________________
कुरु । ततो देवोऽभ्यधादेवं नृदेवं चक्रिणं प्रति ॥ ६४ ॥ विज्ञास्यति भवान् भाषाः सार्वजीवीर संशयम् । अन्याग्रे तज्ज्ञातां वक्ता चेत्तदा ते मृतिर्ध्रुवम् ॥६५॥ एवमङ्गीकृते चक्रभृता देवश्चकार सः । खापनिध्यापितस्येव खरूपस्याप्रदृश्यताम् ॥ ६६ ॥ वज्रीव सौवसाम्राज्यं भुंजंश्चक्रधरोऽन्यदा । ग्रीष्मन्तौ वासवेश्मान्तरंगरागं प्रचक्रमे ॥६७॥ पत्युरग्रे तदा चैवं काप्यूचे गृहकोलिका । अतोऽङ्गरागतः किंचिन्मयं देयुष्मशान्तये ॥ ६८ ॥ प्रियोऽवग् राइभिया तुभ्यं न दास्येऽहं विलेपनम् । सोचे न चेदिदं मह्यं दाता मम तदा मृतिः ॥६९॥ चक्री जहास तच्छ्रुत्वाऽष्टच्छद् राज्ञी च कारणम् । हसितस्य यतो जातु सतां नाकस्मिकं स्मितम् ॥ ७० ॥ चत्र्याख्यद्धासहेतुं न वक्ष्येऽहं । ते पुरः प्रिये । तदुक्तौ मे भवेन्मृत्युः शिरः फोटाद् यतो ध्रुवम् ॥ ७१ ॥ तवाग्रहाच्च चेद् वक्ष्ये चितारुढो नचान्यथा । साऽवगेवमपि ब्रूहि चत्रवथाकारयच्चिताम् ।। ७२ ।। चन्दनागुरुकाष्ठौधरचितां प्रति तां चिताम् । सदेवीकोऽचलच्चक्री स्त्रीवशः किं न किंकरः ॥ ७३ ॥ यवक्षेत्रसमानीतान् कचिद् वीक्ष्य यवान् नवान् । अत्रान्तरेऽवदत् काचिच्छागी छागं प्रियं प्रति ॥ ७४ ॥ अस्माद् राशेर्यवग्रासौ मह्यमानीयतामिति । छागोऽवक् चक्रिसद्वाजवाजियोग्या यवा थमी ॥ ७५ ॥ वीक्ष्यसे त्वं यवानेवं रक्षकान् नैव घस्मरे । दुग्धं पश्यति मार्जारी लगुडं नैव |पृष्टगम् ॥ ७६ ॥ अतस्तदूरक्षकातङ्कान्न गृहीष्याम्यहं यवान् । जिघत्सालोलुपे छागे रण्डे तुण्डं वशीकुरु ॥ ७७ ॥ छाग्यूचे मद्वचश्चेन्नासि कर्त्ता मे तदा मृतिः । सोऽप्युवाच म्रियखेति त्वां विनापि सृतं मम ॥ ७८ ॥ छागी प्रोवाच पश्यैष षट्खण्डभरताधिपः । स्त्रीवाक्यात् स्नेहतो मर्त्तुं श्मशानं व्रजति द्रुतम् ॥ ७९ ॥ स्नेहहीनोऽसि