________________
चैत्यवन्दन-मासे सौवर्ण मुशलं मया । ऊवं विवादकण्डूलवादिशार्दूलसन्ततः ॥४२॥ तत्र रूप्यमये पत्रे, लिखितं कन-कुलकवृत्तिः
काक्षरेः । वृत्तमेकं निरीक्ष्याथ वाचयामास भूपतिः॥४३॥ तथाहि, मद्गोऽशृङ्गं शक्रयष्टिप्रमाणं शीतोवहिर्मा-18| मङ्गलम्. रुतो निःप्रकम्पः । यद्वा यस्मै रोचते तन्न किंचिद् वृद्धो वादी भाषते कःकिमाह ॥४४ ॥ ततः सन्मानितो राज्ञा स दोषज्ञशिरोमणिः । कृतकृत्यः परावृत्य, निजोपाश्रयमागमत् ॥४५॥ ततः पुरोधसः पुत्रः सिद्धसेनोऽपमानतः । खचित्ते चिन्तयामास पुंसां जाड्यं विडंबना। यन्मयि द्विजराजेऽत्र सत्यपि मापसंसदि । अवलिवादिनागेन यथेच्छं श्वेतभिक्षुणा ॥ ४६॥ मयि पौरोधसे पुत्रे, विद्यमानेऽत्र संसदि । मुशलं पुष्पयित्वाऽयं कथं । श्वेताम्बरोऽगमत् ॥ ४७॥ तदहं यद्यधीत्याशु, विद्या विद्यावतो गुरोः । विवादेन जयाम्येतं, तदा भद्रं न चान्यथा ॥४८॥ विमृश्यैवं धरानेतुः, स्वपितुश्च निवेद्य सः। निजाकूतं ययौ पूतं, विद्वद्भिः पाटलीपुरम् ॥४९॥ मुदाभ्यस्य गतालस्यस्तत्र विद्याश्चतुर्दश । लक्ष्मीवत्यास्ततोऽवन्त्या उद्याने स समाययौ ॥५०॥ तत्र स्वयमव स्थाय, खप्रवेशाय सादरम् । तातयुक्तधरेशस्य पार्श्वेऽप्रेषीत् स मानवम् ॥५१॥ दैवयोगादथात्रैव वृद्धवादी समीयिवान् । ततो विद्यामदादू वाग्मी, तृणीयन् सर्वकोविदान् ॥५२॥ तदीयदर्शनात् सिद्धः कोपाटोपा-| रुणोऽभवत् । कुरङ्गानां परिवृढो, यथा शरभवीक्षणात् ॥५३॥ युगलकम् ॥ ततोऽभिमानमातङ्गोत्तमाङ्गोपरि-." संस्थितः। सिद्धवादीश्वरोऽवादीत्, प्रति तं प्रतिवादिनम् ॥५४॥ मम पार्श्वे समेहि त्वं, वृद्धवादिमतल्लिक । वादवातं चिरोत्पन्नं, सिद्धोऽहं स्फोटयामि ते ॥५५॥ ततो वृद्धः समागत्य, तं प्रति माह धीप्रभुः। अटव्यां को
5454555555755