________________
| काणां ते सम्यक्त्वप्रतिपत्तिनिरतिचारप्रतिपालनरूपाः शुभपरिणामविशेषाः । सुवासा भाववासा भवन्ति, किं| विशिष्टाः परमपदवासहेतवः, परमपदे मोक्षे यो वासो वसनं तत्र हेतवः, पुनः किंविशिष्टा जनितानन्तपञ्चकाः' जनितमनन्तपञ्चकम् अनन्तज्ञानानन्तदर्शनानन्त सुखानन्तवीर्यानन्तसम्यक्त्व लक्षणं यैस्ते तथा, पुनः किंविशिष्टाः 'सकलक्लेशान्तकरणक्षमा : सकलक्लेशानां रागद्वेषादीनामन्तो विनाशस्तस्य करणं तत्र क्षमाः समर्थाः, एषु विशेषणेषु परस्परः पञ्चानुपूर्व्या हेतुहेतुमद्भावः, तद्यथा यत एव सकलक्लेशान्तकरणक्षमा, अत एव जनितानन्तपञ्चकाः, यत एव जनितानन्तपञ्चका अत एव परमपदवासहेतवो, यत एव परमपदवासहेतवो अत एव ते सम्यक्त्वप्रतिपत्तिनिरतिचारप्रतिपालनरूपाः सुवासा भाववासा इति गाथा भावार्थः ॥४॥ शुभगुरुपारतन्त्र्यवशत इति वदता सूत्रकृता पञ्चमहाव्रतधुराधरणधुरन्धराः पचंविधाचारसमाचरणचतुराः सर्व| सावद्यव्यापार परिहारपरायणाः द्विचत्वारिंशद्दोषाकलुषाहारस्वीकारचणाः षत्रिंशदाचार्यवर्यगुणगणमणि
१ पश्यविधाचारेति, ज्ञानदर्शनचारित्रतपोवीर्य लक्षणाचारभेदेन पश्चविधाचारः । २ द्विचत्वारिंशदिति, द्विचत्वारिंशत् आधाकमि| कादिदोषैः पिण्डविशुद्धिप्रसिद्वैरकलुषस्यादुष्टस्याहारस्य स्वीकारेण ग्रहणेन प्रसिद्ध इत्यर्थः । ३ षट्त्रिंशदिति, षट्त्रिंशद्गुणाः, देसकुलजाइरूवी इत्यादिगाथोक्ताः ।
**%%%%%%%**%*