SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन-मारणान्तिकानेकप्रत्यूहव्यूहसंनिपातेऽपि त्रिदशाङ्गनारूपप्रतिरूपरूपशालिविलासिनीखयंप्रार्थनेऽपि मेरुचूला-||कुलकवृत्तिः मिव खमनोवृत्तिं निश्चलीकृत्य प्रतिपालयन्ति ते सुदर्शनश्रेष्ठीवात्रामुत्र कल्याणपात्राणि भवन्ति, इति सुद॥१०९॥ र्शनकथा लिख्यते-भूयोषिदङ्गभूतेऽभूदङ्गदेशे गरीयसि । सद्विभूषेव निष्कम्पा श्रीचम्पा नामतः पुरी ॥१॥ उच्चैर्वातायनासीना रेजुयंत्र पणाङ्गनाः। जेतुं स्वर्गाङ्गनाः स्वर्गमिवारोढुं कृताशयाः ॥२॥ कुर्वन् कर्पूरगण्डूपानिव सौराज्यसुस्थितः। न विवेद जनो यस्यां गच्छतोऽपि हि वासरान् ॥ ३॥ त्रिभिर्विशेषकम् । दधिश्वेतयशास्तत्र भूपतिर्दधिवाहनः । बभार राज्यमलकापुरीव नरवाहनः ॥४॥ प्रतापश्रीकिशलितो यशाकुसु-5 मशोभितः। फलितो राज्यलक्ष्म्या च कल्पद्रुरिव यो बभौ ॥५॥ परस्त्रीविमुखोऽप्येष मध्ये युधाङ्गणं गुणी । बलाजयश्रियं कर्षश्चित्रं लेभे यश श्रियम् ॥६॥ गीर्वाणस्यैणलावण्यगर्भसर्वखतस्करा। अभयानामिका तस्या४ जनि प्राणप्रिया प्रिया ॥७॥ श्रेष्ठी ऋषभदासाख्यः सत्याख्यः ख्यातिमान् गुणी । द्वितीयैकः श्रिया श्रीदो| बभूव परमाईतः॥८॥ लक्ष्मीश्चैत्यादिकार्याय परोपकृतये बलम् । चेतना तत्त्वचिन्तायै यः प्रायुक्त विविक्तधीः॥९॥ युग्मम् ॥ अहवासीति तस्यासीद् रूपलक्षम्या किलोवंशी। प्रेयसी स्थेयसी धर्मे साधुसाध्व्योरुपासिका ॥१०॥ विनीतः श्रेष्ठिनस्तस्य सुभगः सुभगाभिधः । बभूव महिषीपाल ऋजुः प्रकृतिभद्रकः ॥११॥ प्रत्यावृत्तः स महिषीश्चारयित्वान्यदा वनात् । प्रतिमास्थं यति माघमासि निर्वस्त्रमैक्षत ॥१२॥ प्रसप्पेति महाशीते निशि यः स्थाणुवत् स्थिरः । स्थाता सैष मुनिर्धन्य इति ध्यायन्नगाद् गृहम् ॥१३॥ युग्मम् ॥ मुनि सर
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy