________________
चैत्यवन्दन-नासुधाम् । सूरि विज्ञपयामास, धनदो योजितांजलिः॥१३॥ भोज्यं मयाद्य प्रभृति वंदित्वा विमाहतम् । कुलकवृचिः
कदाचित्तभावे च, दृष्ट्वा चैत्यमुतध्वजाम् ॥ १४ ॥ अन्येप्येवं जना लात्वा, नियमान् खगृहे ययुः । व्यहरन् । ॥६५॥
सूरयोऽन्यत्राप्रतिबद्धाःसमीरवत् ॥१५॥ जैनबिंबं नमस्कुर्वन् , प्रत्यहं चैत्यसंस्थितम् । धनदः पालयामास, नियम खंतनुजवत् ॥१६॥ अन्यदा ग्रीष्मसंतप्त, पृथ्व्यां कारुण्यमानिव । अवर्षदनवच्छिन्नधाराभिर्वारिदस्तदा ॥१७॥ ततो हृष्टा जनाःसर्वे, ग्रामिणाः कृषिकर्मणि । प्रावर्तन्त यतस्तत्तादृशामाजीविकोच्यते ॥ १८॥ धनदोप्यादधे क्षेत्रं, खल्पद्रव्यतया तदा । प्रायः खल्पर्धिकानां हि, निर्वाहः कृषिकर्मणा ॥१९॥ अन्यदा धनदः क्षेत्रं, गत्वा स्वयमचीकरत् । धान्यवापं यतो नृणां, ऐहिकार्ये महोद्यमः॥ २०॥ भोजनावसरे गेहाद्रोहिनी भक्तमानयत् । सौवं सस्मार धनदो, नियमं जीविताधिकम् ॥ २१॥ अथोत्थाय सरःपाल्यां, गत्वोचदेशमास्थितः। धनदः प्रेक्ष्य तचैत्यं, दृष्टदृष्टमदोवदत् ॥ २२॥ खनद्भिः सरो मनुजैस्तत्र लब्धं महा|निधिं । विभजद्भिर्वचाश्रुत्वा, धनदस्य व्यचिंत्यदः ॥२३॥ वयं ज्ञाता अनेनेऽति, राज्ञोग्रे चेद्वदिष्यति । जीवग्राहं
तदा राज्ञा निग्रहीष्यामहे वयम् ॥२४॥ ततो धनदमाहय, तस्मै भागं प्रदाय च । ययुः सुस्थानिज धाम, नरास्ते | |निधिलामिनः ॥ २५॥ विधाय तेन वित्तेन, व्यवसायाननेकशः। धनदो धनधीभ्य, धर्मकर्मरतोऽभवत् ॥२६॥ त्रिकालं जैनबिंबार्चा, प्रकुर्वन् दुस्थितो धृति, संघपूजां गुरूपास्ति, पुण्यकोशं बभार सः ॥२७॥ प्रान्तेऽनशन