________________
1180411
चैत्यवन्दन- ल्लिकाम् । भगवन् ! किमिदं सद्यः प्रसद्य प्रतिपादय ॥ ९९ ॥ संख्यायनावबोधार्थं ततो दत्तर्षिरब्रवीत् । चित्ताश्चर्यकरं सर्वं तद्वृत्तान्तं यथास्थितम् ॥ १०० ॥ तच्छ्रुत्वा सोऽपि विज्ञातखाजन्यस्तं जगावदः । मत्खसारं विवाह्येमां भुंक्ष्व भोगान् यथारुचि ॥ १ ॥ अथ दत्तोऽवदद् भोगा असारत्वेन ये मया । मुक्ता भूयोऽधुनाहं तानमूढः प्रार्थयेः कथम् ॥ २ ॥ अवश्यमेव यास्यन्ति भोगा मद्वत् तवाप्यमी । वियोगे को विशेषो यत्स्वयं त्यजसि नासि तान् ॥ ३ ॥ इत्याकर्ण्य मुनेर्वाक्यं बुद्धः संख्यायनः सुधीः । गृहीत्वा संयमं शश्वत् तपस्तेपे सुनिर्मलम् ॥ ४ ॥ अपि द्वौ निरतीचारं पालयित्वा व्रतं मृतौ । दिव्यभोगानुपाभुंक्त जग्मतुश्च शिवं क्रमात् ॥ ॥ ५ ॥ इत्थं दत्तश्रेष्ठिनो मित्ररत्नादत्तदानात् संपदो गत्वरत्वम् । श्रावं श्रावं श्रावका भावसारं तार्तीयीकं | पालयन्तु व्रतं खम् ॥ ६ ॥ इत्यदत्तदानविरतिलक्षणे तृतीयाणुव्रतविषये दत्तश्रेष्ठिकथा समाप्ता ॥ २१ ॥
1
'परजुवई' इति, परेषां युवतिं स्त्रियं न मुष्णामीत्यत्रापि सम्बन्धान्न मुष्णामि न स्वायत्तीकरोमि, तदुपभोगं | वर्जयामीत्यर्थः ॥ ७ ॥ इहलोकपारलोकविरुद्धायामनर्थद्रुममूलभूतायां परस्त्रीसेवायामनेके दोषाः प्रादुर्भवन्ति, यत उक्तं - दत्तस्तेन जगत्यकीर्त्तिपटहो गोत्रे मषीकूचकश्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः कामार्त्तस्त्यजति प्रभो दयाभिदाशस्त्रीं परस्त्रीं न यः ॥ १ ॥ प्राण संदेहजननं परमं वैरकारणम् । लोकद्रयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ २ ॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ३ ॥ खदाररक्षणे यत्नं विदधानो निरन्तरम् ॥ जानन्नपि
कुलकवृचि:
1120611