________________
सान्पुर्या, गच्छदागच्छतो जनान् ॥ १४ ॥ सुधासारगिरापृच्छत्, पार्श्वः पार्श्वचरं जनं । किमद्य भद्र गच्छन्ति, नागरा नगराद् बहिः॥१५॥ प्रत्यूचे पार्श्वगः पाव, कमठस्तापसो बहिः । आजगाम नमस्कतु तं गच्छन्ति पुरीजनाः॥१६॥ ध्यानज्ञानत्रयादर्शसंक्रान्तत्रिजगस्थितिः। आकर्ण्य तद्वचः पार्श्वश्चेतश्चिन्तामनाटयत् ॥१७॥ अधिगज्ञानं च हा कष्टं, पिधानं ज्ञानचक्षुषः। येनावृतो न जानाति, तत्त्वातत्त्वपथं नरः॥१८॥ वरिवस्यां विधायास्य, कमठस्य तपस्विनः । मिथ्याग्रहिलचेतस्का, जना यास्यन्ति दुर्गतिम् ॥ १९॥ तत्वाख्यानेन निःशेषानेतानिस्तारयाम्यतः । परोपकारसारं हि, जीवितव्यं सतां स्मृतम् ॥ २०॥ इति चेतसि निश्चित्य, भगवान् सपरिच्छदः। सन्निधौ कमठस्याशु, जगाम धामदीधितिः॥२१॥ कमळं प्रति निर्व्याजकारुण्यरसवारिधिः । व्याजहार कुमारोऽथ, सूक्तिवल्लिघनाघनः ॥२२॥ सिद्धिसाधनसाधीयांस्तपखिन् धर्म एष न। यस्मिन्निमज्जन जकन्तूनामुपघातो विधीयते ॥२३॥ अहिंसामूल एवालं, धर्मः कर्मद्रुमच्छिदे । न कुठारो विनाधारां, क्षमो वृक्षाव
नीभिदे ॥ २४ ॥ एष एव विशेषोऽस्ति, धर्माधर्माध्वनोर्यतः। अवधप्रभवोह्येषः, परस्तु वधसंभवः ॥२५॥ चुकोप कोपनः सोऽपि, समाकर्ण्य प्रभूदितम् । नहि शीतज्वरः शीतसलिलैरुपशाम्यति ॥ २६ ॥ तथाप्यस्य प्रत्ययार्थमादिशत्खनरं विभुः । ज्वलज्ज्वलनकुंडस्थमिदमेधो द्विधा कुरु ॥२७॥ कुमारादेशमासाद्य, सद्यः सोऽपि तथा व्यधात् । विधेयाज्ञाविधेयैर्हि, राजवद्राजवाजिनाम् ॥ २८ ॥ अर्धदग्धः स्फुरद्गात्रा, कृष्णसर्पो भयंकरः। अर्द्धवैशसमापन्नो, निर्जगाम महेध्मतः॥२९॥ साय दापयामास, प्रथमं परमेष्ठिनाम् । नमस्कारं मनोहारं, परो