SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ |णिका ततः। रूपवन्नरवार्तापि स्त्रीणामौत्सुक्यनाटिनी ॥७२॥ धर्मघोषगुरोः पार्श्वे धर्मराट् परिपार्श्विकः ।। प्रवव्राज भवोद्विग्नः सदारोऽपि सुदर्शनः ॥ ७३ ॥ सिद्धान्ताम्भोधिपारीणः संविग्नः सुदृढव्रतः । गुर्वादेशत टू एकाकी विहारं च चकार सः ॥७४॥ सोऽन्येद्युर्विहरन्नाप पाटलीपुत्रपत्तनम् । तत्र पण्डितयाऽदर्शि गणिकायै-* न्यवेदि च ॥७५॥ स्मराती देवदत्तापि तया साधुमजूहवत् । भिक्षादानच्छलात् सापि मुनिमाकारयद् द्रुतम् ॥७६॥ ऋजुभावान्महात्मापि वेश्यावेश्माविशद् वशी। द्वाः पिधाय बहुप्रार्थ्य दिनं सायं तयोज्झि च ॥७७॥ तस्थौ प्रतिमया रात्रौ पुरोद्याने सुदर्शनः। व्यन्तरीभूतया तत्राभयया च व्यलोकि सः॥७८॥ जातकोपा महाटोपात् सोपसर्गान् यथा यथा । चक्रे तथा तथा साधुानकाष्ठां समासदत् ॥ ७९ ॥ सिद्धसौधस्य निश्रेणिं क्षपकश्रेणिमुत्तमाम् । समारुरोह स मुनिरपूर्वकरणक्रमात् ॥ ८॥ शुक्लध्यानाग्निसंपर्कघातिकर्ममलक्षयात् । प्रपेदे केवलज्योतिः वर्णवच्छ्रीसुदर्शनः ॥ ८१ ॥ क्लृप्तश्रीकेवलज्ञानमहिमासौ सुरासुरैः ।। | निर्वेदजननी चक्रे भगवान् धर्मदेशनाम् ॥८२॥ तया देशनया लोका गणिकापण्डिताभयाः । प्रत्यबुध्यंत साधू | नाममोघं खलु भाषितम् ॥८३॥ सदा समाराधितजैनदर्शनः सुरासुराधीश्वरकीर्त्यदर्शनः। विकखराम्भो-15 रुहचारुदर्शनः शिवं प्रपेदेऽथ मुनिः सुदर्शनः॥ ८४ ॥ त्रिविशुद्धं मयि प्रेमास्यान्यनारी विरागतः । मुक्तिकन्येति मन्येऽस्मि परिणिन्ये सुदर्शनम् ॥ ८५॥ इत्थं श्रेष्ठिसुदर्शनस्य विलसच्छीलामक:रजामोदोन्मोदसु २० चैत्यव.
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy