________________
मासाद्य, निपीयाराधनासुधां । ध्यात्वा पंचनमस्कारं, धनदः प्राप सद्गतिम् ॥ २८ ॥ इति चैत्यवंदनविषये धनदश्रेष्ठिकथा समाप्ता__"अट्ठसयं परमिट्ठीणमित्यादि' सूचकत्वात्सूत्रस्येति न्यायात् पंचानां परमेष्ठिनां अर्हतसिद्धाचार्योपाध्यायसाधुलक्षणानां नमस्कारान् सकलसंपत्संप्रदानबूंदारककारस्कारान् दुष्कर्मकुंभिकुंभस्थलविदारणकंठीरवनरवरनिकरान् अष्टोत्तरशतसंख्यान सादरं षण्मासान् यावद्गुणयिष्यामि, अथ यावजीविकादिनियमप्रतिपत्तिमाह
जावजीवं चउवीसं उद्दिमुटुंमि, चउद्दसीसुं च, पुंनिमवीयएगारसि, पंचमि दोकासणाइ तवं॥ १४ ॥ | व्याख्या-सम्यक्त्वप्रतिपत्तिदिनादारभ्य यावज्जीवं पंचपरमेष्ठिनमस्काराणां, चतुर्विशतिर्गुणयिष्यामि, इह हि |जिनशासने ये भविकलोकाः सकलजैनधर्मसारं समस्तं द्वादशांगीरहस्योद्धारं निखिलवर्गापवर्गकमलवशीकरणप्रकारं अशेषसंस्फुरन्मंत्रराजन्य (चक्रचक्र) धरानुकारं सर्वक्षुद्रोपद्रवतातविहिततिरस्कार, श्रीपंचपरमेष्ठिनमस्कारं एकाग्रचित्तेन ध्यायंति, तेषां भूतप्रेतपिशाचयक्षराक्षसमुद्गलचक्राणि, स्तंभनमोहनवशीकरणोच्चाटना| दिक्षुद्रमंत्राश्च, शाकिनीडाकिनीयोगिनीकपालिदुर्योगिदुर्मात्रिकदुस्तांत्रिकभ्रामंतिकादिविप्रतारकाचन प्रभवंति। किंतु प्रत्युत श्रीपंचपरमेष्ठिप्यानध्यानवशीकरणयोगचूर्णवशीकृतास्ते सकलकल्याणमाला प्ररोहाय संपद्यते शिवश्रेष्टिपुत्रस्य त्रिदंडिपुरुषवत्-तथाहि-वाड़ियेनात्त रत्नादि,महर्षि ददंभतः। फूत्करोत्यनुवेलंन्वभूत्तद्रत्नपुरं
ANSARKERSASSES