________________
1104 11
चैत्यवन्दन- ४ खण्डप्रबोधमार्तंडनिभं गुरूयं । दृष्ट्वा प्रकृष्टेन हृदा प्रणम्यापृच्छत्खदुःखानुभवस्य हेतुम् ॥ ४० ॥ सुदर्शन| ज्ञानचरित्ररूप, रत्नत्रयालंकृतसर्वगात्रः । हितोपदेशी सुगुरुः शशंस, तदीयदुःखस्य निबन्धनं स्राकू ॥ ४१ ॥ | सद्दानसच्छीलतपःस्वभावधर्मो जिनभाषितो न चक्रे । त्वया प्राकू समसौख्यहेतुस्ततोधुना दुःखमिदं तवाभूत् ॥ ४२ ॥ चतुर्विधस्यापि जिनोदितस्य, धर्मस्य वांछादि विधानशक्तिः । सिद्धा परं प्राकृतदुष्कृतस्य, | छिदे समर्थ तप एव भद्रम् ॥ ४३ ॥ श्रुत्वेति वाक्यं सुगुरोः समीपे, ललौ स भावान्नियमं करिष्ये । षष्ठाष्टमाख्ये तपसी दिनेषु, नूनं चातुर्मासिक वार्षिकेषु ॥४४॥ तथा करिष्ये स्म सदान्यदापि, तपो यथाशक्ति यथा विधीह । इति प्रतिश्रुत्य गुरोः स पार्श्वाद्धकतानोऽनुदिनं बभूव ॥ ४५ ॥ कृतोपवासत्रितयोऽन्यदा स सपौषधः पर्युषणा निशायाम् । कृत्वा तनूत्सर्गविधिं सुमेरुः स्थिरः स्थितः शून्यकुटीरकान्तः ॥ ४६ ॥ समीक्ष्य तं तत्र तदा, विमाता, दूरात्मिको चैर्दहनं प्रदीप्य । प्रद्वेषतः प्रज्वलयाञ्चकार, प्रद्वेषवान् किं न करोत्यकृत्यम् ॥ ४७ ॥ ततः स मृत्योपशमैकतान, श्रीकान्तपुत्रोऽभवदेष भूप । सुश्राविका जन्ममहोत्सवेऽस्य, प्रस्तप्रसूतेर्गृहमाययुर्द्वा ॥४८॥ तदास्यतः पर्युषणामुपर्व, तपोविधोदन्तमयं निशम्य । संजातजातिस्मरणोऽथ पूर्वाभ्यासाद्वयधादष्टममर्भकोऽपि ॥ ४९ ॥ दिनद्वयं धर्मकृतावधान, मनाः स्मरन् पंचनमस्त्रियां च । तस्थौ ततः पर्युषणाविभाते, मुमूर्छ बाल्या|धिकसौकुमार्यात् ॥ ५०॥ मृतं ततोऽमुं जननी विदित्वा, समस्तलोकस्य शिशोः शुचास्य । चैत्यप्रपढ्यादिकभङ्ग, भीत्याऽक्षिपद्गर्त्तमनुप्रगुप्तम् ॥ ५१ ॥ अस्यार्भकस्योपरि संचरिष्णु, नभश्वरं प्रस्खलितप्रचारम् । अस्मद्विमानं स्व
*
कुलकवतिः
॥ ७५ ॥