________________
रंधनीयानि । आदिशब्दात् करीरमधूकपुष्पाणि पीलुफलजुगन्धरीपृथुकादीनि प्रभूतत्रसजीवव्याकुलानि विवेकवताश्रावकेण जीवदयार्द्रचित्तेन न ग्राह्याणीत्युक्तम् , गृहीतानामपि दारुधान्यादीनां कुंथुकीटिकोद्देहिकादित्रसजीवरक्षार्थ,विधिना जीवनिष्कासनरूपेण परिभोगःश्रावकेण श्राविकया कर्तव्य इति गाथार्थः तथा विवेकिन्या जीवदयाकरणतत्परया सम्यग्दर्शनशालिन्या श्राविकया, सदा गृहव्यापारव्यासक्तयापि एतानि पंचस्थानानि यतनया विधेयानि, यतोऽयतनया व्याप्रियमाणानि खाटिकशालासमानि कथितानि तद्यथा-"खण्डणी पेषणी चुल्ली, उदकुम्भी प्रमार्जनी। पंचसूना गृहस्थस्य तेन स्वर्ग न गच्छति ॥१॥” तत्र खण्डनी उलूखलमुसले याभ्यां धान्यं खण्ड्यते,ते च पूर्व दृष्टिभ्यां सम्यगवलोक्य पश्चाच्छिववस्त्रांचलेन सम्यकप्रमायं ततो धान्यं खण्डनीयं, यतोऽप्रतिलेखितयोस्तयोर्मण्डूकगृहकोकिलावृश्चिककीटकादिजीवविनाशसंभवेन प्रभूतं पातकं भवति, परिपूर्णे |च धान्यखण्डने श्राविकयोलूखलमुसले पृथक् स्थापनीये,यथा मिथ्यादृष्टिस्त्रियोधान्यखण्डनं न कुर्वन्ति। पेषणी, घरहिका, यया धान्यं दल्यते, तां च लोचनाभ्यां भव्यरीत्या विलोक्य चेलांचलेन प्रमायं च धान्यं दलनीयं, धान्यदलने च परिपूर्णे सति द्वे पुटे पृथक्स्थापनीये, यथा मिथ्यादृष्टिस्त्रियोऽयतनया तत्र पेषणं न विद्धति ।
, धान्यपाकस्थानम्, तत्र कीटिकोन्दुरगृहकोलिकादिजंतून् सम्यगवलोक्य प्रातिवेश्मिकमिथ्यादृष्टिगृहेध्वग्नौ संधुक्षिते सति खगृहेऽग्निःसंधुक्षणीयः। पूर्व सन्धुक्षितेऽनौ मिथ्यादृष्टिस्त्रीणांवन्हिग्रहणायागमनसंभवात्।। 'उदकुम्भी,' जलौष्ट्रिका, तस्याः सकाशात् पूर्व जलं यतनया निष्कासनीयं-ततो नूनं जलं निधेयं यथा न तत्र