________________
De
ध्वनि । तद्देवमाययाऽपश्यद् याचमानं घृतादिकम् ॥ २॥ तीर्थापभ्राजनाभीरुगोपस्तद्गोपनोद्यतः । खवेइमैकान्तदेशे तां नीत्वा स्वयमुपाचरन् ॥ ३॥ साधुसाध्वीकुचेष्टाभिदृष्टाभिरपि मानसम् । विज्ञायाविकृतं तस्य प्रत्यक्षः सोऽभ्यधाददः ॥ ४॥ देवैरपि नृदेव त्वं सम्यक्त्वान् न चाल्यसे । अपि कल्पान्तवातूलैः वर्णशैलश्चलेत् किमु ॥५॥ सुरेन्द्रेण सभायां त्वं राजकुञ्जर यादृशः । अस्तावि तादृगेवैक्षि नान्यथा तादृशां वचः ॥६॥ स प्रसन्नो नृपालायादादष्टादशवक्रितम् । दिव्यहारं खकण्ठस्थं गोलयोयुगलं तथा ॥७॥ त्रुटितं यस्त्वमुं हारं |संधाता स विनंक्ष्यति । इत्युदित्वा नृपस्याग्रे दुर्दरांकस्तिरोऽभवत् ॥ ८॥ श्रेणिकश्चेल्लणादेव्यै दिव्यहारं तम-16 प्पयत् । महानन्दात् तथा नन्दाराध्यै गोलकयामलम् ॥ ९॥ गोलाभ्यां बालिकेवास्मि रमिष्ये किमिति क्रुधा। स्तम्भेनाहत्य साऽभांक्षीद गोलकद्वितयं तदा ॥१०॥ कान्तं कान्तिमदेकस्माद् देवदृष्यं निरत् ततः।कुण्डलद्वन्द्वमन्यस्माद् भासुरं पुष्पदन्तवत् ॥ ११॥ देवी नन्दाऽथ सानन्दा तवयं समुपाददे । भवेद् भाग्यवतां नूनमसंभाव्यमपि क्षणात् ॥१२॥ कपिलां च नृपोऽलापीच्छ्रद्धया प्रतिलाभय । साधूनन्नादिना यत् त्वां करोमि कम-18 लावतीम् ॥ १३ ॥ प्रत्यलापीन्नृपालं सा धत्से मां यदि रैमयीम् । बध्नासि वा तथापीदं कुकर्माहं करोमि न
॥१४॥ कपिलायाः वरूपं तद्विज्ञायोभुजा ततः। कालसौकरिकः प्रोचे सामदानपुरःसरम् ॥१५॥ सूनां यदभार्थमाधत्से निकर्कशमहोनिशम् । तमर्थमस्मि दास्यामि सूनां-मुश्च वराक रे ॥१६॥ सौनिकोऽप्यवदद् भूप को हि
दोषोऽस्ति सूनया । यत्रैकजीवघातेन जीवा जीवन्ति भूरयः ॥१७॥ ततस्तं मगधाधीशो निधायान्धावटे
********
*
*****