SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ | वहपण्यव्यवहारादिव्याक्षेपान्नित्यं यथोक्तविधिना परिपूर्णा चैत्यवंदनां कर्तुमपारयन्निश्चयेन भावसारं जघन्यामपि चैत्यवंदनां करोति स निःखशिरोमणि धनदश्रेष्ठिवदिहलोकेऽपि धनधान्यादिकमलां हस्ते कृत्य प्रेत्यापि | स्वर्गापवर्गकमला ललनापाणिपीडनमवश्यं विदधाति, अत्रार्थे धनदश्रेष्टिकथानकम् । सकलभविकचक्रवालबालकस्तन्यपानमिव प्रतन्यते - तथाहि - इहैव भरतक्षेत्रे, ग्रामः सुग्रामनामकः । जज्ञे गोमहिषीवाजि, धनधान्यरमाकुलः ॥ १ ॥ हैयंगवीनं भुंजानाः' स्थूलं रूप्यनिभं दधि । क्षीरं धाराहतं नित्यं पिबन्तः प्रीतमानसाः ॥ २ ॥ यत्रोल्ललंतः क्रीडंतः, खेच्छया ग्रामवासिनः । स्वर्गादप्यधिकं सुखं, ग्रामवासममंसत ॥ ३ ॥ युग्मम्तत्राभूद्धनदनामा, श्रेष्ठी निःखशिरोमणिः । जज्ञुर्धुरीणेऽपि युगे, निःखा हि बहवो जनाः ॥ ४ ॥ तैलगोरसव|स्त्रान्नलवणेन्धनचिंतया । धर्मकृत्येऽप्रमत्तोऽभूद्धनदो धनवर्जितः ॥ ५ ॥ भव्यांभोरुहखण्डानि, बोधयन्तो गभस्तिवत् । आगच्छन्नन्यदा तत्र, दमघोषमुनीश्वराः ॥ ६ ॥ सूरेरागममाकर्ण्य, ग्रामीणास्तं दुकिरे । अवतीर्णं | गृहाभ्यर्णे, खर्द्धकेनद्युपासते ॥ ७ ॥ धनदः सूरिपादान्ते, गत्वा प्रहो व्यजिज्ञपत् । यथा दारिद्रदुःखेन मुच्ये स्वामिंस्तथा कुरु ॥ ८ ॥ सूरयो देशनां चक्रुः जनकर्णसुखावहां। नहि तत्तादृशं वाक्यं, दुःखाय स्यात्कदाचन ॥९॥ सुखाभिलाषिणः सर्वे, देहिनोऽत्र जगत्रये । विना धर्मं सुखं न स्यात्प्राणिनां भवचारिणाम् ॥ १० ॥ दानशीलतपोभावैः चतुर्धा तं सुपुत्रवत् । ऐहिकामुष्मिकसुखहेतुं प्राहुर्मनीषिणः ॥ ११ ॥ यस्त्वैतं कर्तुमीष्टेन, तेन कल्याणमिच्छुना । विश्वार्हार्हांघ्रियुग्मोऽर्हन्नभिवंद्योनुवासरम् ॥ १२ ॥ कर्णकच्योल केनोच्चैः पीत्वा तां देश
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy