________________
जनि तत्र शिष्टः, श्रेष्ठी गरिष्ठो गुणवज्जनेषु । निःशेषवाणिज्यविशेषविज्ञः, कलाकलापाकलना मनोज्ञः ॥ ४ ॥ तांबूलवत्सत्यवचो यदास्यं, नोज्झांचकारोद्धरसौर भाढ्यम् । वरेण्यमाधारमिहानुगुण्यान्मुञ्चेत्तरां कः प्रगुणो गुणोहि | ॥ ५ ॥ यो जातु चूडामणिवत् खमौलेनत्तारयामास जिनेश्वराज्ञाम् । तथाऽन्वहं दक्षिणपादपद्मात्, सुवर्णमुद्रामिव पात्रदानम् ॥ ६ ॥ श्रीकान्ताभूच्छ्रेष्टिनी तस्य कान्ता, शान्तखान्ता शीलशालीन्यकान्ता । वाद्यदीणागीः सुनीतिप्रवीणा, सर्वस्त्रीणामुत्तमाधिप्रहीणा ॥ ७ ॥ यस्या धातून् वासयामास सप्ताप्यर्हद्धर्मामैककर्पूरपूरः । प्रेक्षाशुद्धं वास्तवं वस्तु यद्वा किं किं सौवैः सद्गुणैर्वासयेन्न ॥ ८ ॥ स श्रीकान्त श्रेष्ठ्यथ द्रव्यलोभादिभ्योप्युच्चैर्दूरदेशान्तरेऽगात् । हृत्सन्तोषात्किं विना द्रव्यतृष्णा, देवर्व्यापि क्षीयते जातु पुंसाम् ॥ ९ ॥ विक्रीणानः सोऽतिलाभेन तत्रानीतं वस्तुस्तोममन्यच्च गृह्णन् । प्रापाकस्मान्मृत्युमत्राङ्गभाजां प्रस्तावाप्रस्तावताकास्ति मृत्योः ॥ १० ॥ श्रीकान्तस्यापुत्रिकस्यान्तरूपां वार्तां श्रुत्वा तामथ श्रीपुरेशः । तद्द्रव्यादानार्थमारात्तदीये, गेहे प्रेषीत्पुरुषान् पंचकुल्याः ॥ ११ ॥ पौराः संभूयाथ भूनाथमेवं, प्रोचुः खामिन्नस्य जाया सगर्भा । सूते सूनुं चेत्तदा खं न लेयं, लेयं सूतायां सुतायां तु तत्खम् ॥ १२॥ इत्युक्तस्तैर्नीतिविद्भूधवोऽपि, स्वीयैः पुंभि लेखयित्वा तदीयाम् । सर्वां लक्ष्मीमुन्मुमोचाशु यद्वा, मर्या जातृल्लंघयेत्किं समुद्रः ॥ १३ ॥ रत्नावनीवत् द्युतिशोभ्रमानं, कुलस्यालंकारकशुद्धमूर्तिम् । पुत्रैकरत्नं नयनाभिनन्दि, प्रासूत सा पर्युषणासमीपे ॥१४॥ तस्य प्रसूते| गृहमागताभिः, सुश्राविकाभिः सह वार्तयन्ती । सुश्राविका कापि जगौ करिष्येऽष्टमं तपः पर्युषणाक्षणाहे ॥ १५ ॥