________________
अहम् ग्रन्थाङ्कः ॥ ११ ॥ श्रीमजिनदत्तसूरिदृब्धम् । चैत्यवन्दनकुलकम्
श्रीमजिनकुशलसूरिविरचितव्याख्यासहितम् ।
श्रीमदुपाध्यायलब्धिनिधानगणिरचितटिप्पणिकयाऽलंकृतम् । संस्तौमि श्रीमहावीरं, जिनं कामप्रवर्द्धनम् । सुदर्शनरमास्पर्शविनिर्मिततमोऽसनम् ॥१॥ जिनदत्तयतीश्वररचितश्रीदेववन्दनकुलस्य । रचयामि यथाप्रज्ञ, विवृति बालावबोधार्थम् ॥२॥ १ लोकालोकोदरान्तःस्थवस्तुविस्तारदीपकम् । आर्हतं परमं ज्योतिर्ध्वान्तध्वंसाय जायताम् ॥ १॥ श्रीवीरो दीपकः कोऽपि, स्तुवतां नुदतां तमः । प्रबोधवासरसेन येन त्रिभुवनोदरे॥ २॥ श्रीजिनकुशलयतीशैः क्लृप्तायां देववन्दनकुलस्य । विवृतौ कांचिद् व्याख्यां लिखामि जडजन्तुबोधार्थम् ॥ ३ ॥ सुगमाऽपि विवृतिरेषा कापि काऽप्यस्ति गूढता । दुर्मेधसस्तु लोकाः संप्रति तदिहास्तु मे यत्नः ॥ ४ ॥
चैत्यव.