Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म० म० शिवकुमारशास्त्रि-ग्रन्थमाला
[षष्ठं पुष्पम् ]
व्योमशिवाचार्यप्रणीता व्योमवती
[द्वितीयो भागः]
सस्कृत
सम्पूर्ण
VIDbib2b
हालयः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M. M. SIVAKUMÄRAŚĀSTRI-GRANTHAMĀLĀ
[Vol. 6]
VYOMAVATI
OF VYOMAŚIVĀCĀRYA
[ PART TWO ]
EDITED BY GAURINATH SASTRI
Vice-Chancellor Sampurnanand Sanskrit University
Varanasi.
Go
bec
विधात्नया
VARANASI
1984
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Published by :
Director, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya Varanasi
www.kobatirth.org
Available at:Sales Department,
Sampurnanand Sanskrit Vishvavidyalaya Varanasi 221002.
First Edition, 1100 Copies
Price: Rs. 50.00
D
Printed by :Ratna Printing Works B 21/42 A, Kamacha Varanasi 221010
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म० म० शिवकुमारशास्त्रि-ग्रन्थमाला
व्योमशिवाचार्यप्रणीता व्योमवती
[द्वितीयो भागः]
सम्पादकः श्रीगौरीनाथशास्त्री
कुलपतिः , सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
अस्सा
श्तविह
वाराणस्याम् १९०५ तमे शकाब्दे
२०४० तमे वैक्रमाब्दे
१९८४ तमे झस्ताद
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशक:-- निदेशकः, अनुसन्धानसंस्थानस्य, सम्पूर्णानन्दसंस्कृतविश्वविद्यालये वाराणसी।
serving Jin shesin
069211 gyammandir@kobatirtri.org
प्राप्तिस्थानम् :-- विक्रयविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणसी - २२१००२.
प्रथमं संस्करणम्, ११०० प्रतिरूपाणि मूल्यम्-५०.०० रूप्यकाणि
मुद्रक :रत्ना प्रिंटिंग वर्स, बी २१/४२ ए, कमच्छा , वाराणसी - २२१०१०
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
সাস্থল
अयमिदानों मुद्रयित्वोपस्थाप्यते विदुषां पुरतः प्रशस्तपादभाष्यटीकारूपायाः व्योमवत्या द्वितीयोऽन्तिमश्च भागः । अस्मिन्नपि भागे व्योमशिवाचार्येण प्रथमभागवदेव बहनामप्रसिद्धानां सत्राणामल्लेखो विहितः। गणादिपदार्थानां परीक्षावसरे च धर्मकीर्तः कुमारिलस्य च सिद्धान्तानां विस्तरेण खण्डनमपि कृतमाचार्येण । सत्यपि विषयगाम्भीर्ये सरलसरलया भाषया वस्तप्रतिपादनमाचार्यस्यास्यान्येभ्यष्टीकाकारेभ्यो वैशिध्यमिति कथनन्तु बहुलमेव ।
मूलग्नन्थव्याख्यानावसरे च व्योमशिवाचार्येण स्वगुरूणां व्याख्यानस्योल्लेखः सश्रद्धं कृतो वर्तते । तत्कालप्रसिद्धयोश्च प्रशस्तपादभाष्यटोकयोाख्यान्तरमप्यनेन यत्र तत्र 'अन्ये तु' इत्यादिनोद्धृत्य प्रदर्शितम् । 'शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात्' ( पृ० १६३ ) इति भाष्यकारवाक्यस्थ व्याख्यानेऽनेन पक्षद्वयमुपस्थापितम् । तत्र 'शब्दादीनाम्' इति समस्तपदस्य तद्गुणसंविज्ञानबहुव्रीह्यभ्युपगमे शब्दस्याप्यनुमानेऽन्तभावः। अतद्गणसंविज्ञाने 'शब्द विना अपरेषामिति । १० १६३ ) शब्दस्य स्वतन्त्रं प्रामाण्यन्तु विस्तरेण प्रतिपाद्य तेनोक्तं 'शेषञ्चात्र दूषणप्रतिसमाधानम् अस्मद्गुरुभिविस्तरेणाभिहितमिति नेहोक्तम् । अतः शब्दस्याप्तोक्तत्वेन प्रामाण्यान्नानुमानेऽन्तभवः' ( पृ० १७१ ) इति । एतादृशं व्याख्यानन्तु न्यायसारकतारं भासर्वज्ञ स्मारयति, येन प्रमाणचतुष्टयवादिनो गौतमस्यर्षेः न्यायसूत्रमपि व्याख्यया प्रत्यक्षानुमानशब्दरूपप्रमाणत्रयोपस्थापकत्वेन प्रदर्शितम् । न्यायसारे तु उपमानस्थ पृथक् प्रामाण्यं निरस्तम्, अत्र तु व्योमशिवेन प्रमाणद्वयवादिना वैशेषिकसम्प्रदायप्रवर्तकानां कणादप्रशस्तपादादोनां वचनन्तु प्रत्यक्षानुमानशब्दाख्यप्रमाणत्रयप्रकाशकमिति व्यवस्थापितम् । तदपि व्यवस्थापन सम्प्रदायानुसारीत्यपि स्वकीयगुरुपादानां व्याख्यायाः समुल्लेखेन दृढीकृतम् ।
अस्य ग्रन्थस्य सम्पादनेऽस्माभिः प्रशस्तपादभाष्यपाठस्तु व्योमशिवस्वीकृत एव परिगृहीतः । व्योमवत्यान्तु अशुद्धानां स्थलानां यथामति शुद्धिरपि [ ] एतादृशबन्धनीमध्यगता प्रदर्शिता। कदाचिद् न्यूनताया अपि तादृशेनैव प्रकारेण यथामति पूत्तिरपि कृता वर्तते । व्योमशिवरचितमन्तिमं पद्यन्तु मातृकायां खण्डितमुपलब्धमतस्तेनैव रूपेणात्र मुद्रितमिति शम् ।
विश्वेश्वरपुर्याम्, महाशिवरात्रिपर्वणि वि० सं० २०४०
श्रीगौरीनाथशास्त्री
कुलपतिः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषया:
१. गुणसामान्य साधर्म्यम् मूर्त्तगुणनिर्देश:
अमूर्त्तगुणनिर्देशः मूर्त्तामूर्त्तगुणनिर्देश:
गुणेष्वनेकाश्रिताः काश्रिताः
विशेषगुणनिर्देशः
सामान्यगुणनिर्देश:
एकेन्द्रियग्राह्यगुणाः
हीन्द्रियग्राह्यगुणाः
अन्तःकरणग्राह्यगुणाः
अतीन्द्रियगुणाः
कारणगुणपूर्वका गुणाः
अकारणगुणपूर्वका गुणा:
संयोगजा गुणाः
कर्मजा गुणाः विभागजौ गुण
बुद्धयपेक्षा गुणाः
समानजात्यारम्भका गुणाः
असमानजात्यारम्भका गुणाः
समानासमानजात्यारम्भका गुणाः स्वाश्रयसमवेतारम्भका गुणाः
परत्रारम्भका गुणा:
उभयत्रारम्भका गुणाः
क्रियाहेतवो गुणाः असमवायिकारणा गुणाः
निमित्तकारणा गुणाः अकारणा गुणाः अव्याप्यवृत्तिगुणाः
www.kobatirth.org
विषयानुक्रमणी
पृष्ठाङ्काः विषयाः
१
३
३.
३
४
४
२. गुण वैधर्म्यम्
रूपवैधर्म्यम्
रसवैधर्म्यम्
गन्धवैधम्यंम्
४
४ स्पर्शवैधर्म्यम्
५
५
आश्रयव्यापि गुणाः यावद्द्रव्यभाविनो गुणाः अावद्रव्यभाविनो गुणाः
रूपादीनां पाकजोत्पत्तिः
११
११
११
४३
कार्यद्रव्यविनाशप्रकार: परमाणौ पूर्वरूपनाशपाकजरूपोत्पत्तिश्च
६ घटतद्रूपादीनामुत्पत्तिप्रकारः
७
Acharya Shri Kailassagarsuri Gyanmandir
परमाणावेव पाकजरूपाद्युत्पत्तिः
संख्या वैधर्म्यम् द्वित्वोत्पत्तिप्रकार: द्वित्वविनाशप्रकार:
७
८
८
८ त्रित्वाद्युत्पत्तिविनाशप्रकार:
८ परिमाण वैधम्र्म्यम्
८
८
प्रकारश्च
९ पृथक्त्व वैधर्म्यस्
९
संयोगवैधर्म्यम्
१० संयोगभेदास्तदुत्पत्तिश्च
१०
संयोगविनाशप्रकार:
परिमाणोत्पत्तिप्रकारोऽन्ते विनाश
विभागवैधर्म्यम्
विभागभेदा:
विभागोत्पत्तिप्रकार:
विभागविनाशप्रकार:
For Private And Personal Use Only
पृष्ठाङ्काः
१३
१३
१४
१५
१५
१६
१७
१८
१९
२०
MMMMM
२१
२१
२३
३१
३२
३४
४०
५०
५३
५९
२४
६६
७४
७५
७६
७७
८७
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३
१९४
२०२
परत्वापरत्ववैधर्म्यम्
९३ अभावस्थानुमानेऽन्तर्भावः तयोरुत्पत्तिप्रकारः
९४ ऐतिह्यस्याप्तोपदेशत्वकथनम् तयोविनाशप्रकारः ९७ परार्थानुमाननिरूपणम्
"८३ बुद्धिवैधय॑म् १०२ अवयवोद्देशः
१८९ बुद्धेः प्रकारभेदे हेतुः १०५ प्रतिज्ञानिरूपणम्
१८९ बुद्धेः प्रकारभेदकथनारम्भः ११५ अपदेशनिरूपणम् अविद्याभेदाः
११५ अनपदेश (हेत्वाभास) निरूपणम् संशयवैधर्म्यम ११७ असिद्धभेदाः सोदाहरणाः
१९४ संशयभेदी
११९ विरूद्धनिरूपणम् विपर्ययवैधर्म्यम्
१२१ सन्दिग्ध (अनैकान्तिक) निरूपणम् १९६ विपर्ययहेतुनिर्देशः १२१ अनध्यवसितनिरूपणम्
२०० अनध्यवसायवैधय॑म्
१३० निदर्शन (दृष्टान्त) निरूपणम् २०२ स्वप्नवैधर्म्यम्
१३२ निदर्शनाभासनिरूपणम् स्वप्नोत्पत्तिप्रकारः
१३३ अनुसन्धान (उपनय) निरूपणम् २०४ स्वप्नभेदाः
१३५ प्रत्याम्नाय (निगमन) निरूपणम् २०६ विद्यावैधये॒ तद्भेदकथनम् १३७ अत्रैव परोक्षरूपेण स्वार्थानुमाननिर्विकल्पकप्रत्यक्ष निरूपणम् १३७ कथनमपि
२०८ सविकल्पकप्रत्यक्षनिरूपणम् १४१ निर्णयस्वरूपम्, तस्य प्रत्यक्षेऽनमाने गुणादिषु प्रत्यक्षोत्पत्तिप्रकार: १४२ वान्तर्भाव:
२१० योगिप्रत्यक्षनिरूपणम् १४३ स्मृतिवैधर्म्यम्
२१२ प्रत्यक्षप्रमाणस्य फलविभागप्रदर्शनम् १४५ आषज्ञानवैधर्म्यम् लैङ्गिकज्ञानलक्षणम्
१४७ सिद्धदर्शनस्य न विद्यान्तरत्वम २१४ लिङ्गनिरूपणम्
१४७ सुखवैधयम् लिङ्गाभासलक्षणम् १५४ दुःखवैधर्म्यम्
२१७ विधि(व्याप्ति)निरूपणम्
१५५ इच्छावैधय॑म्, तभेदाश्च लैङ्गिकज्ञानभेदः
द्वेषवैधर्म्यम्, तभेदाः लैङ्गिकज्ञानस्य प्रमाणफलविभागः । १६२ प्रयत्नवैधय॑म् शब्दादीनामनुमानेऽन्तर्भावः
गुरुत्ववैधय॑म् व्योमशिवाचार्यमते शब्दस्यानुमाने द्रवत्ववैधर्म्यम्, तद्भदौ नान्तर्भावः
१६४ स्नेहवैधय॑म् चेष्टाया अनुमानेऽन्तर्भावः १७५ संस्कारवैधर्म्यम् , तभेदाश्च उपमानस्याप्तवचनत्वनिर्देशः १७५ धर्म( अदृष्ट )वैधर्म्यम् अर्थापत्तेरनुमानेऽन्तर्भावः १७८ धर्मसाधनानि सम्भवस्यानुमानेऽन्तर्भावः १८० ब्राह्मणादीनां सामान्यधर्मसाधनानि २३२
२१३
२१५
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आश्रमिणां धर्मसाधनानि २३२ ४. सामान्यनिरूपणम्, तद्भदाश्च २६८ अधर्म(अदृष्ट)वैधर्म्यम् २३५ परसामान्यनिरूपणम्
२७८ संसारसम्पादकानि निवर्त्तकानि
अपरसामान्यनिरूपणम्
२७९ च कर्माणि २३५ ५. विशेषनिरूपणम्
२८३ शब्दवैधर्म्यम् २३७ ६. समवायनिरूपणम्
२८७ ३. कर्मसाधर्म्यम २४४ समवायवैधयनिरूपणम्
२८९ कर्मणो विभागास्तेषां लक्षणादिकम् २४६ प्रथमं परिशिष्टम
२९२-२९४ पञ्चविधानामपि कर्मणां समान्यभेदः २४७ द्वितीयं परिशिष्टम्
२९५ कर्मणां जातिपञ्चकत्वविचारः २४७ तृतीयं परिशिष्टम २९६-२९९ सत्प्रत्ययानां कर्मणामुत्पत्तिप्रकारः २५३ चतुर्थ परिशिष्टम
३००-३०४ असत्प्रत्ययकर्मोत्पत्तिप्रकारः २६०
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ गुणप्रकरणम्
गुणसामान्य साधर्म्यम्
रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणवत्त्वञ्च ।
इदानीमुद्देशक्रमेणावसरप्राप्तानां गुणानामितरपदार्थवैधर्म्येण व्यापकं साधर्म्यं पुनः प्रतिनियतानाञ्च स्वभेदान्तराद् व्यावृत्तिमपि दर्शयन्नाह *रूपादीनां सर्वेषां गुणानां गुणत्वाभिसम्बन्धः इत्यादिप्रकरणम् । गुणत्वेनाभिसम्बन्धस्तदुपलक्षितः समवायः । स च केषाम् ? रूपादीनाम् । तथाप्यादिशब्दस्य अनियतार्थग्राहकत्वान्न ज्ञायते कियतामतः सर्वेषाम् । उत्क्षेपणाद्यवरोधपरिहारार्थञ्च *गुणानाम्* इति ।
नन्वेवं सर्वेषां गुणानामित्युक्ते व्यभिचाराभावाद् व्यर्थं रूपादीनामिति - पदम् । न । [ गुणत्वाभिसम्बन्धा ] श्रितत्व विशेषणाभ्यां 'सर्वो गुण:' इति दर्शनस्य व्यवच्छेदार्थत्वात् । तथाहि रूपादीनामेव गुणत्वाभिसम्बन्ध: साधर्म्यं नान्येषामिति ।
न च सांख्याभ्युपगतस्य गुणत्रयस्य व्यवच्छेदार्थं रूपादिग्रहणमिति न्याय्यम्, तस्य प्रमाणानुपलब्धेः । प्रसिद्धञ्च विशेषणेन व्यवच्छिद्यमानं दृष्टं यथा नीलेनानीलमिति । तदेवं रूपादयः, इतरस्माद् भिद्यन्ते, गुणा इति व्यवहर्त्तव्या वा, गुणत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते; न च गुणा इति व्यवह्रियन्ते, न ते गुणत्वाभिसम्बद्धा:, यथा क्षित्यादय इति । शेषं पूर्ववत् ।
तथा द्रव्याश्रितत्वञ्च साधर्म्य रूपादीनाम् । तच्च सावधारणं विवक्षितम् । अन्यथा हि द्रव्यादीनामपि द्रव्याश्रितत्वाद् अतिव्यापि साधर्म्यं स्यात्, न व्यावृत्तमिति । अवधारणन्तु द्रव्येष्वेवाश्रितत्वमेवेति । द्रव्यकर्मविशेषा द्रव्येष्वेवाश्रिता, न चाश्रिता एवेति । सामान्यसमवायौ तु द्रव्येष्वाश्रितौ, न तु द्रव्येष्वेव, गुणादावपि सद्भावात् गुणास्तु द्रव्येष्वेवाश्रिताः
For Private And Personal Use Only
5
10
15
20
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
न गुणादौ; तथा आश्रिता एव द्रव्येषु, न अनाश्रिता; निर्गुणस्य द्रव्यस्यानुपलब्धेः । तदेवम् अयोगान्ययोगव्यवच्छेदेन द्रव्याश्रितत्वाद् इतरेभ्यो भिद्यन्त इति साध्यम् ।
___ तथा निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियाः, तेषां भावो 5 निष्क्रियत्वम् ।
गुणा विद्यन्ते येषां ते गुणवन्तः, तेषां भावो गुणवत्त्वं तत्प्रतिषेधेन चागुणवत्त्वमिति ।
ननु निष्क्रियत्वमगुणवत्त्वञ्च गुणादीनां पञ्चानामपीत्युक्तमतो नेदं पदार्थान्तराद् व्यावृत्तं साधर्म्यम् । न च साधर्म्यमात्रेणेह प्रयोजनमस्ति 10 पूर्वमेवाभिधानात् । अथ गुणत्वसहचरितं व्यावृत्तं साधर्म्यमात्रमेतदिति ।।
यद् वा द्रव्यपदार्थादेव भेदप्रतिपादनार्थमेतत् । तथाहि, परे मन्यन्ते न गुणा: कर्म वा द्रव्यादर्थान्तरमिति, निष्क्रियत्वागुणत्वाभ्यां तदुपपत्तेः । तथाहि, क्रियावद् गुणवच्च द्रव्यम्, तद्रहिताश्च गुणा इति धर्मभेदाद् भिद्यन्त एव ।
अथ निष्क्रियत्वमगुणवत्त्वञ्च कथं रूपादीनाम्, द्रव्यस्यैव समवायिकारणत्वेन तदाधाराणाम् उत्पत्त्यभावात् । अथ रूपादिसमवेतानां रूपादीनामुत्पत्तेर्युक्तं समवायिकारणत्वम् । तन्न । अनुपलब्धेः । यथा हि रूपवद् द्रव्यमिति ज्ञानं नैवं रूपवद् रूपमिति प्रतिभासोऽस्ति ।
अभ्युपगम्याप्युच्यते, यदि च रूपं रूपोत्पत्तौ समवायिकारणम् अन्येना20 समवायिकारणेन भवितव्यम् । न च कारणरूपमेवासमवायिकारणम्, तस्यापि
स्वगतरूपोत्पत्तौ समवायिकारणत्वात् । न च तदेव समवायिकारणमसमवायिकारणञ्चेति दृष्टम् । नापि संयोगः, तस्य द्रव्योत्पत्तावसमवायित्वात् । यदि च तन्तुसंयोगस्तद्रूपोत्पत्तावसमवायिकारणम्, तदुत्पत्तेः पूर्वं तदभावः
स्यादेवेति । रूपरूपेष्वपि संयोगस्य कारणत्वे तदुत्पत्तेः पूर्वमभावो वाच्यः । 25 न चैकस्मादेव रूपाद् रूपान्तरमिति वाच्यम् । एकस्य क्रमयोगपद्याभ्यामारम्भ
प्रतिषेधात् ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
गुणसामान्यसाधर्म्यम् अत एव निष्क्रियत्वं मूर्त्यनुविधानात् क्रियायाः । सा च गुणेषु न सम्भवति निर्गुणत्वात् । असर्वगतद्रव्यपरिमाणञ्च मूत्तिरिति ।।
अथाश्रयगमनेन गुणेषु गमनप्रतिभासस्तहि कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । द्रव्ये हि वर्तमानं गमनमेकार्थसमवायितया गुणेष्वारोप्य प्रतिपद्यन्ते गुणा गच्छन्तीति ।
तदेवं निष्क्रियत्वादगुणवत्त्वाच्च द्रव्याद् अर्थान्तरं रूपमिति । अथार्थान्तरत्वे कथं नियतेन धर्मिणा व्यपदेशः ? सम्बन्धनियमात् । न च सम्बन्धस्य सम्बन्धान्तरपरिकल्पना सम्बन्धरूपत्वादेवेति वक्ष्यामः समवायपदार्थे। केषाञ्चिदेव मूर्त्तगुणत्वम्
रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्वत्वस्नेहवेगा मूर्तगुणाः ।
अथेदानी प्रतिनियतानां स्वभेदान्तराद् व्यावृत्तं साधर्म्य दर्शयति रूपादयो वेगान्ता मूर्तगुणा इति । मूर्तानामेव, नत्वेत एव मूर्तानाम्, अन्येषामपि तद्गुणत्वात् । तथाहि, पृथिव्यादिषु त्रिषु रूपद्रवत्वादयः, गुरुत्वरसौ तु द्वयोः, स्पर्शश्चतुर्णाम्, गन्धः क्षितावेव, स्नेहो]ऽम्भस्येव, परत्वापरत्व- 15 वेगास्तु पञ्चस्वपि मूर्तेष्विति । केषाञ्चिच्चामूर्तगुणत्वम्
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नध धर्मभावनाशब्दा अमूर्तगुणाः ।
बुद्ध्यादयः शब्दान्तास्त्वमूर्तगुणा इति । अमूर्तानामेव गुणाः, नत्वेत एव, संख्यादीनामपि तद्गुणत्वात् । बुद्ध्यादयो भावनान्ताः पुरुष, 20 शब्दरचाकाश इति । केचिन्मूर्तामूर्तोभयगुणाः
संख्यापरिमाणपृथक्त्वसंयोगविभागा उभयगुणाः । संख्यादयो विभागान्ता उभयगुणाः । उभयेषां मूर्तामूर्तानामेव गुणाः । तथैत एवोभयगुणाः ।
23
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्या
गुणेष्वनेकाश्रिताः
संयोगविभागद्वित्वद्विपृथकत्वादयोऽनेकाश्रिताः । अथेदानीम् एकानेकाश्रितत्वं दर्शयन्नाह संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः* इत्यादिपदेन त्रित्वादिका परार्धान्ता संख्या तद्5 विशिष्टञ्च पृथक्त्वं गृह्यते । अनेकाश्रितत्वञ्चात्र व्यक्तयपेक्षया विवक्षितम्, न जात्यपेक्षया, रूपादेरपि तद्भावप्रसङ्गात् ।
यद्यपि रूपत्वादिजातीयमनेकस्मिन् न वर्तते तथापि एका तद्व्यक्तिरेकस्मिन्नेव । न चैवं संयोगादिः, तद्व्यक्तेरनेकाश्रितत्वोपलब्धेः । तद्भिन्नानामेकाश्रितत्वम्
शेषास्त्वेक कद्रव्यवृत्तयः । शेषास्त्वेकैकद्रव्यवृत्तयः इति । उक्तभ्योऽन्ये शेषाः । ते हि एकैकस्मिन्नेव द्रव्ये वर्तन्ते । एका हि व्यक्तिरेकस्मिन्नेव समवेता तथा रसादिव्यक्तयोऽपि । अवधारणन्त्वेषाम् एकैकद्रव्यवृत्तित्वमेव, नत्वेषामेव, उभयवृत्ती
नामपि तद्भावात् । 15 विशेषगुणोद्देशः
रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेष
प्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः । सामान्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमि
त्तिकद्रवत्ववेगाः सामान्यगुणाः । इदानीं के विशेषगुणाः, के च सामान्यगुणा इत्युपदर्शनार्थमाह रूपादयः शब्दान्ता वैशेषिकगुणाः ।
कीदृशमेषां विशेषगुणत्वम् ? योकाश्रितत्वं . गुरुत्वादावपि स्यात् । अथैकैकेन्द्रियग्राह्यत्वम् ? स्नेहद्रवत्वधर्माधर्मादौ न स्यात् । अथासाधारणॐ त्वम् ? तन्नास्ति, रूपत्वादिजातीयस्यानेकत्रोपलब्धेः । व्यक्तिविवक्षया ?
गुरुत्वादावप्यस्त्येव । न, अन्यथा तदुपपत्तेः । तथाहि, स्वसमवेतविशेष
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधयम् विशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणाः । आश्रयमात्रव्यवच्छेदकत्वं न सम्भवतीति स्वाश्रयपदम् । तथापि निविशेषणस्य रूपादेश्रियव्यवच्छेदकत्वमिति विशेषविशिष्टपदम् । संख्यादयोऽपि गन्धैकार्थसमवेताः क्षितेर्व्यवच्छेदकाः, स्नेहैकार्थसमवेताश्चोदकस्य, तन्निरासाय स्वसमवेतपदम् । यथा हि, रूपे शुक्लत्वादिविशेषणं समवेतं रसे च मधुरत्वादि नैवं । स्नेहो गन्धो वा संख्यादौ समवेत इति व्यवच्छेदः । तथाप्यणुपरिमाणं परमाणूनां व्यवच्छेदकमिति स्वाश्रयैकजातीयपदम् । तथाहि परमाणुपरिमाणं स्वसमवेतविशेषणोपेतं स्वाश्रयस्य परमाणुवातस्य चतुर्विधस्य व्यवच्छेदकं नैकजातीयस्येति । एवं परममहत्वमपीति ।
रूपञ्च स्वसमवेतशुक्लत्वाद्यनेकविशेषणोपेतमेकजातीयाया: क्षितेर्व्यवच्छे- 10 दकम्, नियमेन शुक्लत्वविशिष्ट मुदकस्य, शुक्लभास्वरञ्च तेजस इत्यादि विशेषः पूर्वोक्त एव द्रष्टव्यः ।
तदेवं स्वसमवेतविशेषविशिष्टत्वे सति स्वाश्रयैकजातीयव्यवच्छेदकत्वाद् विशेषगुणा एव । एत एव विशेषगुणा इत्यवधारणम् ।
संख्यादयो . वेगान्ताः सामान्यगुणा एव । विशेषगुणलक्षणरहितत्वाद् 15 एत एव सामान्यगुणाः । एकैकेन्द्रियग्राह्यगुणाः
शब्दस्पर्शरूपरसगन्धा बाहोकैकेन्द्रियग्राह्याः । इदानीमेकानेकेन्द्रियग्राह्यत्वं दर्शयन्नाह शब्दस्पर्शरूपरसगन्धाः बाह्येनैकैकेनेन्द्रियेण गृह्यन्त इति तद्ग्राह्या: । बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थम् । 20 तद्विवक्षा हि द्वीन्द्रियग्राह्यत्वात् । अवधारणञ्च एत एव नियमेन बााँकैकेन्द्रियग्राह्याः, तथानेकेन्द्रियग्राह्या न भवन्तीति । द्वीन्द्रियग्राह्यगुणोद्देशः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेह
वेगा द्वीन्द्रियग्राह्याः । संख्यादयो वेगान्ता द्वीन्द्रियग्राह्या एव । नियमेनैत एव द्वीन्द्रिय
25
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
ग्राह्याः । बाह्यग्रहणमन्तःकरणव्यवच्छेदार्थमनुवर्तनीयम् ।
अथ स्नेहस्य कथं द्वीन्द्रियग्राह्यत्वम् ? त्वग्व्यापारे सति स्निग्धप्रत्ययदर्शनात् । यथा हि चक्षुर्व्यापारेण स्निग्धाः केशा इति प्रतिभासस्तथा
स्नानोत्तरकालमपि त्वग्व्यापारेण स्निग्धप्रत्ययो दृष्ट इत्यन्वयव्यतिरेकाभ्यां 5 द्वीन्द्रियग्राह्यत्वं निश्चीयते ।
अथ किमयमाप्यः पार्थिवो वेति विचारयिष्यामः स्नेहपरीक्षायाम् । अन्तःकरणग्राह्यगुणोद्देशः
द्वषप्रयत्नास्त्वन्तःकरणग्राह्याः।
10
अतीन्द्रियगुणोद्देशः
गुरुत्वधर्माधर्मभावना अतीन्द्रियाः । बुद्ध्यादयः प्रयत्नान्तास्त्वन्तः करणेनैव गृह्यन्त इति तद्ग्राह्याः ।
गुरुत्वधर्माधर्मभावना हि अतीन्द्रिया एव । इन्द्रियाण्यतोत्य वर्तन्ते, तद्ग्राह्या न भवन्तीति । यथा च गुरुत्वमप्रत्यक्षं तथा वक्ष्यामस्तत्
परीक्षायाम् । 15 गुणेषु कारणगुणपूर्वकाणामुद्देशः अपाकजरूपरसगन्धस्पर्शपरिमाणकत्वैकपृथक्त्वगुरुत्वद्वत्वस्नेहवेगाः
कारणगुणपूर्वकाः। अपाकजरूपादिवेगान्ताः कारणगुणपूर्वका इति । अपाजकग्रहणं पार्थिवपरमाणुरूपव्यवच्छेदार्थम् ।
ननु तेऽपि कारणगुणपूर्वा भवन्त्येव । तथाहि, कारणं परमाणुस्तद्गुणः पार्थिवपरमाण्वग्निसंयोगस्तत्पूर्वा रूपादय इति कथं न कारणगुणपूर्वकाः ? तन्न। अभिप्रायापरिज्ञानात् । तथा चायमभिप्रायः, समवायिकारणेष्वेव गुणाः कारणगुणास्ते पूर्वं कारणं येषां कार्यगुणानां तेऽत्र
कारणगुणपूर्वका विवक्षिताः । न चैवं पाकजा इति व्यवच्छिद्यन्ते । 25 अथ सलिलादिपरमाणुरूपादयः पाकजत्वाभावेऽपि न कारणगुण
20
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम्
10
पर्वका इति । तन्न, पर्युदासप्रतिषेधस्य विवक्षितत्वात् । तथाहि, पाकाजाताः पाकजास्तत्प्रतिषेधेन अन्यगुणपूर्वकत्वं लभ्यत इति नित्यानां व्यवच्छेदः ।
नन्वेवमपि व्यर्थमपाकजग्रहणम्, एते कारणगुणपूर्वका एवेत्यवधारणासम्भवात् । तथाहि, द्रवत्ववेगावकारणगुणपूर्वकावपीति । न । 5 स्पष्टार्थत्वादेत एव का रणगुणपूर्वका, न त्वेते कारणगुणपूर्वका एवेत्यवधारणम् । अबुध्यमानस्य पाकजैर्दोषाशङ्का स्यादिति स्पष्टार्थमपाकजग्रहणम् ।
अत्र चैकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम् । ते ह्यकारणगुणपूर्वका इति । अकारणगुणपूर्वकगुणकथनम् बुद्धिसुखदुःखेच्छाद्वषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगणपूर्वकाः ।
बुद्ध्यादयः शब्दान्तास्त्वकारणगुणपूर्वका एव । समवायिगुणपूर्वकाः कार्यगुणा न भवन्तीति । न त्वेत एव संयोगविभागपरत्वापरत्वद्वित्वद्विपृथक्त्वादीनामप्यकारणगुणपूर्वकत्वात् ।
___अथाकारणगुणपूर्वकत्वाविशेषेऽप्यस्मिन् वाक्ये संयोगादीनामवचने किं 15 प्रयोजनमिति चिन्त्यम् । अथापाकजरूपादिवेगान्तानामेव कारणगुणपूर्वकत्वामिधानात् शेषाणामकारणगुणपूर्वकत्वं विज्ञायते । एवं तहि बुद्ध्या दयोऽपि नाभिधेयाः, शेषाणामकारणगुणपूर्वकत्वमिति वाभिधेयं सकलभेदसङ्ग्राहकं वाक्यम् । अलं बुद्ध्यादिविशेषाभिधानेनेति ।
नैतदेवम्। विशेषवचनं स्पष्टार्थम् । अनेकधा शास्त्राभिहितमिति 20 अन्तेवासिनामृज्वर्थपरिज्ञानमेव स्यादित्यूहशक्तेः संवर्धनार्थं संयोगादीनां स्वशब्देनावचनम् ।
अन्ये त्वेकवृत्तीनामेव विशेषगुणानामत्राभिधानं विवक्षितमिति मन्यन्ते । तत्तु न बुद्ध्यामहे, दूषणस्याप्रतिसमाधानात् । संयोगजगुणोद्देशः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोग
25
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
नैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः । तथा बुद्धयादयः पाकजान्ताः संयोगजा इत्यत्र बुद्धयादयो भावनान्ता: पुरुषान्तःकरणसंयोगादुत्पद्यन्ते । शब्दश्च मेर्याकाशसंयोगात् । तूलपरिमाणञ्च प्रचयात् । उत्तरसंयोगः सूत्रपाठापेक्षया, संयोगजसंयोगः नैमित्तिकद्रवत्वमग्निसंयोगात् । परत्वापरत्वे तु दिक्कालपिण्डसंयोगात् । पाकजा इति पार्थिवपरमाणुरूपादयस्तेऽप्यग्निसंयोगजाः । इत्येत एव संयोगजाः, न त्वेते संयोगजा एव । तथा हि शब्दो विभागजः शब्दजोऽप्यस्तीति । कर्मजगुणोद्देशः
संयोगविभागवेगाः कर्मजाः । *संयोगविभागवेगा:* कर्मभ्यो जाताः कर्मजा इत्येत एव, न त्वेते कर्मजा एव । तथाहि, संयोगः संयोगादुत्पद्यते विभागश्च विभागाद् वेगो वेगादपीति । विभागजगुणकथनम्
शब्दोत्तरविभागौ विभागजौ । ___ शब्दोत्तरविभागौ विभागाजातौ विभागजाविति । एतावेव विभागजौ, 15 न त्वेतौ विभागजावेव । तथाहि, शब्दः संयोगजः शब्दजोऽप्यस्तीति ।
उत्तरविभागश्च, सूत्रपाठापेक्षया विभागजविभाग एव परिगृह्यते । बुद्ध्यपेक्षाणां, समानासमानजात्यारम्भकानाञ्चोद्देशः
परत्वापरत्वद्वित्वद्विपथक्त्वादयो बुद्ध्यपेक्षाः । रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणकत्वैकपृथक्त्वस्नेहा:
समानजात्यारम्भकाः । सुखदुःखेच्छाद्वषप्रयत्नाश्च असमानजात्यारम्भकाः। संयोगविभागसंख्यागुरुत्वद्वत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः
समानासमानजात्यारम्भकाः। इदानीं के बुद्ध्यपेक्षाः, के च समानजात्यारम्भका इत्युपदर्शयति 25 *परत्वापरत्वद्वित्वद्विपृथक्त्वादयः* बुद्धिमपेक्षन्ते स्वोत्पत्ताविति बुद्ध्यपेक्षा
इति । आदिपदेन त्रित्वादिका परार्धान्ता संख्या तदवच्छिन्नञ्च पृथक्त्वं
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम् गृह्यते । अवघारणन्तु एत एव बुद्ध्यपेक्षास्तथैते बुद्ध्यपेक्षा एब । बुद्धि बिना न भवन्तीति ।
___ रूपादयः स्नेहान्ताः समानजात्यारम्भका इति । समाना तुल्या जातियेषां ते समानजातयस्तानारभन्त इति तदारम्भका एव, न त्वेत एव समानजात्यारम्भका उभयारम्भकाणामपि सद्भावात् । अत्र चानुष्णग्रहणमुष्ण- 5 स्पर्शव्यवच्छेदार्थम्, तस्याप्युभयारम्भकत्वात् । एकत्वैकपृथक्त्वग्रहणं द्वित्वद्विपृथक्त्वादिव्यवच्छेदार्थम्, द्वित्वादेरसमानजात्यारम्भकत्वाद्, द्विपृथक्त्वादेश्चाकारणत्वादिति ।
तथा ह्यदकावयवेषु वर्तमाना रूपादयः स्नेहपर्यन्ताः कार्ये तानारभन्ते । गन्धस्तु क्षित्यवयवेषु वर्तमानस्तदवयविनि गन्धमारभते । शब्दश्चाकाशे 10 वर्तमानस्तत्रैव शब्दमिति ।
सुखादयः प्रयत्नान्तास्त्वसमानजात्यारम्भका इति । असमानजातीयमेवारभन्त इति तदारम्भकाः, न त्वेत एव, अन्येषामपि सद्भावात् । तथा च सुखादिच्छा, द्वेषाद् द्वेषः, ताभ्यां प्रयत्नः, तस्मात् क्रियेति । ___संयोगादयः संस्कारान्ता: समानासमानजात्यारम्भका इति । समाना 15 जातिर्येषां ते समानजातयस्तत्प्रतिषेधेन चासमानजातयः । तानारभन्त इति तदारम्भकाः । एत एव समानासमानजात्यारम्भकाः, नान्ये । तथैते समानासमानजात्यारम्भका एव नियमेन । तथाहि, संयोगात् संयोगः, विजातीयञ्च बुद्ध्यादि । विभागाद् विभागः, विजातीयश्च शब्दः । संख्यातः संख्या विजातीयञ्च परिमाणम् । गुरुत्वाद् गुरुत्वं विजातीयञ्च पतनम् । द्रवत्वाद् 20 द्रवत्वं विजातीयञ्च स्यन्दनम् । उष्णस्पर्शाद् उष्णस्पर्शो विजातीयाश्च पाकजाः । ज्ञानाच्च ज्ञानं विजातीयाश्च संस्काराः । धर्माधर्माभ्यां धर्माधर्मों विजातीये च सुखदुःखे । संस्कारात् संस्कारो विजातीयञ्च स्मरणम् । स्वपराश्रयसमवेतारम्भकगुणोद्देशः बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः। 25 रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः ।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
संयोगविभागसंख्यकत्वैकपृथक्त्वगुरुत्वद्वत्ववेग
| সলিস্বিয়াঙ্কা। इदानीं स्वपराश्रयसमवेतारम्भकान् दर्शयति बुद्ध्यादयः शब्दान्ताः । स्वाश्रयसमवेतमेवारभन्त इति स्वाश्रयसमवेतारम्भकाः । न त्वेत एव उभयत्रारम्भकाणामपि सद्भावात् । तथाहि, बुद्धिरात्मनि वर्तते, तत्रैव ज्ञानं संस्कारहेतुर्भवति । सुखादिच्छा आत्मन्येव, दुःखाद् द्वेषस्तत्रैव । इच्छातः स्मरणप्रयत्नावात्मन्येव । तथा द्वेषादपि । भावनातो भावना स्मरणश्चात्मन्येव । शब्दश्चाकाशे वर्तमानस्तत्रैव शब्दमारभत इति ।
रूपादयः प्रयत्नान्ताः परत्रेति। परस्मिन्नेवारभन्त इति परत्रारम्भका 10 नत्वेत एव । तथा हि रूपरसगन्धस्पर्शपरिमाणस्नेहा: कारणेषु वर्तमानाः
परत्र कार्ये तानारभन्ते । तथा प्रयत्नः पुरुषे वर्तमानः परत्र हस्तादौ क्रियामारभते ।
___ संयोगादयोऽधर्मान्तास्तूभयत्रारम्भका: । एत एवोभयत्रारम्भकाः । तथैत उभयत्रारम्भका एव नियमेन । भेर्याकाशसंयोगो हाकाशे वर्तमान15 स्तत्रैव शब्दमारभते । भेरीदण्डसंयोगस्तु परत्र । तथा वंशदलाकाराविभागः
स्वाश्रये, वंशदलविभागस्तू परत्राकाशे शव्दारम्भकः । संख्या कारणे वर्तमाना द्वित्वत्रित्वादिका कार्ये परिमाणम् एकत्वसंख्या च । एकत्वं स्वाश्रये तु द्वित्वादिकमारभत इति । एकपृथक्त्वग्रहणं द्विपृथक्त्वादिव्यवच्छेदार्थम्,
तेषामकारणत्वात् । कारणेषु वर्तमानमेकपृथक्त्वं कार्येऽप्येकपृथक्त्वमारभते 20 स्वाश्रयेषु द्विपृथक्त्वादिकमिति। गुरुत्वद्रवत्ववेगास्तु कारणगताः कार्येऽपि
गुरुत्वादीनारभन्ते, स्वाश्रयेषु पतनस्यन्दनगमनक्रिया इति । धर्माधर्मों च स्वाश्रयसमवेते सुखदुःखे पराश्रये तु क्रियामारभेते। क्रियाहेतुगुणानामुद्देशः
___ गुरुत्वद्वत्ववेगश्यत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः । 25 इदानी क्रियाहेतूनाह गुरुत्वादिसंयोगविशेषान्ताः क्रियाहेतवः* इति ।
तथाहि, गुरुत्वात् पतनम्, द्रवत्वात् स्यन्दनम्, वेगाद् गमनम्, प्रयत्नाद्
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्यसाधर्म्यम् हस्तादौ क्रिया, धर्माधर्माभ्यामग्न्यादौ किया। संयोगविशेषास्तु नोदनाभिघातसंयुक्तसंयोगास्तेऽपि क्रियाहेतव एव । गुरुत्वादीनां गुरुत्वजनकत्वस्याप्युपलब्धेः । असमवाय्यादिकारणगुणोद्देशः, अकारणगुणकथनञ्च
रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणकपृथक्त्व
स्नेहशब्दानामसमवायित्वम् । बुद्धिसुखदुःखेच्छाषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वम् । संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम् ।
परत्वापरत्वाद्विक्त्वादीनामकारणत्वम् । इदानीमसमवायिनिमित्तोभयथाकारणान्याह रूपादिशब्दान्तानामसमवायि- 1 कारणत्वम् इति ।
अथ किमिदमसमवायिकारणत्वं नाम? प्रत्यासन्नस्य कार्यजनकत्वम् । यद् यस्य प्रत्यासन्नं सज्जनकत्वेनोपलब्धसामर्थ्यं व्याप्त्या तत् तस्योत्पत्तावसमवायिकारणम् ।
का पुनरियं प्रत्यासत्तिः ? एकार्थसमवायः । सा तु भिद्यते कार्यकार्थ- 15 समवायलक्षणा कार्यकारणैकार्थसमवायलक्षणा चेति । कार्येण सहकस्मिन्नर्थे समवायो लक्षणं चिह्नमस्या इति तल्लक्षणा। यथा शब्दस्य शब्दोत्पत्ताविति। कार्यशब्दो ह्याकाशे वर्तते तत्रैव कारणशब्दोऽपीति कार्यकार्थसमवायोऽस्य प्रत्यासत्तिरिति । तथा बुद्ध्याद्युत्पत्तावात्मान्तःकरणसंयोगस्य । स ह्यात्मनि वर्तते बुद्ध्यादयोऽपि तत्रैवेति ।
20 नन्वेवं बद्ध्यादीनामपि स्वकार्योत्पत्तावेकार्थसमवायित्वादसमवायिकारणत्वमेव न निमित्तत्वम् ? नैष दोषः । संयोगस्याशेषकार्योत्पत्ती व्याप्त्या सामोपलब्धेः, न चैवं बुद्ध्यादेरन्यतरस्येति । तस्य प्रतिनियतकार्योत्पत्तावेव सामर्थ्यावधारणात् । आत्मान्तःकरणसंयोगस्त्वशेषबुद्ध्यायुत्पत्तावुपलब्धसामर्थ्य मिति स एवासमवायिकारणम् । न जातुचिन्मनःसंयोगादृते 25 बुद्ध्यादयो भवन्तीति । तथा च सुषुप्त्यवस्थावसाने विज्ञानादिकमुत्पद्यत इति मनःसंयोगस्तत्र कारणम् ।
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
व्योमवत्यां
नन्वेवमपि धर्माधर्मयोरशेषबुद्ध्याद्युत्पत्ती व्याप्त्या कारणत्वादसमवायित्वं स्यात् ? न । विभुविशेषगुणानां विशिष्टप्रत्यासत्तेरुपलम्भात् । यथा हि, शब्दः शब्दान्तरमारभमाणः स्वावरुद्धनभोदेशसमनन्तरमेवारभते नैकार्थसमवायित्वाद् देशान्तरे [ तथा सति] ब्रह्मभाषितस्याप्युपलम्भप्रसङ्गात् । तद्वद् धर्माधर्मावपि स्वावरुद्धात्मप्रदेशानन्तरं सुखदुःखादिकमारभेयाताम् इति स्वर्गादिस्थानेषु तदभावः स्यात्, आरभेते तु स्थानान्तरेष्वपि सुखदुःखादिकमिति निमित्तकारणत्वमेव । तस्मादात्मान्तःकरणसंयोग एव बुद्धयाधुत्पत्तावेकार्यसमवायितया असवायिकारणमिति स्थितम् ।
तथा कार्य रूपादि पटे वर्तते, पटश्च तन्तुषु, तद्गताश्च रूपादयस्त10 त्रैवेति कार्यकारणैकार्थसमवायस्तेषां प्रत्यासत्तिरिति ।
नन्वेवमपि तन्तुरूप रसाधुत्पत्तौ प्रत्यासन्नम्, रसश्च रूपोत्पत्तावित्यसमवायित्वं स्यात् ? न । जनकत्वमिति विशेषणात् । यद् यस्योत्पत्तौ प्रत्यासन्नं सज्जनकं तदसमवायिकारणम्। न चैवं रूपं रसाधुत्पत्तौ
कारणं तदनुविधानस्यादर्शनात् । यथा हि शुक्लाद् रूपाच्छुक्लं पीताच्च 15 पीतमिति कारणरूपानुविधानमस्ति नैवं रसादिनेति । नहि मधुरादम्लाद् वा
तच्छुक्लं पीतं वा रूपमित्यन्वयो गृह्यते । तस्मात् प्रत्यासत्तावपि नासमवायित्वम् कारणस्य सतस्तविशेषनिरूपणात् ।
न चैवं समवायिकारणे प्रसङ्गस्तस्योक्तप्रत्यासत्यभावात् । न हि कार्येण तत्कारणेन च सहकार्थसमवायस्तस्यास्ति, तत्रैव तत्कार्यस्य सम20 वायात् ।
तथाहि, रूपरसगन्धानुष्णस्पर्शपरिमाणस्नेहाः कार्यकारणैकार्थसमवायादेवासमवायिकारणम् । संख्या तु द्वित्वादिका परिमाणोत्पत्तौ कार्यकारणैकार्थसमवायेनासमवायिकारणम् । तथा कारणकत्वम् एकपृथक्त्वञ्च
कार्यकत्वैकपृथक्त्वोत्पत्ताविति । द्वित्वद्विपृथक्त्वाद्युत्पत्तावेकत्वैकपृथक्त्वा25 दीनां कार्यकाथंसमवायेनैवासमवायिकारणत्वमेव । एवं शब्दस्यापीत्युक्तम् ।
एतेषामसमवायिकारणत्वमेव, नत्वेतेषामेव, अन्येषामपि सद्भावात् । अत्र चानुष्णग्रहणमुष्णस्पर्शव्यवच्छेदार्थम्, तस्योभयथा कारणत्वात् ।
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणसामान्य साधर्म्यम्
बुद्धयादिभावनान्तानां निमित्तकारणत्वम् इति । समवाय्यसमवायिलक्षणरहितस्य जनकत्वम् । न चासिद्धं विशेषणं प्रत्यासन्नस्य बुद्ध्यादेजनकत्वादिति वाच्यम्, पूर्वोक्तन्यायात् । अवधारणन्त्वेतेषां निमित्तकारणत्वमेव, नत्वेतेषामेव ।
तथाहि बुद्धिर्ज्ञानं संस्कारोत्पत्तौ कारणम्, सुखमिच्छायाः, दुःखं 5 द्वेषस्य, इच्छाद्वेषौ प्रयत्नस्य स च क्रियायाः, धर्माधर्मौ सुखदुःखयोः, भावना स्मरणस्येति ।
१३
संयोगादिवेगान्तानामु * उभयथा कारणत्वम् इति । असमवायिनिमित्तकारणत्वमिति । एतेषामेवोभयथा कारणत्वम्, तथैतेषामुभयथा कारणत्वमेवेति नियमेन |
तथाहि, भेर्याकाशसंयोगस्यासमवायिकारणत्वम्, भेरीदण्ड संयोगस्य निमित्तत्वम् । एवं वंशदलाकाशविभागस्यासमवायिकारणत्वम्, वंशदलविभागस्य निमित्तत्वम् । उष्णस्पर्शस्योत्पत्तावसमवायिकारणत्वम्, पाकजेषु निमित्तत्वम् । एवं गुरुत्वद्रवत्ववेगानां कारणत्वम्, आश्रयान्तरे निमित्तत्वमिति ।
परत्वापरत्वद्विपृथक्त्वादीनामकारणत्वमित्यादिपदेन त्रिपृथक्त्वादीनां
स्वाश्रयक्रियोत्पत्तावसमवायि
संयोगविभागशब्दात्म विशेषगुणानां प्रदेशवृत्तित्वम् । शेषाणामाश्रयव्यापित्वम् ।
अपाकजरूपरसगन्धस्पर्शपरिमाणे करवेक पृथक्त्व सांसिद्धिकद्रवत्वगुरुत्वस्नेहानां यावद्द्रव्यभावित्वम् ।
For Private And Personal Use Only
ग्रहणम् ।
नन्वेतेषां ज्ञानाद्युत्पत्तावस्त्येव कारणत्वम् ? सत्यम् । तद्व्यतिरेकेणान्यत्राकारणत्वं विवक्षितमिति । समानजातीयारम्भकादिवाक्येऽपीदं
विशेषणमूह्यम् । एतेषामकारणत्वमेव, नत्वेतेषामेव, पारिमाण्डल्यादेरप्य- 20
कारणत्वात् ।
अव्याप्यवृत्तिगुणानां यावद्रव्यभाविगुणानाञ्चोद्देशः
10
15
25
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
व्योमवत्यां
शेषाणामयावद् व्यभावित्वञ्चेति । ___ इदानीं केषां प्रदेशवृत्तित्वमाश्रयव्यापित्वञ्चेत्याह *संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम* आश्रयाव्यापकत्वं विवक्षितम् ।
न तु प्रदेशेऽवयव वृत्तिः, निष्प्रदेशानां तदभावप्रसङ्गात् । एतेषामेवाश्रया5 व्यापित्वम्, एतेषां प्रदेशवृत्तित्वमेव ।
*शेषाणामाश्रयव्यापित्वम् इति। उक्तभ्योऽन्ये शेषास्तेषामाश्रयव्यापित्वम् । कथमेतत् ? आश्रयोपलम्भे सति तजिघृक्षायामवश्यं ग्रहणम् । यथा पटोपलम्भे रूपजिघृक्षायामवश्यं तद्ग्रहणमिति । येषान्त्वाश्रया
व्यापित्वं न तेषामाश्रयोपलम्भे, सत्यामपि जिघृक्षायामिन्द्रियार्थसन्निकर्षे 10 चावश्यं ग्रहणमस्ति । यथा पर्वतस्यापरभागत्तिनां संयोगो नावश्यं तदुपलम्भेऽप्युपलभ्यत इति ।
अपाकजादिस्नेहान्तानां यावद्रव्यभावित्वम् इति । यावद्रव्यं भवन्ति तच्छीलाश्चेति यावद्दव्यभाविनस्तेषां भावो यावद्रव्यभावित्वम्, आश्रये सत्यविनाशित्वमिति यावत् ।
*शेषाणामयाबद्रव्यभावित्वम् इति । उक्तेभ्योऽन्ये शेषास्तेषां सत्यप्याश्रये विनाश इति ।
इति गुणसाधर्म्यप्रकरणम् ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति ।
अथेदानीं वैधम्र्म्यं प्रतिनियतमाह * रूपादीनां सर्वगुणानां प्रत्येकमपरसामान्यसम्बन्धाद् रूपादिसंज्ञा भवन्ति * इत्यादि । रूपमादिर्येषां ते रूपादयस्तेषाम् । न ज्ञायते कियतामतः सर्वगुणानामिति । सर्वे च ते गुणाश्चेति सर्वगुणास्ते च रूपादय एवभिप्रेता नान्य इति, तेषाम् एकमेकं प्रति प्रत्येकम् । अपरसामान्यसम्बन्धादिति । गुणत्वापेक्षया अपरसामान्यं रूपत्वादि, तत्सम्बन्धाद् रूपादिसंज्ञा भवन्ति । रूपत्वसम्बन्धाद् रूपमिति संज्ञा, रसत्वसम्बन्धाच्च रस इति । एवमन्येष्वपीति ।
रूपवैधर्म्यम्
तत्र रूपं चक्षुर्ग्राह्यम् । पृथिव्युदकज्वलनवृत्ति, द्रव्याद्युपलम्भकम्, नयनसहकारि, शुक्लाद्यनेकप्रकारम् सलिलादिपरमाणुषु नित्यम्, पार्थिवपरमाणुष्वग्निसंयोगविरोधि, सर्वकार्यद्रव्येषु कारणगुणपूर्वकम्, आश्रयविनाशादेव विनश्यतीति ।
5
For Private And Personal Use Only
10
तत्रादा बुद्दिष्टत्वाद् रूपस्य सद्भावे प्रमाणं लक्षणम् आश्रयम् अर्थक्रिया - 15 भेदं नित्यत्वम् उत्पत्तिविनाशकारणञ्च दर्शयन्नाह * रूपं चक्षुर्ग्राह्यम् * इत्यादिना ।
" अनेकद्रव्येण 20
तत्र रूपमेव चक्षुर्ग्राह्यं न रसादि । रूपं चक्षुषैव गृह्यतेऽन्येन्द्रियपरिच्छेद्यं न भवतीत्यवधारणस्य प्रक्रमापेक्षितया न द्रव्यादौ चक्षुग्रह्यत्वप्रतिषेधः । तथाहि द्रव्यादेश्चक्षुर्ग्राह्यत्वसिद्धौ समवायात् स्वगतविशेषाच्च रूपं प्रत्यक्षम् " ( वै० सू० ४१११८ ), "एतेन रसादिषु ज्ञानं व्याख्यातम् " ( वै० सू० ? ) इत्यतिदेशे चक्षुर्ग्राह्यत्वाशङ्कायां तद्व्यवच्छेदार्थमेवावधारणं न द्रव्यादौ तद्वृत्तित्वप्रतिषेधपरम् । अभिप्रेतञ्च समुद्गीयमानावधारणं शाक्यैरिति वक्ष्यामो लैङ्गिकज्ञाने ।
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
सूत्रार्थस्तु, अनेकं द्रव्यं जनकमस्येतीत्यनेकद्रव्यं तेन सह समवायात् स्वगतविशेषनियतसद्भावे क्वचिद् रूपोपलब्धिर्यदभावाच्चानुपलब्धिः स एव सहकारिविशेषोऽपदिश्यते । तस्माच्च रूपं प्रत्यक्षम् । एतच्च रसनादिप्रत्यक्षे समानमिति ।
*पृथिव्युदकज्वलनवृत्ति* इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति । तथाहि, चक्षाह्यत्वं द्रव्यत्वस्याप्यस्तीति चक्षुषैव गृह्यत इति [ सावधारणं ] विशेषणम् । तथापि चक्षुषैव गृह्यते रूपत्वसामान्यमिति पृथिव्युदकज्वलनवृत्तिपदम् । पृथिव्यादिवृत्तित्वञ्चान्येषामप्यस्तीति नियमग्रहणम् । अतो रूपम्, इतरस्माद् भिद्यते, नियमेन पृथिव्युदकज्वलनवृत्तित्वे सति चक्षुषैव गृह्यमाणत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रसादिरिति।
___ * द्रव्याधुपलम्भकम् * इत्यर्थक्रियाकथनम्। द्रव्यादीनुपलम्भयतीति द्रव्याद्युपलम्भकम्, द्रव्योपलब्धेः कारणमिति। तथा “महत्त्वा
दनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्' (वै० सू० ४।११६) "तत्स15 मवायाच्च गुणादयोऽपि प्रत्यक्षाः" (वै० सू० ?) इत्युपलब्धौ रूपविशेषस्य कारणत्वमुक्तम् । पूर्वपदापेक्षमेतल्लक्षणमभ्यूह्यम् ।
*नयनसहकारी इति स्वगतरूपोत्कर्षाद् बाह्यरूपप्रकाशकमित्युपदर्शयति । न च पूर्वेणाविशेषः, करणस्थस्य रूपोत्कर्षस्याभिधानात्, प्राक्तनेन तु कर्मगतस्येति ।
*शुक्लाद्यनेकप्रकारम् इति भेदनिरूपणम् । तदप्यसाधारणमेव । *सलिलादिपरमाणुषु नित्यम् , विनाशकारणाभावात् । पार्थिवपरमाणुष्वग्निसंयोगविरोधि इति, अग्निसंयोगेन विरोधो विनाशोऽस्येति । न चानुत्पत्तिमतो विनाशः सम्भवतीत्यन्यस्योत्पत्तिविनाशकारणस्याभावाद् अग्नि
संयोगादेवोत्पद्यते । सर्वकार्येषु कारणगुणपूर्वप्रकमेणोत्पत्तिराश्रयविनाशा25 देव विनाश इति वक्ष्यामः पाजजरूपपरीक्षायाम् । रसवैधय॑म्
रसो रसनग्राह्यः, पृथिव्युदकवृत्तिः,जीवनपुष्टिबलारोग्यनिमित्तम् ।
20
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
रसनसहकारी, मधुराम्ललवणतिक्तकटकषायमेवभिन्नः । अस्यापि नित्यानित्यत्व निष्पत्तयः पूर्ववत् ।
*रसो रसनग्राह्यः इति सद्भावे प्रमाणम् । *पृथिव्युदकवृत्तिः इत्याश्रयनिरूपणम्, पूर्वपदापेक्षं वा लक्षणमिति । तथाहि, पृथिव्युदकवृत्तित्वमन्येषामप्यस्तीति रसनग्राह्यपदम् । रसनग्राह्यञ्च रसत्वादिसामान्यं भविष्य- 5 तीति पृथिव्युदकवृत्तिपदम् । अतो रसः, इतरस्माद् भिद्यते, पृथिव्युदकवृत्तित्वे सति रसनग्राह्यत्वात्, यस्त्वितरस्मादरसादेन भिद्यते न चासावेवम्, यथा गन्धादिरिति ।
___ *जीवनपूष्टिबलारोग्यनिमित्तम् इत्यर्थक्रियानिरूपणम्। जीवनन्तु उपभोगदायककर्मसचिवस्यात्मनः स्वशरीरावरुद्धेन मनसा संयोगः, तस्य तु 10 निमित्तम् शरीराप्यायननिमित्तत्वात् । पुष्टिरवयवोपचयः । सा च विशिष्टरसोपयोगाद भवतीति । तथाहि, रसोपयोगादान्तरेण तेजसा पूर्वद्रव्यनिवृत्तौ स्वतन्त्रेषु परमाणुषु श्यामादिनिवृत्तिद्वारेणोत्पन्नपाकजैद्वर्यणुकादिप्रकमेण शरीरारम्भः प्रतिक्षणमाहारोपयोगे सति द्रष्टव्यः । न चारभ्यारम्भकवादः सम्भवतीत्युक्तं पृथिव्यधिकारे। बलमुत्साहस्तस्य प्राणसंवर्धनद्वारेण निमित्तम् । 15 आरोग्यं रोगाभावस्तस्यापि निमित्तं विशिष्टरसोपयोगे सति तच्छवणात् ।
*रसनसहकारी* इति । स्वगतरसोत्कर्षाद् बाह्यरसस्याभिव्यञ्जक इत्युक्तं पूर्वम् ।
*मधुराम्ललवणतिक्तकटुकषायभेदभिन्नः' इति विभागः । सोऽप्यसाधारणत्वाल्लक्षणम् । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववदिति । 20 सलिलपरमाणुषु नित्यं पार्थिवेष्वग्निसंयोगादुत्पद्यते विनश्यति च । कार्येषु कारणगुणपूर्वः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः । गन्धवैधर्म्यम्
गन्धो घ्राणग्राह्यः, पृथिवीवृत्तिः, घ्राणसहकारी, सुरभिरसुरभिश्च, अस्याप्युत्पत्त्यादयः पूर्ववत् ।
2) *गन्धो घ्राणग्राह्यः इति सद्भावे प्रमाणम् । *पृथिवीवृत्तिः* इत्या
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
व्योमवत्यां
10
श्रयनिरूपणम, पूर्वपदापेक्षं वा लक्षणम् । तथा हि घ्राणग्राह्यत्वं गन्धत्वादेरप्यस्तीति पृथिवीवृत्ति रिति विशेषणम् । पृथिवीवृत्तित्वमन्यस्याप्यस्तीति घ्राणग्राह्यपदम् । ध्राणग्राह्यत्वे सति पृथिवीवृत्तित्वं लक्षणमिति ।
___ *घ्राणसहकारी* इति स्वगतगन्धोत्कर्षाद् बाह्यगन्धप्रकाशकमित्यर्थक्रियानिरूपणम् । पुनरपि *सुरभिरसुरभिश्च इति विभागः ।
*अस्याप्युत्पत्त्यादयः पूर्ववत् इति । परमाणुष्वग्निसंयोगादुत्पद्यते विनश्यति च । कार्ये तु कारणगुणपूर्वकः, आधारविनाशादेव विनश्यतीत्यतिदेशार्थः । स्पर्शवैधय॑म्
स्पर्शस्त्वमिन्द्रियग्राह्यः, पृथिव्युदकज्वलनपवनवृत्तिः, त्वक्सहकारी, रूपानुविधायी, शीतोष्णानुष्पाशीतभेदात् त्रिविधः । अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् ।
*स्पर्शस्त्वगिन्द्रियग्राह्यः' इति प्रत्यक्षपरिच्छेद्यत्वं दर्शयति । पृथिव्युदकज्वलनपवनवृत्ति :- इत्याश्रयनिरूपणञ्च चतुर्णा स्पर्शवत्त्वमित्यनेन न पुनरुक्तम् । तत्र द्रव्यधर्मस्याभिधानात्, इह तु स्पर्शधर्मस्येति । पूर्वपदापेक्षं वा लक्षणम् । तथा च पृथिव्यादिवृतित्वमन्येषामप्यस्तीति त्वगिन्द्रियग्राह्यपदम् । तद्ग्राह्यञ्च स्पर्शत्वादिसामान्यमिति पृथिव्यादिवृत्तिपदम् ।
यदि संख्यादीनामपि त्वगिन्द्रियग्राह्यत्वे सति पृथिव्यादिवृत्तित्वं सम्भाव्येत, अवधारणं कार्यम् । अतः स्पर्शः, इतरस्माद् भिद्यते, त्वगिन्द्रिय20 ग्राह्यत्वे सति नियमेन पृथिव्यादिचतुर्द्रव्यवृत्तित्वात्, यस्त्वितरस्माद् न भिद्यते न चासावेवम्, यथा रूपादिरिति ।।
___ त्वक्सहकारी* इति । स्वगतस्पर्शोत्कर्षात् त्वगिन्द्रियं बाह्यस्पर्शप्रकाशकमित्यर्थक्रियानिरूपणम् ।
अथ त्वगिन्द्रियं स्पर्शस्य प्रकाशकम् । कस्मात् ? संयुक्तसमवायात् । 25 त्वगिन्द्रियेण संयुक्तं द्रव्यं तत्समवायात् स्पर्शो गृह्यत इति । नन्वेवं संयुक्त
समवायस्याविशेषाद् रूपादिप्रकाशकमपि स्याद् विशेषो वा वाच्यः, तन्न, स्पर्शोत्कर्षवद् रूपाद्युत्कर्षस्याभावात् । तथाहि, रूपादिषु मध्ये स्पर्शस्यैवो
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
पलम्भान्यथानुपपत्त्या ज्ञायते नियामकं कारणम्, नियमहेतुं बिना नियतस्य कार्यस्यानुपपत्तेः । तत्र स्पर्शोत्कर्षो नियामकः स्पर्शत्वं वा विषयगतम् । नचैतद् रूपादिषु सम्भवतीति स्पर्शत्वस्य तत्रासम्भवात् । रूपाद्युत्कर्षस्यापि त्वगिन्द्रियेण कार्याभावेनैवाभावप्रसिद्धेः । तथा च सूत्रकारेणाप्युक्तम् "रूपादिषु स्पार्शनं ज्ञानमिति कस्मान्न भवतीति तदभावात्” (वै० सू० ?) 5 स्पर्शत्वसामान्यस्याभावात्, यत्रैव स्पर्शत्वसामान्यं तत्रैव स्पार्शनं ज्ञानमिति । व्यतिरेको लभ्यत एव । स्पर्शत्वाभावस्तु त्वगग्राह्यत्वाभावस्य ज्ञापको न कारक इति । न च विशिष्टसन्निकर्षव्यतिरेकेणान्या योग्यता सम्भाव्यते, अन्वयव्यतिरेकाभ्यां तस्यैव व्यापारोपलब्धेरित्यलम् ।
___ रूपा विधायी इति साहचर्यं दर्शयति । रूपमनुविदधाति तच्छीलश्चेति 10 तदनुविधायी। यत्र रूप तत्रावश्यं स्पर्श इति । एवं रसगन्धानुविधायित्वमपीति । *शीतोष्णानुष्णाशीतभेदात् त्रिविधः' इति विभागकथनम् । *अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् इति । सलिलादिपरमाणुषु नित्यः पार्थिवेष्वग्निसंयोगविरोधी। कार्येषु कारणगुणपूर्वकस्तद्विनाशाद् विनश्यतीत्यतिदेशार्थः । रूपादोनां पाकजोत्पत्तिप्रकारः
पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् । अथेदानों पार्थिवपरमाणुरूपादीनाम् इति परीक्षाशेषनिवर्तनाप्रकरणम् । तथा हि रूपादीनां पूर्वमुद्देशलक्षणाभिधानेऽपि (स्पर्शो ?) न परीक्षितः, प्रतिज्ञातञ्च तदतः परीक्षार्थमिदमारभ्यते । पृथिव्या इमे पार्थिवाः । १०
नन् चात्र भेदानुपपत्तेः कथं षष्ठी, तद्धितप्रत्ययश्चेति । तयोर्भेदे सत्यपलम्भात् ? न । कार्यरूपायाः पृथिव्या विवक्षितत्वात्, तज्जनकाश्च परमाणवस्ततो भिन्ना एवेति पार्थिवा इत्युच्यन्ते । जातिर्वा पृथिवीशब्देन विवक्षिता, तस्या इमे तत्सम्बन्धिनः पार्थिवाः । ते च ते परमाणवश्च तेषां रूपादय इति । आदिपदेन रसगन्धस्पर्शा एव गृह्यन्ते, न संख्यादयः, तत्परीक्षाशेष- परत्वेनैव सम्बन्धात् ।
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्या
___ अतस्तेषां पाकजोत्पत्तिविधानम् प्रकार इति । अथ पाकाज्जाताः पाकजा इत्युत्पत्त्यर्यस्य जनिना प्रतिपादितत्वाद् व्यर्थमुत्पत्तिग्रहणम् ? न। उत्तरपदेन सम्बन्धात् । तथाहि, पाकजानामुत्पत्ति रेव विधीयतेऽनेनेति विधानं प्रमाणमुपेयम् । पूर्वगुणविलक्षणानां रूपादीनामुत्पत्तिः कार्ये सैव 5 प्रमाणमिति वक्ष्यामः ।।
यद्वा पच्यतेऽनेनेति पाकस्तेजोद्रव्यम्, पच्यत इति वा पाकः पार्थिवपरमाणवश्चेति पाको ताभ्यां जातः पाकजः, पार्थिवपरमाण्वग्निसयोगस्तस्मादुत्पत्तिः पार्थिवपरमाणुरूपादीनां श्यामादिविनाशश्चेत्युत्तरवाक्यसामर्थ्यात् ।
अन्ये तु श्यामादिविनाशोऽध्याहारेण लभ्यत इति मन्यमानाः पच्यतेऽनेनेति पाकोऽग्निसंयोगः, तस्माज्जातः पाकजः, श्यामादिविनाशः । तत एव पाकादुत्पत्तिविशिष्टरूपादीनामिति कष्टव्याख्यानं कुर्वते । तच्चासत् । अध्याहारादेर्दूषणस्यापरिहारात् ।
न चाभिव्यक्तिनिवृत्त्यर्थमुत्पत्तिग्रहणमिति वाच्यम्, परमतस्याप्र15 सिद्धत्वात्। तत्र प्रथमं कार्यद्रव्यविनाशप्रकारः
घटादेरामद्रव्यस्याग्निना सम्बद्धस्याग्न्यभिधातानोदनाद्वा तदारम्भकेष्त्रणषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः; विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति ।
अथ केन प्रकारेण पाकजा जायन्त इत्युपदर्शयति *घटादेरामद्रव्यस्य इत्यादिना। घटादेरित्यादिपदेन शरीरादेरप्यवरोधः । तत्र हि पाकजोत्पत्तिपरिज्ञानात् तदासक्तिनिवृत्तौ विरक्तस्य श्रेयः सम्पद्यत इति । आमद्रव्यस्येति पक्वव्यवच्छेदार्थम्।
यद्यपि पार्थिवपरमाणुष्वहेतुकस्य रूपादेरसम्भवात् तेऽपि पाकादुत्पन्ना25 स्तथापि विशिष्टरूपापेक्षया श्यामादय इत्युच्यन्ते । तदाश्रयस्यामद्रव्यस्य ये
आरम्भकाः पारम्पर्येण परमाणवस्तेषु कर्माण्युत्पद्यन्ते । कुतः ? *अग्न्यभिघातान्नोदनाद् वा ।
20
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
अभिघातस्तु वेगापेक्षः परस्परविभागहेतोरेकस्य कर्मणः कारणम् । नोदनन्तु अविभागहेतोरनेकस्येति वक्ष्यामः कर्माधिकारे ।
अन्ये तु घटस्यादिव्यणुकं तदारम्भकाः परमाणवः साक्षादिति मन्यन्ते ।
तत्र कर्मोत्पत्तावणवः समवायिकारणं तत्संयोगोऽसमवायिकारणं वेगादि निमित्तकारणमिति । तेभ्यो विभागास्ते तु द्रव्यारम्भकसंयोगप्रति- 5 द्वन्द्विनः । तत्राप्यसमवायिकारणं कर्म, परमाण्वो: समवायित्वं शेषं निमित्तकारणमिति । *विभागेभ्यः संयोगविनाशाः । तेषां समवाय्यादिकारणानुपलब्धेनिमित्तादेवोत्पत्तिः । न ह्यभावः समवेतः क्वचिदुत्पद्यमानो दृष्ट: ।
अत एवासमवायिकारणं नास्ति, एकार्थसमवायाभावात् । निमित्तकारणन्तु अन्वयव्यतिरेकाभ्यां व्याप्रियमाणं तदुत्पत्तावुपलब्धम् । संयोगविना- 10 शेभ्यः कार्यद्रव्यं व्यणुकलक्षणं विनश्यतीति । जात्यपेक्षयैकवचनम् । परमाणुषु पूर्वरूपनाशानन्तरं पाकजरूपाद्युत्पत्तिः
तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुध्वग्निसंयोगाद् औषण्याक्षात् श्यामादीनां विनाशः, पुनरन्यस्मादग्निसंयोगाद् औषण्यापेक्षात् पाकजा जायन्ते। घटतद्रूपादोनामुत्पत्तिः
तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्वयणुकादिक्कमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः ।
तस्मिन् विनष्टे परमाणुष्वन्यस्मादग्निसंयोगात् श्यामादीनां निवृत्तिः। 20 * पुनरन्यस्मादग्निसंयोगाद् औष्ण्यापेक्ष्यात् पाकजा जायन्ते * तत्र परमाणुः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणम्, उष्णस्पर्शी निमित्तकारणमिति ।
___ *तदनन्तरम् रक्ताद्युत्पत्तिक्षणानन्तरम् । उत्पन्नपाकजेष्वणुषु समवेतानि कार्याणि उत्पद्यन्ते । असमवायिकारणमाह *आत्माणुसंयोगात्- 25 अदृष्टापेक्षात् । अदृष्टञ्च केषामित्याह *भोगिनाम् इति ।
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
व्योमवत्या
___ कर्मोत्पत्तौ सत्यामनन्तरं विभागाः, तेभ्यः संयोगविनाशाः, ततः परमाणूनां परस्परेण संयोगाद् व्यणुकान्युत्पद्यन्ते । तत्र परमाण्वोः समवायित्वम्, तत्संयोगस्यासमवायिकारणत्वम्, शेषं निमित्तमिति, तदादिक्रमेण कार्यमुत्पद्यत इति । त्रिभिव्यणुकैस्त्र्यणुकमारभ्यते । त्र्यणुकैश्चानियमेन स्वकार्य5 मिति तावद् यावद् घट: । सर्वत्र कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति ।
ननु सर्वमेतदसम्बद्धम्, एतस्मिन् क्रमे प्रमाणाभावात् । तथाहि,
(१) परमाणौ क्रियायाः सद्भावे प्रमाणाभावात् तत्कार्यस्यासिद्धौ तद्वयणुकस्य विनाशे न प्रमाणमस्ति ।।
(२) अग्निसंयोगस्य नानात्वे, द्रव्यविनाशे, श्यामादिनिवृत्तौ, रक्ताधु10 त्पत्तो, उत्पन्नपाकजेषु क्रियाक्रमेण तद्वयणुकस्यैवोत्पत्तिरिति सर्व प्रमाणशून्यमेव ।
(३) बाधकोपपत्तेश्च । तथा ह्यापाकनिक्षिप्तेषु घटादिषु कुलालस्य छिद्रप्रदेशेन निरीक्षमाणस्याक्षजं विज्ञानम् ‘घटः पच्यते' इति । न चेदं संशय
विपर्ययस्वरूपम्, तल्लक्षणालक्षितत्वात्, बाधकानुपपत्तेश्च ।। 15 (४) तथा पाकोत्तरकालं ‘स एवायं घटः' इत्यबाध्यमानस्य प्रत्यभिज्ञानस्योपलब्धेः ।
(५) अवस्थानम् । उपरिस्थापितानाञ्च तृणकर्परादीनामपाताच्चावस्थायित्वम् । यदि हि परमाणवः पच्येरन् ऊर्ध्वस्थापितानां कर्परादीनाम् पातः स्यात्, परमाणुनाञ्च धारणसामर्थ्याभावात् ।।
(६) तद्देशत्वतत्परिमाणत्वतत्संख्यात्वोपलब्धेश्च । यदि चोत्पन्नपाकजाः परमाणवो व्यणुकादिप्रक्रमेण घटादिकमारभेरन् तद्देशं, तावत् परिमाणम्, तत्संख्या च न स्यात्, नियमहेतोरभावात् । दृष्टश्चायं नियमस्तस्मिन्नेव देशे, तावत्परिमाणम्, तत्संख्या च। एवं घटादीनामवस्थायित्वम् ।
(७) न च घटादेविनाशे कादिभिर्विना पुनरूत्पत्तिर्युक्ता । अथेश्वरादेः 25 सद्भावाद् युक्तमिति चेत् । तथा हीश्वरः कर्ता कारणम्, अदृष्टादिपरमाणवः
कर्मेति । नैतद् युक्तम् । क्षित्यादिकार्येष्विवास्मदादिसम्बन्धादितः कार्यानपेक्षस्य घटादिसम्पादनेऽपि सामर्थ्यानिवृत्तेः कुलालव्यापारवैयर्थ्यमेव स्यात् ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
(८) आवरणाभावश्च । तथाहि वेगादग्निसम्बन्धादवयवक्रियाक्रमेण घटादेर्विनाशस्तथा वेगाच्च चक्षुः सम्बन्धात् काचाभ्रस्फटिकादेः क्रियाक्रमेण विनाशे तद्व्यवहितेन सम्बद्धस्य चक्षुषः प्रकाशकत्वमित्यावरणाभावः स्यात् । अथ स्वच्छतया स्फटिकादिद्रव्यमिन्द्रियव्यवधायकं न भवतीत्युपपन्नमेवावृतस्यापि ग्रहणम् । तर्हि घटादिद्रव्यमपि तथास्वभावतया तेजोद्रव्यव्यवधायकं न भवतीत्यणु प्रवेशादन्तर्देशेऽप्युपपद्यत एव पाकः । अन्यथा ह्यावृतानावृतयोस्तुल्योपलब्धिः स्यात्, आवरणाभावस्योभयत्राविशेषात् ।
२३
(९) यदि चाणुप्रवेशाद् द्रव्यस्य विनाशस्तहि बहिर्देशे शीतस्पर्शोपलम्भान्यथानुपपत्त्या उदकस्य निःसरणाद् आधारस्य विनाशे तत्पातः स्यात् । अथ सच्छिद्रद्रव्यमित्युदकस्य निःसरणम्, तर्हि तन्मार्गेणैव तेजोऽणुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इति किं तद्विनाशेनेत्यलम् ।
सर्वमेतदबाधकमनैकान्तिकत्वात् । तथा ह्युदकपरिपूर्ण घटे वेगवत् सुचीद्रव्यसम्बन्धादवश्यं कण्ठप्रदेशे क्रिया । सा चोत्पन्ना द्रव्यारम्भकसंयोगप्रति द्वन्द्वनं विभागमारभत इति प्रत्यक्षसिद्धम् । तस्मात् संयोगविनाशे तदारब्धस्य द्रव्यस्य निवृत्तिः, तस्यापि द्रव्यान्तरारम्भकत्वात् तनिवृत्तौ तदारब्धनिवृत्तिरिति विनाशकारणसान्निध्याद् घटस्य विनाशः । अन्यथा हि विनाशकारणसान्निध्येऽप्यविनाशे कार्यस्य नित्यत्वमेव स्यात् । उपलभ्यते तु घट इति अवस्थित संयोगैर्द्रव्यान्तरारम्भो निश्चीयते ।
तत्र च प्रत्यक्षं 'स एवायम्' इति प्रत्यभिज्ञानम् न व्यावृत्तम् । उपरिस्थापितद्रव्यस्य पातः, तद्देशत्वम्, तत्संख्यात्वम्, तत्परिमाणत्वम्, प्रत्यक्षेण च कर्त्रादेरनुपलब्धिस्तत्रास्तीत्यनेकान्तादसाधनम् । न च घटस्य विनाशेऽप्युदकस्यानाशितत्वं पातो वा दृश्यत इति (?) ।
For Private And Personal Use Only
परमाणुष्वेव रूपादीनामुत्पत्तिः
न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति, सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् । अणुप्रवेशादपि व्याप्तिर्न सम्भवति कार्यद्रव्यविनाशादिति ।
5
10
15
20
25
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
व्योमवत्यां
__ अथ परमाणुषु पाकजा जायन्त इति किमत्रास्मदादीनां प्रमाणम् ? घटादिषु पूर्वगुणविलक्षणस्य गुणान्तरस्योत्पाद इति । स च घटादिषु वर्तमानः कथं परमाणुषु पाकजा जायन्त इति गमयेत्, तत्राग्निसंयोगेन तथानुपपत्तेः ? तदेवाह न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति । कस्मात् ? सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् । तथाहि, अवयवी सर्वावयवेषु अन्तर्बहिश्च वर्तते । न चान्तर्देशेऽग्नेरनुप्रवेशोऽस्तीति व्याप्त्या सम्बन्धाभावाद् अपाकप्रसङ्गः ।।
अथ सूक्ष्मस्य तेजसोऽनुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इत्याह अणुप्रवेशादपि व्याप्तिर्न सम्भवति । कस्मात् ? *कार्यद्रव्यविनाशादिति । 10 तथाहि, वेगवद्र्व्यसम्बन्धस्य अन्यत्र क्रियाहेतुत्वेनोपलम्भाद् इहाप्यवयवे
क्रियाजनकत्वम् । सा चावयवान्तरेण विभागं द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनमारभते । तस्मात् संयोगनिवृत्तौ तदारब्धस्य कार्यद्रव्यस्य विनाशे तदारब्धस्यापि निवृत्तिरितिक्रमेण धटस्याप्यवश्यं विनाशः । ।
अथ घटावयवाः पत्र्यन्ते ? तत्राप्यन्तर्देशे पाको न स्यादिति तेजोऽणु15 प्रवेशेन विनाशः । तदेवमुत्तरोत्तरावयवेषु अग्न्यणुप्रवेशात् तद्विनाशे स्वतन्त्राः परमाणवः पच्यन्ते ।
न च कार्यद्रव्ये पूर्वरूपादीनामवस्थाने रक्ताद्युत्पत्तिः स्यात्, गुणवति गुणान्तरप्रतिषेधात् । अतो रक्ताद्युत्पत्त्यन्यथानुपपत्त्या ज्ञायते पूर्वरूपादि
निवृत्तिः । सा चाश्रयविनाशादेव कार्यद्रव्ये । तथा च सूत्रम् "रूपरसगन्ध20 स्पर्शा द्रव्यानित्यत्वादनित्याः” (वै० सू० ?) इत्याश्रयविनाशेन विनाशो
ऽभिहितः । “कार्यद्रव्येऽग्निसंयोगाच्च' (दै०सू० ?) "एतेन नित्येष्वनित्यत्वं व्याख्यातम्'' (दै० सू० ?) इत्यग्निसंयोगस्य नित्येष्वेव रूपादिनिवर्तकत्वमुक्तम् । अतः कार्यद्रव्ये गुणान्तरप्रादुर्भावात् पूर्वरूपादिनिवृत्तियिते । सा चाश्रयविनाशादेव, अग्निसंयोगस्य नित्यविषयत्वेन नियमात् ।
एवं कपालानामप्यवस्थाने पूर्वरूपाद्यनिवृत्तौ रक्ताद्युत्पत्तिर्न स्यात् । अतः कार्येऽपि कारणरूपानुविधायितया श्यामादिकमुत्पद्यते । तदेवं तत्कारण
25
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाकजोत्पत्तिप्रकरणम्
कारणेष्वपि पूर्वगुणविलक्षणस्य गुणान्तरस्योत्पत्तिर्वाच्या । अन्यथा हि तत्कार्येष्वपि न स्यात् । ___सा चोत्पत्तिः पूर्वरूपादीनामवस्थाने न घटते, रूपवति रूपान्तरारम्भप्रतिषेधादिति पूर्वरूपादिनिवृत्तिर्वाच्या । सा चाश्रयविनाशादेवेति सकलस्यापि कार्यद्रव्यस्यापि विनाशः ।
न च परमाणुष्वपि पूर्वरूपादीनामवस्थाने रक्ताद्य त्पत्ति: स्यात् । तदभावात् ढ्यणुकस्यापि कारणगुणपूर्वक्रमेण श्यामादिकमेवोत्पद्यत इति विलक्षणरूपाद्यसम्भव एव । दृष्टश्च कार्ये गुणान्तरप्रादुर्भावस्तेन परमाणुषु रूपादिनिवृत्तौ रक्ताद्युत्पत्तिरिति । न च तत्राश्रयस्य विनाशः सम्भवतीत्यग्निसंयोगस्यैव निवर्तकत्वम्, कारणान्तरस्यासम्भवात् तस्यैवोत्पादकत्वमिति । 10
यदपीदं 'सच्छिद्रद्रव्यम्' इत्युक्तं तत्र यदि कपालरन्ध्रापेक्षया ? तस्यान्तर्देशे पाको न स्यात् । अथ तदवयवरन्नापेक्षया ? तस्यान्तर्देशे पाकाभावः । तदेवमुत्तरोत्तरावयवेष्वपि वाच्यं तावद् यावद् व्यणुकम् ।
अथ तस्यान्तर्देशाभावात् पाको भविष्यतीति ? न । तस्यापि वेगवदग्निसम्बन्धेन अवश्यं विनाशोपपत्तेः । श्यामादिविनाशश्च विना रक्ताद्युत्पत्तिन 15 स्यात् । तद्विनाशश्वाश्रयविनाशादेवेत्युक्तपूर्वम् । स च संयोगविनाशात्, सोऽपि विभागात्, विभागश्च क्रियात इति गुणान्तरप्रादुर्भाव एव क्रियादिक्रमास्तित्वे प्रभाणमिति । ___अत्र तु प्रयोगः पार्थिवपरमाणुरूपादयः, संयोगजाः, विभागजविभागशब्दजशब्दान्यत्वानित्यत्वे सति नित्यस्य विशेषगुणत्वात्, सुखादिवत् । 20 विभागजविभागशब्दजशब्देन व्यभिचारपरिहारार्थ तदन्यत्वे सतीति । सलिलादिपरमाणुरूपादिव्यवच्छेदार्थञ्च अनित्यपदम्। सामान्यगुणव्यवच्छेदार्थं विशेषगुणग्रहणम् । अनित्यव्यवच्छेदश्च नित्यपदेनेति ।
अन्ये तु घटादिगता रूपादयः, पारम्पर्येणाग्निसंयोगजाः, साक्षाद् घटमानत्वे सति अग्निसंयोगतद्भावभावित्वेनोत्पद्यमानत्वात्, श्रूयमाणाग्नि- 25 शब्दवत् (?) इत्यनुमानं ब्रुवते । न चासिद्धं विशेषणमुक्तन्यायात् ।
यच्चेदं अग्निसंयोगस्य नानात्वे प्रमाणाभाव इति । एतदसत् । तस्यैव
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
कार्यभेदेन नानात्वोपचारात् । यदा श्यामादिनिवर्तिका बह्नौ क्रियोत्पन्ना तदा प्राक्तनाकाशादिदेशेन विभागमारभते, तदैव तदवयवे रक्ताद्युत्पादके च वह्नौ कर्मेत्येक: काल: (१), ततो विभागात् संयोगविनाशोऽवयवकर्मणा
च अवयवान्तराद् विभागः क्रियते, रक्ताद्युत्पादकाग्निकर्मणा च आकाशादि5 देशेनेत्येकः काल: (२), ततः श्यामादिनिवर्तकस्याग्नेः परमाणुना संयोगः,
श्यामादीनां विनश्यत्ता, अवयवविभागाच्च द्रव्यारम्भकसंयोगविनाशः, श्यामाधुच्छेदकस्याग्नेविनश्यत्ता, रक्ताद्युत्पादकस्याग्ने: प्राक्तनसंयोगविनाश परमाणुना च संयोगस्योत्पद्यमानतेत्येकः काल: (३), ततः श्यामादीनां
विनाशस्तदुच्छेदकस्याग्नेविनाशः (कर्म ?) संयोगस्य विनश्यत्ता, रक्तादिजनक10 स्याग्निसंयोगस्योत्पादो, रक्तादीनामुत्पद्यमानतेत्येकः काल: (४), ततो रक्ता
दीनामुत्पादः श्यामादिनिवर्तकाग्निसंयोगस्य विनाश (५) इति अग्निसंयोगस्य नानात्वम् । न च श्यामाद्य च्छेदकाग्निसंयोगस्य विनश्यदवस्थत्वाद् रूपाद्य त्पत्तावसमवायिकारणत्वमिति ।
अन्ये तु श्यामादिनिवर्तकस्याग्नेः कर्मसमकालं तदवयवेऽपि कर्मसञ्चिन्त15 नात् श्यामादिनिवृत्तिसमकालमेव तत्संयोगस्य विनाश इति ब्रुवते ।
अथोत्पन्नपाकजेषु क्रियाक्रमस्य सद्भावे किं प्रमाणम् ? कार्यद्रव्यस्योत्पत्तिरेव । अन्यथा हि क्रियामन्तरेण परस्परमप्राप्तानां द्रव्यारम्भकत्वं न स्यात्।
.. अथ परमाणूनां व्यणुकारम्भकत्वमेवेति प्रमाणाभाव: ? तन्न, एकत्व20 [मितर? वत्] बहुत्वपक्षे बाधकसद्भावात् द्वित्वसंख्योपेतानामेवारम्भकत्व
प्रसिद्धेः । तथाहि, बहूनामारम्भकत्वे शतादिसंख्योपेतानामप्यारम्भकत्वमेव स्यात् । एवञ्च सति घटादिकार्य परमाणुभिरारब्धमिति चेत् । भङ्गेऽवान्तरकार्यस्यानुत्पन्नत्वादुपलम्भो न स्यात् । उपलभ्यते तु घटस्य विनाशे तदवयवा इति, तदवयवेऽपि तदवयवा इति द्व्यणुकादिक्रमेणारम्भो निश्चीयते ।
अथ "द्रव्याणि द्रव्यान्तरमारभन्ते'' (वै० सू० १११।१०) 'संयोगानां द्रव्यम्” (वै० सू० १।१।२७) इति च सूत्रव्याघातः ? न । द्विवचनबहुवचनाभ्यां विग्रहाश्रयत्वात् । तथाहि, द्रव्ये च द्रव्याणीत्येकशेषः । कार्यद्रव्या
25
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
पेक्षया तु बहुवचनम् । बहूनि कार्यद्रव्याण्येव द्रव्यमारभन्ते । द्वित्वसंख्योपेतान्येव च नित्यानि, न तु नित्यान्येव, कार्यद्रव्येऽपि सद्भावात् ।
न चैकस्य क्रमयोगपद्याभ्यामारम्भकत्वम्, एकस्वभावत्वात् । तथा ोकः परमाणु क्रमेण कार्य करोति, समर्थस्य क्षेपायोगात्, युगपत् कृत्वा पुनरकरणे हेत्वभावः ।
न च समानपरिमाणतायां कार्यकारणभावो दृष्ट :, क्षणभङ्गप्रतिषेधात्, कारणविभागाभावादविनाशित्वं कार्यद्रव्यस्य च प्रसज्यते ।
तथा संयोगश्च संयोगौ च संयोगाश्चेति संयोगाः । तेषां द्रव्यं कार्यमिति नित्यापेक्षया संयोगस्यैव कार्यद्रव्ये चानियम इत्यविरोधः ।
तदेवं द्वित्वसंख्योपेताः परमाणवः कार्यद्रव्यमारभन्ते, एकत्वबहुत्वपक्षे 16 बाधक प्रमाणसावे सत्यारम्भकत्वात् । 'द्वित्वन्तु व्यणुकारम्भकः, तन्तु द्वितमवत् । न हि बहुभिस्तन्तुभिद्वितन्तुकमारभ्यते, नाप्येकेनेति सविशेषणस्य हेतोरसभावः ।
अथ व्यणुकानि द्वित्वादिसंख्योपेतानि अनियमेन किमिति कार्यं नारभन्ते ? बाधकोपपत्तेः । तथा हि द्वयोव्यणुकयोरारम्भकत्वेऽणुपरिमाणोत्पत्ता- 15 वेव कारणत्वमस्तीति व्यर्थारम्भप्रसङ्गः ।
न च व्यणुकद्वयस्य कारणपरमाण्वपेक्षया बहुत्वं सम्भवतीति वाच्यम् । (कारणं ?) न, कारणावृत्तिबहुत्वस्य परिमाणोत्पत्तावकारणत्वात् । कारणवृत्ति च बहुत्वं महत्त्वोत्पत्तौ कारणमिति दृष्टम् । अन्यथा हि व्यणुकेऽपि महत्त्वं स्यात् अकारणापेक्षितया बहुत्वस्य तत्रापि सम्भवात् । तथा 20 (व्यणुक ?) व्यणुकस्यापि बहुत्वसंख्योपेतस्येव महदारम्भकत्वमिति। परं द्व्यणुकस्यैतत् कल्पनीयमिति । एकस्य चारम्भकत्वं प्रतिषिद्धम् । __ अथ चतुष्ट्वादिसंख्योपेतानामनियमेनारम्भकत्वमिति नेप्यते, साक्षाद्घटाद्यारम्भकत्वप्रसङ्गात् । तद्भङ्गे च अवान्तरकार्यस्यानुपलब्धिरेवानुत्पन्नत्वात् । न च बहुत्वं बिना महत्त्वं सम्भाव्यत इति त्रित्वसंख्योपेतानामेवा- 25 रम्भकत्वम् । तथाहि, व्यणुकानि, त्रित्वसंख्योपेतान्येव द्रव्यमारभन्ते, द्वित्वचतुष्टवादिपक्षे बाधकप्रमाणसद्भावे सति आरम्भकत्वात्, त्रितन्तुकारम्भ तन्तुत्रितयवत् ।
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
व्योमवत्यां
अत्र तु कियता कालेन व्यणुके रूपाद्युत्पत्तिरिति क्रिया निरूप्यते ।
(१) तत्र स्वकारणाद् व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनां विनश्यत्ता, रक्ताद्य त्पाद
काग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाण्वोराकाशादि5 देशेन संयोगस्य विनश्यत्तेत्येषामेकः कालः ।
(२) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, श्यामाद्य च्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताधु त्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानतेत्येषामेकः काल: ।।
(३) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्य विनाशः, रक्तादीनामुत्पादः, रक्ताद्युत्पादकाग्निसंयोगस्य विनश्यत्ता, तथोत्तरसंयोगस्येत्पादः, विभागविभागजविभागकर्मणां विनश्यत्ता, क्रियाया उत्पद्यमानतेत्येषामेकः कालः ।
(४) ततस्तत्कार्यविनाशः, तत्कार्यस्य विनश्यत्ता, विभागविभागज15 विभागकर्मणां विनाश:, रक्ताद्य त्पादकाग्निसंयोगस्य विनाशः, क्रियाया उत्पादः, विभागस्योत्पद्यमानतेत्येषामेक: काल: ।
(५) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागस्योत्पादः, संयोगस्य विनश्यत्तेत्येषामेकः कालः ।
(६) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, संयोगस्य विनाशः, 20 उत्तरसंयोगस्योत्पद्यमानतेत्येकः काल: ।
(७) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, उत्तरसंयोगस्योत्पादः, द्वयणुकस्योत्पद्यमानता, विभागकर्मणोविनश्यत्त्येत्येषामेकः कालः ।
(८) ततस्तत्कार्यस्य विनाशात् तत्कार्यस्य विनश्यत्ता, द्वयणुकस्योत्पादः, रूपादीनामुत्पद्यमानता, विभागकर्मणोविनाश इत्येषामेकः कालः ।।
(९) तत उत्पन्ने द्वयणुके कारणगुणपूर्वप्रक्रमेण नवमे क्षणे रूपाद्य त्पत्तिरिति।
यदा तु कार्यविनाशविशिष्टं [कालम्] अपेक्ष्येत्यस्य द्रव्यनाशविशिष्टं
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
२९ कालम् अपेक्ष्य कारणयोर्वर्तमानो विभागः कार्यसंयुक्ताकाशदेशेन विभागमारभत इति व्याख्यातम्, तदा श्यामादिनिवृत्तिसमकालं विभागजविभागसञ्चिन्तनात् दशमे क्षणे द्वयणुके रूपाद्युत्पत्तिरिति चिन्तनीयम् ।।
तथा च द्वयणुकविनाशे श्यामादिनिवृत्तिः, ततो रक्ताद्य त्पत्तिः, उत्तरसंयोगः, क्रियाविभागसंयोगविनाशः, परमाणूनाञ्च संयोगाद् व्यणुकोत्पत्तो कारणगुणपूर्वप्रक्रमेण रूपाद्य त्पत्तिरिति । शेषं पूर्ववदिति । इदमेकस्मिन् परमाणौ द्रव्योत्पादिका तद्विनाशिकेति च क्रियाद्वयमधिकृत्योक्तम् ।
यदा त्वेकस्मिन् परमाणौ द्रव्यविनाशिकान्यस्मिश्च द्रव्योत्पादिकेष्यते तदा कथम् ?
(१) तत्र द्रव्यारम्भकसंयोगविनाशसमकालं द्वितीयपरमाणौ द्रव्या- 10 रम्भकं कर्म, ततो द्रव्यारम्भकसंयोगविनाशाद् व्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामाधु च्छेदकाग्निसंयोगस्योत्पादः, श्यामादीनामुच्छिद्यमानता, रक्ताद्य त्पादकाग्निसंयोगस्योत्पद्यमानता, विभागजविभागस्योत्पादः, परमाणोराकाशादिदेशेन संयोगस्य विनश्यत्ता, द्वितीयपरमाणी विभागस्योत्पादः प्राक्तनसंयोगस्य विनश्यत्तेत्येषामेकः कालः ।
(२) ततस्त्र्यणुकस्य विनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, तदुच्छेदकाग्निसंयोगस्य विनश्यत्ता, रक्ताद्य त्पादकाग्निसंयोगस्योत्पादः, रक्तादीनामुत्पद्यमानता, आकाशद्व्यणुकसंयोगस्य विनाशः, तस्य परमाणोराकाशादिदेशेन संयोगस्योत्पद्यमानता, द्वितीयपरमाणौ प्राक्तनसंयोगविनाशः, परमाणुना च संयोगस्योत्पद्यमानतेत्येषामेकः कालः।
20 (३) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, श्यामाद्य च्छेदकाग्निसंयोगस्य विनाशः, रक्तादीनामुत्पादः, परमाणोराकाशादिदेशेन संयोगस्योत्पादः, विभागजविभागकर्मणोविनश्यत्ता, द्वितीयस्य परमाणोः परमाण्वन्तरेण संयोगस्योत्पादः, तद्विभागकर्मणोविनश्यत्ता, व्यणुकस्योत्पद्यमानतेत्येषामेकः कालः ।
(४) ततस्तत्कार्यविनाशात् तत्कार्यस्य विनश्यत्ता, विभागजविभागकर्मणां विनाशः, द्वितीयपरमाणावपि विभागकर्मणोविनाशः, व्यणु
15
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
३०
15
www.kobatirth.org
व्योमवत्यां
तथा द्व्यणुकविनाशसमकालं द्वितीयपरमाणौ कर्मसञ्चिन्तनात् षट्क्षणा पाकजोत्पत्तिः । तथा श्यामादिनिवृत्ति समकालं कर्मचिन्तायां सप्तक्षणा । रक्ताद्य त्पत्तिसमकालं [कर्मचिन्तनात् ] अष्टक्षणा । तदनन्तरञ्च [कर्मचिन्तायां ] नवक्षणा इत्यादि चिन्त्यम् ।
तत्रादौ द्व्यणुकानि पक्वापक्वैरपि परमाणुभिरारभ्यन्त इति पक्वापक्वान्युत्पद्यन्ते । ततस्तैस्त्र्यणुकमित्यादिप्रक्रमेण घटस्य पक्वापक्वस्योत्पादः । ततः पुनरनुत्पन्नपाकजेषु क्रियादिक्रमेण द्रव्यविनाशे स्वतन्त्रेषु परमाणुषु रक्ताद्युत्पत्तिः । ततः पुनः क्रियाक्रमेण उत्तरसंयोगोत्पत्तौ द्व्यणुकान्युत्पद्यन्ते । तत्र च कारणगुणपूर्वप्रक्रमेण पक्वेष्वेव रूपाद्युत्पद्यते । तैस्त्र्यणुकं पक्वमेवारभ्यते । पुनद्व्यणुकान्तरेष्वप्येवमेव क्रमेण रूपाद्युत्पत्तिः, ततस्त्र्यणुकादेरिति वाच्यम्, यावद् घटे विशिष्टरूपाद्य त्पत्तिरिति ।
नन्वग्निसम्बन्धस्यापि शेषाद् अनुत्पन्नपाकजेष्विव परमाणुत्पन्नपाकजेष्वपि क्रिया किमिति नेष्यते ? घटादेरनुत्पत्तिप्रसङ्गात् । यदि च परमाणुपूत्पन्नपाकजेषु आरब्धकार्येषु क्रिया स्यात्, प्रतिक्षण मुत्पत्त्यनन्तरं व्यणुकादिविनाशे घटादेरुत्पत्तिर्न स्यात् ।
अथ सर्वेषां परमाणूनां पाके सति द्व्यणुकादिप्रक्रमेण घटाद्युत्पद्यत 20 इति मनुषे, तदसत् । उपरि स्थापितानां कर्पूरादीनां पातप्रसङ्गात्, परमाणूनां धारणसामर्थ्याभावात् । न चैतदस्ति । तस्मात् कार्योत्पत्त्यन्यथानुपपत्त्या ज्ञायते, अनुत्पन्नपाकजेष्वेव क्रियोत्पद्यते नोत्पन्नपाकजेषु, उपभोगप्रापकादृष्टस्य नियामकत्वादित्यलमतिविस्तरेण ।
Acharya Shri Kailassagarsuri Gyanmandir
कस्योत्पादः, रक्तादीनामुत्पद्यमानतेत्येषामेकः कालः ।
(५) ततो द्व्यणुकोत्पत्त्यनन्तरं पञ्चमे क्षणे कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिरिति ।
अथ द्व्यणुकत्र्यणुकादीनां पक्वापक्वानामुत्पादपूर्वं पुनः पक्वानामेवेति 25 कल्पनायां किं प्रमाणम् ? कार्यस्य तथादर्शनमेव । तथाहि घटादिकार्यमादौ पक्वापक्वमुपलभ्यते, पुनः पक्वमेवेति कारणकारणेष्वप्यनुमेयः । अत्र च प्रयोगः, द्व्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः पार्थिवद्रव्यस्यारम्भकत्वात्,
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संख्या वैधर्म्यप्रकरणम्
कपालवत् । तथा च त्र्यणुकमादौ पक्वापक्वमुत्पद्यते, महतः (?) पार्थिवद्रव्यस्य कार्यत्वात्, घटवदिति ।
"
Acharya Shri Kailassagarsuri Gyanmandir
न च युगपदशेषपरमाणुषु कर्मोत्पत्तिद्वारेण पाकजोत्पत्तिर्व्याख्येया, शीघ्रपाकानुपलब्धेः उपरि स्थापितानाञ्च पातप्रसङ्गाच्चेति ।
संख्या वैधम्
३१
एकत्वादिव्यवहारहेतुः संख्या ।
सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता ।
For Private And Personal Use Only
5
अथेदानीमुद्देशक्रमेणावसरप्राप्तायाः संख्याया लक्षणपरीक्षार्थम् *एक- 10 त्वादिव्यवहारहेतुः संख्या * इत्यादिप्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, व्यवहियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः संस्येत्युच्यमाने सर्वेऽपि पदार्थास्तथाभवन्तीत्येकादिग्रहणम् । तथाप्येकादिरूपस्य व्यवहारहेतुत्वमाकाशात्मनोविद्यत इति विशेषणत्वे सतीति विशेषणमूह्यम् । तथाप्येकत्वादिसामान्यम् एवं भवतीति द्रव्यविशेषणत्वे सति इति पदम् [ऊह्यम् ] । तथाहि, संख्या, इतरेभ्यो भिद्यते, द्रव्यविशेषणत्वे सत्येकादिव्यवहारहेतुत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
तत्र संख्यायास्त्वाश्रयद्वारेण भेदनिरूपणार्थं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थञ्च * सा पुनरेकद्रव्या चानेकद्रव्या च इति वाक्यम् । एकमेव द्रव्यमाश्रयोऽस्या इत्येकद्रव्या । अनेकमेव [ द्रव्यम् ] 20 ( अत्रापि नश्यद्रूपाया: ?) आश्रयोऽस्या इत्यनेकद्रव्या *तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः इत्यतिदेशं करोति ।
15
ननु चात्र नित्यत्वे साध्ये हेतुर्नास्ति, अनित्यत्वे तु दृष्टान्ताभाव इति न्यूनं वाक्यम् ? न । व्यतिरेकमुखेन हेतोर्लाभात्, विग्रहभेदेन दृष्टान्तस्येति । तथाहि निष्पद्यमानत्वाद् अनित्यत्वमित्युक्ते सामर्थ्याद् गम्यत एवानिष्पद्य- 25 मानत्वेन नित्यत्वमिति । दृष्टान्तोऽपि सलिलमादौ यस्यासौ सलिलादिस्तस्य परमाणवः, तद्रूपादीनामिव नित्यत्वम् । यथा हि सलिलादिपरमाणुषु अनि -
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
व्योमवत्यां
पद्यमानत्वाद् रूपादयो नित्यास्तद्वद् एकत्वं नित्येष्वनिष्पद्यमानत्वेनैव नित्यमिति ।
अनित्यायान्तु सलिलस्यादिपाठापेक्षया पृथिवी, तस्याः परमाणवस्तद्रू पाणामिवेति । दृष्टान्तस्तु यथा हि पार्थिवपरमाणुरूपादयो निष्पद्यमानत्वाद् 5 अनित्यास्तद्वदेकत्वं कार्येषु निष्पद्यमानत्वादनित्यमिति ।
न च पार्थिवपरमाणुरूपादीना मिव एकत्वादीनामग्निसंयोगादुत्पत्तिः, वैलक्षण्याप्रतिपत्तेः । स्पर्शे तु वैलक्षण्याप्रतिपत्तावप्यग्निसंयोगजत्वेऽनुमानमुक्तं पृथिव्यधिकारे । न च तत्सामान्यगुणेषु सम्भवतीति ।
अन्ये तु सलिलञ्च तदादिपरमाणवश्चेति तच्छब्दलोपेन समासं 10 कुर्वते । अनित्यत्वे सलिलरूपादि दृष्टान्तः, नित्यतायाञ्च तदादिपरमाणुरूपमित्यलम् ।
अनेकद्रव्या तु, द्वित्वमेव आदिर्यस्याः सा, द्वित्वादिका । परार्धमेवान्तेऽवसाने यस्याः सा परार्धान्ता । न हि परादू मियत्ताव्यवहारः सम्भवती
त्यागमे पठ्यते। 15 द्वित्वोत्पत्तिविनाशकारी
तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद विनाश इति । कथम् ? यदा बोद्धश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्वसामान्ये
ज्ञानोत्पत्तावेकत्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्य एकत्वगुणयोरनेकविष20 यिणी एका बुद्धि रुत्पद्यते एकत्वसामान्यबुद्धेश्च विनश्यत्ता, ततस्तामपक्ष्यैकत्वान्यां स्वाश्रययोद्वित्वमारभ्यते ।
*तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः, अपेक्षाबुद्धिविनाशाद विनाशः इति संक्षेपेणोत्पत्तिविनाशकारणं दर्शयति । नन चात्र
बहत्वनिर्देशाद द्वित्वोत्पत्तिर्न लभ्यते। न हि द्वित्वमेकत्वेभ्यो भवतीति । 25 न। द्विवचनबहुवचनाभ्यां विग्रहाश्रयणात् । तथा टेकत्वेऽनेकत्वानि चेत्येक
शेषः, प्रकृतिसारूप्यस्य विवक्षितत्वात् । वचनसारूप्येण त्वेकशेषाभ्युपगमे धवखदिरादिष्वेकशेषप्रसङ्गः स्यात् । अत एकत्वेभ्योऽनेकत्वसंख्योत्पत्तिरित्य
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
गुणवैधयंप्रकरणम् नेन द्वित्वोत्पत्तिाख्यातैव ।
किंविशिष्टेभ्य इत्याह अनेको विषयो यस्याः सा अनेकविषया, सा चासौ बुद्धिश्च तया सहितान्येकत्वानि तेभ्यः । निष्पत्तिरित्यपेक्षाकारणनिर्देशः । ___अन्ये तु त्रित्वाद्युत्पत्तिरेवात्र सङ्ग्रहवाक्ये विवक्षिता। द्वित्वोत्पत्तिश्चोपरिष्टाद् भविष्यतीति मन्यन्ते । तच्चासत् । त्रित्वाद्य त्पत्तेरप्युपरि सद्भा-" वेनानर्थक्यप्रसङ्गात् ।
एवञ्च संक्षेपेणोत्पत्तिविनाशकारणे प्रज्ञापिते विशेषाकाक्षितया अज्ञस्य प्रश्नः कथमिति । केन रूपेण उत्पत्तिश्च विनाशश्च भवतीत्याह *यदा बोद्धः* इत्यादि । तथाहि, बुध्यत इति बोद्धा, तस्य बोद्धुरात्मनश्चक्षुषा सह समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सतीत्यनियमं दर्शयति *समाना- 10 समान इति समानजातीययोरसमानजातीययोश्च द्रव्ययोः सन्निकर्षे सतीति । *तत्संयुक्तसमवेतसमवेतैकत्वसामान्य ज्ञानमुत्पद्यत इति । तेन चक्षुषा संयुक्तं द्रव्यं, तत्समवेतमेकत्वगुणम्, तत्समवेतञ्च तदेकत्वसामान्यम्, तस्मिन् ज्ञानमुत्पद्यते पूर्व, विशेषणत्वात् । तथाहि, विशेषणज्ञानमादौ, कारणत्वात्, विशेष्यज्ञानन्तु पश्चात्, कार्यत्वात् ।
अतएव एकत्वसामान्यज्ञानोत्पत्तौ सत्याम्, एकत्वसामान्यञ्च तत्सम्बन्धश्च, तज्ज्ञानञ्चेति एकत्वसामान्यतत्सम्बन्धतज्ज्ञानानि, तेभ्योऽनेकविषयिण्येका बुद्धिरुत्पद्यते । अनेकश्चासौ विषयश्चेत्यनेकविषयः, सोऽस्या विद्यते इत्यनेकविषयिणी । एका च न विषयभेदेऽपि भिद्यते ।
कश्चासावनेको विषय इत्याह एक [त्व] गुणयोः' इति । एक [व] 20 गुणश्चैक त्व] गुणश्चेत्येक [त्व गुणयोविषयभू तयोर्यथोक्ता बुद्धिरुत्पद्यते । *एकत्वसामान्यबुद्धेश्च विनश्यत्ता । *ततस्तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोद्वित्वमारभ्यते अत्र च स्वाश्रययोरिति समवायिकारणनिर्देशस्तथा एकत्वाभ्यामित्यसमवायिकारणस्य, तामपेक्ष्यति अपेक्षाबुद्धनिमित्तकारणत्वम् । एकत्वसामान्यज्ञानस्य च विनाशः ।
ततः पुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते । ततः पुद्वित्वसा
25
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
व्योमवत्यां
मान्यज्ञानाद् अपेक्षाबुद्धविनश्यत्ता, द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पत्तिरित्येकः कालः ।
ततः समुत्पन्ने द्वित्वे तत्संयुक्तसमवेतसमवायाद् द्वित्वसामान्य ज्ञानमुत्पद्यते पूर्वम्, विशेषणत्वात् । तस्मात् सामान्यज्ञानाद् अपेक्षाबुद्धविनश्यत्ता विनाशकारणसान्निध्यम् । ज्ञानस्य ज्ञानान्तरविरोधित्वात् । द्वित्वसामान्यतज्ज्ञानतत्सम्बन्धेभ्यो द्वित्वगुणबुद्धरुत्पद्यमानतेति । द्वित्वसामान्याद्, द्वित्वसामान्यज्ञानाद् द्वित्वसामान्यगुणसम्बन्धाद् द्वित्वगुणबुद्धरुत्पद्यमानता उत्पत्तिकारणसान्निध्यम् इत्येषामेकः काल: ।
द्वित्वविनाशप्रकारः
तत इदानीमपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता, द्वित्वगुणबुद्धितः सामान्यबुद्धेविनश्यत्ता, द्वित्वगुणतज्ज्ञानतत्सम्बन्धेभ्यो वेद्रव्ये इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः।।
तत इदानीमपेक्षाबुद्धविनाशः । तद्विनाशाद् द्वित्वगुणस्य विनश्यत्ता द्वित्वगुणबुद्धेरुत्पादस्तत्सामान्यबुद्धेरपि विनश्यत्ता। द्वित्वगुणतज्ज्ञानतत्स15 म्बन्धेभ्यः' इति । द्वित्वगणश्च तज्ज्ञानञ्च तत्सम्बन्धश्चेति तथोक्तास्तेभ्यो निमित्तेभ्य: 'द्वे द्रव्ये' इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः ।
तदनन्तरं 'दे द्रव्ये' इति ज्ञानोत्पादः, द्वित्वस्य विनाशः, द्वित्वगुणबुद्धविनश्यत्ता, द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्येकः कालः ।
तदनन्तरं द्रव्यज्ञानस्योत्पादः, तस्माद् द्वित्वगुणबुद्धेविनश्यत्ता, 20 सामान्यबुद्धविनाशोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनाशः, संस्कारस्योत्पद्यमानतेत्येषामेकः कालः ।
तदनन्तरं द्रव्य [सामान्यात् ? ज्ञानाद] द्वित्वगुणबुद्धविनाशः, द्रव्यबुद्धरपि संस्कारादिति ।
___ततः संस्कारोत्पादे सति द्रव्यबुद्धेः (विनश्यत्ता ?) गुणबुद्धेविनाशः, 25 ततो द्रव्यबुद्धेरपि संस्काराद् विनाश इति ।
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
३५ ननु सर्वमेतदसम्बद्धम्, संख्यासद्भावे प्रमाणाभावात् । अथैकं द्वे त्रीणि इत्यादिव्यवहारः प्रमाणम् । तन्न । अस्य कल्पनाज्ञानत्वात् । न च कल्पनाज्ञानमर्थव्यवस्थापनायालम्, तदभावेऽपि भावात् । तथाहि, निमित्तनिर्विकल्पकज्ञानक्रमेण स्मरणानन्तरं सविकल्पकं ज्ञानमुत्पद्यते, न चार्थस्यावस्थानम्, क्षणिकत्वाद् इति निविषयत्वम् ।
बाधकोपपत्तेश्च । तथा ह्य त्पद्यमानं द्वित्वादि न द्रव्योत्पत्तेः पूर्वमुत्पद्यते, तदभावात् । न समकालम्, कार्यकारणभावानुपपत्तिप्रसङ्गात् । अथोत्तरकालम् ? तत्रापि किं तत् स्वभावाद् विपरीताद् वेति । तत्स्वाभाव्ये किं द्वित्वादिना, द्रव्यस्यैव तत्स्वरूपत्वात् । विपर्यये तु, कथं तत्स्वभावात् तस्योत्पत्तिः, एकस्माद् बहुभ्यश्च द्वित्वोत्पत्तिप्रसङ्गात्, तत्स्वभावतायाः 10 सर्वत्राविशेषात् ।
तथा वृत्त्यनुपपत्तेश्च । द्वित्वमनेकस्मिन् वर्तमानमेकदेशेन सर्वात्मना वा वर्तते ? नैकदेशेन, तदभावात् । न सर्वात्मना, उभयवृत्तित्वाभावप्रसङ्गात् । न च येनैव स्वरूपेणैकवृत्तिस्तेनैव द्रव्यान्तरेऽपि, तयोरेकताप्रसङ्गाद् इति वृत्त्यनुपपत्तेरसत्त्वम् ।
तथोपलब्धिलक्षणप्राप्तस्य सर्वैरग्रहणात् । यदि हि द्वित्वादेः सत्त्वम्, उपलब्धिलक्षणप्राप्तत्वाद् रूपादिवत् सर्वपुरुषैर्गृह्यत, न तूपलभ्यते, तस्मान्नास्तीति ।
___ समानेन्द्रियग्राह्यत्वाच्च । येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति न ततोऽर्थान्तरम् । भेदे तु रूपादीनामिव असमानेन्द्रियग्राह्यत्वमपि स्यात् । 20
इतोऽप्यसत्त्वं देशभेदेनानुपलब्धेः, तदनहे तद्बुद्ध्यभावाच्च, तथा ग्रहणानुपपत्तेश्च । तथाहि, द्वित्वमनेकत्र वर्तमानं कथमिन्द्रियेण परिच्छिद्येत, युगपत् सन्निकर्षद्वयस्य मनसानधिष्ठितत्वात् । अथ चक्षुरधिष्ठीयते, तथाप्यनेकपदार्थग्रहणप्रसङ्गः, तस्य मनोऽधिष्ठितस्यानेकपदार्थ : सम्बन्धात् ।
__ यथा च संख्यासम्बन्धाद् द्रव्येष्वेकादिव्यवहारस्तथैकत्वादिगुणेष्वप्येका- 25 दिव्यवहारे निमित्तान्तरकल्पनायां तत्राप्येकादिव्यवहारस्य सम्भवादन
15
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
व्योमवत्या
वस्थाप्रसङ्गः । अथैकत्वादावेकादिव्यवहारस्तत्स्वरूपतया ? द्रव्येऽपि तथाभावप्रसङ्गः । अथैकत्वादिसामान्ये तत्सामान्यानुपपत्तेरेकादिव्यवहारः ? [तच्च] कल्पनाज्ञानमिति।
तदेतत् सर्वभसाम्प्रतम् । एकादिव्यवहारस्य बाधकासम्भवेन प्रामाण्यात् । 5 तथा ह्य कादिज्ञानमर्थान्वयव्यतिरेकानुविधानानीलादिज्ञानवदर्थजम् । न
चार्थाधीनतया निर्विकल्पकज्ञानोत्पत्तिसमकालमेव तस्योत्पत्तिः, सङ्केतस्मरणस्य सहकारिणोऽभावात् । नापि स्मृतिजमेव, अर्थस्यापि तत्र व्यापारोपलब्धेः । न च स्मृतेरतिशयाधायकत्वमनतिशयनिवर्तकत्वं वा, किन्तु अर्थ
सद्भावे सति ज्ञानजनकत्वमेव । 10 न चार्थस्येन्द्रियाणां वा अविचारकत्वात् प्रागिव पश्चादप्यजनकत्व
मिति दूषणम् । तथा वृत्त्यनुपपत्तेः, देशभेदेनाग्रहणात्, तदग्रहे तबुद्धयभावाच्चेति, पूर्वमेवावयविसमर्थनावसरे प्रतिषेधात् ।
न चाबाध्यमानमपि एकादिज्ञानम् अप्रमाणमिति न्याय्यम्, नीलादिज्ञानस्याप्यप्रमाणताप्रसङ्गात् । अथ नीलं विना तज्ज्ञाने न स्यान्नीला15 कारता ? तदेकत्वादिज्ञानेऽपि समानम् ।
अथैकत्वादिज्ञानं शब्दाकारम्, न चार्थे तद्रूपतास्तीति निर्विषयत्वम्, न । नीलज्ञानस्यापि शब्दाकारतया निविषयताप्रसङ्गात् ।
__ अथाद्यं नीलज्ञानं निर्विकल्पकमर्थजम्, उत्तरन्तु सविकल्पकमनेकक्षणव्यवधानाद् अर्थापायेऽप्युत्पद्यते, अर्थस्य क्षणिकत्वाच्छब्दाकारातायाश्च तत्रा20 सम्भवादिति निविषयत्वमिष्यत एव ।
तदसत् । क्षणिकत्वस्य पूर्वमेव प्रतिषेधात् । निर्विकल्पकज्ञानोत्पत्ताविवार्थस्य सविकल्पकज्ञानोत्पत्तावन्वयव्यतिरेकाभ्यामिन्द्रियेण सङ्केतस्मरणेन च सहकृतस्य व्यापारोपलब्धः। तथाहि, इदन्तया ज्ञानोत्पत्तेस्त
बेन्द्रियस्य व्यापारो निश्चीयते, अगुल्या व्यपदिश्यमानत्वाद् अर्थस्य चेति । 25 अन्यथा हीन्द्रियार्थयोरेकादिज्ञानोत्पत्तौ व्यापारमन्तरेण इदन्तयोपलब्धि
रङगुल्यादिना च व्यपदेशो न स्यात् । अथेन्द्रियज्ञानं मनोविज्ञानक्रमेण
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
३७
सविकल्पकज्ञानोत्पत्तौ कारणमिति, इदन्तयोपलब्धिरङ्गुल्यादिना व्यपदेशो नार्थजाविति चेत्, न । एतस्मिन् क्रमे प्रमाणाभावात् ।
अथ सङ्कल्पात् सद्भावसिद्धेरन्यथा एकादिव्यवहारो न स्यादित्येषा कल्पना क्रियते, तदसत् वृत्तिविकल्पादेर्बाधकस्य पूर्वमेव प्रतिषेधात् । संख्यासद्भावसिद्धावेकादिव्यवहारस्य साक्षादर्थजत्वोपपत्तेः ।
शब्दाकारता· तु सविकल्पकज्ञाने न सम्भवत्येव, साकारवाद प्रतिषेधस्य वक्ष्यमाणत्वात् । केवलन्तु स्मृतिजनितत्वात् सविकल्पकं ज्ञानं शब्दोल्लेखेनोत्पद्यते, निर्विकल्पकन्तु उल्लेखशून्यम्, सङ्केतस्मृतेरव्यापारात् ।
न च वासनाप्रभवत्वम्, वासनायाः पूर्वमेव प्रतिषेधात् । तथाहि, बोधव्यतिरेकेणान्या वासना न सम्भवतीत्युक्तमेव अवयवसमर्थनावसरे । या तु वैशेषिकोपगता स्मृत्यनुमेया वासना सा न कारणमेकादिव्यवहारे, तस्याः परोक्षकारणतया स्मृतिविलक्षणत्वात् । तथाहि एकादिज्ञानम् अपरोक्षम् इन्द्रियव्यापारेण इदन्तयोत्पद्यते, न च स्मृतेरेतद्रूप [त्व ] मस्तीति न वासनाप्रभवम् । तथा इत्थम्भूतवासनाप्रभवत्वेऽपि परम्परयार्थव्यवस्थापकत्वम्, अर्थानुभवपूर्वकत्वाद् वासनायाः । या तु एकत्वादिशब्देभ्यो विकल्पाद् 15 वासना सापि अर्थं व्यवस्थापयत्येव, शब्दस्यानुभवपूर्वकत्वेनाभ्युपगमात्, 'दृष्टे दृष्टवादित्वम्' इत्यनेन ।
यत्तु उत्पत्तिविकल्पनाद् एकत्वादेरसत्वमित्युक्तम्, तदसत्, उत्तरकालं तदुत्पत्त्यभ्युपगमात् । अथ किं तत् स्वभावाद् विपरीताद् वेत्युक्तम्, तत्र यदि तत्स्वाभाव्यं तदुत्पादनसामर्थ्यं विवक्षितम्, तदिष्यत एव । अर्थकत्वाद्याश्रयत्वं तन्नास्ति, उत्पत्तेः पूर्वं तदभावात् । सिद्धे च संख्यासद्भावे प्रमाणतस्तस्याः कार्यं द्रव्ये कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यम् । तत्र च एकत्वद्वित्वाद्याश्रयस्य तज्जनकत्वे तदभावः स्यात्, दृष्टा चोत्पत्तिः, तस्मात् द्रव्यमितरकारकोपचितम् तेषां कारणमिति उत्पत्ति विकल्पानुपपत्तिः ।
For Private And Personal Use Only
यच्चेदम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्द्वित्वादेरसत्वमिति, तन्न, असिद्धत्वात् । तथा च यदीयया अपेक्षाबुद्ध्या सम्पादितं द्वित्वादि तस्यैवोप
5
10
20
25
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
लब्धिलक्षणप्राप्तम्, न पुरुषान्तरस्य, तस्यैव तदुपलम्भात् । यत्रोपलम्भस्तत्रैव रूपिद्रव्ये समवायिकारणत्वमिष्टं न तदभावेऽपीति । तस्मान्न सकलपुरुषापेक्षया तदुपलब्धिलक्षणप्राप्तमित्यसिद्धो हेतुः ।
यच्चेदम, एकत्वादेर्न द्रव्यव्यतिरेकेणास्तित्वं समानेन्द्रियग्राह्यत्वादिति । 5 तत्र प्रतिज्ञावाक्ये पदयोाघातः, यथा इदञ्च नास्ति चेति । न चैकत्वादेः
पक्षीकरणं युक्तम्, अप्रसिद्धत्वात् । प्रसिद्धञ्च पक्षीक्रियमाणं दृष्टं शब्दादि, न च परस्यैकत्वादि प्रसिद्धमिति ।
अथ परव्याप्त्या परस्यानिष्टापादनं प्रसङ्गसाधनमिति चेत्, तत्र यदि प्रमाणपूर्विका परप्रसिद्धिस्तयैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य । 10 अथाप्रमाणपूविका, तहि प्रमाणं विना प्रमेयस्याप्रप्तिद्धेरेक त्वादीनां पक्षीकरणमयुक्तम्।
तथा समानेन्द्रियग्राह्यत्वादिति । येनेन्द्रियेण द्रव्यमुपलभ्यते तेनैव संख्यापीति साधनस्य रूपादिभेदैरनैकान्तिकत्वम्। तथाहि, येनैवेन्द्रियेण शुक्ल रूपस्य
ग्रहणंतेनैवपीतादेः, न च तस्य तस्माद भेदोऽसत्त्वं वेति । न च परस्य द्रव्यं प्रसिद्ध15 मिति कथं तस्मादभेद: साध्यते ? अथ रूपमेव द्रव्यम् ? न तर्हि समानेन्द्रियग्राह्यत्वम् रूपस्यकेन्द्रियग्राह्यत्वात्, संख्यायास्तु द्वीन्द्रियपरिच्छेद्यत्वादिति ।
अथ रूपादिसमुदायो द्रव्यम्, तथापि समानेन्द्रियग्राह्यत्वमसिद्धम्, रूपादेः प्रतिनियतेन्द्रियग्राह्यत्वात् । न च रूपादीनां प्रतिनियतेन्द्रिय
ग्राह्यत्वाद् भेदः, शुक्लादिभेदानामेकताप्रसङ्गात् । किं तर्हि ? प्रतिभासभेदात्, 20 स चेहाप्यस्त्येव । तथा टेकत्र द्रव्यप्रतिभासोऽन्यत्र चैकत्वादिप्रतिभास
इति । अथ संख्याद्रव्ययोः प्रत्यक्षेण भेदप्रसिद्धरेकतासाधनं प्रत्यक्षेण बाध्यमानत्वात् कालात्ययापदिष्टं भवतीति ।
__ यच्चेदम्, उत्पन्नस्य द्वित्वादेर्ग्रहणानुपपत्तेरसत्त्वम्, तदसत्, इन्द्रियव्यापारेणास्य द्वित्वादेरपरोक्षस्य दृष्टत्वात् । न च मनसानधिष्ठितस्येन्द्रियस्य 25 परिच्छेदकत्वं युगपज्ज्ञानोत्पत्तिप्रसङ्गात् । अतश्चक्षुर्मनसाधिष्ठीयते । न
सम्बन्धस्तेषाम्, अणुपरिमाणसम्बन्धितया न युगपदधिष्ठायकं मन इति द्वित्वादेरग्रहणमेव स्यात् । अस्ति च ग्रहणमतश्चक्षुरेव मनसाधिष्ठीयते ।
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैधप्रकरणम्
नन्वेवमप्यनेकपदार्थसम्बन्धाद् युगपदनेकज्ञानोत्पादकं स्यात् ? न । करणस्यैकप्रत्ययनिर्वृत्तौ सामर्थ्यात् । तथा ह्य ेकं करणमेकस्मिन् कालेऽनेकां क्रियां न करोतीति, तस्माद् युगपत् प्रकाशनमेव घटादीनां न ग्रहणानीत्युक्तपूर्वम् ।
३९
यच्चेदम्, एकादिव्यवहारो गुणान्तरात् स्वभावाद् वेत्युक्तम्, तत्रैकत्वसामान्यवशादिति ब्रूमः । तथाहि द्रव्ये गुणसम्बन्धाद् एकादिव्यवहारो गुणे 5 च सामान्यसम्बन्धाद् सामान्येऽपि गुणसम्बन्धात् । न च ग्रहणपरम्परा, विशेषणज्ञानस्य नियमेन ज्ञानपूर्वकत्वानभ्युपगमात् । अथ संयुक्तसमवेतसमवायाद् एकत्वसामान्ये ज्ञानमुत्पद्यते, विशेषणत्वादित्युक्तम् । अनेकगुणविषयस्य विशेष्यज्ञानस्यैवासंवेदनात् । न । द्वित्वस्योत्पत्त्यन्यथानुपपत्त्या तत्सद्भावसिद्धेः । तथाहि यदि कारणगुणपूर्वप्रक्रमेण रूपादिवदुत्पद्यते 10 द्वित्वं प्रथमाक्षसन्निपातवेलायामेव ग्रहणं स्यात्, चिरोत्पन्नत्वात्, गणनावैयर्थ्यञ्च । न चैतत् । तस्मादनेकगुणविषयस्य ज्ञानस्यात्मवर्तिनोऽपि द्वित्वोत्पत्तौ कारणत्वं निश्चीयते, तद्विनाशाच्च विनाशः । अन्यथा हि समवाय्यसमवायिकारणयोविनाशाद् विनाशाभ्युपगमे तयोरनेककालमवस्थानात् स्थायित्वमेव स्यात् क्वचिन्नित्यत्वञ्च । तयोरविनाशादन्यस्य च विरोधि - 15 गुणस्यासम्भवात् । तस्मान्निमित्तकारणादेव विनाशः कल्प्यते ।
न चैवं घटादेर्निमित्तकारणविनाशाद् विनाशप्रसङ्गः, अदर्शनात् । अत्र तु समवाय्यसमवायिकारणयोरवस्थानेऽपि द्वित्वादेविनाशस्य दृष्टत्वाद् अपेक्षाबुद्धिविनाशाद् विनाशः कल्प्यते । अन्यथा हि रूपादिवदवस्थाने प्रथमाक्षसन्निपातकाल एव ग्रहणं स्यादित्युक्तम् । अथावस्थितस्यापि द्वित्वादेर्व्यञ्जका - 20 भावात् [ अनुपलम्भ: ], उपलम्भस्तु इदानीमुत्पन्नस्यापि घटत इत्यपेक्षाबुद्ध्यादेर्जनकत्वमेव न्याय्यम् । तस्माद् द्वित्वादिव्यवहारोत्तरकालं तदभावस्य संवेदनात् तदुत्पत्तौ कारणान्तरस्यासम्भवे सति अपेक्षाबुद्धिविनाशस्य कारणत्वमुक्तम् ।
For Private And Personal Use Only
अथ पूर्वं द्वित्वसामान्यज्ञानमनन्तरं गुणज्ञानं द्रव्यज्ञानञ्चेति कल्पनायां 25 किं प्रमाणम् ? विशेषणत्वमिति चेत्, न । विशेषणेऽपि विशेषणान्तरकल्पनायामनवस्थाप्रसङ्गात् । तथाहि 'द्वे द्रव्ये' इति द्रव्यज्ञानोत्पत्तौ गुणस्य विशेषण
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
10
४०
20
www.kobatirth.org
त्वाद् युक्तमादौ तज्ज्ञानं गुणस्य च विशेषणत्वान्न तत्सामान्यज्ञानं युक्तम् । अभ्युपगमे वा, तस्याप्यन्यद् विशेषणमित्यनवस्था स्यात् ? न । नियमानभ्युपगमात् । तथाहि, विशेषणेऽवश्यं विशेषणान्तरकल्पनेति नियमः प्रतिषिध्यतेऽनवस्थाभयात् । न पुनर्विशेषणे विशेषणमेव नास्तीति । विवक्षितञ्चेतद् 5 भाष्यकर्तुः, द्रव्यविशेषणस्यापि गुणस्य सामान्यविशेषणाभिधानादिति ।
25
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
तदेवं द्वित्वस्योत्पत्तिविनाशकारणे प्रज्ञापिते सति एतेन त्रित्वाद्युत्पत्तिर्व्याख्याता* इत्यतिदेशं करोति । यथा हि द्वित्वमेकत्वाभ्यामनेकबुद्धिविषयसहिताभ्यामारभ्यते तथा त्रित्वादेरप्येकत्वेभ्योऽनेकबुद्धिविषयसहितेभ्यो15 निष्पत्तिरिति ।
अथ संस्काराद् द्रव्यबुद्धेविनाश इत्यत्र किं प्रमाणम् ? कार्यस्याकस्मिकस्यानुपलब्धेः, द्रव्यज्ञानविनाशस्य प्रत्यक्षेण संवेदनात् संस्कारस्य कारणत्वं निश्चीयते । तस्य च स्मृत्या सद्भावसिद्धिरिति वक्ष्यामः ।
त्रित्वाद्युत्पत्तिविनाशप्रकारः
एतेन त्रित्वाद्युत्पत्तिरपि व्याख्याता । एकत्वेभ्योऽनेक विषय बुद्धिसहितेभ्यो त्रित्वादिनिष्पत्तिरपेक्षा बुद्धिविनाशाद् विनाश इति ।
(१) उत्पन्ने च त्रित्वादौ तत्सामान्यज्ञानम्, ततोऽपेक्षाबुद्धेविनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यो गुणबुद्धेरुत्पद्यमानतेत्येकः कालः ।
(२) ततस्त्रित्वादिगुणबुद्धेरुत्पादः, गुणतज्ज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेविनाशः, सामान्यज्ञानस्य विनश्यत्ता, गुणस्य विनश्यत्तेत्येषामेकः कालः ।
(३) ततो द्रव्यज्ञानस्योत्पाद:, संस्कारस्योत्पद्यमानता, गुणज्ञानस्य विनश्यत्ता, सामान्यज्ञानस्य विनाश:, अपेक्षाबुद्धिविनाशाच्च गुणस्यापि नाश इत्येकः कालः ।
( ४ ) ततः संस्काराद् द्रव्यज्ञानस्यापीत्यतिदेशार्थः ।
आदिपदेन तु शतसंख्यादेरवरोधस्तत्र च द्वित्वोत्पत्त्यतिदेशो न सम्भवृत्येव । तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्गतैकगुणा
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
४१ नामग्रहणेऽपेक्षाकारणाभावात् कथं शतसंख्योत्पत्तिरिति । न चेन्द्रियेणैकत्वसामान्यस्य एकस्मिन् द्रव्ये संयुक्तसमवेतसमवायलक्षणस्य सम्बन्धस्योत्पत्तेस्तस्यैकताया द्रव्यान्तरगुणेष्वपि सद्भावात् तदाकृष्टानामेकैकगुणानां युगपद्ग्रहणाच्छतसंख्योत्पत्तिरिति वाच्यम् । सर्वत्र तथाभावेन शतसंख्याधुत्पत्तिप्रसङ्गात् । तथाहि, इन्द्रियस्यैकत्वसामान्येन संयुक्तसमवेतसमवायलक्षणस्य 5 सम्बन्धस्याविशेषात् तदुपग्रहादेकैकगुणानां ग्रहणाभ्युपगमे सर्वस्मिन् द्रव्ये शतसंख्याधुत्पत्तिः स्यात् । न चैतत् । तस्मादपेक्षाकारणाभावादनुत्पत्तिरिति । न चापेक्षाबुद्धि विनैवोत्पत्तिः, गणनावैयर्थ्यप्रसङ्गादित्युक्तन्यायात् ।
तदेतत् सर्वमसत्, संख्याव्यवहारस्य वास्तवत्वात् । शतसंख्यादिसद्भावसिद्धौ तस्याः कृतकत्वाद् अवश्यमुत्पत्तिकारणं वाच्यमिति अन्यस्यासम्भवाद् 10 विलक्षणैवापेक्षाबुद्धिः कल्प्यत इति ।
(१) तथा चैकस्मिन् एकगुणे ज्ञानोत्पत्तौ सत्यां संस्कारस्योत्पादे द्वितीयकगुणज्ञानस्योत्पद्यमानता, पूर्वज्ञानस्य विनश्यत्तेत्येकः काल: ।
(२) ततो द्वितीयकगुणज्ञानस्योत्पादः, पूर्वगुणस्मरणस्योत्पद्यमानता, प्राक्तनसंस्कारसहकारिणा च ज्ञानेन संस्कारस्योत्पद्यमानता, प्राक्तनज्ञानस्य 15 विनाश इत्येकः कालः ।
(३) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, द्वितीयगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततो द्वित्वस्योत्पद्यमानतेत्येकः कालः ।
(४) ततो द्वित्वस्योत्पादात् तज्ज्ञानस्योत्पद्यमानता, द्वितीयैकगुणज्ञानस्यापि विनाश इत्येकः कालः ।
(५) ततो द्वित्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, स्मरणस्य विनश्यत्तेत्येकः काल: ।
(६) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य बिनश्यत्ता, स्मरणस्य विनाशः, तद्विनाशाद् द्वित्वस्य विनश्यत्ता, तृतीयैकगुणज्ञानस्योत्पद्यमानतेत्येकः कालः ।
(७) ततस्तृतीयैकगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, द्वित्व- 25 गुणज्ञानस्य विनाशः, पूर्वेकगुणद्वितये स्मरणस्योत्पद्यमानता, पूर्वसंस्कार
20
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
व्योमवत्यां
सचिवेन एकगुणज्ञानेन संस्कारान्तरस्योत्पद्यमानता, द्वित्वगुणस्य विनाश इत्येकः कालः ।
(८) ततः स्मरणस्योत्पादः, संस्कारस्योत्पादः, एकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततस्वित्वगुणस्योत्पद्यमानता, द्रव्य5 ज्ञानस्य विनाश इत्येकः काल: ।
(९) ततस्त्रित्वगुणस्योत्पादः, तज्ज्ञानस्योत्पद्यमानता, एकगुणज्ञानस्य विनाश इत्येक: काल:।
(१०) ततस्त्रित्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, स्मरणस्य विनश्यत्तेत्येकः काल: ।
(११) ततो द्रव्यज्ञानस्योत्पादः, गुणज्ञानस्य विनश्यत्ता, स्मरणस्य विनाशः, तद्विनाशात् त्रित्वगुणस्य विनश्यत्ता, चतुर्थंकगुणज्ञानस्योत्पद्यमानतेत्येकः काल: ।
(१२) ततश्चतुर्थंकगणज्ञानस्योत्पादः, द्रव्यज्ञानस्य विनश्यत्ता, गुणज्ञानस्य विनाशः, त्रित्वगुणविनाशः, संस्कारस्योत्पद्यमानतेत्ययं क्रमश्चतु15_ष्टवादिष्वप्यूह्यस्तावद् यावदन्त्यद्रव्यैकगुणे ज्ञानं कल्पनया तत्संस्कारेण च स्मरणस्योत्पद्यमानतेति ।
(१३) ततः प्राक्तनाशेषैकगुणविषयस्मरणस्योत्पादः, अन्त्यद्रव्यैकगुणज्ञानस्य विनश्यत्ता, स्मरणानुभवौ चापेक्षाबुद्धिः, ततः शतसंख्याया उत्पद्यमानतेत्येकः कालः ।
(१४) ततः शतसंख्याया उत्पत्तिः, तज्ज्ञानस्योत्पद्यमानता, अन्त्यद्रव्यस्यैकगुणज्ञानस्य विनाश इत्येकः कालः ।
(१५) ततो गुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता स्मरणस्य विनश्यत्तेत्येकः काल: ।
(१६) तदनन्तरम् ‘एतानि शतम्' इति द्रव्यज्ञानस्योत्पादः, गुण25 ज्ञानस्य विनश्यत्ता, संस्कारस्योत्पद्यमानता, स्मरणस्य विनाशः, तदनन्तरं
संस्काराद् द्रव्यज्ञानस्यापीति ।
20
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम्
अन्ये तु एकस्मिन् एकगुणे ज्ञानं, तेन क्रियते संस्कारः, पुनद्वतीयैकगुणे ज्ञानम्, तेन प्राक्तनेन चान्यः संस्कार इत्येषा कल्पना तावद् यावदन्त्यगुणे ज्ञानम्, ततः कल्पनया तत्संस्कारस्याभिव्यक्तत्वाद् अशेषैकगुणविषयस्थ स्मरणस्योत्पत्तिः, अनुभवस्य विनश्यत्ता इत्यपेक्षाबुद्धिः शतसंख्याजनिकेति मन्यन्ते । न चान्तराले द्वित्वाद्यनुभवस्यापि संवेदनादनुभवेन बाधेति वाच्यम्, कारणांशस्यैव कीर्तनात् । तथाहि एक गुणानुभवजनितः संस्कार: स्मृति - द्वारेण शतसंख्योत्पत्तौ कारणम् । न चैवं द्वित्वाद्यनुभव इति तस्यानुपन्यासो नासत्त्वादिति ।
४३
अथास्त्वेवमुत्पत्तिः शतसंख्यायाः, ग्रहणन्तु कथमिति चिन्त्यते । तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्वर्तनी शतसंख्याप्यप्रत्यक्षेति, कथमेतानि शतमिति प्रत्ययः स्यात् ? अथान्त्यद्रव्येणेन्द्रियस्य संयोगात् तत्समवेता च शतसंख्योत्पन्नेति संयुक्तसमवायादुपलभ्यत एव । तदाकृष्टानि च पूर्वोपलब्धद्रव्याणीन्द्रियसंयोगाभावेऽपि विशेषणविशेष्यलक्षणेनैव सम्बन्धेन 'एतानि शतम्' इत्यपरोक्षज्ञानविषयाणि भवन्तीति ।
तर्हि सत्ताविशेषेणाकृष्टानामाकाशादीनामपि प्रत्यक्षता स्यात् ? न, अभिप्रायापरिज्ञानात् । तथाहि 'एतानि शतम्' इत्यपरोक्षज्ञानस्य दृष्टत्वादत्र कारणचिन्ता क्रियते । तत्र चान्यसम्बन्धस्यानुपलब्धेः शतसंख्याकृष्टानि विशेषणविशेष्यभावेणैव प्रत्यक्षाणि । न चैवमाकाशादीन्युपलब्धपूर्वाणि न च तेष्पपरोक्षं विज्ञानमस्तीति नैवं कल्प्यते ।
न चाद्यद्रव्यस्येन्द्रियेण संयोगाच्छतसंख्योपलभ्यते, अन्त्यद्रव्ये समुत्पादात् । तथाहि, गणनाद्वारेण अन्त्यद्रव्यस्यैकगुणोपलभ्भाद् उपलब्धैकगुणेषु द्रव्येषु समवेत शतसंख्योत्पद्यते तेन पूर्वेष्वेवेति तत्संयोगेऽप्यसम्भवाद् अग्रहणम् ।
For Private And Personal Use Only
न चात्रानुभवसहकारिणः संस्कारस्य संस्कारान्तरारम्भकत्वे घटाद्यनुभवजनित संस्कारस्यापि अनुभवान्तरसहकारिणः संस्कारारम्भकत्वप्रसङ्गः, अदृष्टकारितत्वाद् वस्तुव्यवस्थायाः । तथाहि शतसंख्याद्युपभोगप्रापकादृष्ट
5
10
15
20
25
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
व्योमवत्या
नियमाद् अत्रैव विशिष्टसंस्कारोत्पत्तिर्न घटादौ, तत्र हि कार्याभावादिति । कार्यसद्भावेन च कारणपरिकल्पना क्रियत इति । यत्रान्यथा असम्भवस्तत्रैव नियामकत्वमदृष्टस्य न पुनर्दृष्टकारणप्रत्याख्यानमिति । तस्माददृष्टसद्भावेऽपि
गणनोपलम्भाद् अपेक्षाबुद्धेः कारणत्वं कल्प्यते । अन्यथा हि ईश्वरबुद्धेरदृष्टस्य 5 एकगुणसहकारित्वेन शतसंख्याद्यारम्भकत्वे सर्वद्रव्येषु शतसंख्याद्युत्पत्ती रूपादिवच्चिरोत्पन्नत्वाद् गणनामन्तरेणैवोपलम्भ: स्यात् । न चास्ति ।
अथाभिव्यञ्जकाभावादनुपलम्भ इति चेन्न, [तत् सद्भावे प्रमाणाभावादित्युक्तोत्तरत्वात् ।
न चान्यदीयबुद्धिसम्पादितानि अन्यस्य प्रत्यक्षोपलब्धानीति ईश्वर10 सम्पादितासु अस्मदादीनां प्रत्यक्षता न स्यात् । तस्मादुक्तन्यायेनोत्पत्तिर्ग्रहणञ्चेत्यलमति विस्तरेण ।
क्वचिदाश्रयविनाशादिति । कथम् ? यदेकत्वाधारावयवे कर्मोत्पद्यते तदेवकत्वसामान्यज्ञानमुत्पद्यते, कर्मणा चावयवान्तराद् विभागः क्रियते,
अपेक्षाबुद्धश्चोत्पत्तिः । अतो यस्मिन्नेव काले विभागात् संयोगविना15 शस्तस्मिन्नेव काले द्वित्वमुत्पद्यते, संयोगविनाशाद् द्रव्यविनाशः
सामान्यबुद्धश्चोत्पत्तिः । ततो यस्मिन्नेव काले सामान्यज्ञानापेक्षाबुद्धे विनाशस्तस्मिन्नेव काले आश्रयविनाशाद् द्वित्वविनाश इति ।
विनाशमाह न परमपेक्षाबुद्धिविनाशात् क्वचिदाश्रयविनाशादिति । * कथम् ? इत्यव्युत्पन्नप्रश्नः । तत्र द्वित्वस्याश्रयविनाशेन विनाशाभिधानात् 20 तत्समानतया अन्यत्रापि परिज्ञानं भविष्यतीति मन्यमानो द्वित्वस्यैव विनाश
माह * यदैकत्वाधारावयवे कर्मोत्पद्यते * । विभागस्योत्पदयमानता, तदैवैकत्वसामान्य ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततो विभागस्योत्पादः, द्रव्यारम्भकसंयोगस्य विनश्यत्ता, अपेक्षाबुद्धेरुत्पाद:, द्वित्वस्योत्पद्य
मानता, एकत्वसामान्यज्ञानस्य विनश्यत्ता, तदनन्तरं संयोगस्य विनाशः, 25 एकत्वसामान्यज्ञानस्य विनश्यत्ता, द्रव्यस्य विनश्यत्ता द्रव्य ? द्वित्व स्योत्पादः,
तत्सामान्यज्ञानस्योत्पद्यमानतेत्येषामेकः काल: ।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणप्रकरणं
ततः सामान्यज्ञानस्योत्पादः, अपेक्षाबुद्धेविनश्यत्ता, द्रव्यस्य विनाश:, गुणस्य विनश्यत्ता, ततो द्रव्यविनाशाद् गुणस्य विनाश:, सामान्यज्ञानाच्चापेक्षाबुद्धेरिति । न च अपेक्षा बुद्धिविनाशकार्यो गुणविनाशः समकालत्वादिति द्रव्यविनाशस्यैव कारणत्वं पूर्वकालत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
यदा तु अपेक्षाबुद्धिसमकालमेकत्वाधारावयवे कर्म चिन्त्यते तदा उभयविनाशादपि गुणस्य विनाशः सम्भवतीति ज्ञेयम् ।
४५
शोभनमेतद्विधानम् वध्यघातकपक्षे । सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानुत्पत्तिप्रसङ्ग इति ।
2
* शोभनमेतद्विधानम् * इत्यादिना परपक्षप्रतिषेधद्वारेण स्वपक्षमुपसंहरति । शोभनं युक्तमेतद् द्वित्वाद्युत्पत्तिविधानम् । कस्मिन् पक्षे ? इत्याह * वध्यघातकपक्षे * यदा हि एकस्य ज्ञानस्योत्पादोऽन्यस्य विनश्यत्ता |
*
इत्य
* सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः * शोभनम् । तथाहि, सहानवस्थानलक्षणे विरोधे द्वित्वसामान्यज्ञानसमकालम् 15 अपेक्षा बुद्धिविनाशात् गुणबुद्धिसमकालं द्वित्वविनाशे तदपेक्षस्य 'द्वे द्रव्ये' इतिज्ञानस्यानुत्पत्तिप्रसङ्गः तथा निर्हेतुकता च विनाशस्य । यदैव द्वित्वसामान्यज्ञानस्योत्पादस्तदैव अपेक्षाबुद्धेविनाश इत्येककालत्वान्न सामान्यज्ञानकार्योsपेक्षा बुद्धिविनाशः । न चान्यत् कारणमस्तीति निर्हेतुकत्वं प्रसज्येत । न चैतत् सम्भवतीत्युक्तमेव ।
लैङ्गिकवज्ज्ञानमात्रादिति चेत्, स्यान्मतम् । यथा 'अभूतं भूतस्य' इत्यत्र लिङ्गाभावेऽपि ज्ञानमात्रादनुमानम् तथा गुणविनाशेऽपि गुणबुद्धिमात्राद् 'द्व े द्रव्ये' इति प्रत्ययः स्यादिति ।
अथ यद्यपि गुणबुद्धिसमकालमपेक्षा बुद्धिविनाशात् गुणस्य विनाश:, तथापि लैङ्गिकज्ञानवज्ज्ञानमात्राद् ' द्वे द्रव्ये' इतिज्ञानं भविष्यतीति परमत• लैङ्गिकवज्ज्ञानमात्रादिति चेत् * मतमभिप्रेतं स्यात् । यथा
माशङ्कते
For Private And Personal Use Only
5
10
20
25
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
