________________
८२
चैत्यवन्दन-भोजनं क्रियते कथम् ॥९॥ उलूककाकमार्जारगृध्रशम्बरसूकराः। अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् कलकतिः
॥१०॥ श्रूयते ह्यन्यशपथमनादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥११॥ करोति विरतिं धन्यो, यः सदा निशिभोजनात् । सोऽर्द्ध पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥ १२॥ धर्मविन्नैव भुञ्जीत, कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं, यदभोज्यं प्रचक्षते ॥ १३ ॥ तद्यथा-त्रयीतेजोमयो भानुरिति
वेदविदो विदुः। तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् ॥१४॥ नैवाहुतिन च स्लानं, न श्राद्धं देवताऽर्चनम् । सादानं वा विहितं रात्रौ, भोजनं च विशेषतः॥१५॥ आयुर्वेदेऽपि उक्तं-हृन्नाभिपद्मसंकोचश्चण्डरोचिरपायतः।
अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥१६॥” ये तु रात्रिभोजननियमं सुगुरूणां पार्श्व सम्यग् आदाय है। स्वकीयखजनवान्धवोचावचवचनवातूलाप्रे-खोलितचित्तभूरुहाः प्राणान्तेऽपि न परित्यजन्ति वसुमित्रा द्विजपुत्रिकेव ते त्रिदशसम्पदं समासाद्य क्रमक्रमेण सिद्धिवधूसम्बन्धं लभन्ते, तथाहि-"वाद्यमानातोद्यनादमुख-8 रीकृतदिङ्मुखम् । संकेतभूश्रियां जज्ञे, श्रीवसन्तपुरं पुरम् ॥१॥ ददाना दानिनोऽम्भोदा, दानाम्भो यत्र सर्वतः । खयशोराजहंसाय, स्थाने देशान्तरं ददुः ॥२॥ सायं यान्त्योऽभिसारिण्यः, स्त्रियो नूपुरनिखनैः || | यत्र जागरयामासुः, शयानं मीनकेतनम् ॥३॥ अग्रणीर्विजिगीषणां, ग्रामणीनयकारिणाम् । नाना विजय-| &धर्मोऽभूत्, तत्र क्षितिशतक्रतुः ॥४॥ एकेनैव प्रतापेन, यस्यासाधि वसुन्धरा । हस्त्यश्वादिपरीवारो, राज्य
स्थित्यै व्यराजत ॥५॥ यत्कासिधाराहतकुम्भिकुम्भविस्रस्तमुक्ता युधि येन सार्द्धम् । क्रीडजयश्रीत्रुटितोरुहा
SEARCAMERA