________________
चैत्यवन्दन-विपणयः, सकलसंविग्नचक्रचूडामणयो वर्तमानसकलसिद्धान्तसिन्धुमधुररसरसनाऽगस्तयो विचित्रशास्त्रनि-कुलकवृत्ति
कनिष्कषणकषदृषत्सखशेमुषीविशेषावशेषितबृहस्पतयो हदि अनिरवद्यमार्गप्ररूपणप्राप्तरूपाः षोावश्यका- | मङ्गलम् ॥५॥
दिक्रियाकलापविभावसुविभाखरीकृतात्मजातरूपस्वरूपाः सिंहवत् खस्य परस्य च गम्भीरभवकूपात् समुद्धरणपटवः सद्गुरवः सर्वकालं सम्यक् वरिवस्यनीयाः, विचित्रोत्सूत्रसंसूत्रणनोटितपवित्रचारित्रमित्रमैत्रीसम्बन्धाः सततविहितत्रिदिवशिवकमलानिबन्धनसद्दर्शनसभाजनेन शिथिलसम्बन्धा अमेन्दामोदमेदुरवदनभरंवेरा इव समस्तवस्तुविस्तारविकाशनध्यानज्ञानभारं षोढावश्यकादिक्रियाकलापशैथिल्येन निःफलं वहन्तः सर्वदाऽवद्यमार्गप्ररूपणा चतुरं निरर्गलं वचः प्रणिगदन्तः खस्य परस्य च शृगालबालकवद्गम्भीरभीषणभवकूपनिपातहेतवः कुगुरवः मुक्तिकान्ताकरपीडनविधि विधीप्सुभिर्विवेकिभिव्यजन्तुभिः सर्वादरेण सर्वदा परिहरणीया इति प्रत्यपादि, अत्रार्थे सिंहगालयोः कथानकं सकलसकर्णकर्णगोचरीक्रियते तथाहि-शिरःस्थपुष्पसं
१ वर्त्तमानेति, वर्तमानसकलसिद्धान्तसिन्धोः मधुररसस्य रसनसमास्वादनागस्तयः। २ विचित्रेति, विचित्रशास्त्राण्येव निष्कं स्वर्ण तस्य निष्कर्षणं परीक्षणं तत्र कषषतूसखः कषपट्टकसदृशोऽयं शेमुषीविशेषो मतिविशेषस्तेनावशयितो निर्जितो बृहस्पतिर्यैस्ते, । तथा । ३ हृद्य-18 | निरवद्यमार्ग प्ररूपणां प्राप्तरूपाः पण्डिताः । ४ षोडेति, पोढावश्यकादिक्रियाकलाप एव विभावसुर्वहिस्तेन विभास्वरीकृतमात्मा जीव एव जातरूपं सुवर्ण तस्य स्वरूपं यैस्ते तथा । ५ अमन्देति, अमन्दश्चासौ आमोदश्च सौरभ्यं च तेन मेदुरः स्फीतः। ६ सिंहशृगालयोः कथा