SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन ॥ ३९ ॥ मम्बुविनिर्गताम् । एकं गोणसनागं च वटकोटरनिःसृतम् ॥४८॥ पन्नगेन समं नागीं क्रीडन्तीं वीक्ष्य विस्मितः । | चक्री व्यचिन्तयच्चित्ते एषा दुश्चारिणी स्फुटम् ॥ ४९ ॥ क्रुद्धोऽथ चक्रपाणिस्तन्मिथुनं मैथुने रतम् । निजघान | स्वहस्ताभ्वकशया सहसा बलात् ॥ ५० ततो यावद् ययौ नंष्ट्वा तद् युग्मं निजवेश्मनि । तावच्चत्र्यन्तेऽनीकं पृष्ठलग्नं समागमत् ॥ ५१ ॥ अथ चक्रवृतश्चक्रधरः खपुरमागमत् । दिवामध्ये सभं स्थित्वा निश्यगात् त्वरतौकसि ॥५२॥ | तत्र चक्रधरः पृष्टः पहराज्ञ्या रहःस्थया । देव्याऽटव्यां त्वया किंचिद् ददृशेऽश्रावि वाद्भुतम् ॥ ५३ ॥ चक्र| पाणिरथारण्यनागनागीसमुद्भवम् । दुश्चरित्रादि शिक्षां तां देव्यै वृत्तमचीकथत् ॥ ५४ ॥ ततश्च कायचिन्तार्थं चक्री यावन् निरेंद् बहिः । ददर्श त्रिदशं तावच्चलत्कुण्डलमण्डितम् ॥ ५५ ॥ अथ चक्रधरं जातविस्मयं सोऽमरोऽभ्यधात् । तुभ्यं तुष्टोऽस्मि पुण्येन चक्रपाणे वरं वृणु ॥ ५६ ॥ अथापृच्छत् सुरं चक्री तुष्टस्त्वं केन हेतुना । ततो | देवोऽब्रवीदेवं प्रसन्नास्यसरोरुहः || ५७ || कुशीलनिरता नागी याऽन्वशासि त्वया तदा । अरण्यसरसस्तीरे | सा भुजंगी मदङ्गना ॥ ५८ ॥ तव पार्श्वात् तयागत्य रुदत्या मायया भृशम् । मदग्रेऽथ भुजंग्यैवं जगदे गद्ग | दखरम् ॥ ५९ ॥ क्रीडासरोवरे क्रीडां कुर्वाणाऽस्मि यदृच्छया । ददृशे ब्रह्मदत्तेन ययाचे च रतेच्छुना ॥ ६० ॥ | अनिच्छन्त्यस्मि तेनैवं प्रभविष्णौ प्रिये त्वयि । विद्यमानेऽप्यनाथेव कशाभिः परिताडिता ॥ ६१ ॥ ततः क्रोधादहं यावत् त्वद्बधार्थमिहागमम् । तावच्छ्रुश्राव तद्वृत्तं देव्यग्रे भवतोदितम् ॥ ६२ ॥ अतो हेतोः प्रसन्नोऽहं | तुभ्यं चक्रधराधुना । इत्युक्ते तेन देवेन ततश्चयब्रवीददः ॥ ६३ ॥ यथाहं सर्वजीवानां भाषां वेद्मि तथा कुलकवृत्तिः ॥ ३९ ॥
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy