________________
चैत्यवन्दनकादि, तुच्छौषधीः सुकुमारमुद्गफलाद्याः, तेच निषिद्धानां नियमितातिरिक्तानां सचित्तादीनामनाभोगादिना कुलकवृत्तिः
भोगादतिचाराः, कर्मतश्च इंगालकम्मादि परिवर्जयेत्, इंगालकादीनि चाग्रे सविस्तरं वक्ष्यन्ते इति नात्र ॥११९॥ तान्यभिधीयन्ते "तहणत्थदण्डविरई अन्नं स चउविहो । अवज्झाणे पमायायरिए हिं सप्पयाणपावोवएसे य॥१॥
तथा अनर्थदण्डविरतिरन्यत् तृतीयगुणव्रतं भवति, स चानर्थदण्डश्चतुर्की भवति, आर्त्तरौद्रध्यानेन प्रमादाचरितेन मद्याद्यासेवनेन हिंस्रप्रदानेन खड्गधनुष्कलांगुलमुशलोदूखलाग्निदानेन, वृषभान् दमय, क्षेत्रं कृष, अश्वान्, षण्डय, इत्यादि पापोपदेशेन चतुर्दाऽनर्थदण्डविरतिर्विधातव्या, अस्मिन् गुणव्रतेऽङ्गीकृते पञ्चातिचारा वर्जनीयाः, ते चामी 'कंदप्पं कुक्कइयं मोहरीयं संजुयाहिगरणं च । उपभोगपरीभोगाइरेगयं वित्तं वजेइ ॥१॥ कन्दर्प कामोद्दीपकैर्वाक्यहाँसपूर्वकं केलिकरणं ।१। कौक्रुच्यं मुखाक्षिभूविकारपूर्विका भण्डक्रियां ||२। मौखर्यमसम्बद्धभाषणम् ।। अधिकरणानि संयुक्तमुशलोदूखलादीनि । ४। भोगातिरिक्तता भोगोपभोगयोग्यद्रव्याधिक्यकरणं ।। वर्जयति, अथ चत्वारि शिक्षाव्रतानि “त्यक्तातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः। मुहर्त समता या तं विदुः सामायिकवतम् ॥१॥ सामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रा|वतंसकस्येव क्षीयते कर्म संचितम् ॥ २॥ अस्मिन् शिक्षाव्रतेऽङ्गीकृते श्रावकेण पञ्चातिचाराः परिहरणीयाः.
॥११९॥ ते चामी-मणवयणकायदुप्पणिहाणं इह जंत्तओ विवजेइ । सइअकरणयं अणवढियस्स तह करणयं चेव ॥१॥ मनो दुष्पणिधानं सावद्यव्यापारचिन्तनं । १। वागदुःप्रणिध्यानं विकथाकरणं ।। कायदुःप्रणिध्यानमप्रतिलि