________________
लवात, प्रमुखान् संमुखानरीन् । वर्जयामि वजनीयानन्यानपि समंततः ॥११॥ त्वं तु मुग्धे न जानासि, विलोचनं विनाकृता । नहि जानाति जात्यन्धो न्धकूपाद्यान् पुरःस्थितान् ॥ १२॥ चतुर्भिः कलापकम् । वृश्चिकेनेव5 दष्टा सा, कोपाटोपापराऽवदत् । सर्वं त्वमेव जानासि नापरः कोऽपि किंचन ॥ १३ ॥ वेष्टयित्वा तरोः शाखां, तन्वा साऽऽचष्ट दुष्टधीः। गच्छ खच्छन्दमन्यत्र समर्थेत्यनुशीर्षकम् ॥१४॥ गीतलुब्धिं कुरङ्गीव, मत्सीवामिषभक्षणम् । ग्रहं निजं न मत्ताङ्गी, प्राणान्तेऽपि विमुञ्चति ॥१५॥ चक्रवर्त्यपि शक्रोऽपि, समर्थोऽपि सुधीरपि ॥ कर्मरेखामिव स्त्रीणां, कुर्यान्नाग्रहमन्यथा ॥१६॥ ध्यात्वेति तत् पुरोऽवादीच्छीर्षकं हे पुरोभव । ततो ला हर्षप्रकर्षाच, रोमाश्चा साऽचलत् पुरः॥१७॥ रथचक्रेण रथ्यायां, सा न्यपेषि सशीर्षका । कदाग्रहग्रस्तहृदां,
नोदक संपदात्मकः॥१८॥ खस्यापरस्य च भुजंगमपुच्छिकेव, सांसारिकप्रचुरदुःखनिबन्धं यः । गीतार्थताविरहितः कुगुरुः स सिद्धिसौधाधिरोहरसिकैर्भविकैविहेयः ॥ १९ ॥ इत्यगीतार्थगुरुविषये सर्पपुच्छिकाशीर्षकयोः कथानकं समाप्तम् ॥ २॥
देशतोऽगीतार्थगुरवः खल्पजिनागमपरिज्ञानेन सर्वज्ञंमन्याः केवलमुत्सर्गतोऽपवादतो वा भव्यजीवान् प्रवतयन्तो वैद्यपुत्र इव खस्य परस्य च विनाशाय संपद्यन्ते । तत्रार्थे वैद्यपुत्रकथानककुण्डलं सकलभविकलोककर्णशष्कुलीयोग्यं क्रियते, तथाहि-अमानदानविदितै राजितं नरकुञ्जरैः। विन्ध्याद्रिवनवदू रेजे, श्रीवसन्तपुरं
१ उदर्क इति, तद्भवं फलं ।