थानेस्थाने रुजां नयन् ॥२६॥ चिकित्सा भिषजां तस्मिन् , मन्ना मन्त्रविपश्चिताम् । व्योमप्रहारवजजुः, सर्वतः फल्गु वल्गिताः॥२७॥ दध्यावुपायवैकल्यं, विज्ञाय वसुधाधवः। अभुक्तं किं कृतं कर्म, कल्पान्तेऽपि प्रहीयते ॥ ४॥ २८ ॥ यतः-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ ॥ २९॥ तथाऽप्यौपयिक किश्चित, कुर्वे खार्थसमीहया । व्यवहारनयस्यापि, बलवत्ताहतां मते ॥ ३०॥ इति चिन्तामधुलिहं, दधच्चित्ताब्जकोटरे । नृपतिः कारयामास, पुरे पटहघोषणाम् ॥ ३१॥ श्रीधर्मनामराट्पुत्रमुल्लाघयति यो नरः। राज्यार्द्धकमलां तस्मै, गुणक्रीतां ददाति राट् ॥३२॥ बालचापलतस्तंच, वसुतेजःसुताऽछुपत् । युक्तायुक्तविचारैकचातुरी क नु शैशवे ? ॥ ३३॥ ततस्तद्वादकाः प्रोचुर्नृपं पटहमस्पृशत् । देवी देवयशा नाम वसुतेजोऽङ्गजाऽधुना ॥३४॥ स्वपुत्रपटुतामार्गमिव पाटहिकं वचः। आकर्ण्य कारयामास, वसुतेजःसुतां नृपः ॥ ॥ ३५॥ तातेन सहिता साऽपि, जगाम नृपपर्षदि । जनयन्ती मनाक्षोभ, रूपलक्ष्म्या सभासदाम् ॥ ३६॥ अनंसीबसुधानाथं, वसुतेजाः सुतान्वितः । ऊचे तं च नृपो भद्र!, भद्रीकुरु ममाङ्गजम् ॥ ३७॥ करकुदाल
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy