________________
नरूपं कर्म आदीयते निबध्यत एभिर्जीवैरिति कृत्वा, अतः कांदानखरूपमुच्यते, तत्र प्रथममङ्गारकर्म काष्ठानि दग्ध्वा अङ्गरान् कृत्वा आजीविकाकृते विक्रीणाति तेन जीवतीति तदङ्गारकर्म, तत्र अङ्गारकरणे षड्जीवनिकायविघातसंभवात् तद्बर्जनम् , एवमन्यानि वह्निसाध्यारम्भाणि महासावद्यानि भ्राष्ट्रकरणेष्टिकापाककुम्भकारवठठाकारत्वलोहकारत्ववर्णकारत्वत्रपुताम्रभाजनादिकरणविक्रयार्थवस्त्रप्रक्षालनोत्कालनरङ्गानादीनि कर्माणि आजीविकाहेतोवर्जनीयानि ॥१॥ तथा वनकर्म, अत्र वनशब्देन वृक्षादय उच्यन्ते, तेषां छित्त्वा छित्त्वा मूलस्कन्दशाखाप्रशाखात्वपत्रपल्लवपुष्पफलादीनि गृहीत्वा मूल्येन लाभार्थ विक्रीणाति तेन जीवति तदनकर्म वनजीवकोच्यते, सा च बहुजीवविनाशहेतुत्वेन बहुपापहेतुकत्वात् कुष्ठादिनानारोगदारिद्यादिदुःखहेतुकत्वाच परिहरणीया ॥२॥ तथा शकटकर्म, शकटानां तदङ्गानां चक्रधुरायुगशवलेषा उपलतुल्यायतकादीनां लाभार्थं यद् घटनं, तथा मार्गे लाभार्थं खेटनं, तथा तेषां लाभार्थं विक्रया, सा शकटजीविका, सा च गवादीनां बधबन्धनादिदोषसंभवत्वेन चक्राधोमाग्र्गे च नानात्रसजीवविनाशसंभवेन चानल्पपापहेतुकत्वात् वर्जनीया, ॥३॥ तथा भाटककर्म, शकटबलीवईकरभमहिषतुरगाश्वतरखरग्रन्थिधारकवाहित्रकवाहिकैः कृत्वा मूल्येन भाटकं गृहीत्वा खजीविकाकृते भारं वाहयन्ति, परेषां भाण्डानि | देशान्तरेषु भाटकेन प्रापयन्ति, अन्येषां च वाहनार्थ भाटकेन समर्पयन्ति यत् सा भाटकजीविका, एषा च नानाजीवविनाशहेतुकत्वेन बहुपापहेतुकत्वानिन्धकर्मत्वाच वर्जनीया, ॥४॥तथा स्फोटिकाकर्म, सर कूप