________________
चैत्यवन्दन- ॥११५॥
गन्धिताखिलककुप्कान्ताननांभोरुहः । श्रुत्वामं सुरसप्रथां ननु कथां निर्मात शीलोद्यम, चेद् वांछा नरिनति कुलकवृत्ति चित्तभुवि वः श्रेयाश्रियः संगमे ॥८६॥ इति शीलविषये श्रीसुदर्शनकथा समाप्ता॥
"नामियमिह परिग्गहं पि करे इति” धनधान्यरूप्यखर्णकुप्यगृहाद्विपदचतुष्पदादीनामनल्पपापहेतूना-18 ममितं परिग्रहं न करोमि, किन्तु एतेषां परिमाणं करोमीत्यर्थः। यतोऽमितपरिग्रहेऽसंतोषादिदोषाः स्युः, तेषु सत्सु प्रभूतमहारम्भसंभवेन नरकादिकुगतिनिबन्धनायुबन्धो भवेत् । यत उक्तमागमे, चउहिं ठाणेहिं जीवा नेरइयत्ताए कम्मं पगरिंति, तं जहा-महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण इत्यादि शास्त्रान्तरेऽपि महापरिग्रहः प्रबलासंतोषादिदोषचक्रबालाय जल्प्यते तद्यथा-वन्हिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधिः । तद्वन्मोहघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । नन्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं । यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥१॥ त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुःषन्ति परिग्रहे ॥२॥ संगाद् भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः। मुनेरपि चलच्चेतो यत् तेनान्दोलितात्मनः ॥३॥ संसारमूलमारम्भास्तेषां हेतुपरिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥४॥ अनेन च सूत्रवचनेन श्राद्धस्य पश्चमव्रताङ्गीकरणं सूचितम्, अस्मिन् । पश्चमाणुव्रते पश्चातिचाराः सम्यक परिहरणीयाः, ते चामी ॥