________________
| संपत् ततो लोकपज्जोयगराण, मित्यंता चतुर्थी संपत् ततो बोहिदयाण, मित्यंता पंचमी संपत् ततः चाउरंत चक्कवहीण, मित्यंता षष्ठी संपत् ततो विउछाउमाण, मित्यंता सप्तमी संपत् ततो मुत्ताणं मोयगाण, मित्यंताऽष्टमी संपत् ततो जियभयाण, मित्यंता नवमी संपत् इत्येवं शक्रस्तवे नवसंपदः अनेन जिनान् शक्रः स्तौतीतिशक्रस्तवोऽयं भण्यते, ततो जे अईया सिद्धा, इति गाथामनागमिकीमपि पूर्वश्रुतधरविरचितामिति पदे पदे व्यवतिष्ठन्प|ठेत् तत ऋज्वीभूय अरहंतचेइयाण, मित्यादिदंडकं अप्पाणं वोसिरामीतिपर्यंतं भणेत् अत्र च दंडकैरष्टौ संपदः, तद्यथा, अरिहंतचेइयाणं, करेमि काउसरग, मित्येका संपत् ततो निख्वसग्गवत्तियाए, इति द्वितीया संपत् ततो | ठामिकाउ सग्गमित्यंता तृतीया संपत् ततो भमलिए पित्तमुच्छाए, इति चतुर्थी संपत् ततः सुहुमेहिं दिट्ठिसंचा| लेहि मितिपंचमी संपत् ततो हुज्ज मे काउसग्गो, इत्यंता षष्ठी संपत् ततो न पारेमीत्यंता सप्तमी संपत् ततो | अप्पाणं वोसिरामीत्यष्टमी संपत् ततः कायोत्सर्गे कुर्यात्, कायोत्सर्गे च पंचपरमेष्टिनमस्कारं चिंतयेत् ततो नमो अरिहंताणं भणित्वा कायोत्सर्ग पारयित्वा श्रीतीर्थकरदेवस्तुतिं कथयित्वा लोगस्सुज्जोय गरे, इत्यादि चतुर्विंशतिस्तवं सप्तगाथाप्रमाणं पठेत्, अत्र च सप्तखापि गाथासु पदे पदे एकैका संपत, सर्वसंख्यया अष्टाविंशतिः | संपदो भवति, ततः सङ्घलोए अरहंतचेइयाणमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्ग कृत्वा पारयित्वा च सर्वतीर्थकराणां स्तुतिमभिधाय, पुक्खरवरदीवडे, इत्यादि सूत्रं पठेत्, तत्र च गाथावृत्तेषु चतुः सख्येषु पदे पदे एकैका संपत्, सर्व संख्याया षोडशसंपदः, करेमि काउसग्गमित्यादि दंडकं पठित्वा पूर्ववत्कायोत्सर्गादि विधाय ज्ञान