SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तिदेव ॥४॥ दोषाणां कापणन पंचेन्द्रियादिजीवस मन्नस्य, मद्यस्यै च लभते स लोकतः, किंचिदेव हितं न बुध्यते ॥१॥ मृत्युमाप्त इव मूर्छतिक्षणादुत्पतत्यथ पतत्यसौ पथि । रौति गायति विगाहते क्लमं मद्यभूतसमधिष्ठितो जनः ॥२॥ प्रेयसीयति कुधीः खमातरं खप्रियां च जननीयतिध्रुवम् । सेवकीयति विलोक्य भूपति भूपतीयति हिसखमुद्धतः॥३॥ विवेकः संयमोज्ञानं,सत्यं शौचं दया क्षमा। मद्यात्मलीयते सर्व तृण्या वन्हिकणादिव ॥४॥ दोषाणां कारणं मद्यं, मद्यं कारणमापदाम् । रोगाणामिव चापथ्यं, तस्मान्मयं विवर्जयेत् ॥५॥" श्रीजैनशासने च मद्यपानं पंचेन्द्रियादिजीवसंकुलत्वेन जीवबन्धनिबन्धनत्वान्नरकादिगतिहेतुत्वेन भवान्तरेपि भूरिविडम्बनाहेतुत्वान्निषिद्धम्-"नाना प्रभेदभिन्नस्य, मद्यस्यैकैक|बिन्दुभिः। पंचेन्द्रियांश्च संख्यातुं चतुर्तानी न शक्नुयात् ॥१॥" यत उक्तम्-“एगम्मि मजबिंदुम्मि, जंतुणो जे हवंति पंचिंदिय।ताण य संक्खाउं न तीरए चेव चउनाणी॥१॥” अतो विवेकिना श्रमणोपासकेन इह लोकपरलोकविडम्बनाकारि मद्यपानं नक्तं दिनं परिहरणीयम् । यत उक्तम्-"जायवकुलाण कोडीउ गाउ मज्जपाणदोसाउ । निहणं गयाउ ताओ किं भणिमोइयरपुरिसाणं ॥१॥” तथा मांसभक्षणमपि सिद्धांते पंचेन्द्रियजीवेविघातकत्वेन नरकावटकोदरनिपातकारणं गीयते, यतउक्तम्-"महारंभयाए महापरिग्गहाए पंचेन्दिय वहेणं । कुणिमाहारणं जीवा नेरइयाओ य कम्मं वंधेति ॥१॥” शास्त्रान्तरेप्युक्तम्-"चिखादिषति यो मांसं, प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं, दयाख्यं धर्मशाखिनः॥१॥ अशनीयन् सदा मांसं, दयां योहि चि १ विघातजन्यत्वेन ।
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy