SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ वे परे समे । छात्रा जगुरुपाध्यायमध्यापय ततोऽद्भुतम् ॥६७॥ उपाध्यायोऽभ्यधाच्छात्रान्, यदा धर्मः समेष्यति । तदा वः पाठयिष्यामि, सन्तो हीने हि वत्सलाः ॥६८॥ प्रज्ञार्थगर्वितैइछात्रैः, प्रस्थं संस्थाप्य तत्पदे । उपाध्यायो|ऽभ्यधायीति, धर्म आगादयं प्रभो ? ॥ ६९ ॥ पठितुं तेषु लग्नेषु, पाठकं निकषा क्षणम् । सविद्यापिपठीः धर्मस्तत्र तूर्ण| मुपागमत् ॥७०॥ हसन्तस्तेऽथ तं प्रोचुर्धर्मोऽत्रै कोऽस्ति पूर्वतः । अन्योऽयं कोऽधुना धर्मः, समायातः समीक्ष्यते ॥७१॥ प्रज्ञार्थगर्वितैइछात्रैस्तैरित्थं हसितोऽथ सः । प्रज्ञामान्यं निजं निन्दन्नहंकारीत्यचिन्तयत् ॥७२॥ विद्यानां पारह-इयत्वं, विना मे जीवितं वृथा । ऋते समृद्धिसंभोगं, दुर्विधस्येव देहिनः ॥७३॥ इति ध्यात्वा ततो धर्मः, समाराहुं| सरखतीम् । निपत्य तत्पुरः सप्तोपवासान् विदधे दृढः ॥ ७४ ॥ चालितोऽनेकधा ध्यानाद्यावद्धर्मोऽचलन्नहि । सरखत्या स्वयं तावत्प्रकटीभूयाभ्यधायि सः॥७५॥ अनश्वरेण सत्त्वेन तुष्टाऽहं भो ? तवोपरि । तुभ्यं यद्रोचते क्षिप्रं, तथाचख ममान्तिकात् ॥७६॥ तत्कालोदीर्णसत्कर्मरेखामिव सुधोज्वलाम् । प्रणम्य भारतीं देवीं ययाचेऽथ स वाङ्मयम् ॥ ७७ ॥ संमोहतिमिरापोहे, वितन्द्रां चन्द्रिकामिव । वाग्देवी स्वप्रसन्नाक्षि निक्षिपन्ती तमभ्यधात् ॥७८॥ अचिरादेव ते विद्या दृष्टमात्राः समाअपि । मत्प्रसत्त्या समेष्यन्ति पुण्याकृष्टा रमा इव ॥ ७९ ॥ एवं स्यादिति तेनोक्तं, कण्ठ| स्थं तस्य वाङ्मयम् । समग्रं दृष्टमात्रेण, खल्पकालादजायत ॥८०॥ ततश्च पण्डितत्रातं, स मानेनातृणायत । अथवा खल्प सत्त्वस्य, विद्या कस्येह जीर्यति ॥ ८१ ॥ वादार्थं प्रतिदोषज्ञं, यच्छन् पत्रावलम्बनम् । उज्जयिन्यामथान्येद्युः, स आगाद्धर्मपण्डितः ॥ ८२ ॥ वादार्थो दन्तहस्तोऽथ, सधर्मो नृपसंसदि । आगात्तेन समं वादी, व्यवादीन्नच कञ्चन
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy