________________
चैत्यवन्दन
स बालकस्तां च निशम्य वार्तामीहामपोहं च हृदा दधानः। संप्राप्य जातिस्मृतिमात्मपूर्वभवं च सस्मारकुलकवृचिः
तया समस्तम् ॥ १६॥ ततः स दध्यौ तपसदृशा प्राक, मया समारामिदं सुपर्वम् । आराधयिष्याम्यधुनापि ॥७४ ॥ जानन् स्वाभिग्रहं को हि भिनत्ति धीमान् ॥१७॥ एवं विमृश्य खहृदा स बालोप्यबालधीः स्वोष्टपुटौ प्रमील्य।
इतस्थौ खमातुः स्तनमाददे न, रुरोद नो दर्शयते स्म नातिम् ॥१८॥ तथास्थितं तं जननी निरीक्ष्य, हृतार्थसारेव
सुदीनवक्रा । चिकित्सयामास चिकित्सकोधैर्न तत्प्रतीकारममंस्त कोऽपि ॥१९॥ अथार्भकः पर्युषणाप्रभाते, मूर्छामगानिस्समसौकुमार्यात् । किं नोग्रलूकावलिलोलितानि, म्लायन्ति पुष्पाण्यतिकोमलानि ॥ २०॥ ततो मृतं तं विदती तदंम्बा, संवृत्य वस्त्रे ण वरेण गेहात् । पाश्चात्यभागे विजनेऽनुगर्ता, चिक्षेप चैत्यार्चनभङ्गभीत्या ॥२१॥ आराध्य पौरैःसह सा सुपर्व, तत्पारणान्ते व्यलिपच्छुचेति । कुर्वति किं जातु विवेकिनस्तद्यद्धर्मकर्मप्रतिघातकारि ॥ २२॥ मृणालसूत्रामलकोमलाङ्गं, सल्लोचनाह्नादनशारदेन्दुम् । अमुं शिशुं संहरतः करौ साग, व्यूढौ कथं निघृण दैव ? रे ते॥२३॥ वृक्षं विना वल्लिरिव स्वदण्डं, विना पताकेव निराश्रयाहम् । बालं कुलाधारकरं विनाऽमुं, हहा भविष्यामि कथं वराकी ॥२४॥ तन्मृत्युवार्ता च निशम्य भूपः, प्रेषीत्पुनः पंचकुलं धनार्थम् । तदीयसद्मन्यथवा समृद्धिं निस्वामिकीं स्यात्प्रति कस्य नेच्छा ॥२५॥ अथाविशत्पंचकुलं तदोकः केनाप्यदृश्यन ॥४॥ गले गृहीत्वा । न्यषेधि वा पुण्यवतां सुपुण्यं रुणद्धि किं किं दुरितं न दूरात् ॥२६॥ भूयो विशत्पंचकुलं निषिद्धं गत्वा नृपाग्रे तदुवाच सर्वम् । निशम्य तद्विस्मितचित्त उर्वीपतिः खयं तस्य जगाम धाम ॥ २७ ॥ दत्त्वार्धचन्द्र