SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ स्त्रियाः॥ २३ ॥ ध्यायन्ती सा नमस्कारमंत्रं गृहान्तराविशत् । पिधानं पाणिनोत्तार्य, कुंभे हस्तं खमक्षिपत् PI॥ २४ ॥ तुष्टा शासनदेव्यस्यै, नमस्कारप्रभावतः। सर्प हृत्वा सुगन्धानि, चक्रे पुष्पाणि तत्क्षणात् ॥ २५ ॥ श्रीमती तानि लात्वादाद्विनीता वल्लभाय सा। चकितः संस्ततस्तत्र, गत्वा सर्व व्यलोकत ॥२६॥ दृष्ट्वा घटमसर्प तं, दिव्यसौरभवासिताम् । मीलयित्वाऽखिलं लोकं तं वृत्तान्तं जगाद सः॥२७॥ श्रीमत्या स महासत्या, लगित्वा पादयोः प्रियः। स्वागश्च क्षमयामास श्लाघयामास चेति ताम् ॥२८॥ मया पुष्पछलं कृत्वा धृत्वा हि | [ घटकोदरे । विदधे त्वद्वधार्थ यह्यलीकं क्षाम्य तत्प्रिये ॥२९॥ अहो ते मंत्रमाहात्म्यमहो ते पतिभक्तिता । अहो|8| ते धर्मधीरत्वमहो ते क्षांतिसौष्ठवं ॥ ३०॥ श्रीमत्यथ प्रियं प्रोचे, कोपः खल्पोऽपि नास्ति मे । जानीहि स्वहितं किंतु, कांताद्यापि गिरा मम ॥ ३१॥ ततस्तस्योपशान्तस्य, जैन धर्म जगाद सा । प्रस्तावे को हि नाख्याति, सज्जनः खजने हितम् ॥३२॥ ततः स सपरीवारोंऽगीचकाराहतवृषम् । को हि दृष्टफलं सालं रसालं न पिकः श्रयेत् ४ &॥ ३३ ॥ आभवं पालयित्वा तमतीचारविवर्जितम् । श्रेष्ठिस्तः सपरीवारो जज्ञे सुगतिभाजनम् ॥ ३४ ॥ नक्तंदिवं वचसि चेतसि सावधानाः, ध्यायन्ति पंचपरमेष्ठिनमस्कृतिं ये। ते श्रीमतीवत् जिनशासनदेवतानुभावादिहापि खलु तत्कफलं लभन्ते ॥ ३५॥ इति पंचपरमेष्ठिनमस्कारविषये द्वितीया श्रीमतीकथा संपूर्णा इह हि जगति ऐहलौकिकचेतश्चिन्तितार्थसार्थमात्रप्रदानप्रकटेभ्यः सुरतरुचिंतामणिकामधेनुकामघटेभ्योऽपि समधिकमहिमस्फारं स्वकीयामेयमवारिमपरिस्फुरिततुषारकरकरनिकरसहोदरयशोभरहारभूषितदिग्योषिद्वक्षः
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy