________________
चैत्यवन्दन॥१०४॥
अलंकुरु विमानं मे यावो नन्तुं जिनं यथा ॥ ६६ ॥ इत्युक्तस्तेन राट्र सद्यस्तद्विमानमुपाविशत् । अथवोपस्थिते कार्ये कालक्षेपं करोति कः ॥ ६७ ॥ पोतेनेवोदधिं तेनारण्यमुल्लंघयन्नृपः । रत्नशृंगाचलाभिख्यं तीर्थं द्वीपमिवासदत् ॥ ६८ ॥ प्रत्यग्रोच्चितपुष्पौधैरंगरागैः सुगन्धिभिः । तत्रादितीर्थकृद्विम्बं मुदानर्च महीपतिः ॥ ६९ ॥ तत्राद्भक्तिभावेन त्र्यक्षयक्षेण कारितम् । अपश्यद् दिव्यसंगीतं नाकीवानिमिषो नृपः ॥ ७० ॥ एवं यात्रां पवित्रात्मा नृपः कृत्वा यथेच्छया । सद्योविमानमारूढः सयक्षः खपुरं समेत् ॥ ७१ ॥ ततो यक्षोऽर्जुनं शत्रु तस्य राज्याधिनायकम् । बध्वा चिक्षेप राज्ञोऽग्रे तादृशां दुष्करं किमु ॥ ७२ ॥ ततश्च करुणाम्भोधिस्तं जीवन्तं वि मुच्य सः । शशास सौवसाम्राज्यं पितापत्यमिवाभितः ॥ ७३ ॥ दिव्य संभोग संपत्त्यै विघ्नशान्त्यै च यक्षराट् । तत्पार्श्वे चतुरो यक्षान् मुक्त्वा स्थानं निजं ययौ ॥ ७४ ॥ भुंजानो भूपती राज्यं तन्वानो नीतिजं यशः । कुर्वाचाहतं धर्मं कालं दिष्ट्यात्यवाहयत् ॥ ७५ ॥ प्रान्तेऽनशनमादाय क्षमयित्वाङ्गिनः समान् । नमस्कारं स्मरन् मृत्वा सोऽभूच्छ्री भासुरः सुरः ॥ ७६ ॥ श्रीहंसनामनृपतेरिति सत्यवादादत्राप्यमुत्र च सुखं खमनोऽनुसारि । श्रुत्वा तमेव भविकाः सततं वदन्तु स्वान्तेप्सितां सुखरमां परमां लभन्ताम् ॥ ७७ ॥ इत्यलीकपरिहारलक्षणद्वितीयानुव्रतविषये हंसराजकथा संपूर्णा ॥ ७८ ॥ न य मुसामि परदवमिति, न च नैव मुष्णामि, परद्रव्यं २ | परधनमदत्तं न गृह्णामीत्यर्थः । अनेन पदेन स्थूलादत्तादानविरतिलक्षणस्य तृतीयाणुव्रतस्याङ्गीकारः सूचितः, अस्मिन्नणुव्रतेऽङ्गीकृते पतितादिभेदभिन्नं परद्रव्यं श्राद्धः परिवर्जयेत्, तथाहि-- पतितं विस्मृतं नष्टं स्थितं
कुलकवृतिः
॥१०४॥६