अभूतमविद्यमानं लिङ्गं भूतस्य विद्यमानस्य लिङ्गिनो गमकमित्यत्र सूत्रे लिङ्गाभावेऽपि ज्ञानमात्रादनुमानमिष्टम् ।
तथा हि, ज्ञानेन ज्ञानमनुमीयत इति ज्ञानस्य लिङ्गत्वादवश्यं ग्रहणम्, ततस्तस्य विनश्यत्ता, अविनाभावसम्बन्धस्मरणस्योत्पद्यमानता, तदनन्तरमविनाभावसम्बन्धस्मरणस्योत्पादः, लिङ्गभूतस्य ज्ञानस्य विनाशः, तज्ज्ञानस्य विनश्यत्ता, परामर्शज्ञानस्योत्पद्यमानता, ततः परामर्शज्ञानस्योत्पादः, अविनाभावसम्बन्धस्मरणस्य विनश्यत्ता, लिङ्गज्ञानस्यापि विनाश इति निविषयात् परामर्शज्ञानमात्रादेव ज्ञातरि प्रतिपत्तिर्भवतीति दृष्टम् । तथा
गुणविनाशे गुणज्ञानमात्राद् द्रव्यप्रत्ययः स्यादिति । 10 अन्ये तु, यथा अभूतमविद्यमानं वर्षकर्म भूतस्य विद्यमानस्य वाय्वभ्र
संयोगस्य लिङ्गम्, तथा गुणविनाशेऽपि तज्ज्ञानमात्राद् द्रव्यज्ञानमिति मन्यन्ते । न चैतद् युक्तम् । तथाहि न अविद्यमानं वर्षकर्म विद्यमानस्य वाय्यभ्रसंयोगस्य सद्भावे लिङ्गम्। किं तहि ? वर्षकर्मानुत्पादो व्यभिचारी। सचे
स्वरूपेणास्त्येवेति कथमविद्यमानम् ? अथ भावरूपतया तस्यासत्त्वम्, तर्हि 15 भावस्याप्यभावरूपेणासत्त्वमिति सर्वस्यासत्त्वमेव स्यात् । तस्माद् वर्षकर्मानुत्पादो विद्यमान एव लिङ्गमित्युदाहरणान्तरमेव न्याय्यम् ।।
नविशेष्यज्ञानत्वात् । न हि विशेष्यज्ञानं सारूप्याद् विशेषणसम्बन्धमन्तरेण भवितुमर्हति । तथाह सूत्रकारः 'समवाधिनः श्वैत्याच्छवैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते' इति ।
प्रतिसमाधानमा यदुक्तं लैङ्गिकज्ञानवत् द्वे द्रव्ये इतिज्ञानं भविष्यतोत्येतत् * न विशेष्यज्ञानत्वात् * तथाहि, द्वित्वानुरागेणोत्पद्यमानत्वात् 'द्वे द्रव्ये' इतिविशेष्यज्ञानमतो विद्यमानस्यैव गुणस्यात्र व्यापारः कल्पनीयः । तथाहि, यस्मान्न विशेष्यज्ञानं * विशेषणसम्बन्धमन्तरेण * विशेषणसम्बन्ध विना * भवितुमर्हति * इति तदुत्पत्तौ विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम् । अन्यथा हि सकलकारणानां विशेष्यज्ञानोत्पत्तौ (विशेष ?) व्यापाराविशेषेण नियतस्यैव विशेषणत्वं न स्यात् । अतो विशेषणतज्ज्ञानतत्सम्बन्धानां कारणत्वम् ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधर्म्यप्रकरणम
४७
तथा चाह सूत्रकारः 'समवायिनः श्वैत्याच्छ्वैत्यबुद्धः श्वेते बुद्धिस्ते कार्यकारणभूते' ( वै० सू० ८।१८ ) इत्यनेन सूत्रकारस्याप्ययमर्थोऽभिप्रेत इति दर्शयति । तथाहि श्वेतं द्रव्यम् तस्य भावः श्वैत्यम्, श्वेतगुणस्तस्मात् । किं विशिष्टात् ? समवायिनः समवायेन सम्बन्धात् । श्वैत्यबद्धरिति श्वेतगुणबुद्धेः । एतस्मात् कारणत्रयात् श्वेतबुद्धिर्विशेष्यज्ञानं 'श्वेतं द्रव्यम्' 5 उत्पद्यते । ते पुनर्विशेषणविशेष्यबुद्धी कार्यकारणभूते कार्यकारणस्वभावे इति ।
न तु लैङ्गिक ज्ञानमभेदेनोत्पद्यत इति । तस्माद् विषमोऽयमुपन्यासः ।
न च लैङ्गिकं ज्ञानं लिङ्गानुरक्तमिति लिङ्गाभावेऽप्युत्पद्यत इत्याह * न तु लेङ्गिकं ज्ञानमभेदेन * लिङ्गानुरागणोत्पद्यते। * तस्माद् विषमोऽयमुपन्यास: * इति । योऽयं लैङ्गिकज्ञानवद् द्वे द्रव्ये' इति भविष्यतीत्युपन्यासः 10 स विषम: समो न भवतीति । तथा हि, विशेष्यज्ञाने विशेषणानुराग इति, लैङ्गिके तु अनुरागाभाव इति वैषम्यम् ।
यद् वा विषमोऽयमुपन्यासः, उपन्यस्यते साध्यसाधनयोरस्मिन् व्याप्तिरित्युपन्यासः । लैङ्गिकवदिति दृष्टान्तः । स च विषमः, लिङ्गानुरागशून्यतया तस्य अविशेष्यज्ञानत्वादिति ।
अन्ये तु ते विशेषणतज्ज्ञाने कार्यस्य विशेष्यज्ञानस्य कारणभूते । तस्माद् गुणं विना न द्रव्यज्ञानमिति मन्यन्ते ।
ते च विशेषणविशेष्यबुद्धी कार्यकारणभूते । न पुनः सर्वं विज्ञानं तथाभूतम्, प्रमाणाभावात् ।
एतेन सङ्कलनाज्ञानं निरस्तम्, विशेषणविशेष्यज्ञानव्यतिरेकेण ज्ञानान्तरे 20 प्रमाणाभावादित्यलम् ।
न । आशत्पत्तः, यथा शब्दवाकाशमिति । अत्र त्रीणि ज्ञानान्याशूल्पद्यन्ते तथा द्वित्वादिज्ञानोत्पत्तावित्यदोषः ।
ननु द्वित्वोत्पत्तेः प्राक् ज्ञानद्वयम्, एकत्वसामान्यज्ञानमपेक्षाज्ञानञ्च; उत्पन्ने तु द्वित्वे तत्सामान्यज्ञानम्, गुणज्ञानम्, द्रव्यज्ञानञ्चेति ज्ञानपञ्चकं 25 यदि क्रमेणोत्पद्यते स कस्मान्नोपलभ्यते ? अनुपलम्भान्नास्तीति परः, तन्नि
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
व्योमवत्यां
षेधार्थमाह *न आशूत्पत्तेः* इति । यदुक्तं क्रमस्यासत्त्वमित्येतन्न, आशुभावित्वेन विद्यमानस्यापि क्रमस्यासंवेदनात् ।
अथ आशूत्पत्तेः क्रमस्याग्रहणं कस्मिन्नुपलब्धमित्याह भ्यथा शब्दवदाकाशमिति इत्यत्र शब्दज्ञानमाकाशज्ञानं शब्दाकाशसम्बन्धज्ञानञ्चेति 5 त्रीणि ज्ञानान्याशूत्पद्यन्ते इति क्रमस्याग्रहणम्, तथा द्वित्वादिज्ञानोत्पत्तौ आशुभावित्वेनैव क्रमाग्रहणमित्यदोषः ।
न च ज्ञानानां सहानवस्थानलक्षण एव विरोधे ज्ञानानामाशुभावित्वेनोत्पत्तेः, अविनष्टे हि गुणे द्रव्यज्ञानं भविष्यतीति प्रतिसमाधानमेतदिति
वाच्यम्, शीघ्रं कारणसद्भावेन कार्यस्यापि तथाभावात् । अवश्यं गुणबुद्धि10 समकालं गुणविनाशे तदायत्तस्य द्रव्यज्ञानस्यानुत्पत्तिरिति दूषणस्याप्यावृत्तेः ।
यदि ज्ञानयोः सहाविरोधेनावस्थानं नास्तीति सहानवस्थानं विवक्षितमविवाद एव ।
वध्यघातकपक्षेऽपि समानो दोष इति चेत्, स्यान्मतम् । ननु वध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? द्वित्वसामान्य15 बुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति । न। समूहज्ञानस्य
संस्कारहेतुत्वात् । समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः।
अथेदानीं सहानवस्थानलक्षणविरोधाद् वध्यघातकपक्षेऽपि समानं दूषणमिति परमतमाशङ्कमान इदमाह *वध्यघातकपक्षेऽपि समानो दोष इति चेत्, 2 स्यान्मतम् अभिप्रेतमिति सङ्ग्रहवाक्यम् । अस्य तु विवरणं *वध्यघातक
पक्षेऽपि तहि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः इति । तथाहि, यदि गुणबुद्धिसमकालं गुणविनाशे द्रव्यज्ञानानुत्पत्तिस्तहि वध्यघातकपक्षेऽपि तस्यानुत्पत्तिरेव कथम् ? सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति ।।
___यथा हि, अपेक्षाबुद्धिद्वित्वं जनयति एवं संस्कारमपीति । ततस्तस्या 25 विनश्यत्ता, द्वित्वसामान्यज्ञानस्योत्पद्यमानता, ततो द्वित्वसामान्यज्ञान
स्योत्पादः, गुणज्ञानस्योत्पद्यमानता, अपेक्षाबुद्धेविनाशः, गुणस्य विनश्यत्ता,
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकजोत्पत्तिप्रकरणम्
४९
10
ततो गुणज्ञानस्योत्पादः, अपेक्षाबुद्धिविनाशाद् गुणस्य विनाश इति तदपेक्षत्वाद् द्रव्यज्ञानस्यानुत्पत्तिरेव । न । समूहज्ञानस्य संस्कारहेतुत्वाद् इति प्रतिसमाधानम् । तथाहि, यदुक्तम्, अपेक्षाबुद्धेः संस्काराद् विनाश इति, तन्न । समूहज्ञानस्य पटवभ्यासादरप्रत्ययस्य संस्कारहेतुत्वादिति ।
सङग्रहोक्तेविवरणमाह * समूहज्ञानमेव संस्कारकारणम्, न आलोचन- 5 ज्ञानम् * अपेक्षाज्ञानमिति । तस्माददोषः । किमत्र प्रमाणमिति चेत्, स्मरणानुत्पत्तिर्द्रव्यज्ञानोत्पत्तिश्च । तथाहि, यत्र स्मरणं तत्रैव संस्कारकल्पना क्रियते, न चात्र तदस्तीति । अभ्युपगमे द्रव्यज्ञानमेव न स्यात् । तद् दृष्टम् । अतस्तदन्यथानुपपत्त्या अपेक्षाबुद्धेः संस्काराजनकत्वं निश्चीयते, प्रकारान्तराभावात् ।
ज्ञानयोगपद्यप्रसङ्ग इति चेत्, स्थानमतम् । ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयोगपद्यप्रसङ्गः इति,न। अविनश्यतोरवस्थानप्रतिषेधात् । ज्ञानायोगपधवचनेन ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते । न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगवदवस्थानमस्तीति । ___अथेदानीं वध्यघातकपक्षेऽपि पराशयमाशङ्कते *ज्ञानयोगपद्यप्रसङ्ग इति चेत् स्यान्मतम् इति । सङ्ग्रहोक्तेविवरणम् *ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयोगपद्यप्रसङ्ग इति । तथा च यदि ज्ञानानां वध्यघातकलक्षणो विरोधस्तदा एकस्यावस्थाने द्वितीयस्योत्पादाज्ज्ञानयोगपा प्रसज्यत इत्यनिष्टापादनम् ।
20 तन्नानिष्टम् । अविनश्यतोरवस्थानप्रतिषेधात् । तथाहि, "ज्ञानायोगपद्यवचनेन प्रयत्नायौगपद्याच्च प्रतिशरीरमेकं मनः' (वै० सू० ३।२।३) इति सूत्रेण युगपदुत्पत्तिः, अविनश्यतोश्च ज्ञानयोः परस्पराविरोधेनावस्थानं प्रतिषिध्यते । वध्यघातकविरोधे तु उभयमपि नास्तीत्याह *न हि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानमस्तीति । अदूषणमेतत् ।
15
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
व्योमवत्यां
परिमाणवैधर्म्यम्
परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम्, अणुमहद्दीर्घ ह्रस्वञ्चेति । तत्र महद् द्विविधं नित्यमनित्यञ्च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं ज्यणुकादावेव । तथा च अण्वपि द्विविधं नित्यमनित्यञ्च । नित्यं परमाणुमनःसु । तत्तु पारिमाण्डल्यम् । अनित्यं व्यणुक एव।
इदानीमुद्देशक्रमेणावसरप्राप्तस्य परिमाणस्य लक्षणपरीक्षार्थ *परिमाणं मानव्यवहारकारणम् इत्यादि प्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, व्यव
ह्रियतेऽनेनेति व्यवहारोऽभिधानम् तयोर्हेतुः परिमाणमित्युक्तेऽतिप्रसङ्गस्तदर्थं 10 मानपदम् । तथापि मानव्यवहारहेतुत्वमाकाशात्मनोविद्यत इति विशेष
णत्वे सतीति विशेषणम् । तथापि परिमाणत्वसामान्येन व्यभिचारपरिहारार्थ द्रव्यविशेषणत्वे सतीति विशेषणमभ्यूह्यम् । तथा हि, परिमाणम्, इतरस्माद् भियते, द्रव्यविशेषणत्वे सति मानव्यवहारकारणत्वात्, यस्तु इतरस्माद
परिमाणान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा 15 साध्यः ।
तथा आवर्त्यमानमिदमेव वाक्यमनेकार्थमिति परीक्षापरत्वेन सम्बद्ध्यते । तथाहि, मानव्यवहारो विशेष्यज्ञानत्वाद् विशेषणमपेक्षते दण्ड्यादिज्ञानवत् । न च रूपादीनामन्यतमस्तद्विशेषणं तद्व्यवहारविलक्षण
त्वादिति विलक्षणेनैव निमित्तेन भवितव्यम् । न चेदं कल्पनाज्ञानं वासना20 प्रभवम्, तस्याः पूर्वमेव प्रतिषेधात् ।
* तच्चतुर्विधम् * इति विभागः । केन रूपेणेत्याह अणुमहद्दीचं ह्रस्वञ्चेति ।
ननु चायुक्तं चातुर्विध्यं चतुरस्रादिभेदस्यापि सम्भवात्, तन्न, महत्वस्यैव अवयवरचनाविशेषोपलम्भसहकारिणः चतुरस्रादिव्यवहारसम्पा25 दकत्वात् । तथाहि, अवयवरचनाविशेषोपलम्भे सति चतुरस्रं त्र्यस्त्रं परि
मण्डलमिति व्यवहारः, तदभावे च नेति न परिमाणान्तरसिद्धिः ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधर्म्यप्रकरणम्
नन्वेवं दीर्घत्वह्रस्वत्वव्यवहारोऽप्यवयवसंयोगविशेषोपलम्भादेव भविष्यतीत्यलं दीर्घत्वह्रस्वत्वपरिकल्पनया ? न तदनुपलब्धावपि दीर्घत्वोपलब्धेः ।
तथाहि, मन्दमन्दप्रकाशे सत्यन्तरेणाप्यवयवरचनोपलम्भं
स्थाण्वाद
दीर्घप्रतिभासो दृष्टः । न चैवं चतुरस्रप्रतिभास इत्यन्वयव्यतिरेकाभ्यामित्यूह्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
3
For Private And Personal Use Only
५१
तत्र महत्त्वाणुत्वयोरप्यवान्तरभेदात् षड्विधमपि परिमाणमित्याह
*
• महद् द्विविधं नित्यमनित्यञ्च इति । * नित्यमाकाशकालदिगात्मसु * वर्तते ।
發
तच्च *परममहत्त्वम्* न तस्मादूर्ध्वं महत्त्वमस्तीति । *अनित्यं त्र्यणुकादावेव* इति । त्र्यणुकमादौ यस्य तत्तथोक्तम्, तत् तस्मिन्नेव तत्र हि उत्पत्तिकारणसद्भावात् ।
*
*
तथा न परं महद् अण्वपि द्विविधं नित्यमनित्यञ्चः । केष्वित्याह [ * परमाणुमनः सु* ] परमाणवश्च मनश्चेतिपरमाणुमनांसि तेषु वर्तते । • पारिमाण्डल्यम् इति तस्य नाम । तथा हि परिमण्डलानि परमाणुमनांसि तेषां भावः पारिमाण्डल्यम्, तत् परिमाणमेव । तत्तु नित्यम्, उत्पत्तिविनाशकारणानुपलब्धेः । तथाहि, परमाणूनां कारणासम्भवान्न तत्परिमाणकारणम् 15 अनेकत्वसंख्या प्रचयो वास्तीति । एतावत्तु कारणं परिमाणस्य । न च नित्यत्वादणूनां विनाश: सम्भवतीति तत्परिमाणस्य नित्यत्वमेव । * अनित्यं
5
10
द्व्यणुक एव इत्याश्रयान्तरव्युदासः ।
20
कुवलयामलक बिल्व विषु महत्स्वपि तत्प्रकर्ष भावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः । दीर्घत्वह्रस्वत्वे च उत्पाद्यमहदणुत्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः ।
ननु चायुक्तमेतद्, अन्यत्राप्यणुव्यवहारोपलब्धेः, न, तत्र मुख्यासम्भवेन उपचाराभ्युपगभात् इत्याह * कुवलयामलकबिल्वादिषु महत्वप तत्प्रकर्षभावाभावमपेक्ष्य : परिमाणातिशयः । कुवलयाद्यपेक्षया तस्माद् वा प्रकर्षः, तस्य भावो विद्यमानता बिल्वादौ तदभावमपेक्ष्यामलकेऽणुव्यवहारः । तथा तत्प्रकर्षः कुवलयापेक्षया परिमाणातिशयः, तस्य भावो विद्यमानता
25
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
आमलके, तदभावमपेक्ष्य कुवलयेऽणुव्यवहारः । यत्र हि वास्तवमणुत्वं तत्र परिमाणातिशयस्याभावो द्रष्टव्यः । तस्यान्यत्राप्युपलम्भाद् उपचारः प्रवर्तत एव ।
यद् वा मुख्यासद्भावे किं प्रमाणमित्याह * भाक्तोऽणुव्यवहारः । 5 यथा हि माणवके सिंहव्यवहारो मुख्यापेक्षः, तद्वदयमणुव्यवहारोऽप्युपचरि
तत्वान्मुख्यपूर्व इत्यणुत्वसिद्धिः । तथा च कुवलयादिषु अणुव्यवहारो मुख्यपूर्वको भाक्तव्यवहारत्वात्, माणवके सिंहव्यवहारवत् ।
यथा च महत्त्वाणुत्वयोनित्यानित्यभेदो नैवं दीर्घत्वह्रस्वत्वयोः, आश्रयान्तरानुपपत्तेः । क्व वा तयोर्वृत्तिरित्याशङ्कायामाह [ “दीर्घत्वह्रस्वत्वे 10 च* ] दीर्घत्वञ्च ह्रस्वत्वञ्चेति दीर्घत्वह्रस्वत्वे । ते तु * उत्पाद्यमहदणुत्वै
कार्थसमवेते* उत्पाद्ये च ते महदणुत्वे च उत्पाद्यमहदणुत्वे; ताभ्यां सहैकस्मिन्नर्थे समवेते। तथाहि, त्र्यणुकादावुत्पाद्यं महत्त्वं तत्रैव दीर्घत्वम् । द्वयणुके चाणुत्वं तत्रैव ह्रस्वत्वमिति । परमाणूनां परिमण्डलत्वान्न ह्रस्वत्वम्, आकाशादेापकत्वाच्च न दीर्घत्वम्, तद्विपरीतेषु तद्व्यवहारदर्शनात् ।
अथ द्वयणुकेष्वेव [ कथं ] ह्रस्वत्वमित्युक्तमन्यत्रापि तद्व्यवहारोपलब्धेः ? तन्न, बाधकसद्भावेन अन्यत्रोपचाराभ्युपगमादित्याह *समिदिक्षुवंशादिष्वञ्जसा दीर्धेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारःइति । तथाहि, समिदादिषु दीर्घत्वोत्पत्तौ कारणसद्भावादञ्जसा मुख्यया वृत्त्या
दीर्घत्वम् । दीर्घष्वपि ह्रस्वत्वव्यवहारो दृष्ट इति मुख्यासम्भवात् उपचारः 20 कल्प्यते । तत्र च तत्प्रकर्षभावाभावो निमित्तम् । तस्य वंशादेः प्रकर्षः
समिदाद्यपेक्षया दीर्घत्वातिशयः, तस्य भावो विद्यमानता वंशादौ, तदभावमपेक्ष्य इक्षौ ह्रस्वत्वव्यवहारः । समिधमपेक्ष्य इक्षौ दीर्घत्वातिशयः, तत्र तदभावमपेक्ष्य समिधि ह्रस्वव्यवहारः ।
यद्वा मुख्यह्रस्वत्वस्य सद्भावे किं प्रमाणम् ? उपचरितो ह्रस्व25 व्यवहारः । तथाहि, समिदादिषु ह्रस्वव्यवहारः, मुख्यपूर्वकः, भाक्तव्यवहार
त्वात्, माणवके सिंहव्यवहारवदिति ।
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
परिमाणोत्पत्तिप्रकारः
अनित्यं चतुर्विद्यमपि संख्यापरिमाणप्रचययोनि ।
एवं चातुर्विध्यमुक्त्वोत्पत्तिकारणमाह *अनित्यं चतुर्विधमपि संख्यापरिमाणप्रचययोनि* इति। संख्या च परिमाणञ्च प्रचयश्चेति संख्यापरिमाणप्रचयाः, ते योनिः कारणमस्येति । संख्यापरिमाणप्रचयैः समस्त- 5 व्यस्तैर्जन्यत इति वाक्यार्थः । तथा च सूत्रम् "कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाच्च महदिति” ( वै० सू० ७।१।९ )। अनित्यग्रहणम् नित्यव्युदासार्थम् । चतुर्विधमिति न्यूनताव्यवच्छेदः ।
तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या तेरारब्धे व्यणुकादिलक्षणे कार्यद्रव्ये रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च 10 करोति।
सूत्रार्थप्रक्रमस्य विवक्षित्वाद् उद्देश [ क्रमा ] तिक्रमेण महत्त्वोत्पत्तौ कारणमाह तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या तैरारब्धे त्र्यणुकादिलक्षणे कार्यद्रव्ये रूपाद्युत्पत्तिसमकालं महत्त्वं दीर्घत्वञ्च करोति * । तथा चेश्वरबुद्धिनित्या सकलार्थविषया चेति एकैकगुणालम्बना- 15 स्त्येव । तामपेक्ष्यकैकगुणैः परमाणुद्वयणुकेषु त्रित्वमारभ्यते । परमाणुद्वयणुकेष्विति द्वयणुकव्यवच्छेदार्थम् । परमाणुभ्यामेव द्वयणुकमारभ्यते, न द्वयणुकाभ्याम्, व्यारम्भप्रसङ्गादित्युक्तम् । अतः परमाणुद्वयणुकारब्धे कार्यद्रव्य इति । तैरारब्धं रूपाद्यपि भवतीति तन्निषेधार्थ द्रव्यग्रहणम् । द्रव्यपदञ्च द्रव्यत्वेऽपि वर्त्तत इत्यभिव्यक्तिविवक्षया तदप्यारब्धमिति कार्यग्रहणम् । व्यणु- 20 कादिलक्षण इति । त्र्यणुकञ्च तदादिलक्षणं कारणकार्यस्वरूपञ्चेति । यद् वा सर्वमहद्दव्याणामादौ लक्ष्यत इत्यादिलक्षणम्, तस्मिन्नुत्पन्ने रूपाद्युत्पत्तिसमकालं द्वयणुकेषु वर्तमानं त्रित्वं महत्त्वं दीर्घत्वञ्च करोतीति ।। ___तथाहि, कार्यवस्तुनोऽसमवायिकारणपूर्वकत्वं दृष्टमिति त्र्यणुकस्य समवायिकारणत्वाद् अन्येनासमवायिकारणेन भवितव्यम् । द्वयणुकेषु च 25 महत्त्वस्याभावान्न कारणगुणपूर्वकत्वम् । अथाणुपरिमाणादेव त्र्यणुके महत्त्वम्, कारणपरिमाणात् कार्यपरिणामस्यातिशयोपलब्धेः । तथा च पटापेक्षया
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
सूक्ष्मास्तन्तवस्तदपेक्षया तदंशव इति दृष्टम् । एवं द्वयणुकापेक्षया अतिशयपरिमाणसम्बन्धि त्र्यणुकं भविष्यतीति ।
तदसत् । यच्छब्दवाच्यं कारणपरिमाणं तच्छब्दवाच्यं कार्येऽपीति त्र्यणुके द्वयणुकपरिमाणमेव स्यात् । यथा महच्छब्दवाच्यात् तन्तुगणाद् उत्पद्यमानः पटस्तच्छब्दवाच्य इति । एवमणुपरिमाणादणुपरिमाणमेव स्यात् । परमाणुपरिमाणाच्च द्वयणुकेऽपि परिमाणमिति कल्पनायामणुत्वस्यासम्भवे कथं तस्मान्महत्त्वमिति । न चाणुत्वस्यासम्भवे परमाणुरिति युक्तम् । तथा चाणोरतिशयेनाणुः परमाणुरिति व्यपदिश्यते । अन्यथा हि
विशेषणमनर्थकमेव स्याद् व्यवच्छेद्याभावात् । महत्त्वञ्चापेक्ष्याणुव्यवहारः, 10 न च परमाणुरिति । न च महत्त्वम् अणुपरिमाणस्य कारणत्वाभ्युपगमे ।
तस्मादण्वभावे परमाणुव्यवहारोच्छेदप्रसङ्गात् न परमाणुपरिमाणं कारणम् ।
इतश्च परमाणुपरिमाणस्याणुत्वोत्पत्तावणुत्वस्य महत्त्वात्पत्तावसमवायिकारणत्वमयुक्तम् । अत्यन्तसमानजातीयस्यासमवायिकारणत्वोपलब्धः । तथा चात्यन्तं समानजातीयमसमवायिकारणं यथा शुक्लतमाद् रूपाच्छुक्लतममेव रूपम् । अत्यन्तविजातीयञ्च यथा संयोगाच्छब्द इति । न चैवमणुपरिमाणं महत्त्वोत्पत्तौ, परमाणुपरिमाणश्चाणुत्वोत्पत्ताविति । तस्यापि परिमाणत्वान्नात्यन्तं विजातीयत्वम् । परमाणुत्वञ्चाणुत्वस्यैव विशेषोऽणुत्वञ्च महत्त्वाज्जात्यन्तरमेवेति नात्यन्तसमानजातीयत्वम् ।
न चात्र प्रचयः सम्भवति, रूपादीनां स्वकार्ये सामर्थ्यावधारणात् । अतः संख्येवासमवायिकारणमिति कल्प्यते। प्रत्यासत्तिमंहती। तथा च महत्त्वं दीर्घत्वञ्च त्र्यणुके वर्तते त्र्यणकश्च द्वयणुकेषु, त्रित्वमपि तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति ।
नन्वेवमीश्वरबुद्धेनित्यत्वाद् द्वयणुकानाञ्च कालान्तरमवस्थानाद् 52 अवस्थायित्वमेव, संख्याया नित्यद्रव्यसमवेतायाश्च नित्यत्वमिति । नैष दोषः ।
संख्यायाः कार्यत्वादवश्यं विनाशित्वमिति । निर्हेतुकविनाशप्रतिषेधेनास्या विनाशहेतोरभावात् स्थितिहेत्वदृष्टाभावाद् विनाशः कल्प्यते ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
यद्वा ईश्वरशब्दो योगीश्वरे वर्तत इति तद्बुद्धेरनित्यत्वात् तद्विनाशो
घटत एव संख्याया: ।
५५
तथाहि, द्व्यणुके क्रियोत्पन्ना, यदैव विभागमारभते, संयोगस्य विनश्यत्ता, तदैवैकत्वसामान्ये ज्ञानमुत्पद्यते, अपेक्षाबुद्धेरुत्पद्यमानता, ततः संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, अपेक्षाबुद्धेरुत्पादः, त्रित्वस्योत्पद्यमानता, ततो द्व्यणुकस्य द्वयणुकाभ्यां संयोगस्योत्पादः, त्र्यणुकस्योत्पद्यमानता, विभागकर्मणोविनश्यत्ता, त्रित्वस्योत्पादः, तत्सामान्यज्ञानस्योत्पद्यमानता, ततस्त्र्यणुकस्योत्पादः, विभागकर्मणोविनाशः, त्रित्वसामान्यज्ञानस्योत्पाद:, महत्त्व दीर्घत्वयोरुत्पद्यमानता, अपेक्षाबुद्धेविनश्यत्ता, त्रित्वगुणबुद्धेरुत्पद्यमानता, ततो महत्त्वदीर्घत्वयोरुत्पाद:, अपेक्षाबुद्धेविनाशः, त्रित्वगुणस्य विनश्यत्ता, 10 त्रित्वगुणबुद्धेरुत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, ततो द्रव्यज्ञानसमकालं त्रित्वस्यापि विनाश इति ।
द्विबहुभिर्महद्धिचारब्धे कार्यद्रव्ये कारण महत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम्, समान संख्यैश्चारब्धेऽतिशयदर्शनात् ।
5
*
महत्त्वान्महत्वमुत्पद्यत इत्याह द्विबहुभिर्महद्भिश्चारब्धे कार्यद्रव्ये 15 कारणमहत्त्वान्येव महत्त्वमारभन्ते इति । द्वे च बहवश्च तैर्द्विबहुभिः । किं विशिष्ट : ? महद्भिः | आरब्धे कार्यद्रव्ये कारणगतानि महत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । कथम् ? समानसंख्यैः कारणैरारब्धे कार्येऽतिशयदर्शनात् ।
For Private And Personal Use Only
20
तथाहि, स्थूलैश्चतुर्भिरारब्धं कार्यमेकम्, अन्यैश्च सूक्ष्मैश्चतुभिरेव । यत्तु स्थूलैरारब्धं तदतिशयेन महत् सम्पद्यत इति महत्त्वस्यैव कारणत्वम्, संख्यायाश्चोभयत्र साधारणत्वात् कारणत्वे परिमाणस्याविशेषः स्यात् । यत्र च द्वयोरारम्भकत्वं तत्र बहुत्वासम्भवेन महत्त्वस्यैव कारणत्वमिति ।
अन्ये तु संख्यायाः परिमाणवदन्वयव्यतिरेकाभ्यामन्यत्र सामर्थ्यावधारणाद् इहापि कारणत्वमिति मन्यन्ते । यच्चेदं समान संख्यैरारब्धेऽपि एकत्रा- 25 तिशयदर्शनं [न] तत् संख्यायाः कारणत्वप्रतिषेधपरम्, परिमाणस्यापि अका
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
व्योमवत्यां
रणत्वप्रसङ्गात् । तथा हि, यथा समानसंख्यैरारब्धमपेक्ष्य तत्र परिमाणातिशयस्तथा स्थूलतमैः समानसंख्यैरारब्धमपेक्ष्य [तत्परिमाणैरसमानसंख्यरारब्धे] तत्परिमाणस्यानतिशयोपलब्धेः परिमाणस्याप्यकारणत्वं स्यात् । तथा
अधिकपरिमाणापेक्षयानतिशयसद्भावेऽपि एतत् चेत् कारणम् अन्वयव्यति5 रेकाभ्यां सामर्थ्यावगतेरिष्यते, तत्सद्भावे तस्य भावस्तदभावे चाभाव इत्ये
तत् संख्यायामपि समानम् । यदि चात्र महत्त्वोत्पत्तावकारणं संख्या, तर्हि स्थूलैस्त्रिभिरारब्धमेकम् अन्यत् चतुभिरित्युभयत्रापि कारणपरिमाणस्याविशेषात् कार्यपरिमाणस्याविशेषः स्यात् । न चैतत् । चतुर्भिराब्धे परि
माणातिशयदर्शनात् । अतः संख्यापि कारणमिति । तथा समानसंख्यः 10 समानपरिमाणैश्चारब्धे महत्त्वमुभाभ्यां सम्पद्यत इति युक्तम्, अन्यत्रोभयोः
सामर्थ्यावधारणाद्, इह प्रत्यासन्नत्वाच्चेति। तथा च त्रितन्तुकादि परिमाणं त्रितन्तुकादौ वर्तते । त्रितन्तुकादौ च तन्तुषु तत्परिमाणञ्च तत्संख्या च तेष्वेवेति कार्यकारणैकार्थसमवायलक्षणा प्रत्यासत्तिरिति। कथं
तहीदं वाक्यम् "कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वमिति ? 15 अवधारणप्रतिषेधार्थम् । तथाहि, यदुक्तं समानसंख्यैरारब्धेऽतिशय दर्शनात्
कारणमहत्त्वान्येव महत्त्वमारभन्त इति, एतन्न। बहुत्वस्याप्युक्तन्यायेन कारणत्वात् ।
यद् वा समानसंख्यैराब्धेऽतिशय[T]दर्शनादिति महत्त्वस्य कारणत्वोपदर्शन मेतत्, नावधारणमिति । 20 प्रचयश्च तूलपिण्डयोर्वर्तमानः पिण्डारम्भकावयवप्रशिथिल
संयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि, समानसंख्यापलपरिमाणरारब्धेऽतिशयदर्शनात् ।
प्रचयस्य कारणत्वमाह * प्रचयश्च तुलपिण्डयोर्वतमानः पिण्डारम्भकावयव प्रशिथिलसंयोगापेक्षः, इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके 25 महत्त्वमारभते * इति ।
तूलपिण्डश्च तूलपिण्डश्च तूलपिण्डौ, तयोर्वर्तमानः संयोगः प्रचयः । किविशिष्ट: ? पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इति । पिण्डारम्भकारच
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
गुणवैधर्म्यप्रकरणम् प्रशिथिलसंयोगाश्च तानपेक्षत इति तदपेक्षः । इतरेतरपिण्डावयवसंयोगापेक्षश्चेति । वा समुच्चये, न तू विकल्पे, अपेक्षाकारणत्वेनाभ्युपगतयोरुभयोरप्यत्र सद्भावात् । इतरस्य पिण्डस्येतरपिण्डावयवैः संयोगस्तथा इतरस्येतरावयवैरिति । इतरेतरपिण्डयोर्वा येऽवयवास्तेषां संयोगास्तानपेक्षत इति तदपेक्षः । स च द्वाभ्यां तूलकाभ्यामारब्धेऽपि तूलके महत्त्वमारभत इति। 5 त्रितूलकादावप्येतत् समानम् । प्रत्यासत्तिस्तु महती द्वितूलकपरिमाणे द्वितूलके वर्तते, द्वितूलके तु तूलपिण्डयो: संयोगोऽपि । तत्रैव बहुत्वमहत्त्वयोः सद्भावेऽपि कारणत्वप्रतिषेध इत्याह * न बहुत्वमहत्त्वानि * द्वितूलकादौ महत्त्वमारभन्ते । कुतः ? * समानसंख्यापलपरिमाणरारब्धेऽतिशयदर्शनात् ।
तथाहि, त्रिभिस्तूलपिण्डै: पञ्चपलैः प्रशिथिलावयवसंयोगैरारब्धमेकम्, 13 अन्यच्च तद्विपरीतैः । तत्र यत् प्रशिथिलावयवसंयोगैरारब्धं तत्र परिमाणातिशयो दृष्ट इति प्रचयस्यैव कारणत्वम्, न संख्यापलपरिमाणानाम्, तत्कारणत्वे चोभयत्राविशेषः स्यात् ।।
अथ पलस्य सर्वत्र परिमाणाकारणत्वात् प्रसक्त्यभावे न युक्तः प्रतिषेधः । तथाहि, पाषाणादौ पलातिशयसद्भावेऽपि परिमाणस्यातिशयाभावः । 15 तुलपिण्डादौ च तदभावेऽपि अतिशयोपलब्धेर्न पलस्य गुरुत्वविशेषत्वात् कारणत्वम् । किमर्थस्तत्र प्रतिषेधः ? व्यामोहप्रतिषेधार्थः । तथा च परे व्यामोहाद् यद्यवंविधस्यापि पलस्य कारणत्वं प्रतिपद्यरंस्तदपि नास्ति, समानपलैरारब्धेऽतिशयादर्शनात् ।।
अन्ये तु अस्यैव दोषस्य परिहारार्थं पलशब्दस्य समानशब्दपर्यायतां 20 ब्रुवते । समानसंख्यापलपरिमाणैरिति समानसंख्यैः समानपरिमाणैरित्यर्थः ।
ननु चायुक्तमवधारणं प्रचयस्यैव कारणत्वमिति, बहुत्वमहत्त्वयोरप्यन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात् । न च समानसंख्यापलपरिमाणेरारब्धेऽपि एकत्रातिशयदर्शनं बहुत्वमहत्त्वयो: कारणत्वप्रतिषेधे हेतुः, अन्यापेक्षयानतिशयसद्भावे प्रचयस्याप्यकारणत्वप्रसङ्गात् । तथाहि, समानसंख्या- 25 पलपरिमाणैः प्रशिथिलावयवसंयोगैश्चतुर्भिरारब्धमेकम् अन्यच्च तथाविधै
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
व्योमवत्यां
स्त्रिभिरिति । चतुभिरारब्धेऽतिशयदर्शनात् संख्यापि कारणम् । तथा स्थूलैश्चतुभिः प्रशिथिलावयवसंयोगैरारब्धमेकम् अन्यच्च स्थूलतमैस्तथाविधैरेवेत्यत्र कारणपरिमाणातिशयेन कार्यपरिमाणस्यातिशयोपलब्धः परिमाणस्यापि कारणत्वम् । यत्र तु समानसंख्यापरिमाणैः प्रशिथिलावयवसंयोगारब्धैमहत्त्वमारभ्यते तत्राविशेषेण त्रितयस्यापि कारणत्वम्, अन्यत्र सामर्थ्यावधारणे सतीह प्रत्यासन्नत्वात् । वाक्यस्य तु व्याख्यानं पूर्ववत् ।
द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते ।
अणत्वोत्पत्तौ कारणमाह * द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते * इति । द्वयणुकाणुपरिमाणं कार्यम् । तस्य हि समवायिकारणं 10 द्वयनकमित्यन्येनासमवायिकारणेन भवितव्यम् । परमाणुपरिमाणस्य
चारम्भकत्वप्रतिषेधेऽन्यस्य चासम्भवाद् द्वित्वसंख्यवाण्वोर्वर्तमाना कार्यकारणैकार्थसमवायेन द्वयणुकाणुपरिमाणोत्पत्तावसमवायिकारणमिति । अणुशब्दश्च सामान्यशब्दत्वात् परमाणावपि वर्तत एव, अणुत्वे सति परम इति विशेषणात् । विनाशस्तु द्वित्वसंख्यायाः पूर्ववद्व्याख्येयः ।
महत्त्ववत् व्यणुकादो कारणबहुत्व महत्वसमानजातीयप्रत्येभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववद् व्यणुके द्वित्वसंख्यातो लस्वत्वस्योत्पत्तिः।
दीर्घत्वोत्पत्तौ कारणमाह *महत्त्ववत् व्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः इति । यथा हि महत्त्वं कारण20 बहुत्व [महत्त्व समानजातीयप्रचयेभ्यो भवति एवं दीर्घत्वमपीति । त्र्यणुके
कारणबहुत्वादेव दीर्घत्वम्, द्वितन्तुके कारणदीर्घत्वादेवेति । त्रितन्तुकादौ बहुत्वदीर्घत्वप्रचयैर्दीर्घत्वमारभ्यते इत्यतिदेशार्थः । तथा * अणुत्ववद्वयणुके द्वित्वसंख्यातो ह्रस्वत्वस्योत्पत्तिः इति । यथा कारणान्तरासम्भवाद् द्वित्वसंख्या अणुत्वस्योत्पत्तावसमवायिकारणम् एवं ह्रस्वत्वस्यापीति । __अथ व्यणुकादिषु वर्तमानयोमहत्त्वदीर्घत्वयोः परस्परतः को विशेषः, व्यणुकेषु चाणुत्वह्रस्वत्वयोरिति ? तत्रास्ति महत्त्वदीर्घत्वयोः
15
25
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् परस्परतो विशेषः, महत्सु दीर्घमानीयता, दोर्जेषु च महदानीयतामिति विशिष्टब्यवहारदर्शनादिति । अणुत्वह्रस्वत्वयोस्तु परस्परतो विशेषस्तशिनां प्रत्यक्ष इति ।
एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति ।
अथ समानजातीयकारणजन्यत्वात् * त्र्यणुकादिषु वर्तमानयोर्महत्त्व- 5 दीर्घत्वयोः परस्परतः को विशेषः, द्वयणुके पु] चाणुत्वह्रस्वत्वयोः * इति । यतः कारणभेदात् भिद्यन्ते पदार्था महत्त्वदीर्घत्वादौ तदभाव इति । तन्न। [प्रतिभा] सभेदेन महत्त्वदीर्घत्वयोर्भेदसद्भावे सति तज्जनकयोः कारणसामग्रयोर्भेदोपपत्तेः ।।
तथाहि. कार्यभेदेन सामग्रीभेदो ज्ञायते । स चेहास्त्येव प्रतिभास- 10 भेदादित्याह * तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः । कुतः ? * महत्सु दीर्घमानीयतां दीर्धेषु च मह[दिति ? दानीयतामिति विशिष्ट व्यवहारदर्शनात् । अन्यथा हि महत्त्व[] विशेषात् ततो दीर्घत्वेनातिशय्यानयनं दीर्घषु च महत्त्वेनेति न स्यात् । दृष्टञ्चैतत् । तस्माद् दीर्घत्वं महत्त्वाद् भेदेन प्रतिपन्न महत्त्वञ्च दीर्घत्वादिति प्रतिभासभेदाद् रूपादीनामिव भेदः। 15
समानका रणजन्यत्वञ्च समवाय्यसमवायिनिमित्तापेक्षया । (वि?)पाकजैव्यभिचरतीति नाभेदे हेतुः । सामग्रयपेक्षया तु समानकारणत्वमसिद्धम्, कार्यभेदेन तद्भेदोपपत्तेः । * अणुत्वह्रस्वत्वयोस्तु(व्यवहार?)परस्परतो विशेषस्तदर्शिनाम् * इति । योगिनां प्रत्यक्षस्तेषामतीन्द्रियार्थदर्शित्वात् । ह्रस्वत्वसद्भावस्तु भाक्तव्यवहारेण पूर्व व्यवस्थापित इति विद्यमानत्वाद् योगिनाम- 20 वश्यमितरपदार्थव्यावृत्ततया ग्रहणमित्यलम् ।
* एतच्चतुर्विधमपि परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति * । कारणान्तरप्रतिषेधार्थमवधारणम् । उत्पाद्यग्रहणन्तु नित्यपरिमाणव्यवच्छेदार्थमिति । पृथक्त्ववैधय॑म्
पृथक्त्वमपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यमनेकद्रव्यञ्च । तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः ।
25
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
व्योमवत्या
एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः संख्यया तु विशिष्यते, तद्विशिष्टव्यवहारदर्शनादिति ।
इदानीमुद्देशक्रमेणावसरप्राप्तस्य पृथक्त्वस्य लक्षणपरीक्षार्थ - पृथक्त्वमपोद्धारव्यवहारकारणम्" इत्यादिप्रकरणम् । व्यवहृतिर्व्यवहारो ज्ञानम्, 5 व्यवह्रियतेऽनेनेति व्यवहारोऽभिधानं तयोर्हेतुः पृथक्त्वमित्युक्तेऽतिप्रसङ्गस्त
दर्थमपोद्धारग्रहणम् । अपोद्धरणमपोद्धारः पृथक्करणम् । तथाप्यपोद्धारव्यवहारहेतुत्वमाकाशात्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीति पदमूह्यम् । पृथक्त्वत्वसामान्यव्यवच्छेदार्थञ्च द्रव्य पदमपी ति । पृथक्त्वमितरेभ्यो
भिद्यते, द्रव्यविशेषणत्वे सति अपोद्धारव्यवहारकारणत्वात्, यस्त्वितरेभ्यो न 10 भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
तथा परीक्षापरञ्च वाक्यम् । अपोद्धारव्यवहारो हि विशिष्टव्यवहारः । स च नर्ते विशेषणाद् भवतीति रूपादिव्यवहारविलक्षणत्वाद् विलक्षणेनैव निमित्तेन भवितव्यम्, तथा रूपाउनुपलब्धौ पृथगिति व्यवहारदर्शनाच्च ।
न चेदम् अस्मात्पृथगिति व्यवहारो विशेषसम्बन्धाद् भविष्यतीति 15 वाच्यम्, अनित्येषु नित्यविशेषाणामभावात् । अथानित्येष्वसाधारणधर्मसम्बन्धः
पृथगिति व्यवहारे निमित्तम् ? तन्न, तद्विशिष्टतानुपलब्धेः । न हि पृथगिति व्यवहारे द्रव्यरूपादिकर्मसामान्यात्मिका असाधारणधर्मविशिष्टता प्रतिभाति ।
यच्चाभिहितं तेभ्योऽर्थान्तरं विशेषणं न पृथक्त्वम् । अथेतरेतराभावस्तहि निमित्तम् । तथाहि, ‘इदमिदं न भवति', 'इदमस्माद् व्यावृत्तम्, 20 पृथग, अर्थान्तरम्, विलक्षणम्, इति प्रत्ययाः सर्वत्र तन्निमित्ता एवेति ? न,
पदार्थान्तरावधि विना एकत्वादिसंख्याविशिष्टस्य पृथगिति व्यवहारस्य ततोऽर्थान्तरत्वात् । तथाहि, इतरेतराभावविशिष्टो व्यवहारः पदार्थान्तरावधित्वेन प्रवर्तते न चैकत्वादिसंख्यानुरक्तः । तद्विलक्षणश्चायमित्यर्थान्तर निमित्तः।
अन्ये तु इतरेतराभावस्य प्रतिषेधार्थ x x x x x x x नानाप्रत्ययजनकमिति । न । अनित्यद्रव्येषु नित्यस्य गुणस्यानुपलब्धेराश्रयविनाशेन तद्विनाशे
25
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
wr
सर्वत्रानुपलब्धिरेव स्यात् । अनित्यतायान्त्वशेषद्रव्याश्रितस्योत्पत्तिकारणाभावः, तेषां क्रमेणोत्पादात् । न चान्यत्र समवेतमुपजातमन्यत्र समवैतीति अदर्शनात् । एकस्य च नित्यस्यानेकवृत्तौ (द्रव्यत्व ?)सामान्यरूपता स्यात् । न च द्रव्यं द्रव्यमिति प्रत्ययवत् पृथक् पृथगिति पदार्थान्तरावधि विना प्रत्ययो दृष्टः । सावधिकस्तु प्रत्ययो गुणादिष्वपीतरेतराभावनिमित्तो न सामान्यनिबन्धनः। 5 तद्विलणश्चायमित्युक्तम् ।।
अथ पृथक्त्वप्रत्यया विभिन्नस्वभावाः संख्यया विशिष्यन्त इति । अथ पूर्वं द्वित्वादेरुत्पादोऽपेक्षाबुद्धिविनाशेन विनाशोपपत्तेर्न द्विपृथक्त्वादिकालेऽवस्थानम्, द्विपृथक्त्वादेश्च पूर्वमुत्पादे द्रव्यज्ञानसमकालं विनाशात् द्वित्वोत्पत्तिसमकाले नावस्थानम्, अतो विशेष्यज्ञानोत्पत्तौ व्यापारानुपपत्ते- 10 द्वित्वादेर्न विशेषणत्वमिति ।
अथैकस्मिन्नेव काले विभिन्नपुरुषयोरपेक्षाबुद्धिद्वारेण उभयोरुत्पत्तिसम्भवाद् युक्तं द्वित्वादेविशेषणत्वमिति चेन्न । पुरुषान्तरबुद्धिसम्पादितस्य द्वित्वादेः पुरुषान्तरेणाग्रहणात् । गृहीतञ्च विशेषणमिति, नैष दोषः, स्मर्यमाणस्योपलक्षणत्वाभ्युपगमात् ।
तथाहि, द्विपृथक्त्वोत्पादिकायाः स्वकारणात् अपेक्षाबुद्धरुत्पत्तिः, द्वित्वस्मरणस्योत्पद्यमानता, द्विपृथक्त्वस्योत्पद्यमानता, ततो द्वित्वस्मरणस्योत्पादः, द्विपृथक्त्वस्योत्पादः, अपेक्षाबुद्धेविनश्यत्ता, द्विपृथक्त्वगुणबुद्धेरुत्पद्यमानतेत्येकः काल: ।
ततो द्वित्वस्मरणस्य द्विपृथक्त्वज्ञानजनकत्वमेवेति मन्यमाना गुणा- 20 दिष्वपि “एतस्मादयं व्यावृत्तो विलक्षणः' इत्यादिव्यवहारः पृथक्त्वनिमित्तः, स च निर्गुणत्वाद् गुणादीनामुपचार इति मन्यन्ते। न च पृथगिति ज्ञानं निविषयं वासनाप्रभवम्, तस्याः पूर्वमेव प्रतिषेधात् ।
लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थं विभागमाह तत्पुनरेकद्रव्यमनेकद्रव्यञ्च - इति । एकमेव द्रव्यमाश्रयोऽस्येत्येक- 25 द्रव्यम् । अनेकमेव च द्रव्यमाश्रयोऽस्याविनश्यद[वस्थ]द्रव्यस्येत्यनेकद्रव्यम् ।
15
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
www.kobatirth.org
25
६२
व्योमवत्यां
व्याख्याताः *
* तस्य तु द्विविधस्यापि नित्यानित्यत्वनिष्पत्तयः संख्यया इत्यतिदेशः । तथाहि एकपृथक्त्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम् । कार्येषु च कारणगुणपूर्वकमाश्रयविनाशादाशु विनश्यतीत्यतिदेशार्थः । द्विपृथक्त्वा - देर्द्वित्वादिवदपेक्षाबुद्धित उत्पत्तिर्विनाशस्तु तद्विनाशात् । विनाशाच्च । शतपृथक्त्वाद्युत्पत्तिस्तु शतसंख्योत्पत्तिन्यायेनेत्यतिदेशः ।
क्वचिदाश्रय
Acharya Shri Kailassagarsuri Gyanmandir
नन्वेवं तर्हि शतसंख्यातो न विशेषः स्यादित्याशङ्कयाह * एतावांस्तु विशेषः, एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः * इति । यथा हि, संख्यात्वव्यतिरेकेणापरमेकत्वादिसामान्यमस्ति नैवम् एकपृथक्त्वादीति ।
अथानुगतज्ञानादयुक्तमेतत् न, अन्यथा तदुपपत्तेः । तथाहि द्रव्य - 10 गुणकर्मनिमित्तमबाध्यमानमनुगतं ज्ञानं सामान्यसत्तां दर्शयति । पृथक्त्वे च एकत्वादिसंख्यावशादनुगतज्ञानं घटत इत्याह संख्यया तु विशिष्यते तद्विशिष्टव्यवहारदर्शनात् । इदमेकं पृथक्, द्वे पृथक्, त्रीणि
*
1
कुत: ?
पृथगित्यादि ।
अथारोषद्रव्येष्वेकमेवास्तु पृथक्त्वं संख्यावद् विशेषणज्ञानत्वाद् विशेषण15 मपेक्षते । न च रूपादीनामन्यतमं निमित्तं तद्व्यवहारविलक्षणत्वादिति निमित्तान्तरेण भवितव्यमिति ।
[ इतः प्रभृति पृथक्त्वप्रकरणान्तः पाठः संयोगप्रकरणे आदर्शपुस्तके आसीत् किन्तु द्विपृथक्त्वोत्पादक प्रक्रियानिरूपकत्वादयं ग्रन्थस्तत्रासङ्गतो दृश्यतेऽतोऽत्र निवेशितोऽपि स्थानभ्रष्टत्वात् पाठभ्रष्टत्वाच्च सङ्गतिर्नैव 20 दृश्यते । स च विद्भिः स्वयं योजनीय: । ]
तत्क्रियया गुणबुद्धेरुत्पादो, द्रव्यबुद्धेरुत्पद्यमानता, द्वित्वस्मरणस्य विनश्यत्ता, अपेक्षाबुद्धेविनाशः, द्विपृथक्त्वगुणस्य विनश्यत्ता, ततो द्वे पृथगिति द्रव्यबुद्धेरुत्पादः, गुणबुद्धेविनश्यत्ता, द्वित्वस्मरणस्य विनाश:, अपेक्षाबुद्धिविनाशात् गुणस्य विनाश:, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धेविनाश इति ।
यद् वा द्वित्वोत्पादिकाया अपेक्षाबुद्धेरुत्पादः, द्वित्वस्योत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षा बुद्धेरुत्पद्यमानता,
ततोद्वित्वस्मरणस्योत्पादः
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् तबद्धरुत्पद्यमानता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धरुत्पादः, द्विपृथक्त्वस्योत्पद्यमानता, द्वित्वोपादिकाया अपेक्षाबुद्धेविनश्यत्ता, ततो द्विपृथक्त्वस्योत्पादः, द्वित्वगुणबुद्धेरुत्पादः, द्वित्वगुणात्तज्ज्ञानात् तदेकार्थसमवायाच्च द्विपृथक्त्वगुणबद्धरुत्पद्यमानता, अपेक्षाबुद्धेविनाशः, द्वित्वस्य विनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धविनश्यत्तेत्येकः कालः । ___ततो द्विपृथक्त्वगुणबुद्धेरुत्पादः, द्रव्यबुद्धरुत्पद्यमानता, द्वित्वगुणस्य विनाशः, तबुद्धेविनश्यत्ता, द्विपृथक्त्वोत्पादिकायाश्चापेक्षाबुद्धविनाशः, द्विपृथक्त्वगुणस्य विनश्यत्तेत्येकः कालः ।
ततो द्वे पृथगिति द्रव्यबुद्धरुत्पादः, गुणबुद्धविनश्यत्ता, द्विपृथक्त्वगुणस्य विनाशः, द्वित्वगुणबुद्धश्च विनाशः, संस्कारस्योत्पद्यमानता, ततः 10 संस्काराद् द्रव्यबुद्धविनाश इति । अत्र तु विद्यमानस्य द्वित्वगुणस्य स्वानुभवसहकारिणो द्विपृथक्त्वगुणज्ञानोत्पत्ती व्यापार इति विशेषः ।
अन्ये त्वेकैकगुणालम्बनका बुद्धिरुत्पद्यते, द्वित्वद्विपृथक्त्वयोरुत्पद्यमानतेति मन्यन्ते । ततो द्वित्वद्विपृथक्त्वयोरुत्पादः, द्वित्वगुणज्ञानस्योत्पद्यमानता, ततो द्वित्वगुणज्ञानस्योत्पादः, द्विपृक्त्वज्ञानस्योत्पद्यमानता, अपेक्षाबुद्ध - 15 विनश्यत्ता, ततो द्विपृथक्त्वगुणज्ञानस्योत्पादः, द्रव्यज्ञानस्योत्पद्यमानता, द्वित्वगुणज्ञानस्य विनश्यत्ता, अपेक्षाबुद्धविनाशः, द्वित्वद्विपृथक्त्वयोविनश्यत्ता, ततो द्रव्यज्ञानस्योत्पादः, द्विपृथक्त्वगुणज्ञानश्य विनाशः, द्वित्वद्विपृथक्त्वयोविनाशः, संस्कारस्योत्पद्यमानता, ततः संस्काराद् द्रव्यबुद्धविनाश इत्यत्र तु विद्यमानस्य द्वित्वगुणस्य द्वे पृथगिति द्रव्यज्ञानस्योत्पत्तावपि व्यापार इति 20 विशेषः ।
अथ समवेतानामेव गुणकर्मसामान्यानां विशेषणतोपलब्धेः कथं द्विपृथक्त्वादाववर्त्तमानं द्वित्वादि विशेषणमिति चेत्, बाधकोपपत्तेरुपचारेणेत्युक्त पदार्थसङ्करे । तथा च सूत्रं 'गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते ( वै० सू० ) इति, गुणकर्मसु समवेतानां गुणकर्मणामभावात् 25 तदपेक्षं मुख्यज्ञानं नास्तीति ।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
संयोगवैधय॑म्
संयोगः संयुक्तप्रत्ययनिमित्तम् । स च द्रव्यगुणकर्महेतुः, द्रब्यारम्भ निरपेक्षस्तथा भवतीति, सापेक्षेभ्यो निरपेक्षेभ्यश्चेति वचनात् । गुणकारभ्भे तु सापेक्षः, संयुक्तसमवायादग्नेवैशेषिकमिति वचनात् ।
इदानीमुद्देशवतः संयोगस्य लक्षणपरीक्षार्थं *संयोगः संयुक्तप्रत्ययनिमित्तम् इत्यादि प्रकरणम् । प्रतीतिः प्रत्ययो ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम्, तयोनिमित्तं सर्वेऽपि पदार्था इति संयुक्तग्रहणम् । तथापि संयुक्तप्रत्ययनिमित्तत्वमाकाशात्मनोविद्यत इति विशेषणत्वे सतीति कार्यम् ।
अतः संयोग इतरेभ्यो मिद्यते, विशेषणत्वे सति संयुक्तप्रत्ययनिमित्तत्वात्, 10 यस्त्वितरस्मादसंयोगान्न भिद्यते न चासावेवम्, यथा रुपादिरिति । परीक्षापरत्वेनापि सम्बध्यते संयोग: संयुक्तप्रत्ययनिमित्तमिति वाक्यम् ।
अथ विशिष्टोत्पादाद् द्रव्यमेव संयुक्तव्यवहारनिमित्तम् । तथाहि, विश्लेषक्षणात् संश्लेषक्षणोत्पादे संयुक्तव्यवहारो दृष्टो नान्यथेति । तदसत्,
विशिष्टताया व्यतिरेकानभ्युपगमे तस्या द्रव्यरूपतया सर्वत्राविशेषात् 15 द्रव्यमाने संयुक्तप्रत्ययः स्यात् । व्यतिरेके तु येन सता रूपादिविलक्षणेन संयुक्त
इति व्यवहारः स एव संयोग इति न किञ्चिद' बाध्यते, संश्लेषस्यात्र संयोगरूपत्वादिति । नचायं व्यवहारो वासनानिमित्तस्तस्याः पूर्वमेव प्रतिषेधात् ।
अर्थक्रियामाह स च द्रव्यगुणकर्महेतुः * इति । [संयोग] सद्भावे प्रमाणञ्चेदमिति । न हि तन्तुसंयोगादृते पटस्योपत्तिः, भेरीदण्डसंयोगञ्च विना 20 शब्दस्य, हस्ततोमरादिसंयोगाभावे च तोमरकर्मण इति दृष्टञ्च अतो संयोगोऽभ्युपगन्तव्यः ।
कथं पुनद्रव्यारम्भकत्वमस्येत्याह * द्रव्यारम्भे निरपेक्षः* इति । यद्यपि समवाय्यादिकारणमपेक्षते तथाप्यनपेक्षः पश्चाद्भाविकारणानपेक्षणात् । यथा
च व्याख्यातमेतत् तथा भवति नान्यथेति । कुतो ज्ञातमिति चेत् ? * सापे25 क्षेभ्यो निरपेक्षेभ्यश्चेति* ( वै० स० ) वचनात् । अस्य च सूत्रस्यायमर्थः ।
पूर्वमन्त्यतन्तुसंयोगोत्पत्तेः सापेक्षास्तन्तवः पटं नारभन्ते । तज्जातीयानान्तु
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयंप्रकरणम्
पटान्तरे सामर्थ्यावधारणादन्त्यतन्तुसंयोगसम्पादनायोपादीयन्ते । तदुत्पत्तौ चानपेक्षास्तदनन्तरमेवारभन्त इति द्रव्यारम्भे निरपेक्षः संयोगः । अत एवान्त्यसंयोगव्यतिरेकेण नान्या शक्तिः, तस्याश्चरमसहकारिरूपत्वादित्युक्तं पृथिव्यधिकारे ।
न च पूर्वस्य विरलदेशक्षणस्य विनिवृत्तावविरलदेशक्षणस्य विशिष्टस्यो- 5 त्पादे पटव्यवहारादलं संयोगकल्पनयेति वाच्यम्, क्षणभङ्गस्य प्रतिषेधात् । अवयवव्यतिरिक्तस्य चावयविनो व्यवस्थापनादिति ।
* गुणकारम्भे तु सापेक्षः * पश्चाद्भाविनिमित्तापेक्षत्वादिति । कथं ज्ञायत इत्याह * 'संयुक्तसमवायादग्नेवैशेषिकम्' (वै० सू०) इति वचनात् * अस्यार्थः, संयुक्तः पार्थिवेन परमाणुनाग्निस्तत्र समवायादग्ने: सम्बन्धिनं 10 वैशेषिकगुणमुष्णस्पर्शमपेक्षमाणः पार्थिवपरमाण्वग्निसंयोग: पाकजानारभते । अग्नेः सम्बन्धिनमुष्णस्पर्शमपेक्षमाणो वैशेषिकं रूपादिकमारभते ।
ननूष्णस्पर्शस्य चिरोत्पादान पश्चाद्भावित्वमस्ति, पूर्वोत्पत्रकारकापेक्षित्वं द्रव्यारम्भे संयोगस्येष्यत एवेत्यविशेषः स्थात् ? न, श्यामादिनिवृत्तिविशिष्टस्य पश्चाद्भावात् । तथा हस्तात्मसंयोगः पश्चाभाविनं प्रयत्नम- 15 पेक्षमाणो हस्ते कर्मारभते ।
नन्वेवमपि आत्ममन:संयोगस्य बुद्धयाधुत्पत्तौ न पश्चाद्भाविनिमित्तमस्ति, शरीरसम्बन्ध इति चेत्, न, तस्य पश्चाद्भावानुपपत्तेः । यद्यपि संहारावस्थायामात्ममनःसम्बन्धसद्भावेऽपि न ज्ञानम्, शरीरसम्बन्धे तु भवति । तथापि शुक्रशोणितसम्बन्धसमकालं मनःसम्बन्धाभ्युपगमादवश्यं 20 प्राक्तनसंयोगस्य निवृत्तिरिति न तदपेक्षया शरीरसम्बन्धश्चरमभावी । परिनिष्पण्णेऽपि च शरीरे मनसः क्रियाद्वारेण सम्बन्धात् तथा शरीरस्यापि भवतीति न तत्र पूर्वापरभावे प्रमाणमस्तीति ।
न चैवमात्ममनःसम्बन्धस्यानपेक्षित्वमेव, सुखदुःखादीनां निमित्तकारणानां तदुत्तरकाले भावात् । तथाहि, इच्छोत्पत्तावात्ममनःसम्बन्धस्य 25 सुखं स्मरणं वा पश्चाद्भावित्वादपेक्षाकारणम्, एवं द्वेषाद्युत्पत्तावपि दुःखादेः
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
कारणत्वमभ्यूह्यम् । शरीरसम्बन्धस्य तु नियमेन पश्चाद्भावित्वं निषिध्यते, न कारणत्वमिति । एवं कर्मोत्पत्तावपि संयोगस्य न सर्वत्र चरमभाविनिमित्तिं ? त्तत्वं सम्भवतीति । तथा शाखादावुपरि पाषाणादिसंयोगाद् गुरुत्वापेक्षादधोगमनम्, नदीस्रोतसि च द्रवत्वापेक्षात् तृणोदकसंयोगात् तृणादौ 5 गमनञ्च गुरुत्वद्रवत्वयोः पश्चाद्भावित्वमस्तीति ।
नन्वेवं तहि ‘गुणकर्मारम्भे सापेक्षः' इत्ययुक्तं वाक्यम् ? न, अयोगव्यवच्छेदानभ्युपगमात् । तथा च गुणकारम्भ एव सापेक्षो न तु सापेक्ष एव, अनपेक्षितत्वस्याप्युपलब्धेः ।।
अथ कथंलक्षणः कतिविधश्चेति ? अप्राप्तयोः प्राप्तिः संयोगः । 10 स च त्रिविधः । अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्च । तत्रान्यतर
कर्मजः कियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन, विभूनाञ्च मूर्तः । उभयकर्मजो विरुद्ध दिक्रिययोः सन्निपातः, यथा मल्लयोर्मेषयोर्वा । संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा अक्रियस्य कारणसंयोगि
भिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः। स 15 चैकस्माद द्वाभ्यां बहुभ्यश्च भवति । एकस्मात् तावत् तन्तुवीरणसंयोगात
द्वितन्तुकवोरणसंयोगः द्वाभ्यां तन्त्वाकाशसंयोगाभ्यामेको द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः ।
* अथ कथंलक्षणः कतिविधश्चेति * वाक्यं लक्षणस्य निर्णीतत्वाद व्यर्थम् ? न, लक्षणान्तराभिधित्सया अस्योपपत्तेः । यद्यप्युपसर्जनस्य प्राक् 20 लक्षणमुक्तम्, तथापि स्वातन्त्र्येण कथमस्य लक्षणमित्याशङ्का भवत्येव ।
परीक्षापरमेव तद्वाक्यमिति अन्ये । यद् वा विपर्यस्तोऽयं कथंलक्षणमस्येति, न सम्भवत्येव संयोगस्य लक्षणमिति मन्यन्ते ।
कतिविधश्चेति भेदार्थं प्रश्नः । तत्र लक्षणमाह * अप्राप्तयोः प्राप्तिः संयोगः * इति । प्राप्तिः समवायोऽपि भवतीत्यप्राप्तयोरिति पदम् । पर्याय25 शब्दस्य च लक्षणत्व मिष्टमेव । स च प्रत्यक्षेण गृह्यत इति न संयोगस्या
सम्भवेन लक्षणस्याश्रयासिद्धत्वमिति ।
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैवयंप्रकरणम्
* स च त्रिविधः इति भेदप्रतिपादनं सामान्यलक्ष्णस्यासम्भवित्वपरिहारार्थम् । केन रूपेण त्रैविध्यमित्याह अन्यतरकर्मज उभयकर्मजः संयोगजश्च * संयोग इति । तत्रान्यतरस्मिन् कर्म तस्माज्जातोऽन्यतरकर्मजः । * यथा स्थाणोः श्येनेन * इति । *विभूनाञ्च मूर्तेः- इत्युदाहरणद्वयमवान्तरविशेषविवक्षया। तथाहि, श्येनस्थाणुसंयोगः कर्मणा संयोगेन 5 च जन्यते । विभूनान्तु परमाणुभिः संयोगः कर्मणैवेति । संयोगकर्मणोश्च व्यापाराविशेषेऽपि कर्मणैव व्यपदेशः संग्रहार्थम् । अन्यतरकर्मजत्वमुभयत्राप्यस्तीत्यवबोधः ?नाय ।
नन्वेवं संयोगजः कर्मजश्चेति वाच्यम्, तद्विशेषत्वादन्येषामिति । सत्यम् । तथापि कर्मजस्यैतावानेव भेद इति परिसंख्यार्थमन्यतरादिग्रहणम्, 10 न संयोगस्य कारणत्वप्रतिषेधार्थपरम् । तथा च प्रयत्नापेक्षाच्छ्येनचरणसंयोगाच्चरणक्रियाया उत्पादः, विभागस्योत्पद्यमानता, श्येनावयविन्यस्वकारणात् क्रियाया उत्पद्यमानता, ततः श्येनचरणविभागस्योत्पादः, संयोगस्य विनश्यत्ता, श्येनावयविकर्मणोऽप्युत्पादः, विभागस्योत्पद्यमानता, ततः श्येनचरणसंयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता, श्येनावयविविभाग- 15 स्योत्पादः, श्येनावयविकर्मणा च श्येनस्थाणुसंयोगो जन्यते, प्रत्यासन्नत्वे सत्युभयोः सामर्थ्यावधारणात् । अतः श्येनस्थाण्वोः समवायिकारणत्वम्, श्येनक्रियायास्तच्चरणस्थाणुसंयोगस्य चासमवायिकारणत्वम् । प्रत्यासत्तिस्तु श्येनचरणसंयोगस्य महत्यपि सम्भवतीत्यन्यतरावरोधे न विशेषहेतुरस्तीति वक्ष्यामः।
20 __ उभयकर्मजोऽप्युभयोः कर्मणी ताभ्यां जातः । *यथा मल्लयोमॆषयोर्वा । अत्राप्यवयवकर्मभ्यां विभागसमकालमवयविनः कर्माभ्युपगमे संयोगैरवयविकर्मभ्याञ्च संयोगो जन्यत इति चिन्त्यम् । यथा ह्यवयवकर्म अवयवान्तरेण संयोगं करोति, एवं तदवयविनापि इतरावयवकर्मापि, इतरावयवकर्मसंयोगवत् तदवयविनापीति, संयोगत्रितयम् । तच्च प्रत्या- 25 सन्नत्वे सति सामर्थ्यावधारणात् कारणमिति । मेषयोः समवायिकारणत्वम् । [अत्रैव द्विपृथक्त्वोत्पादकप्रक्रियापाठो मातृकायामासीत् संयुक्तप्रत्यये हि
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
व्योमवत्यां
विशेष्यावयवावयविसंयोगस्य चासमवायिकारणत्वम्, शेषं निमित्तकारणमिति । केवलोभयकर्मजत्वञ्च परमाणुद्वयसंयोगस्य द्रष्टव्यम् ।
अन्ये तु उभयपदस्य लुप्तविभक्तिकस्य पूर्वोत्तरेण सम्बन्धात् संयोगकर्मजभेदस्यापि ग्रहणं भविष्यत्येवेति मन्यन्ते । तथाहि, संयोगकारणत्वेनोभयोरुपलम्भात् कर्मणः स्वशब्देनोपादाने अन्यतरः संयोगो लभ्यत एव । अन्यतरश्च कर्म चान्यतरकर्मणी ताभ्यां जातोऽन्यतरकर्मजः । स चोभय एकेन कर्मणा सङ्गत्य द्वितीयेन जन्यते । द्वाभ्याञ्च संयोगः सद्वितीयाभ्यामिति । तथोभयः केवलकर्मजोऽप्येकेन कर्मणा जन्यते द्वाभ्याञ्चेति ।
* संयोगजस्तु उत्पन्नमात्रस्य चिरोत्पन्नस्य वा* इत्युभयः । तस्य लक्षण10 माह *अक्रियस्य* इत्यादि ।
___ अक्रियस्येत्ययं नियमः । कैः सहेत्याह *अकारणैः । किविशिष्टैः ? * कारणसंयोगिभिः इति । कारणेन संयोगास्ते येषां तानि तथोक्तानि, तैः कारणसंयोगिभिरकारणैः सह अक्रियस्य यः संयोगः स संयोगजोऽन्यस्य कारण स्याभावात् ।
संग्रहोक्तेविवरणमाह * कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः * इति । कारणमत्र समवायिकारणम्, स्वकार्यस्य तदपेक्षयान्यदकारणम् । तयोर्यः संयोगस्तत्पूर्वकः कार्याकार्यगतः संयोगः । प्रकृतस्य कारणस्य यत् कार्यं तत्संयुक्तञ्चान्यदकार्यं तयोः संयोगज इति। तत्र चिरोत्पन्नस्योदाहरणं विभागजविभागावसरे वक्ष्यमाणमित्युत्पन्नमात्रस्य 20 विभागद्वारेणोदाहरणमाह * स चैकस्मात् * इत्यादि । स च संयोगजसंयोगः, * एकस्माद् द्वाभ्यां बहुभ्यश्च * । 'च' शब्दादेकस्माद् द्वौ इति विभागः ।।
* एकस्मात्तावत् तन्तुवीरणसंयोगात् द्वितन्तुकवोरणसंयोगः इति । तथा हि, तन्तोर्वीरणेन संसृष्टस्य तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तुक
मुत्पद्यते । तस्य च रूपाद्युत्पत्तिसमकालं वीरणेन संयोगो जन्यत इति 25 तदुत्पत्तावसमवायिकारणमन्वेषणीयम् । न चात्र क्रिया सम्भवति, उभयो
निष्क्रियत्वात् । रूपादीनाञ्च स्वकार्योत्पत्तावेव सामर्थ्यावधारणात् ।
15
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
गुणवैधर्म्यप्रकरणम् असमवायिकारणञ्च विना वस्तुभूतस्य कार्यस्योत्पत्ति!पलब्धेति तन्तुवीरणसंयोग एव समानजातीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणमिति । प्रत्यासत्तिस्तु कार्यकार्थसमवायः कारणैकार्थसमवायश्चेत्युभयरूपा न सम्भवत्येवेति, कार्यैकार्थसमवायस्यैव ग्रहणं कारणेनाव्यवधानादिति केचित् । महती तु यत्र कारणवृत्तीनामेव कार्ये गुणारम्भकत्वं तत्रैव ग्राह्येति । ।
