________________
वर्तसे तदा । नित्योवायमनित्यो वा लोको जीवश्च जल्प भोः ॥६७॥ प्रत्यलो नोत्तरं दातुं, जमालिर्व्यात्तवक्रकः । व्याकुलो निश्वसन् तस्थौ, ग्रीष्ममध्यं दिनेश्ववत् ॥ ६८ ॥ सच्छायः सर्वविद्वीरः, कृपालुस्तं जगावथ । जमालेवस्तुतोऽवेहि, लोकोयमुभयात्मकः ॥ ६९ ॥ लोको हि द्रव्यरूपत्वापेक्षयानित्य उच्यते । अनित्यः क्षणविध्वंसि, पर्यायापेक्षया पुनः ॥ ७० ॥ एवं जीवोऽपि जीवत्व, द्रव्यत्वादिह शाश्वतः । नरामरादि पर्याय, परिवर्तादशाश्वतः ॥ ७१ ॥ एवं जिने बुवाणेऽपि, मिथ्यामोहितमानसः । जमालिः सपरीवारो, निरगाद्देशनावनेः ॥ ७२ ॥ निन्हवत्वात् वहिश्चक्रे, ससंघेन तदा पुनः। चतुर्दशसमाः खामिः केवलज्ञानसंपदः॥७३॥ जमालिरथ सर्वज्ञं, मन्यः स्वैरविहारकृत् । स्वमतं स्थापयन् शश्वत्सर्वत्र व्यहरद्भुवि ॥ ७४ ॥ अभूत्सर्वत्र विख्यातिः, जमालिर्यज्जिनेशितुः । प्रत्यर्थी दुर्मतारोपान्मिथ्यादृष्टिरिति स्फुटम् ॥ ७५ ॥ अन्यदा विहरन्पुर्यां श्रावस्त्यां स पुनर्ययौ । तदीयोऽपवनेऽवास्थात्, परीवारपरीवृतः ॥ ७३ ॥ स्थानेस्थाने मतं तस्यारोपयंती समंततः । तच्छायेवानुगच्छंती, कुर्वती दुस्तरं तपः ॥ ७७ ॥ साध्वी सहस्रसंयुक्ता, साध्वी सा प्रियदर्शना । ढंकारख्यकुंभकारस्य तदा तस्थावुपाश्रये
७८ ॥ युग्मम्॥ मिथ्यात्वमोहितां वीक्ष्य, ढंकस्तां श्रावकाग्रणीः । दध्यौ केनाप्युपायेन, बोधयिष्याम्यमूमहम् | ॥ ७९ ॥ उच्चिन्वानोऽथ भांडानि, सच्छन्नं बुद्धिपूर्वकं । अन्येद्युरक्षिपद्दीपं तत्पटे शिखिनः कणम् ॥८०॥ खपटं दह्यमानं तं दृष्ट्वा सोवाच तं प्रति । भवद्वैगुण्यतो बाढं, पटोदग्धो ममाधुना ॥ ८१ ॥ सोप्यूचे साध्विमावादीरलीकं ते मते यतः । ईदृशं भणितुं युक्तं पटेदग्धेऽखिलेऽपि हि ।। ८२ ॥ दह्यमानं जिनैरेव, वस्तुदग्धं निगद्यते ।