________________
सर्वत्र पठ्यमानं तं, श्रुत्वा धर्मो व्यचिन्तयत् । न नष्टोऽपि छुटिष्यामि, संश्रयेऽत उपेत्य तम् ॥१०॥
इत्यालोच्य समागत्य, धनपालं प्रणम्य च । इति व्यज्ञपयत् धर्मस्तत्पुरो रचिताञ्जलिः ॥१॥ जितं त्वया परं । मित्कापवादः पुरि वार्यताम् । सद्यः प्रसद्य विज्ञप्तिः, सफला मे विधीयताम् ॥२॥ इति धर्मेण विज्ञप्तः,
सुप्रसन्नमनाः क्षणात् । धनपालो नवं श्लोकं, कृत्वा लोकमपाठयत् ॥ ३॥ स्थैर्य शंसन्ति सर्वेषु, कार्येषु नयपण्डिताः । बह्वन्तराययुक्तस्य, धर्मस्य त्वरिता गतिः ॥ ४॥ ततस्तदपवादोऽगात्तेन श्लोकेन सर्वतः । गृहान्तर्दीपितेनोचैः, प्रदीपेणेव तामसम् ॥५॥ धनपालस्ततो राज्ञा, मानितः पूर्ववन्निजाम् । विद्वत्पश्चाशतीमुख्यकमलां प्रत्यपालयत् ॥६॥ अन्यदा गूर्जरत्रायाः, श्रीमद्भोजमहीपतिः। चतुरङ्गबलस्फूर्जदूजितो भङ्गमादधे ॥ ७॥ सख्यावद्भिरसङ्ख्यातावदातान् भोजभूपतेः । स्तुवद्भिर्जरत्राया, भगमित्थमभिष्टुवे ॥८॥ श्रीगुर्जरत्रा धरणीनितम्बिनी, स्वनायकाध्यक्षमपि व्यलुण्ठिता। निस्वामिकेव प्रहता विगोपिता, प्रचण्डदोर्द|ण्डपराक्रमात्त्वया ॥९॥ तैः स्तुतोऽपीत्यसन्तुष्टो, भोजराजमहीपतिः। सुप्रसन्नदृशाद्राक्षीद्धनपालस्य संमुखम् ॥१०॥ ततोऽर्हद्धर्मकर्पूरपूरवासितमानसः। धनपालो महीपालं, प्रत्यदः प्रत्यपादयत् ॥ ११॥ धिक् शास्त्रश्रुति-18 विश्रुतां तव मतिं धिक पण्डितानां सभामाज्ञैश्वर्यमथाधिपत्यमपि धिक् धिक्पौरुषं धिग्यशः । यत्त्वं भोज! भवार्तिभीरुपुरुषैर्निर्मापितान्यादरात्, देवानां सदनानि लुम्पसि जगच्छापाय पापाय च ॥ १२॥ श्रुत्वेति
भोजदेवेन, देवानां द्रविणं समम् । पश्चाद्दापयितुं सद्यः, प्रेषिता निजपूरुषाः ॥१३ ॥ धनपालोऽथ दोषज्ञश्च१७ चैत्यच.