न चैकस्यारम्भकत्वे 'गुणाश्च गुणान्तरमारभन्ते' (वैः सू० ...) इति सूत्रविरोधः । कारणवृत्तीनां समानजात्यारम्भकत्वमेव नियमात् । तथाहि, ये कारणवृत्तयः समानजातीयमेवारभन्ते तेषामनेकत्वसंख्यायुक्तानामेवारम्भकत्वमिति नियमः । तदेवं द्वितन्तुकवीरणयोः समवायिकारणत्वम्, तन्तुवीरणसंयोगस्यासमवायिकारणत्वम् । शेषं निमित्तकारणमिति ।। ___ द्वितन्तुकवीरणसंयोगस्योत्पत्तिः द्वाभ्यां तन्त्वाकाशसंयोगाभ्या [मेको द्वितन्तुकाकाशसंयोगः इति । तन्तोराकाशसम्बद्धस्य तन्त्वन्तरेणाभिसम्बन्ध सति द्वितन्तुकमुत्पद्यते । तन्तुक्रिया च तन्त्वन्तरेणेव चाकाशदेशेनापि संयोगं करोति, प्रतिबन्धकाभावात् । उत्पन्ने तु द्वितन्तुके रूपाद्य त्पत्तिसमकालमाकाशेनापि संयोगो भवत्येव । किमत्र प्रमाणमिति 15 चेत्, अनुमानम् ।
तथा हि, द्वितन्तुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत् । आकाशं वा, स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात्, द्वितन्तुकसंयुक्तवीरणवत । सिद्धे च संयोगे तस्य कार्यत्वादुत्पत्तिकारणं चिन्त्यम् । तत्र द्वितन्तुकाकाशयोः समवायि- 20 कारणत्वमिति अन्येनासमवायिकारणेन भवितव्यम् । न च रूपाद्युत्पत्तिसमकालं द्वितन्तुके क्रिया सम्भवतीति तन्त्वाकाशसंयोगयोः समानजात्तीयत्वे सति प्रत्यासन्नत्वादसमवायिकारणत्वमिति । प्रत्यासत्तिस्तूभयरूपापि सम्भवतीति पूर्ववद् ग्राह्या।
*बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः तन्तूनां तुर्या 25 सह संयोगे सति अन्त्यतन्तुसंयोगानन्तरं पट उत्पद्यते । तस्य तत्पटाद्युत्पत्तिसमकालं तुर्या सह संयोगो गृह्यते इत्युत्पत्तिकारणं वाच्यम् । तत्र पटतुर्योः
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
समवायिकारणत्वमन्यस्यासमवायिकारणस्यानुपलब्धेस्तुन्तुतुरीसंयोगानामसम - वायिकारणत्वम् । प्रत्यासत्तिस्तु पूर्ववद् बाच्येति ।
ननु चायुक्तमेतत्, तन्तूनां पटोत्पत्तावकारणत्वात् । कारणाकारणसंयोगपूर्वकश्च कार्याकार्यगतः संयोगः संयोगज इति तन्तोस्तन्त्वन्तरेणाभिसम्बन्धे सति द्वितन्तकमुत्पद्यते । पुनस्तन्त्वन्तरेणाभिसम्बन्धेऽन्यत् कार्यम् इत्यनेककार्यव्यवधानेन पटोत्पत्तेः कथं तन्तूनां पटोत्पत्तौ कारणन्वम् ? न, आरब्धकार्यस्यैव सहकार्यन्तरप्राप्तावारम्भकत्वे सति आरभ्यारम्भकवादः स्यात्, तत्र च मूर्तानां समानासमानदेशत्वम् । तथा हि, तन्तुभ्यामारब्धं
तन्त्वोर्वर्त्तते । पुनरन्यसहिताभ्यामारब्धं तयोस्तत्र चेत्येवमुत्तरोत्त10 रेष्वप्यूह्यम्।
अथान्यसहिताभ्यामारब्धमेकस्मिन्नेव वर्त्तत इत्येकद्रव्यवृत्तित्वं स्यात्, 'इह तन्तुषु पटः' इति प्रत्ययाभावश्च । तद्विनाशे चावान्तरकार्यानपलम्भः, शेषञ्च आरभ्यारम्भकवादे दूषणं पृथिव्यधिकारे ज्ञेयम् । तस्माद् व्योमादि
सम्बन्धादवयवक्रियाद्वारेणावान्तरकार्यविनाशे तन्त्वन्तराभिसम्बन्धकालमव15 स्थितसंयोगास्तन्तवः पुनः कार्यान्तरमारभन्त इत्येष न्यायस्तावद् यावदन्त्यतन्तुसंयोगात् पटोत्पत्तिरिति ।
न चावान्तरकार्योत्पत्तिवैयर्थ्यम्, तदन्तरेणाभिप्रेतकार्यानुत्पत्तेः । यथा हि, विशिष्ट स्थानप्राप्ति वान्तरस्थानप्राप्ति विना सम्पद्यत इत्यकार
णत्वेऽपि तत्सद्भावः, तद्वदवान्तरकार्य विनाभिप्रेतकार्य न सम्पद्यत इति, 20 तस्मात् तत्सद्भावोऽभ्युपगन्तव्यः । कारणत्वन्तु निषिध्यते तदपायेऽप्युत्पत्तेरित्यलम् ।
___ * एकस्माच्च द्वयोरुत्पत्तिः। कथम् ? यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन पार्थिवस्य अन्येनाप्येन चाप्यस्य युगपत्
संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पाथिवाप्ये व्यणुके युगपदारभ्येते। 25 ततो यस्मिन् काले व्यणकयोः कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिस्त
स्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैवयंप्रकरणम्
७१ संयोगौ युगपदुत्पद्यते। कि कारणम् ? कारणसंयोगिना हि अकारणेन कार्यमवश्यं संयुज्यत इति न्यायः । अतः पार्थिवव्यणुकं कारणसंयोगिना आप्येनाणुना सम्बद्धयते । आप्यमपि व्यणुकं कारणसंयोगिना पार्थिवेनेति। अथ द्वयणुकयोरितरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्ध इति ? तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्ध इति ।
___ अथैकस्मात् संयोगाद् द्वयोः संयोगयोरुत्पत्तिः कथमित्याह * यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन परमाणुना सह पार्थिवस्य, [अन्येन आप्येन चाप्यस्य युगपत् संयोगौ भवतस्तदा * ताभ्यां समानजातीयद्रव्यसम्बन्धात् * पार्थिवाप्ये द्व्यणुके युगपदारभ्येते । ततो द्व्यणुकोत्पादानन्तरं यस्मिन्नेव काले कारणगुणपूर्वप्रक्रमेण द्व्यणुकयो रूपाद्युत्पत्तिः 10 * तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते * । इतरः परमाणुः कारणं स्वकार्यस्य, इतरोऽकारणं तदपेक्षया । एवमन्योऽपीति । तद्गतात् तत्समवेतात् संयोगादितरेतरकार्याकार्यगतो, इतरत् पाधिवं व्यणुकं कार्यं स्वकारणस्य, इतरश्चाप्यपरमाणुरकार्यः, तथेतरदाप्यं व्यणुकं कार्यमितरश्त्र पार्थिवपरमाणुरकार्यः, 15 तद्गतौ संयोगौ युगपदुत्पद्यते। तत्र च व्यणुकपरमाण्वोः समवायिकारणत्वमिति अन्यदसमवायिकारणं चिन्त्यम् । न चात्र क्रिया सम्भवति, उभोनिष्क्रियत्वादिति परमाण्वोः संयोगः प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति ।
अथ पार्थिवद्व्यणुकस्य आप्येनाणुना संयोगः, तथा आप्यस्य 20 पार्थिवेनेति किं कारणम्, किं प्रमाणमित्याह * कारणसंयोगिना हि अकारणेन कार्यमवश्यं संयुज्यत इति न्यायः * प्रमाणम् । तथा हि,पार्थिवव्यणुकं स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्यत्वात्, वीरणसंयुक्तद्वितन्तुकवत् । आप्यो वा परमाणः स्वसंयुक्तकारणकार्येण संयुज्यते, तत्कारणसंयोगित्वात, द्वितन्तुकसंयुक्तवीरणवत्। एवमितरत्रापि वाच्यम् । यत एवमतः पार्थिव- 25 द्व्यणकं स्वकारणसंयोगिना आप्येनाणुना सम्बध्यते, आप्यमपि व्यणुकं पार्थिवेनेति।
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
व्योमवत्यां
* अथ व्यणुकयोरितरेतरकारणाकारण सम्बद्धयोः इति । इतरस्य पार्थिवद्व्यणुकस्य यत् कारणम् तदितरस्याकारणम्, एवमाप्यद्व्यणुकस्य कारणमितरस्य पार्थिवदव्यणकस्याकारणम्। तत्सम्बद्धयोदळणकयो: परस्परतः
कथं सम्बन्ध इत्याह * तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्बन्धः * इति । 5 यौ तौ कार्याकार्यगतौ संयोगावेकस्मात् संयोगादुत्पन्नौ ताभ्याम् । व्यणुकयोः
समवायिकारणत्वम्, कार्याकार्यसंयोगयोश्चासमवायिकारणत्वम् । प्रत्याससत्तिस्तु उभयरूपापि सम्भवतीति पूर्ववद् ग्राह्मा । अदृष्टादिश्च निमित्तकारणमिति।
न च व्यणुकस्य स्वकारणसंयोगिना परमाण्वन्तरेण द्व्यणुकान्तरेणापि 10 रूपाद्युत्पत्तिसमकालमेकस्मादेव कारणाकारणसंयोगात् संयोगो भविष्यतीति
वाच्यम् । तस्मिन् काले द्व्यणुकस्य कारणसंयोगित्वाभावात् । कारणसंयोगिना चाप्यकार्येण संयोगः संयोगज इति । तस्मादाप्यद्व्यणुकस्य पार्थिवेन परमाणुना संयोगः पार्थिवस्य चाप्येनेति पूर्वमेवाभिधेयम् । येन कारणसंयोगित्वाद् द्व्यणुकयोरपि संयोगः संयोगजो भवतीति । - नाजः संयोगेऽस्ति, नित्यपरिमण्डलवत् पृथगनभिधानात् । यथा चतुविध परिमाणमुत्पाद्यमुक्त्वा आह नित्यं पारिमाण्डल्यम्' इत्येवमन्यतरकर्मजादिसंयोगमुत्पाद्यमुक्त्वा पृथङ नित्यं ब्रूयान् न त्वेवमनवीत, तस्मानास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतर
कर्मजः संयोगः। विभूनान्तु परस्परतः संयोगो नास्ति युतसिध्य20 भावात् । सा पुनयोरन्यतरस्य वा पृथग्गतिमत्त्वं युताशयसमवायिस्वञ्चेति ।
इदानीं विभागसूत्रेऽजसंयोगानभिधानान्न्यूनत्वमित्याशय परिहारार्थमाह नाजः संयोगोऽस्ति नित्यपरिमण्डलवत् पृथगनभिधानात् । यथा
भगवानृषिः सकलार्थदर्शी * चतुर्विधं परिमाणमुत्पाद्यमुक्त्वा आह * नित्यं 25 पारिमाण्डल्यम् * परमाणुपरिमाणमस्तीति * एवमन्यतरकर्मजादिसंयोगम् *
त्रिविधम् । * उत्पाद्यमुक्त्वा पृथङ् नित्यम् * संयोगम् । * ब्रूयात्, नत्वेवम
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
करणम्
Acharya Shri Kailassagarsuri Gyanmandir
७३
ब्रवीत्, तस्मान्नास्त्यजः संयोगः * । प्रतिज्ञातञ्च महर्षिणा यद्भावरूपं तत्सर्वमभिधास्यामीति ।
5
ननु चात्र अजः संयोगो नास्तीति प्रतिज्ञावाक्ये पदयोर्व्याघातः, यथेदञ्च नास्ति चेति । न । अन्यथा प्रतिज्ञानात् । तथा हि परमाणुभिराकाशादीनां संयोगो नित्यत्वेनाभ्युपगतः परेण, तस्याजत्वमेव निषिध्यते, न सद्भावः । परमाणुभिराकाशादीनां संयोगोऽजो न भवति, सर्वज्ञेन महर्षिणा अजातत्वेन पृथगप्रतिपाद्यमानत्वात् । यच्च अजं तदजत्वेन पृथगुपदिष्टं यथा 'नित्यं पारिमाण्डल्यम्' इति ।
अथ संयोगस्याप्राप्तिविरोधित्वम्, तत्तु न सम्भवत्येव, आकाशादेविभुत्वेन तत्परित्यागानुपपत्तेः । न चाश्रयविनाशाद् विनाशोऽत्र, आश्रयस्यापि 10 नित्यत्वात् । न चान्यद् विनाशकारणमस्तीत्यजत्वमेव । अवचनन्तु व्यामोहादपि सम्भवतीत्यन्यथासिद्धम् । अस्य प्रतिषेधार्थमाह * परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः * इति । कथमाकाशापरित्यागेन परमाणोः संयोगा विभागाश्च भवन्तीति चेत् ? यथा वृक्षापरित्यागेन देवदत्तस्य । तथा हि, मूलप्रदेशादूर्ध्वं प्रदेशमारोहतः पुरुषस्य वृक्षापरित्यागेनैव संयोगा विभागाश्चोपलभ्यन्ते, 'मूलप्रदेशे वृक्षेण संयुक्तः, मध्यप्रदेशे, अग्रप्रदेशे ' चेति । न च प्रदेशस्यैव ते संयोगाः, 'वृक्षेण संयुक्त:' इति प्रत्ययोपलम्भात् । प्रदेशेनैव संयोगे 'प्रदेशेन संयुक्तो न वृक्षेण' इति ज्ञानं स्यात् । न चैतदस्ति । 'वृक्षेण संयुक्त:' इति ज्ञानस्य सर्वस्यामवस्थायामुपलब्धेः ।
For Private And Personal Use Only
15
यदि च संयोगस्य प्रदेशवृत्तित्वात् प्रदेशेनैव संयोगो न वृक्षेणेति, तहि 20 तेऽपि प्रदेशाः स्वावयवापेक्षया अवयविन इति तत्प्रदेशानां संयोग:, तेषामप्यवयवित्वात् प्रदेशानामिति तावद् यावन्निर्देशाः परमाणवः । तेषाञ्च निष्प्रदेशत्वात् संयोगाभावेन द्व्यणुकादिप्रक्रमेण कार्यमिति क्षित्यादेरसम्भव एव ।
अथ निष्प्रदेशत्वेऽपि सति परमाणूनां प्रदेशत्वाद् इष्यत एव संयोगस्तह द्व्यणुकानां संयोगाभावे न त्र्यणुकमिति दूषणं तदवस्थमेव । न च परमाणुषु 25 वर्तमानः संयोगो द्व्यणुकादिसमवेतं द्रव्यमारभते, व्यधिकरणस्यारम्भकत्वे
१०
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
व्योमवत्यां
ऽतिप्रसङ्गात् । तस्मात् संयोगस्य प्रदेशवृत्तित्वमाश्रयाव्यापकत्वमित्यवयवेनावयविना च संयोगो धटत एव ।
न च प्राक्तनस्य मूलप्रदेशे वृक्षेण संयोगस्यावस्थाने सत्युत्तरसंयोगेन शक्यं भवितुमिति तद्विनाशको विभागोऽपि सिद्धः । यथा चात्र वृक्षापरित्यागेनैव पुरुषस्यान्यतरकर्मजाः संयोगा विभागाश्च भवन्ति तद्वदाकाशापरित्यागेनैव परमाणोः संयोगा विभागाश्च भविष्यन्तीति व्यापकत्वमतन्त्रम् ।
तदेवं परमाण्वाकाशादिसंयोगस्योत्पत्तिविनाशकारणोपपत्ते जत्वमिति । यच्च सूत्रकारस्यावचनं व्यामोहादपि सम्भवतीत्युक्तम्, तदसत्,
तदभिहितानां पदार्थानां प्रमाणान्तरेणापि तथाभावोपलब्धेः सम्यग्ज्ञानसिद्धौ 10 तद्विरुद्धस्य मिथ्याज्ञानस्य निवृत्तेः ।
अथ विभूनां परस्परतः संयोगो भविष्यतीति । तथा ह्याकाशम् आत्मादिना संयुज्यते, मूर्तसंयोगित्वात्, घटवत् । अस्य प्रतिषेधार्थमाह विभूनान्तु परस्परतः संयोगो नास्ति, युतसिद्ध्यभावात् । यत्र यत्र संयोगस्तत्र तत्र
युतसिद्धिरुपलब्धा । सा च संयोगस्य व्यापिका व्यावर्तमाना स्वव्याप्तं संयोगं 15 गृहीत्वा व्यावर्तत इत्यन्यथासिद्धं साधनम् ।
*सा पुनः* युतसिद्धिः । *द्वयोरन्यतरस्य वा पृथगगतिमत्त्वं युताश्रयसमवायित्वञ्चेति । द्वयोः पृथग्गतिमत्त्वमन्यतरस्य वेति, इयं नित्यानां युतसिद्धिः । द्वयोर्युताश्रयसमवायित्वमन्यतरस्य वेति, अनित्यानाम् । अस्यास्तु
विस्तरेण विचारो विभागावसरे द्रष्टव्यः । न च विभूनां पृथगगतिमत्वम20 मूर्त्तत्वात् । युताश्रयसमवायित्वमपि न सम्भवत्येवाकार्यत्वादिति । संयोगविनाशप्रकारः
विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात, क्वचिद आश्रयविनाशादपि । कथम् ? यदा तन्त्वोः सयोगे सत्यन्यतरतन्त्वा
रम्भकेंऽशौ कर्मोत्पद्यते, तेन कर्मणा अंश्वन्तराद् विभागः क्रियते, विभा25 गाच्च तन्त्वारम्भकसंयोगविनाशः, संयोगविनाशात् तन्तुविनाशः, तद्
विनाशे तदाश्रितस्थ तन्त्वन्तरसंयोगस्य विनाश इति ।
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
गुणवैधयंप्रकरणम् विनाशस्य च सहेतुकत्वात् कुतः संयोगो विनश्यतीत्याह * विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद् विभागात् * इति । ययोरेव संयोगस्तयोरेव विभागात संयोगस्य विनाशः, तेन सता तस्यानुपलब्धः । [ अत्र क्वचिदाश्रयविनाशादपि' इत्यादिः 'तन्त्वारम्भक संयोगविनाश इति' इत्यन्तस्य प्रशस्तपादीयग्रन्थस्य व्याख्या न दृश्यतेऽतोऽनुमीयते ग्रन्थः पतित इति] 5 संयोगविनाशा त् तन्तुविनाशः] तन्तुविनाशे तदाश्रितस्य [तन्त्वन्तर संयोगस्य विनाश इति । यदा तन्तुसंयोगविनाशसमकालं तन्त्वन्तरेऽपि कर्म सम्भाव्यते तदा आश्रयविनाशविभागाभ्यामपि संयोगस्य विनाश इति ज्ञेयम् । विभागवैधर्म्यम् विभागो विभक्तप्रत्यनिमित्तम्, शब्दविभागहेतुश्च ।
. 10 इदानी विभागस्य लक्षणपरीक्षणार्थम् * विभागो विभक्तप्रत्यनिमित्तम् * इत्यादि प्रकरणम् । प्रतीतिः, प्रत्ययो, ज्ञानम्, प्रतीयतेऽनेनेति प्रत्ययोऽभिधानम् । तद्धेतुत्वमन्येषामपीति विभक्तग्रहणम् । तथाप्याकाशात्मभ्यां व्यभिचारपरिहारार्थं द्रव्य विशेषणत्वे सतीति द्रष्टव्यम् । तथाहि, विभागः, इतरेभ्योभिद्यते, द्रव्यविशेषणत्वे सति विभक्तप्रत्ययनिमित्तत्वात्, यस्तु न भिद्यते 15 न चासावेवम्, यथा रूपादिरिति । तथा विभक्तप्रत्ययो विशेष्यज्ञानत्वान्नर्ते विशेषणाद् भवतीति परीक्षापरं वाक्यम् । न चास्य वासनाप्रभवत्वम्, तस्याः पूर्वमेव प्रतिषेधात् । विरलदेशोत्पादश्च क्षणभङ्गनिषेधादेव निषिद्धः । . ___ अथ संयोगस्यानुत्पादे विनाशे च विभक्तव्यवहारान्नान्यो विभाग इति चेत, न, विभागं विना संयोगविनाशस्यैवाभावात् । तथा हि गुणानामाश्रय- 20 विनाशाद् विरोधिगुणप्रादुर्भावाच्च विनाशोपलब्धेः, यत्राश्रयविनाशस्तत्र संयोगस्याविनाशान्न विभक्तप्रत्ययः स्यात्, दृष्टश्च संयोगविनाशस्तेन कर्मणो गुणविनाशे सामर्थ्यादर्शनात्, अन्यस्य विनाशहेतोरभावाद् विभागोऽभ्युपगन्तव्यः । संयोगाभावे च भाक्तो विभक्त प्रत्यय इति । __अर्थक्रियामाह * शब्दविभागहेतुश्च । वंशदलविभागाच्छब्दोत्पत्तिः, 25 विभागाञ्च विभागोत्पत्तिरिति वक्ष्यामः ।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
व्योमवत्यां अथ कथंलक्षणः कतिविधिश्चेति वाक्यमिहापि सम्बध्यत इति ज्ञेयम्, पूर्ववत् प्रतिसमाधानात् ।
प्राप्तिपूविका अप्राप्तिविभागः । स च त्रिविधः। अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग इति। तत्रान्यतरकर्मजोभयकर्मजौ 5 संयोगवत् । विभागजस्तु द्विविधा, कारणविभागात् कारणाकारणविभागाच्च ।
लक्षणमाह * प्राप्तिपूर्विका अप्राप्तिविभाग * । प्राप्तिः संयोगः पूर्व यस्याः सा तत्पूविका, अप्राप्तिविभागः। संयोगानुत्पत्तिश्चाप्राप्तिर्न च प्राप्तिपूविकेति ।
अथ प्राप्तेः पूर्वकालत्वात् किं कारणत्वम्, सति भावो वा ? सति भावमात्रम्, न तु कारणत्वमिति केचित् । तत्तु न बुध्यामहे । क्रियावदन्वयव्यतिरेकाभ्यां विभागजन्मनि संयोगस्यापि व्यापारोपलब्धेः । न हि क्रियावत्संयोगाभावे विभागो भवति, तद्भावे तु भवतीति । न चान्वयव्यतिरेकिणः
संयोगस्य विभागकारणत्वे किञ्चिद् बाधकमस्ति, यस्य भयादकारणत्वमिष्येत । 15 स्वकार्यविरोधित्वन्तु गुणानामिष्टं शब्दादौ । प्रत्यासन्नश्च संयोगो विभागोत्प
तावित्यसमवायिकारणम् । यथोक्ता चाप्राप्तिविभाग इति लक्षणे संयोगवदाक्षेपप्रतिसमाधानम् ।
___ *स च चिविधः एव । * अन्यतरकर्मज उभयकर्मजो विभागजश्च विभाग * इति । * तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् * इति । एतेन 20 कर्मणा विभागेन च विभागो जन्यते, यथा स्थाणोः श्येनेनेति । अत्र हि
श्येनावयविनि स्थाणुना तच्चरणविभागसमकालं कर्मसञ्चिन्तनाद् उभयोः प्रत्यासन्नत्वे सति व्यापारः सम्भवतीति चिन्तनीयम् । विभूनाञ्च भूर्तेरिति केवलैककर्मजः । तथा द्वाभ्यां कर्मभ्यां विभागैश्च विभागो जन्यते । यथा
मल्लयोर्मेषयोर्वेति । यथा हि मेषशिरसि कर्मोत्पन्नं शिरोऽन्तराद् विभाग 25 करोति एवं तदवयविनापि इत्यवयवावयविविभागत्रयमवयविविभागोत्पत्तौ
प्रत्यासन्नत्वे सति सामर्थ्यावधारणात् कारणमिति । तथा विभागरहिताभ्यां विभागो जन्यते, यथा परमाण्वोरित्यतिदेशार्थः ।
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
गुणवैधयंप्रकरणम् विभागजस्तु व्याख्यायते । एतद् द्विविधं कारणभेदादित्याह * कारणविभागात् कारणाकारणविभागाच्च * इति । नन्वनेकस्मादपि कारणादेकं कार्यमुत्पद्यमानं दृष्टमिति न कारणभेदाद् भेदो युक्तः, तन्न, सामग्रीभेदस्य विवक्षितत्वात् । तथा टेका कारणविभागोपलक्षिता, अन्या तु कारणाकारणविभागोपलक्षिता सामग्रीति, तद्भेदाञ्च विभागस्य भेदो घटत एव, 5 सामग्रीभेदेन कार्यस्य घटादेर्भेददर्शनात्, विरुद्धधर्माधिकरणत्वाच्च विभिन्नप्रतिभासविषयत्वात् । तथाहि, कारणविभागपूर्वको विभागः सक्रियस्यैव, कारणाकारणविभागपूर्वकस्तु निष्क्रियस्यैवेति । तथा कारणविभागपूर्वको विभागः शब्दमारभते, कारणाकारणविभागपूर्वको विभागो विभागमेवेति धर्मभेदः । तद् भेदाच्चान्यत्र भेदोपलब्धेरिहापि भेदोऽवश्यम्भावी। 10
तत्र कारणविभागात् तावत् कार्याविष्टे कारणे कर्मोत्पन्न यदा तस्यावयवान्तराद् विभागं करोति न तदा आकाशविदेशात् । यवा तु आकाशादिदेशाद् विभागं करोति न तदा अवयवान्तरादिति स्थितिः ।
अतोऽवयवकर्म अवयवान्तरादेव विभागमारभते, ततो विभागाचच द्रव्यारम्भकसंयोगविनाशः, तस्मिन् विनष्टे कारणाभावात् कार्या- 15 भाव इत्यवयविविनाशः । तदा कारणयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद् विभागमारभते, न निष्क्रियस्य, कारणाभावात, उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः।
न तु तदवयवकर्म आकाशादिदेशाद् विभागं करोति, तदारम्भ- 20 कालातीतत्वात् । प्रदेशान्तरसंयोगन्तु करोत्येव, अकृतसंयोगस्य कर्मणः कालात्ययाभावादिति ।
कारणविभागात् तावद् विभागमाह * कार्याविष्टे * इत्यादिना । कार्येणाविष्टं व्याप्तमारब्धकार्यमिति यावत्, तस्मिन्, * कारणे कर्मोत्पन्नम् - न कारणमात्रे । यदा * अवयवान्तराद् विभागम् + द्रव्यारम्भकसंयोगविरो- 25 धिनम् । * करोति न तदा आकाशादिदेशात् *। * यदा तु आकाशादि देशात्,
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
व्योमवत्यां
न तदा अवयवान्तराद् * विशिष्टं विभागमिति । * स्थितिः * विभागजविभागचिन्तायाः प्रतिज्ञा वा।।
नन् सर्वमेतदसाम्प्रतम्, विपरीतार्थव्यवस्थायां प्रमाणोपपत्तेः । तथाहि, विशिष्टकारणकर्म, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन विभागमारभते, अवयवकर्मत्वात्, यद् यदवयवकर्म तत्तदवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेनापि विभागमारभते, यथा पद्मावयवकर्म, तथा चैतत् कर्म, तस्माद् यथोक्तसाध्यम् । एवं विशिष्टावयवाः, अवयवान्तरविभागोत्पत्तिसमकालमाकाशदेशेन त्रिभज्यन्ते, अवयवत्वात्, पद्मपत्रवत् । अवयव
विभागोऽपि, आकाशदेशे विभागेन सहोत्पद्यते, अवयवविभागत्वात्, पद्मावय10 वविभागवत् । एवमन्यदप्यूह्यम् । न चात्र पक्षधर्मत्वादीनामुपलब्धेबर्बाधकमस्तीति ।
असदेतत, बाधकोपपत्तेः । तथा हि, यत्र विभागद्वयजनकत्वं कर्मणो दृष्टं तत्र द्रव्यविनाशः, द्रव्यारम्भकसंयोगाविनाशः, तद्विरोधिविभागानुत्पादः, अवयवस्यास्वातन्त्र्यम्, तद्वृत्तित्वञ्च कर्मण इति व्यापका धर्मा दृष्टाः । ते च व्यावर्तमानाः स्वव्याप्तं विभागद्वयजनकत्वं गृहीत्वा व्यावर्तन्त इत्यन्यथासिद्धम् । न चैवं विशेषविरुद्धानुमानमेतत्, धर्माणामव्यभिचारात् । यत्र हि व्यभिचारिणो धर्मास्तत्रैव विशेषविरुद्धानुमानमिति ।
यद्वा अन्यत्र कार्यविशेषेण कारणविशेषप्रसिद्धेः कार्यविशेषप्रतिपादनार्थं तत् । एकत्र द्रव्यारम्भकसंयोगविरोधिविभागोऽन्यत्र विभागमात्रम् । न तु 20 दृष्टान्तदाान्तिकयो+धर्म्यमात्रमेवेति ।
न च कार्यविशेषः कारणविशेष व्यभिचरतीति द्रव्यारम्भकसंयोगविरोधिविभागसम्पादने विभागमात्रजनने च कर्मणो विशेषोऽभ्युपगन्तव्यः । स तु क्षणिकैकद्रव्यवृत्तित्ववादिनामुभयत्रापि सम्भवाद् एकत्राकाशदेशे
विभागजनकत्वमन्यत्राजनकत्वमेव विशेष इति कल्प्यते । तेन यदि स्वतन्त्रा25 वयवकर्म आकाशदेशेन विभागं कुर्यात्, द्रव्यारम्भकसंयोगविरोधिनो
विभागस्यानुत्पत्तिरिति संयोगाविनाशे द्रव्याविनाशः स्यात् ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
न चात्रावयवविनाशात् कार्यद्रव्यस्य च विनाशः, तदवयवकर्मणोऽप्याकाशदेशेन विभागजनकत्वाभ्युपगमेऽवयवान्तरेण विशिष्टविभागानुत्पत्तौ संयोगाविनाशेन तस्याप्यविनाशः स्यात् । एवमुत्तरोत्तरावयवेष्वपि आश्रयविनाशेन विनाशाभ्युपगमे द्वयणुकस्याविनाशः, तदाश्रयस्य नित्यत्वात् ।
अथ संयोगविनाशाद् द्व्यणुकविनाशस्तर्हि द्रव्यारम्भकसंयोगविरोधिविभागोऽभ्युपगन्तव्यः, तेन सता आश्रयाविनाशेनापि विनाशोपपत्तेः ।
७९
For Private And Personal Use Only
5
तथाहि द्रव्यारम्भकसंयोगविनाशाद् विनष्टे समवायिकारणे तदाश्रितस्य कार्यद्रव्यस्य विनाशो घटत एव । तस्माद् यत्र द्रव्यविनाशस्तत्र अवयवकर्म आकाशदेशेन विभागं नारभत इति । प्रयोगस्तु, स्वतन्त्रावयवकर्म, अवयवान्तरेण द्रव्यारम्भकसंयोगविरोधिविभागसमकालमाकाशदेशेन विभागं नारभते, 10 अवयव कर्मत्वात्, पद्मपत्रकर्मवत् । तथा, स्वतन्त्रावयवः, अवयवान्तरेण विशिष्टविभागसमकालं नाकारादेशेन विभजते, अवयवत्वात्, पद्मपत्रवत् । एवं विभागादेरपि पक्षीकरणेनानुमानमूह्यम् ।
विशिष्टविभागानामुत्पत्तिश्चात्र द्रव्याविनाशेनैव निश्चीयत इति सपक्षधर्मत्वम् पद्मावयव कर्मादेः । न च विशिष्टविभागसमकालमाकाशदेशेन विभागमारभमाणं किञ्चिदुपलब्धमिति विपक्षाभावादन्वयाव्यभिचारेणैव गमकत्वं ज्ञेयम् । सामान्येन तु अवयवविभागसमकालमाकाशदेशेन विभाग. जनकत्वप्रतिषेधे साध्ये व्यतिरेकाव्यभिचारेणापि गमकत्वमिति ।
15
तथाहि, स्वतन्त्रावयवकर्म, अवयवान्तरविभागसमकालमाकाशदेशेन विभागं नारभते, स्वतन्त्रावयवकर्मत्वात्, यत्त्वारभते न तत् स्वतन्त्रावयवकर्म, 20 यथा पद्मपत्रकर्मेति । तथा स्वतन्त्रावयवः, अवयवान्तरविभागसमकालं नाकाशदेशेन विभजते, स्वतन्त्रावयवत्वात्, यस्तु विभजते न चासौ स्वतन्त्रावयवः, यथा पद्मपत्रमिति । स्वातन्त्र्यन्तु क्रियाक्रमेण द्रव्यविनाशे भवतीति पूर्वमेवोक्तम् । न चैतत् पद्मावयवसङ्कोचादिक्रयायां सम्भवति, द्रव्यविनाशा - दर्शनात् ।
अथ पद्मावयवकर्मापि अवयवविभागसमकालमाकाशदेशेन विभागमारमत इत्यतीन्द्रियत्वादनुमानं प्रमाणं वाच्यम्, प्रमाणं विना प्रमेयासिद्धेः ।
25
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
८०
www.kobatirth.org
व्योमवत्यां
25
Acharya Shri Kailassagarsuri Gyanmandir
तत्र यदि अस्वतन्त्रावयवकर्मत्वं व्यतिरेकाव्यभिचारेण गमकमितरेतराश्रयत्वं स्यात्, एकाप्रसिद्धावितराप्रसिद्धेरिति ।
नैतदेवम्, आकाशदेशेनास्वतन्त्रावयवकर्मणो विभागजनकत्वे बाधकाभावात् । तथाहि, स्वतन्त्रावयवकर्मणो द्रव्यारम्भकसंयोगविरोध्युत्पादकत्वम् आकाशदेशेन विभागजनकत्वे बाधकमस्ति नैवमत्रेति ।
तथाहि, पद्मावयवकर्म, आकाशदेशेन विभागमारभते तदारम्भकबाधकानुत्पत्तौ कर्मत्वात्, यद् यदेवं तत्तदाकाशादिदेशेन विभागमारभते, यथा अनारब्धकार्यं परमाणुकर्मेति । अवश्यञ्च परमाणोराकाशादिदेशेन सम्बद्धस्योत्पन्नं कर्म तत्संयोगनिवर्त्तकं विभागमारभते, तदन्तरेण पूर्वसंयोगावस्थाना10 दुत्तरसंयोगानुत्पत्तौ द्व्यणुकादिप्रक्रमेण कार्यानुत्पत्तिप्रसङ्गात् ।
अन्ये तु अस्वतन्त्रावयवकर्मणो यथा अवयवान्तरविभागसमकालम् अकारणेन तृणादिना विभागजनकत्वम्, एवमाकाशादीनामपीति मन्यन्ते । तृणादिविभागश्च पद्मावयवस्य प्रत्यक्ष इत्युदाहरणम् । न चैवं स्वतन्त्रावयवकर्मणोऽपि अकारणेन विभागजनकत्वं प्रत्यक्षसिद्धमस्ति ( विवादोपपत्ते15 रित्यलम् ? ) । नापीदमसदुत्तरम् । प्रसङ्गसमापेक्षायामुदाहरणेऽपि क्वचिदनुमानोपन्यासाभ्युपगमात् ।
अतः स्वतन्त्रावयवकर्म * अवयवान्तरादेव विभागमारभते, विभागाच्च द्रव्यारम्भकसंयोगविनाश:, तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः । ततः स्वतन्त्रावयवस्याकारादेशेन विभागो वाच्यः । 20 तदन्तरेण पूर्वसंयोगस्यावस्थानादुत्तरसंयोगानुत्पत्तौ कर्मणः कालान्तरावस्था - यित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । न चैतदस्ति, कर्मणः क्षणिकत्वोपलब्धेः । न च विनाशहेतुं विना अस्य विनाश: [ तादृशविनाशस्य ] प्रतिषेधात् । अतोऽन्यस्य विनाशहेतोरभावादुत्तरसंयोगस्यैवान्वयव्यतिरेकाभ्यां कर्मविनाशे सामर्थ्यावधारणात् कारणत्वमिति ।
न चोत्तरसंयोगः पूर्वस्याकाशदेशेन संयोगस्य प्रतिबन्धकस्यावस्थाने भवतीति तद्विनाशहेतुर्विभागो निश्चीयते । न चासौ क्रियातः सम्भवत्युक्त
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधर्म्यप्रकरणम्
न्यायात् । असमवायिकारणं विना च विभागस्योत्पत्तिर्नोपलब्धेति अन्यस्यासमवायिकारणस्याभावात् कारणयोर्वर्तमानो विभागः प्रत्यासन्नत्वे सति समानजातीयत्वादसमवायिकारणमिति । यत्र हि समानजातीयं नास्ति तत्र
विजातीयमेवासमवायिकारणमिति कल्प्यते । क्रिया तु विद्यमानाप्यत्र बाधक
सद्भावादकारणमेव । तस्मात् कारणयोर्वर्तमानो विभाग; * कार्यसंयुक्तात्
