SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चेतीतरेतरद्वंद्वः, ततोऽयमर्थः उद्दिष्टायाममावास्यायामष्टम्यां चतुर्दश्यां तथा पूर्णिमायां चेति सिद्धान्तोक्तचतुःपां तथा द्वितीयायामकादश्यां, पञ्चम्यां सम्यक्त्वप्रतिपत्तिदिनादारभ्य षण्मासान् यावत् श्रावकेण श्राविकया च येकाशनकमेकासनकादितपः कर्तव्यम् । षण्मास्याः परतोऽपि अष्टम्यादितिथिषु दयेकासनकैकासनकादितपो यथाशक्त्या विधेयम् । अष्टमीचतुर्दश्यादितिथयश्च ता एव गृह्यन्ते, याः सूर्योदयस्य वेलायां भव|न्ति-यत उक्तं दशाश्रुतस्कंधभाष्ये-पज्जुसणे चउमासे पक्खियपवट्टमीसु विन्नेया । ताओ तिहीओ जासिं उएइ सूरो न अन्नाओ॥१॥ पञ्चक्खाणं पूया जिणिंदचंदाण तासु कायवा । इहरा आणाभंगो आणाभंगाओ मिच्छत्तं ॥२॥ अन्यत्राप्युक्तम्-उदये या तिथिः प्रोक्ता, घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीपता तु पैतृके ॥३॥ ननु द्वितीयादितिथिषु सिद्धांताप्रतिपादितासु किमिति-श्रावकेण द्वयेकासनादितपो विधीयते, उच्यते, प्रायो भव्यजीवेन द्वितीयादितिथिपश्चके परभवायुबंध्यते, अतो येकासनादितपः शुभात्मपरिणामजनकत्वेन शुभायुःकर्मबन्धहेतुत्वाद्भव्यर्विरच्यते-यत उक्तम्-महानिशीथे सिद्धान्ते-"भयवं बीयपमुहासु पंचम तिहीसु अणुट्ठाणं कयं किं फलं होइ।गोयमा बहु फलं भवइ, जे उणं जीवे पाएणं एयासु। तिहीसुपरभवायुयं बंधइ । तम्हा समणेण वा समणीए वा सावएण सावियाए वा विसेसओधम्माणुट्ठाणं कायवं"। इह हि श्रीमत्तीर्थकृतां शासने नानाभवशतोपार्जितनिकाचितार्जितदुःकर्मभूधरविदारणदारुणदंभोलिधारानुकारं, त्रैलोक्योदरविवर्त्यस्तोकलोककायकांतारान्तर्बलत्कामदावानलकवलनसजलजलधरासारप्रकारं, श्रीतीर्थकरपुरन्दरचक्रधर तातं ॥२॥ अन्यत्रा॥१॥ पञ्चक्खाजसणे चउमादी चैत्यव. १३
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy