________________
नरो दुःखं परदारान् कथं व्रजेत् ॥ ४ ॥ तथा विवेकवता श्रावकेण कूटवञ्चलोभादिदोषखनयः पण्ययुवतयोऽपि सर्वादरेण परिहरणीया; अनेन सूत्रपदेन श्राद्धस्य चतुर्थाणुव्रताङ्गीकारो दर्शितः । अस्मिन्नणुव्रते श्राद्धेन पञ्चातीचारा वर्जनीयास्ते चामी__ वज्जइ इत्तरं अपरिग्गहिया गमणं अणंगकीडं च । परवीवाहकरणं कामे तिवाभिलासं च ॥१॥
व्याख्या-इत्वरां कोऽर्थ इत्वरपरिगृहीतां भाटीप्रदानेन स्तोककालं परिगृहीतां वेश्याम् , ॥१॥ अपरिगृहीतां वेश्यां विधवस्त्रियं वा ॥२॥ अङ्गं मैथुनापेक्षया पुंस्त्रीचिह्नरूपं तदन्यान्यनङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा रमणमनङ्गक्रीडताम् ॥३॥'परवीवाहकरणं' खापत्यादन्येषां परिणायनं ॥४॥ तीव्रानुरागं कामभोगेषु गाढाभिलाषं वर्जयेत् ॥५॥ इह खदारसंतुष्टस्य भाटी दत्त्वा वेश्यादिकं मासादिकं यावदात्मीकृत्य स्खकलत्रधिया सेवमानस्य प्रथमः, अनाभोगादिना वेश्यादिकं गच्छतो द्वितीयः, परदारवर्जिनोऽपि परेण इत्वरकालं परिगृहीतायां वेश्यायां गमने प्रथमः, मया परदाराः प्रत्याख्याता, विधवाङ्गनाश्च लोकेऽपि न परदारत्वेन रूढा इति विकल्पनया तद्गमने द्वितीयः, अनङ्गक्रीडातीवानुरागयोश्च सुश्रावकेणाल्पकामेनैव भाव्यमित्यतिचारता, 'परवीवाहकरणं' तु विवाह एव मया क्रियते न मैथुनं कार्यते इति व्रतसापेक्षत्वात्, स्त्रियास्तु सपत्नीवारके खपतिं भुंजानाया:प्रथमः, अतिक्रमादिना परपुरुषमभिसरन्त्या द्वितीयः, शेषास्तु पुरुषस्यैव ज्ञेयाः, ये तु एतद्बतमङ्गीकृत्य
चैत्सव.