SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ देन ददौ तस्मै, ग्रामद्वादशकं नृपः॥४०॥प्रतिपन्नः सुतत्वेन, राज्ञा सोऽपि स्वसृप्रिये । आनाय्य भुवने सौधेऽभवदैहिकसौख्यभाक् ॥४१॥ वङ्कचूलोऽन्यदा दध्यौ, धन्योऽहं कृतसत्कृतः। नियमाः सूरिभिर्यस्मै, दत्ता नित्यं सुखावहाः॥४२॥ पश्यामि यदितं मूरिमहं परमबान्धवम् । तदा तदन्तिके धर्म, प्रतिपद्ये जिनोदितम् ॥४॥ इमां चिन्तां सुरलतां, मनोमेरुधरोद्भवाम् । सुध्यानपयसा सिञ्चन्नतीयाय स यामिनीम् ॥४४॥ प्रातस्तत्पुण्यपुरुषाहूतः सुयतिसंयुतः। नगर्या सम वासार्षीत्सत्यार्थः सुव्रतोगुरुः॥४५॥ सूरिमायातमाकण्ये, वङ्कचूल प्रमोदभाक् । आयांचक्रे नमस्कर्तु, धर्म शुश्रूषुराहतम् ॥ ४६॥ वन्दित्वाऽनुक्रमं साधून , यथास्थानमुपाविशत् । शुश्राव देशनां सूरेवैराग्यरससारणिम् ॥४७॥ देशनान्ते गुरुं नत्वा, प्राज्ञः सञ्जय॑जिज्ञपत्। देहि देहि दयालो। मे, श्राद्धधर्म शुभायतिम् ॥४८॥ श्राद्धधर्मोचितं तं च, विज्ञाय मुनिपुङ्गवः । तस्मै सम्यक्त्वमूलानि, व्रतानि द्वादशाप्यऽदात् ॥४९॥ विशुद्धश्राद्धधर्म स, दोगेत्योन्नत्यभेदिनम् । निधि निधनवत्प्राप्य, हृष्टः प्राप खमन्दि-1 रम् ॥५०॥ आनर्च चम्पकाशोककेतकीकुसुमोत्करैः। त्रिसन्ध्यमहतां बिम्ब, चन्दनैश्च चचर्च सः॥५१॥ श्रीसा-12 धर्मिकवात्सल्यं, मूलं दृक्कल्पभूरुहः। वरिवस्यां गुरूणां च, विदधे बुद्धिशेवधिः ॥५२॥ गायद्गन्धर्वगणं गुञ्ज न्मुरुजादिवाद्यसमुदायम् । संगीतं भुवनगुरोःपुरोऽसको विरचयामास ॥५३॥ त्रिभिर्विशेषकम् । इतश्चोज्जयिनी-* पुर्याः, पार्श्वस्थे ग्राम्यसकुले । शालिग्रामाभिधे ग्रामे, जिनदत्तोऽभवदणिक् ॥५४॥ जीवाजीवादितत्त्वज्ञः शुद्धात्मा परमार्हतः। स चैत्यवन्दनां कर्तुमवन्तीमेति नित्यशः॥५५॥ सोऽन्येधुरर्हच्चैत्येषु, चैत्यवन्दनमादधन् ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy