________________
॥७६॥
चैत्यवन्दन- घोलबडा वाइंगण अमुणियनामाणि पुप्फफलियाई । तुच्छफलं चलियरसं वजह वजाण बावीसं॥१६॥ | कुलकवृतिः
४ व्याख्या-सूचकत्वात्सूत्रस्यात्रोदुंबरशब्देनोदुंबर १वट २ प्लक्ष ३ काकोदुंबर ४ पिप्पलफलानि ५गृह्यन्ते, तानि |च पंचापि फलानि बहुलकृमिकुलाकुलानि, कदाचिदुष्कालारण्यपातादावन्यभोजनाभावेऽपि बुभुक्षाक्षामकुक्षयोऽपि श्राद्धा यूयं वर्जयतेति संटंकः। अतएवोक्तं शास्त्रान्तरेषु, "उदुम्बरवटप्लक्षकाकोदुंबरशाखिनाम् । पिप्पलस्य |च नाश्नीयात्फलं कृमिकुलाकुलम् ॥१॥” अप्राप्नुवानन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा । |पंचोदुम्बरजं फलम् ॥ २॥ सूत्रकारः पंचुंवरीत्यनेन पदेन कृमिकुलाकुलफलवर्जनं प्रतिपादयन् जंतुजातसंसक्तानां धान्यजलकाष्ठादीनां परिहारं सूचयति । अत एव शास्त्रान्तरेप्युक्तम्-"परिसुद्धजलग्गहणं, दारूं धन्नाइयाण तह चेव । गहियाण वि परिभोगो, विहीइ तस्स रक्खणट्ठाए ॥१॥"अस्या गाथाया व्याख्या-श्रावकेण श्राविकया वा, सरित्सरोवापीकूपादिभ्यो गलनकेन परिशुद्धं खमत्या निर्जीवं कृत्वा जलं ग्राह्यम्-यतस्तत आगच्छतां कुंभादिभङ्गे जलजजीवविनाशे तत्कृतं प्रायश्चित्तं स्यात् । कूपादिभ्योपि गृहानीतं सज्जलं गलनकेन शुद्धीकृतं कलशादी निक्षेपणीयम्।दारूणि यानि शुषिराणि न भवन्ति, यानि जीवसंसक्तानि न भवन्ति,तान्येव
॥७६॥ | गृहीत्वा द्विधाकृत्वा छगणकादीनि प्रस्फोट्य व्यापारणीयानि, यतस्तत्र सर्पादिजीवा भवन्ति, विशेषतो वर्षासु यत्रतत्र तन्मध्ये बहुजीवसंभवो भवति, तथा धान्यानि यानि जीवसंसक्तानि भवन्ति, तानि न ग्राह्याणि न