________________
चकुले कुर्वश्चर्या समितिशोभितः । मुनिः संख्यायनावासमाविवेश वशीक्रमात् ॥ ८४॥ तस्य स्नातो निजां लक्ष्मी तत्र वीक्ष्य निरीक्षितुम् । स्थालं खण्डमखण्डं वास्येति तस्थौ स कौतुकात् ॥ ८५॥ लब्धायामपि भिक्षायां निरगान गृहान्मुनिः । ततः संख्यायनो भोक्तुं खपर्णस्थाल उपाविशत् ॥८६॥ भुञानस्य ततस्तस्य
खादुभोज्यं यथारुचि । मक्षिका वीजयामास तालवृन्तकरा वसा ॥ ८७॥ तथैवोर्ध्वस्थितं वीक्ष्य मुनि संख्यालायनो जगौ । लब्धभिक्षोऽपि भो भिक्षो? किंन निर्यासि मद्ग्रहाद् ॥८८॥ विलोकयसि किं बालां मुने? विस्मेशरलोचनः । इत्युक्तः श्रेष्ठिना वाचंयमः प्रोवाच तं प्रति ॥ ८९॥ विषयान् विषवत् मुक्त्वा संयमो यैरुपाददे। सातृण्येव मन्यते स्त्रैणं मुनिभिस्तैर्जितस्मरैः ॥९०॥ किन्तु कौतुहलाद् युष्मल्लक्ष्मीमालोकितुं चिरम् । इह तस्था
वह शश्वनि:स्पृहोऽपि स्थिराशयः॥९१॥ अथ श्रेष्ठी मुनिं स्माहादत्ख लक्ष्मीममूमिति । मुनिस्तमभ्यधान्मेऽर्थे | नार्थोऽनर्थकरेऽस्थिरे ॥ ९२॥ संख्यायनोऽब्रवीत् साधुं यद्येवं कौतुकं किमु । मुनिरूचे भणिष्यामि वसतौ ते
समेयुषः॥९३॥ एवमित्युररीकृत्य स्थिते तस्मिन् ययौ मुनिः । समये वसतौ गत्वा श्रेष्ठी पप्रच्छ तन्मुनिम् &॥९४ ॥ ऋषिराख्यत् तवेयं श्रीः कुतोऽभूद भद्र? भो वद । श्रेष्ठयभाषिष्ट मे पूर्वक्रमायाता रमासकौ ॥१५॥
सत्यं भणेति भणितः श्रेष्ट्याचष्टे स्म तत्पुरः। मद्वेश्मागादियं वेगात् कुतोऽप्यकत्र वासरे ॥९६॥ कर्णवत्तौ तथा स्थालं खण्डमस्त्यत्र संपदि । अदायि बहुशः खण्डमन्यत्तत्रालगन्न च ॥ ९७॥ ततो दत्तमुनिर्दत्त्वा स्थालखण्डं तमब्रवीत् । दापयरिमकं खण्डं तेन तद्दापितं क्षणात् ॥९८॥ तदृदृष्टा कौतुकाच्छ्रेष्ठी प्रोचे मुनिमत
3%25AR