________________
चैत्यवन्दन
॥ ५९ ॥
तनहेतुं होममपि न कुर्यात् उपलक्षणत्वान्न कारयेदिति च । तथा " होमाई ” इत्यत्रादिशब्देन सूत्रकारो भवोर्वीरुहमूलभूतानि अन्यान्यपि मिथ्यास्थानकानि सूचयति, तानि च चतुर्विधमिध्यात्वस्वरूपप्ररूपणेन पूर्वश्रुतधर| विरचितचतुर्विधमिध्यात्वकुलकगाथाभिः सविस्तरं प्रदश्यते । तथाहि
लोइयलोउत्तरियं देवगयं गुरुगयं च उभयंपि । पत्तेयं नायवं जहक्कमं सुत्तओ एवं ॥ १ ॥
व्याख्या - मिथ्यात्वं लौकिकलोकोत्तर भेदात् द्विधा भवति, तथाहि लौकिकमिथ्यात्वं लोकोत्तरमिध्यात्वं च तद्विविधमपि प्रत्येकं देवगतगुरुगत भेदाद्विधा ज्ञातव्यं । एवं च मिथ्यात्वस्य चातुर्विध्यं समजनि । तद्यथा, देवविषयं लौकिकमिध्यात्वं, गुरुविषयं लौकिकमिथ्यात्वं, देवविषयं लोकोत्तरमिथ्यात्वं, गुरुविषयं लोकोत्तरमिथ्यात्वं । तत्राद्यभेदविषयाणि मिथ्यात्व स्थानकानि प्रतन्यंते
हरिहरवंभाईणं गमणं भवणेसु पुयनमणाई | वज्जिज्जसम्मदिट्ठी तदुत्तमेयंपि निच्छयओ ॥ २ ॥ व्याख्या - विष्णु ईश्वर ब्रह्मादीनां गृहेषु गमनं पूजा नमस्कारादिकरणं च मिथ्यात्वस्थानं 'तदुत्तमेयंपीति' तैर्मिथ्यादृष्टिभिरुक्तमेतदपि वक्ष्यमाणं देवविषयं मिध्यात्वस्थानं वर्जयेत्, निश्चयतः सम्यग्दृष्टिः तदेवाहमंगलनामग्गहणं विणायगाईण कज्जपारंभे । ससिरोहिणिगोयाई विणायगट्टवण वीवाहो ॥ ३ ॥
&&&
कुलकवृचिः
॥ ५९ ॥