________________
चैत्यवन्दन-
॥३८॥
हठात् । वीरं विज्ञापयामास संजुर्विरचिताञ्जलिः॥१८॥ कालसौकरिकात् सूनां रक्षयामासिवानहम् । वीरो कुलकवृत्तिः विश्वत्रयीदीपो महीपं प्रत्यपादयत् ॥ १९॥ मृत्तिकामहिषान् पश्चशत संख्यान् हिनस्त्ययम् । इति श्रुत्वा नृपो दध्यौ धिर मे कर्मविनिर्मिमतम् ॥ २०॥ तदा सकुण्डलद्वन्द्वं क्षौमयुग्मं प्रमद्वरा । नन्दा खमन्दिरे देवी साक्षाद् देवीय पर्यधात् ॥ २१ ॥ ततश्च चेल्लणादेवी दिव्यवेषविभूषिताम् । नन्दां वीक्ष्याचचक्षे तल्लोभादित्यवनीपतिम् ॥ २२ ।। दिव्यं सकुण्डलं वासो मह्यं दापय नन्दया । संपूर्णों दिव्यशृंगारः सहारो येन मे भवेत् ॥ २३ ॥ तामुवाच नृपस्तुभ्यमस्यैवास्मि विभागतः । ददौ हारादितत्कं तद्वस्त्राद्यं दापये कथम्) |॥ २४ ॥ रुष्टाऽथ चेल्लणा राज्ञे प्रासादे मृत्यवेऽचटत् । गवाक्षविवरेणाधः पतितुं च निरक्षत ॥ २५॥ ततः साऽधस्तलेऽपश्यद्वेश्यया महसेनया । अठारोही प्रजल्पन्तौ स्लेहनिर्भरया गिरा ॥२६॥ तान् दृष्ट्वा चिन्तयामासाहुरेते यच्छृणोमि तत् । खवश्यं च करिष्यामि मृत्यु पश्चादपीति सा ॥ २७ ॥ तेषां वाक्यानि शुश्राव सावधा-12 नाऽथ चेल्लणा । महसेनाथ वेश्याऽऽदावारोहं प्रत्यपादयत् ॥ २८ ॥ मह्यं देह्यङ्गभूपायै नाथ चम्पकमालिकाम् । येन तद्भूषिता भानि सर्ववेश्यासु पर्वसु ॥ २९॥ चेन्न दास्यसि मद्यं तां मरिष्यामि तदाथवा । त्यक्ष्यामि स्वामिति प्रोक्त आरोहः प्रत्युवाच ताम् ॥३०॥ प्रिये यद् रोचते तुभ्यं तत् कुरुष्व मनोमतम् । तुभ्यं चम्प-||॥३८॥ कमालां तां नास्मि दास्यामि राभिया ॥३१॥ मेंठेनावाच्यथारोहः साम्ना यो नात्र गृह्यते। दण्डेनैव स निग्राह्यः पलाशो वटुना यथा ॥ ३२॥ पप्रच्छारोह आरोहन्मुत्प्ररोहोऽथ मेंठकम् । वटुकोऽयं पलाशदुर्येन न्यग्राहि