________________
चैत्यवन्दन-तच्छोषणं यत् तत् सर शोषकर्मोच्यते, एतदपि प्रभूतप्राणिप्राणप्रहाणकारणत्वेनानल्पपापहेतुत्वान्न कारयि
नापापहतुत्वान्न काराय-काकुलकति: तव्यं न च कर्त्तव्यम् ॥ १४॥ तथाऽसतीपोषणं शुकसारिकामूषकमार्जारमयूरमण्डलकुक्कुटपारावतादिजीवानां ॥१२२॥
पोषणं यत् तदसतीपोषणं, तथा दासीतुरगीकरभीप्रभृतीनां स्त्रियां वित्तार्थ यत् पोषणं तदसतीपोषणमुच्यते, एषामधाम्मिकाणां पोषणमल्पकार्यार्थ कृतमपि बहुपापनिदानत्वेन निषिद्धम् ॥१५॥ बहुसावद्यवाणिज्यनिषेधं कथयता सूत्रकृता निरवद्यानां कर्पाससूत्रवस्त्रमञ्जिष्टापूगीफललवंगैलातजतमालपत्रकर्पूरप्रभृतीनां वस्तूनां व्यवहारानिषेधः सूचितः, इति विवेकवता श्रावकेण जीवनार्थमपि प्रतिषिद्धवस्तुव्यवसायं परिहत्याप्रतिषिद्धवस्तुव्यवसायो विधेय इति, तथा 'बहुलोयगरहणिजमिति' बहुलोकेन गहणीयं, निन्दनीयं विजातीनां कुविन्दकान्दविकचित्रकरचर्मकरकुम्भकारसीवनकरादीनां नीचजातीनां कर्म वयनादिकं तदपि विवेकी वर्जयति ॥२२॥ अधुना खरकर्मपरिहारमाह 'रायनिओगाइगयमित्यादि' राज्ञो देशाधिपस्य ग्रामाधिपस्य वा नियोगो व्यापारोऽमात्यसैल्लहस्तभाण्डागारिकमाण्डविकत्वादिकः, स आदिर्येषां पारिग्रहिकप्रतिसारकषणलेखकतलवरकारक्षकगुप्तिरक्षकादीनां पदानां तानि राजनियोगादीनि तेषु गतं तद्विषयं कर्म खरकर्म तदपि यथाशक्ति परिहरामि, यतः कदाचिद् राज्ञा बलात्कारेण तदपि काङ्गीकार्यते इति यथाशक्ति
२२॥ तवर्जनं, लौकिकशास्त्रेष्वपि राजनियोगो बहुलैहिकानर्थसार्थहेतुभूतः प्रतिषिद्धोऽस्ति, तथाहि-हस्ते मुद्रा मुखे मुद्रा मुद्रा स्यात् पादयोर्द्वयोः। ततः पश्चाद् गृहे मुद्रा व्यापारः पाश्चमौद्रिकः ॥१॥ वरं वनं वरं भक्ष्यं *