勞
कार्यसंयोगोपलक्षितात् आकाशादिदेशाद् विभागमारभत इति । आदि
पदेनात्मादेरवरोधः ।
營
"
Acharya Shri Kailassagarsuri Gyanmandir
किमपेक्ष्य इत्याह * कार्यविनाशविशिष्ट कालम् * इति । कार्यविनाशो द्रव्यविनाशः तद्विशिष्टं कालम् । तद्विनाशात् स्वतन्त्रोऽवयवस्तं च अपेक्ष्यारभत इति ।
८१
अन्ये तु कार्यविनाशविशिष्टं कालमिति सामान्याभिधानात् संयोगविनाशविशिष्टमपेक्ष्य द्रव्यविनाशसमकालमारभत इति ब्रुवते । * स्वतन्त्रं वा अवयवमपेक्ष्य * इति । द्रव्यविनाशादूर्ध्वं स्वातन्त्र्यमस्येति उपचारेण पूर्वमेवोच्यते । स्वतन्त्र मीश्वरं वा, अवयवं वा, अपेक्ष्येति ।
For Private And Personal Use Only
5
10
कस्येत्याह * सक्रियस्यैव * इति । अथ कारणविभागस्योभयवृत्तित्वा - 15 विशेषात् सक्रियस्याकाशादिदेशेन विभागः, * न निष्क्रियस्य * इति । किमत्र नियामकम् ? उत्तरसंयोगोत्पत्तिरिति । तथा हि, विभागात् संयोगविनाशे सति कर्म उत्तरसंयोगं करोति, तस्माद् बिभागः कर्म च व्यावर्तते । निष्क्रिये तूत्पन्नो विभागः कथमुत्तरसंयोगानुत्पत्तौ व्यावर्तेत न च विभागात् पूर्वं संयोगनिवृत्तावुत्तरसंयोगोत्पत्तिर्युक्ता, कारणस्य कर्मणोऽभावात् । असंयुक्तस्य 20 चाकाशादिभिरवस्थाने तेषामसर्वगतत्वं स्यात् । न चान्यकर्मसम्पादितः संयोगोऽन्यक्रियाजन्यस्य विभागस्य निवर्तको दृष्टः । तस्मात् स्वकारणकर्मकार्या उत्तरसंयोगाद् विभागस्य निवृत्तिर्दृष्टेति । उत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्ग; * इति । निष्प्रयोजनत्वस्य प्रसङ्गः, विनाशित्वप्रसङ्गश्चेति । तस्य हि पूर्वसंयोगनिवर्तनाद् उत्तरसंयोगोत्पत्तौ सप्रयोजनत्वं विनाशित्वञ्च घटते ।
*
११
25
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
यद् वा निष्क्रियस्याकाशादिदेशेन विभागाभ्युपगमे सक्रियस्योत्तरसंयोगानुत्पत्तिः, कारणाभावात्, न तु निष्क्रियस्य विभागजविभागप्रतिषेधे कारणाभावो हेतुः, समवाय्यादिकारणानां सम्भवात् । तथाहि, निष्क्रियावयवाकाशादेः समवायिकारणत्वम्, विभागस्यासमवायिकारणत्वम्, शेषं निमित्तकारणमित्यस्ति कारणसद्भावः । तस्मादुत्तरसंयोगप्रतिषेधे कारणाभावो हेतुः । तथाहि, सक्रियस्याकाशादिदेशेन विभागानभ्युपगमे प्राक्तनसंयोगस्य प्रतिबन्धकस्यावस्थानाद् उत्तरसंयोगानुत्पत्तिः, तदनुत्पत्तावनुपभोग्यत्वं निष्प्रयोजनत्वं विभागकर्मणोरिति ।
अन्ये तु न निष्क्रियस्याकाशादिदेशेन विभाग इति । असदेतत् । कुतः ? 10 कारणाभावात् । प्रमाणाभावादित्युक्ते परेण बाधकमाह उत्तरसंयोगानुत्पत्ताबनुपभोग्यत्वम् अविनाशित्वं विभागस्येति ।
अथ पहापि अवयवकर्म अवयवान्तरविभागसमकालमाकाशादिदेशेन विभागं नारभते तथापि कार्यविनाशाजमारप्स्यत इति तनिषेधार्थमाह
न तु तदवयकर्म आकाशादिदेशाद् विभागम् * आरभते, विरस्य व्यापार15 प्रतिषेधात् । तदेतदाह * तदारम्भकालातीतत्वात् इति। तस्य कर्मणो विभागारम्भककालः, तस्य वा विभागस्यारम्भककाल: तदारम्भकालः, तस्यातीतत्वादिति ।
अथ कर्मणो विरम्य व्यापारप्रतिषेधे कथमुत्तरसंयोगः ? न, विरम्य व्यापारप्रतिषेधस्थापरिज्ञानात् । तथाहि, कर्म विभागं कृत्वा पुनर्विभागं 20 नारभते, वेगञ्च कृत्वा पुनर्वेगम्, न पुनः संयोगं नारभते इत्याह * उत्तर
संयोगन्तु ? प्रदेशान्तरसंयोगन्तु] करोत्येव अकृतसंयोगस्य कर्मणः [ कालात्ययाभावात् ] * कालात्ययो विनाशस्तस्याभावादिति। दृष्टश्चात्र सद्भावेऽपि तस्य विनाशः । तेनोत्तरसंयोगजनकत्वं कर्मणोऽभ्युपेयम् । तस्मात् तस्य निवृत्तिरिति ।
कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नम् अवयवान्तराद् विभागमकुर्वन् आकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
गुणवैधर्म्यप्रकरणम् संयोगानारभते तदा ते कारणाकारणविणामाः कर्म या दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते । तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगानिति ।
कारणाकारणविभागादपि विभागः कथं भवतीत्याह यदा हस्ते कर्मोत्पनम् * इत्यादि । हस्ते स्वकारणात् कर्मोत्पन्नमवयवान्तरविभागं द्रव्यारम्भक- 5 संयोगविरोधिनमकुर्वद् आकाशादिदेशेभ्यो विभागानारभत इत्यादिपदेनात्मादेरवरोधः । तांस्त्वारभ्य यदा पूर्वसंयोगविनाशे सति प्रदेशान्तरैराकाशादिदेशैः संयोगानारभते तस्मिन् काले * ते कारणाकारणविभागा: कार्याकार्यविभागानारभन्ते - इति । हस्तः शरीरस्य कारणम् आकाशादि चाकारणं तद्विभागाः,कार्य शरीरं हस्तस्य अकार्यमाकाशादि, तद्विभागानारभन्त इति। । तदुत्पत्तो शरीराकाशादेः समवायिकारणत्वम्, हस्ताकाशादिविभागानाञ्च असमवायिकारणत्वम् । प्रत्यासत्तिस्तुभयरूपापि सम्भवतीति वाधकानुपपत्तेअह्यिा। कार्यकार्यसमवायान्न व्यधिकरणत्वम्, एवंविधायाः प्रत्यासत्तेरन्यत्र कर्मण्युपलम्भात् ।
अथ प्रत्यक्षेणैव हस्तपुस्तकविभागसमकालं शरीरस्यापि तेन विभागो- 15 पलब्धेः कमवासमवायिकारणमिति कल्प्यते ? न, आशुभावित्वेन उत्पलपत्रशतव्यतिभेदवत् प्रत्यक्षाभिमानस्य भ्रान्तत्वात् । यथा हि, युगपदुत्पलपत्रशतं व्यतिभिन्नमिति प्रत्यक्षज्ञानं ग्राहिणानुमानेन बाध्यमानत्वादप्रमाणम्, एवं तत्रापि हस्तविभागसमकालं शरीरस्यापि तेन विभाग इति योगपद्यज्ञानमनुमानबाधितत्वादप्रमाणम् । किमनुमानमिति चेत् ? अवयवकर्मणो विभिन्ना- 20 श्रयत्वम् । तथाहि, विवक्षितावयवकर्म, स्वाश्रयव्यतिरिक्ताधारसमवेतमेव विभागं नारभते, कर्मत्वात्, उभयाभिमतकर्मवत् । न च अनुष्णोऽग्निः, कृतकत्वाद् इत्यनुमानवत् प्रत्यक्षेणास्य विरोधः, पञ्चरूपत्वात् । तथाहि, दुष्टमनुमान प्रत्यक्षेण स्वविषयसहकारिणा बाध्यते, दुष्टश्च प्रत्यक्षमनुमानेनेति । तस्मादनुमानस्याबाधितविषयत्वाद् विभागेऽपि आशुभावित्वेन यौगपद्यग्रहणम्, 25 न अर्थतथाभावादिति । दृष्टश्चानेकक्षणशतव्यवधानेऽप्याशुभावित्वं भ्रमनिमित्तम् उत्पलपत्रशतव्यतिभेदे, किं पुनरेकक्षणव्यवधाने क्षणद्वयव्यवधानेवेति ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
व्योमवत्यां
तथाहि कारणाकारणविभागात् संयोगविनाशे सति कार्याकार्यविभागाभ्युपगमाद् एकक्षणव्यवधानम्, कारणविभागपूर्वकस्य तु विभागस्य संयोगविनाशे द्रव्यविनाशे चानन्तरं भवनमिति क्षणद्वयव्यवधानम् । उत्पलपत्रा
वयवेषु तु वेगवत्सूच्यादिसम्बन्धात् कर्मोत्पत्तौ विभागात् संयोगविनाशे सति 5 पत्रविनाशः, पुनः पत्रान्तरे सम्बन्धात् अवयवकर्मोत्पत्तिरित्ययं क्रमः पत्रशते
ऽप्यूह्य इत्यनेकक्षणशतव्यवधानेऽप्याशुभावित्वस्य भ्रमनिमित्तत्वाभ्युपगमात् । एकक्षणव्यवधाने तु भविष्यत्येव । तस्माद् आशुभावित्वेन यौगपद्याभिमानस्य भ्रान्तत्वात् कारणाकारणविभागाः कार्याकार्यविभागानारभन्त इति ।
* तददन्तरम् * कार्याकार्यविभागानन्तरम्, प्राक्तनसंयोगविनाशे सति 10 कारणाकारणसंयोगश्च कार्याकार्यसंयोगानारभन्ते, न पूर्वम्, प्राक्तनसंयोगस्य
प्रतिबन्धकस्यावस्थानात् । इदन्तु चिरोत्पन्नानां संयोगजसंयोगस्य पूर्व प्रतिज्ञातस्य विभागजविभागानन्तरभावित्वात्, समानोपायतया च अत्रैव निरूपणमिति ।
अथ शरीरस्याकाशादिना विभागः संयोगश्चेति किं प्रमाणम् ? 15 अनुमानम् । तथाहि, शरीरम्, स्वकारणविभागिना विभजते, तद्विभागि
कारणकार्यत्वात्, वीरणविभागितन्तकार्यपटवत् । आकाशादि वा, स्वविभागिकारणकार्यण विभजते, तत्कारणविभागित्वात्, तन्तुविभागिवीरणवत् । एवं शरीरम्, स्वकारणसंयोगिना संयुज्यते, तत्संयुक्तकारणकार्य
त्वात्, वीरणसंयुक्ततन्तुकार्यपटवत् । सिद्धे तु शरीराकाशदिसंयोग शरीरस्य 20 तस्मिन् काले निष्क्रियत्वाद् अवयवक्रियायाश्च सत्त्वेन आश्रयान्तरेणैव समवेत
कार्यजनकत्वप्रतिषेधात्, असमवायिकारणञ्च विना भावस्योत्पत्तेरदर्शनात्, अन्यस्य चासम्भवे सति कारणाकारणसंयोगात् तस्योत्पत्तिः कल्प्यत इति । शरीराकाशादि समवायिकारणम् । विशिष्टा च दिनिमित्तकारणमिति ।।
यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिःकारणसंयोगाच्चानन्तरं 25 कार्यसंयोगोत्पत्तिः, नन्वेवमवयवावयविनोर्यतसिद्धिदोषप्रसङ्ग इति ।
न, युतसिद्ध्यपरिज्ञानात् । सा पुनयोरन्यतरस्य वा पृथग्गतिमत्वम्, इयन्तु नित्यानाम्, अनित्यानान्तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति ।
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
८५ त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिद्धः। अण्वाकाशयोस्त्वाश्रयान्तराभावेऽप्यन्यतरस्य पृथगगतिमत्त्वात् संयोगविभागौ सिद्धौ। तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति । दिगादीनान्तु पृथग्गतिमत्त्वाभावादिति परस्परेण संयोगविभागाभाव इति ।
एवं निर्णीते विभागजविभाग पूर्वपक्षवादी असद्रूषणमाह * यदि कारणविभागानन्तरं कार्यविभागोत्पत्ति: कारणसंयोगाच्चानन्तरं कार्यसंयोगोत्पत्तिः * न समकालम् । * नन्वेवम् अवयवावयविनोयुतसिद्धिदोषप्रसङ्ग इति * । न युक्तमेतत् । कुतः ? * युतसिद्ध्यपरिज्ञानान् * । न परेण युतसिद्धिर्विज्ञाता यत एवमाहेति । तथाहि, परस्परसंयोगविभागयोग्यता युत- 10 सिद्धिः । अवयवानां हि पदार्थान्तरैः संयोगविभागयोग्यता तथा अवयविनः सम्भवत्येव न तु परस्परमित्यव्यभिचारः। सम्भवे वा युतसिद्धिरेवेति न समवायः स्यात् । अस्ति चासाविति वक्ष्यामः ।
इदन्तु सामान्यलक्षणं युतसिविशेषलक्षणाल्लभ्यत एव, विशेषस्य सामान्यव्याप्तत्वदिति विशेषलक्षणमाह * सा पुनर्द्वयोरन्यतरस्य वा पृथग्गति- 15 मत्त्वम् * इतीयं नित्यानां युतसिद्धिः । द्वयोः परमाण्वोः पृथग्गतिमत्त्वं युतसिद्धिः, आकाशपरमाण्वोश्चान्यतरस्य पृथग्गतिमत्त्वमिति । तच्च परस्परं संयोगविभागजननयोग्यत्वं विवक्षितम् । अन्यथा हि द्वयणुकारम्भकयोः परमाण्वोद्वर्यणुके व्रजति गमनोपलब्धेद्वर्यणुकेन सह युतसिद्धिः स्यात् ।
अनित्यानान्तु युतेषु पृथग्भूतेष्वाश्रयेषु समवायो युतसिद्धिरिति । 20 नन्वेवमपि अवयवावयविनोर्युताश्रयसमवायाद् युतसिद्धिः स्यात् । तथाहि, अवयवी अवयवेषु वर्तते अवयवाश्च स्वावयवेष्विति युताश्रयसमवायः ? न, अभिप्रायापरिज्ञानात् । यदा [ ? था ] घटतदाश्रयव्यतिरेकेण आश्रयान्तरे समवायः पटस्य, पटतदाश्रयव्यतिरेकेण घटस्य नैवमवयविनोऽवयवव्यतिरेकेण आश्रयान्तरे समवायः, तस्मान्न युतसिद्धिः । अत्रापि द्वयोर्युता- 25 श्रयसमवायित्वम् अन्यतरस्य वेत्यनुवर्तते । द्वयोर्यथा घटपटयोरन्यतरस्य,
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
यथाकाशघटयोरन्यतरस्य, घटस्य युतेष्वाश्रयेष्वसमवायो नाकाशस्य, अनाश्रितत्वात् ।
नन्वेवं तहि नित्येष्विवानित्येष्वपि पृथग्गतिमत्त्वस्य सम्भवात् सैवास्तु, कृतं युताश्रयसमवायित्वेनाव्यापिना। नैतदेवम्, अनित्येषु पृथग्गतिम5 त्त्वस्यान्वयव्यतिरेकाभावाद् युताश्रयसमवायित्वमेव । तत्सद्भावात् सैव
युतसिद्धिरित्याह * त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेषु तु समवायोऽस्तीति * परस्परेण संयोगः सिद्धः । तथाहि, त्वगिन्द्रियशरीरयोरामरणं विभागानुपपत्तेः पृथग्गतिमत्त्वाभावेऽपि परस्परेण संयोगप्रसिद्धेर्युताश्रयसमवायित्वमेव युतसिद्धिः, तयोरितरेतराश्रयपरिहारेण स्वाश्रयेष्वेव समवायात् । एवम् उत्पन्नमात्रस्य घटादेर्गतिमत्त्वाभावेऽपि रूपाद्युत्पत्तिसमकालम् आकाशादिना संयोगोपलब्धेरन्यतरस्य युताश्रयसमवायित्वमेव युतसिद्धिः ।
नित्यानान्तु युताश्रयसमवायाभावेऽपि संयोगविभागोपलब्धेः पृथग्गतिमत्त्वमेव युतसिद्धिरित्याह * अण्वाकाशयोस्तु * युताश्रयसमवायित्वाभावेऽपि । 15 * अन्यतरस्य पृथग्गतिमत्त्वात् संयोगविभागौ सिद्धौ इति ।
एवमनित्यानां युताश्रयसमवायित्वस्य, नित्यानान्तु पृथग्गतिमत्त्वस्यान्वयोपदर्शनान्तरं व्यतिरेकमाह तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति * यद्यपि तन्तवोंऽशुषु वर्तन्ते तथापि पटद्रव्ये न तन्तुव्यतिरेकेण आश्रयान्तरमस्तीति युताश्रयसमवायित्वाभावः । तदभावान्न परस्परेण संयोगविभागाविति । विशिष्टञ्च पृथग्गतिमत्त्वस्य घटपरमाण्वोस्तु उभयसम्भवाद् उभयावरोधोऽन्यतरावरोधो वेति, उभयावरोध एव ? इव] अन्यतरावरोधे विशेषहेत्वभावात् । तथाहि, नित्ये परमाणौ पृथगगतिमत्त्वम् अनित्ये तु घटे युताश्रयसमवायित्वम् उभयोरुभयत्रान्वयव्यतिरेकाभ्यां समर्थनाद् अत्र सम्भवेन ग्रहणं न्याय्यम् । यत्र चानित्यमेव तत्र पृथग्गतिमत्त्वसद्भावेऽपि युताश्रयसमवायित्वस्यावरोधः, यथा घटाकाशयोर्द्वयोर्वा घटयोरित्यलमतिविस्तरेण । तस्मात् कारणविभागानन्तरं कार्यविभागः, कारणसंयोगान्तरं कार्यसंयोगो युतसिद्धिरिति अपरिज्ञातयुतसिद्धेर्वचनमिति ।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
*
वैधप्रकरणम्
विभागविनाशप्रकार:
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात्, उत्तरसंयोगावधि सद् भावात् क्षणिक इति । न तु संयोगवद् ययोरेव विभागस्तयोरेवसंयोगाद विनाशो भवति । कस्मात् ? संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्यभावात् । तस्माद् उत्तरसंयोगावधि सद्भावात् क्षणिक इति ।
*
2
10
?
अथेदानीं विनाशमाह * विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् * इत्यादिना । ननु क्षणिकत्वम् आशुतरविनाशित्वम्, तत्र [? च्च] विभागस्य विनाशे साध्ये साध्यान्न विशिष्यते ? न, व्यवहारस्य साध्यत्वात् । तथाहि, विभागो, विनाशीति व्यवहर्त्तव्यः, क्षणिकत्वात् । यद् वा क्षणिकत्वम् आशुतरविनाशकारणसंयोगित्वम्, तस्माद् विभागस्य विनाशे साध्ये न साध्याविशिष्टता । अथ किं तद् विनाशकारणम् ? उत्तरसंयोगः । कथम् * उत्तरसंयोगावधि सद्भावात् । उत्तरसंयोग एवावधि : सीमा सद्भावे यस्य इत्युत्तरसंयोगं यावत् सद्भाव:, तदनन्तरमभाव इत्यन्वयव्यतिरेकाभ्यामुपलब्धम् । *न [तु] संयोगवत् अस्य विनाश इति । यथा हि ययोरेव संयोगस्तयोरेव विभागात् संयोगस्य विनाशो नैवम् ययोरेव विभागस्तयोरेव 15 संयोगात् * विभागस्य विनाशः । किं तर्हि ? तयोरन्येन वा स्वकारणकर्मजः, तत्संयोगजो वा संयोगोऽस्तु तस्माद् विनश्यतीति ।
-
Acharya Shri Kailassagarsuri Gyanmandir
८७
अथ संयोगस्य विभागमात्राद् अविनाशवद् विभागस्यापि संयोगमात्रेण अविनाशः किमिति नेष्यत इत्याह * संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्य
भावात् अस्य विनाशप्रसङ्गात् । यथा हि संयोगे विभागमात्रोत्पादे संयुक्त- 40 प्रत्ययानुवृत्ति: 'संयुक्तं संयुक्तम्' इति दृष्टा नैवं विभागस्य संयोगमात्रोत्पादे विभक्तप्रत्ययानुवृत्तिरस्ति । तस्माद् उत्तरसंयोगावधिसद्भावात् क्षणिकः * इत्युपसंहारः ।
For Private And Personal Use Only
अन्ये, न तु संयोगवदवस्थितो विभागः । कस्मात् ? ययोरेव संयोगादस्य विनाशप्रसङ्गात् । यथाह्यवस्थितः संयोगस्तयोरेव विभागान्निवर्तते, 25 विभागोऽप्येवं तयोरेव संयोगान्निवर्तेत । इष्यत एवेति चेत् ? तदसत्, संयुक्तप्रत्ययवद् विभक्तप्रत्ययानुवृत्त्यभावात् । न ह्यर्थान्तरेण विभागे संयुक्त
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
व्योमवत्यां
प्रत्ययानुवृत्तिवद् अर्थान्तरेण संयोगे विभक्तप्रत्ययानुवृत्तिरस्तीति । यच्चाप्राप्तिज्ञानं तद् बाधकसद्भावात् संयोगाभावे द्रष्टव्यमिति । अन्यथा हि पिण्डस्य देशान्तरगमने मरणे वा अवस्थितत्वाद् एक पिण्डग्रहणेऽपि ग्रहणं स्यात् । न
चैतदस्ति । तस्माद् विद्यमानक्रिये द्रव्ये विभक्तप्रत्ययो मुख्योऽन्यदा तु तत्सा5 मान्याद् भाक्त इति ।
क्वचिदाश्रयविनाशादेव विनश्यतीति । कथम् ? यदा द्वितन्तुककारणावयवेऽशौ कर्मोत्पन्नम् अश्वन्तराद् विभागमारभते तदैव तन्त्वन्तरेऽपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोगविनाशस्तन्तुकर्मणा तन्त्वन्तराद् विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव कालेविभागात् तन्तुसंयोगविनाशस्तस्मिन्नेव काले संयोगविनाशात् तन्तुविनाशः, तस्मिन् विनष्टे तदाभितस्य तन्त्वन्तरविभागस्य विनाशः इति ।
एवं तहि उत्तरविभागानुत्पत्तिप्रसङः कारणविभागाभावात, ततः प्रदेशान्तरसंयोगवति संयोगाभाव इत्यतो विरोधिगुणासम्भवात् कर्मण15 श्चिरकालावस्थायित्वम्, नित्यदन्यसमवेतस्य च नित्यत्वमिति दोषः ।
कथम् ? यदा व्यणुकारस्भकपरमाणौ कर्मोत्पन्नम् अण्वन्तराद् विभाग करोति तदेवाण्वन्तरेऽपि कर्म, ततो यस्मिन्नेव काले विभागाद द्रव्यारम्भकायोगविनाशस्तदेवाण्वन्तरकर्मणा व्यणुकाण्वोविभागः नियते, ततो यस्मिन्नेव काले विभागाद् व्यणुकाणुसंयोगस्य विनाश20 स्तस्मिन्नेव काले संयोगविनाशाद् व्यणुकस्य विनाशः, तस्मिन्
विनष्टे तदाश्रितस्य व्यणुकाणुविभागस्य विनाशः। ततश्च विरोधिगुणासम्भवान्नित्यद्रव्यसमवेतकर्मणो नित्यत्वमिति ? तन्त्वंश्वन्तरविभागाद् विभाग इत्यदोषः । आश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इत्येतस्मादुत्तरो विभागो जायते । 25 अगुल्याकाश विभागाच्छरीराकाशविभागवत् तस्मिन्नेव काले कर्म
संयोगं कृत्वा विनश्यतीत्यदोषः ।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम् . एवं संयोगाद् विभागस्य विनाशं प्रतिपाद्य आश्रयविनाशेन विनाशमाह * क्वचिच्चाश्रयविनाशाद् विनश्यति ५ इत्यादिना । कथमित्यव्युत्पन्नप्रश्नानन्तरमाह * यदा द्वितन्तुककारणावयवेंऽशौ * इत्यादि । द्वितन्तुकस्य कारणं तन्तुः, तस्यावयवोंऽशुस्तस्मिन् स्वकारणात् कर्मोत्पन्नं यदा अंश्वन्तराद् विभागं ( द्रव्यारम्भकसंयोगस्य विनाशात् तन्तुविनाशस्तस्मिन् विनष्टे 5 तदाश्रितस्याविरोधिनमारभते') [आरभते तस्मिन्नेव काले * तन्त्वन्तरेऽपि कर्मोत्पद्यते, विभागाच्च तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा तन्त्वन्तराद् विभाग: क्रियते * इत्यनयोरेकः कालः । * ततो यस्मिन्नेव काले विभागात् * तन्तुसंयोगस्य द्वितन्तुकारम्भकस्य विनाशस्तस्मिन्नेव काले तन्त्वारम्भकस्यांशुसंयोगस्य विनाशात् तन्तुविनाशः । * तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तर- 10 विभागस्य विनाशः * अन्यस्य विनाशकारणस्याभावात् । तदैव द्वितन्तुकस्याप्याश्रयविनाशात् संयोगविनाशाच्च विनाश इति ।
। एवमाश्रयविनाशाद् विनाशेऽभिहितेऽनिष्टमुपपादयति * एवं तहि उत्तरविभागानुत्पत्तिप्रसङ्ग इति । उत्तरविभागस्तन्तोराकाशादिदेशेन विभागः, तस्यानुत्पत्तिः । * कारणविभागाभावात् । कारणयोस्तन्त्वोविभाग: । यद् वा कारणञ्च तद् विभागश्च, तस्य द्रव्यविनाशसमकालमभावाद् आकारादेशेन विभागस्यानुत्पत्तिः । न च संयोगविनाशमपेक्ष्य द्रव्यविनाशसमकालं कारणविभागस्य विभागारम्भकत्वम्, विनश्यदवस्थस्यासमवायिकारणत्वानभ्युपगमात् । यथाश्रुतग्रन्थे वाचोद्यमेतत् ।
ततश्च तन्तोराकाशादिदेशेन विभागानुत्पादे तत्संयोगस्य प्रतिबन्ध- 21 कस्यावस्थानान्न कर्म उत्तरसंयोगं कुर्यादित्याह * प्रदेशान्तरसंयोगवति संयोगाभावः * इत्यतः प्रदेशान्तरसंयोगस्य विरोधिगुणस्यासम्भवात् कर्मणः कालान्तरावस्थायित्वम् । तस्य च क्षणिकत्वं प्रमाणसिद्धमिति व्याघातः । तथा नित्यद्रव्यसमवेतस्य कर्मणो नित्यत्वमिति दोषः । कथमित्याह * यदा द्वयणुकारम्भक परमाणौ * स्वकारणात् कर्मोत्पन्नम् अण्वन्तराद् 25 १. बन्धनीमध्यगतोऽसङ्गतो ग्रन्थो मातृकायां विद्यतेऽस्माभिर्यथामति मूलमनुसृत्यात्र
पाठः परिकल्पित इति ज्ञेयम् ।
15
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
विभागं द्रव्यारम्भकसंयोगविरोधिनम् आरभते * तदैवाण्वन्तरेऽपि * अनारम्भके कर्म उत्पद्यते । ततोऽनन्तरं * यस्मिन्नेव काले विभागात् * द्रव्यारम्भकसंयोगस्य विनाशस्तदैवानारम्भकाणुकर्मणा * द्वयणुकाण्वोविभागः क्रियते, ततो
यस्मिन्नेव काले विभागात् * द्वयणुकस्याणुना * संयोगस्य विनाशस्तस्मिन्नेव 5 काले * संयोगस्य द्रव्यारम्भकस्य विनाशात् * द्वयणकस्य विनाश: * । तस्मिन्
यणके विनष्टे * तदाश्रितस्य व्यणुकाणु] विभागस्य विनाशः * ततः कारणविभागाभावाद् उत्तरविभागानुत्पत्तौ तत्संयोगस्याव्यावृत्तेन कर्म उत्तरसंयोगं करोतीति, विरोधिगुणस्यासम्भवात् परमाणुसमवेतस्य कर्मणो नित्यत्वं
स्यादिति । प्राक्तनचोद्यस्य प्रतिसमाधानमाह * तन्त्वंश्वन्तरविभागाद विभाग 10 इत्यदोषः ।
ननु तन्त्वंशुविभागस्तन्तुक्रियाकार्यो न भवत्येव, अंशोद्वितन्तुकोत्पत्तावाकाशादिवदकारणत्वात् । नाप्यंशुक्रियाकार्यः, तन्तूत्पत्तौ तन्त्वन्तरस्याकाशवदेवाकारणत्वात् । कारणे चोत्पन्नं कर्म कारणान्तरविभागसमकाल
कारणेन विभागं नारभते, विशिष्ट विभागानुत्पत्तिप्रसङ्गादित्युक्तम् । न च 15 कारणं विना कार्य भवतीति तन्त्वं शुविभागासम्भव एव । नैतदेवम् । अंशु
क्रियाजनिताद् विभागात् तस्योत्पत्त्याभ्युपगमात् । तथाहि, अंशुक्रियाजनितो विभागः संयागविनाशविशिष्ट कालमपेक्ष्य तन्तुविनाशसमकालम् आकाशादिदेशेनेव तन्त्वन्तरेणापि विभागमारभते। तन्तुविनाशविशिष्टञ्चापेक्ष्य द्वितन्तुकविनाशसमकालञ्चाश्रयविनाशात् तन्त्वोरेव परस्परं विभागो विनष्टो न तन्त्वन्तरविभागोंऽशुक्रियाजनिताद् विभागाद् उत्पन्नो विनष्ट इत्येकस्मात् तन्त्वन्तरविभागाद् उत्तरो विभागस्तन्त्वाकाशादिविभागो जायते । * अगुल्याकाशविभागाच्छरीराकाशविभागवत् * इत्युदाहरणम् । यथा अमुल्याकाशादिविभागाद् हस्ताकाशविभागः, तस्माच्च विभागाच्छरीराकाराविभागस्तद्वद्
इहाप्यंशुक्रियाजनिताद् विभागात् तन्त्वंशुविभागः, तस्माच्च विभागात् 25 तन्त्वाकाशविभागो जायत इति । तस्मिन्नुत्पन्ने प्राक्तनसंयोगस्य प्रतिबन्ध
कस्याभावात् कर्म उत्तरसंयोगं कृत्वा तस्माद् विनश्यतीति न कालान्तरावस्थायित्वं दोषः ।
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् नन्वेतस्मिन् पक्षे कथमुत्तरसंयोगात् तन्त्वाकाशादिविभागस्य निवृत्तिः, तन्तुकर्मणा पारम्पर्येणाप्यजनितत्वात् ? न, विभागजनिते विभागे नियमानुपलब्धेः । अन्ये तु तन्तावुत्पन्ना क्रिया तन्त्वन्तरेणेव तदारम्भकेणाशुनापि विभागं करोत्येव, पारम्पZणांशोरपि कारणत्वात् । आकाशादिश्च पारम्पर्येणापि द्वितन्तुकोत्पत्तावकारणमिति । तन्तुक्रिया अवयवान्तरविभाग- 5 समकालं न तेन विभागं करोतीति । यद् वा अंशुक्रिया अश्वन्तरादिवत् तन्त्वन्तरेणापि विभागमारभते, अंशुकार्येण सहैव कार्यारम्भकत्वात् । अतश्चाश्रयविनाशात् तन्त्वोरेव विभागो विनष्टो न तु तन्त्वन्तरविभागः । तस्मात् तन्त्वाकाशादिविभागो जायते अगुल्याकाशादिविभागाच्छरीराकाशादिविभागवत् ।
ननु अङगुल्याकाशविभागाद् हस्ताकाशविभाग: कारणाकारणविभागस्य कार्याकार्यविभागारम्भकत्वात्, नत्वङगुले: शरीरं कार्यमिति । अतो यद्यपि अङ्गुल्याकाराविभागस्य शरीराकाराविभागेन सह आकाशवृत्तित्वात् प्रत्यासत्तिरस्ति तथाप्यकारणत्वमेव । तस्माच्छरीरारम्भकत्वाद् उपचारेण हस्त एव शरीरमिति युक्तम् । एतावच्चोदाहरणम्, यथा अङगुल्याकाश-15 विभागात् कारणाकारणविभागाद् हस्ताकाशविभागस्तथा तन्त्वंशुविभागात् तन्त्वाकाशविभाग इति ।
___ अथ वा अश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ कर्मोत्पश्चते, ततोऽश्वन्तरविभागात तन्त्वारम्भकसंयोगविनाशः, तन्तुकर्मणा च तन्त्वन्तराद् विभागः क्रियते इत्येकः कालः । ततः संयोग- 20 विनाशात् तन्तुविनाशस्तविनाशाच्च तदाश्रितयोविभागकर्मणोर्युगपद् विनाशः ।
* अथ वा* इति विभागस्याश्रयविनाशेन विनाशे प्रकारान्तरोपन्यासः, न तु प्रकृताक्षेपसमाधानम्, कालान्तरावस्थायिनि द्रव्ये कर्मणः कालान्तरावस्थायित्वोभावनात् । अतः * अश्वन्तरविभागोत्पत्तिसमकालं 25 तस्मिन्नेव तन्तौ * विभज्यमानांशौ कर्म उत्पद्यते । ततोऽनन्तरम् अंशु
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
व्योमवत्यां
विभागात् * तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा च तन्त्वन्तराद् विभाग: क्रियत इत्येकः कालः, ततः संयोगविनाशात् तन्तुविनाशः * । तन्त्वन्तरविभागाच्च तत्संयोग विनाशः, ततो द्वितन्तुकस्योभयविनाशाद् विनाशः,
तन्तुविनाशाच्च * तदाश्रितयोविभागकर्मणोर्युगपद् विनाशः * इति । 5 तन्तुवीरणयोर्वा संयोगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाश इति ।
अथ नित्यद्रव्यसमवेतस्य नित्यत्वं स्यादित्याक्षेपप्रतिसमाधानद्वारकं वाक्यम् * तन्तुवीरणयोर्वा * इत्यादि । यथा हि, तन्तुवीरणयोः संयोगे सति
द्रव्यानुत्पत्तिर्विजातीयत्वात्, एवं व्यणुकाण्वोरपि संयोगाद् द्रव्यं नोत्पद्यते । 10 तथाहि, एकद्व्यणुकमनित्यम् अन्यश्च परमाणुनित्य इति विजातीयत्वम् ।
विजातीयसंयोगश्च द्रव्यानारम्भक इति व्यणुकाण्वोः संयोगेऽपि द्रव्यानुत्पत्तौ परमाणावुत्पन्न कार्य [? कर्म] द्रव्यारम्भकसंयोगविरोधिविभागानुत्पादकत्वाद् आकाशदिदेशेनापि विभागमारभते वीरणकर्मवत् । एवं प्राक्तनसंयोगनिवृत्तावुत्तरसंयोगं कृत्वा विनश्यतीति पूर्वोक्तेन विधानेन * विनाशः ।
यद् वा पूर्वोक्तविधानेनेत्ययमर्थः, तन्त्वारम्भकेंऽशौ कर्मोत्पत्तिसमकालं वीरणेऽपि कर्म, अंशुकर्मणा च अंश्वन्तराद् विभागः क्रियते । वीरणकर्मणा च तन्त्वन्तरादित्येकः कालः । ततो विभागाद् अंशुसंयोगविनाशे वीरणविभागाच्च वीरणतन्तुसंयोगविनाशः, ततो द्रव्यारम्भकसंयोगविनाशात्
तन्तुविनाशः । तन्तुवीरणसंयोगविनाशे च उत्तरसंयोगः, ततश्चाश्रयविनाश20 संयोगाभ्यां तन्तुवीरणविभागविनाश इति ।
अन्ये तु 'वा' शब्दस्योपमार्थत्वात तन्तुवीरणयोरिव दव्यणकाण्वोः संयोगे सति द्रव्यं नोत्पद्यते, द्रव्यानुत्पत्तौ च व्यणुकाणुविभागस्य परमाणुकर्मणा व्यणुकारम्भकसंयोगविनाशसमकालं जनितस्य कथं विनाशः ? पूर्वोक्तेन विधानेनेति, आश्रयविनाशेनेत्यर्थः । यदा तु परमाणौ कर्मोत्पत्तौ परमाण्वन्तरविभागोत्पत्तिसमकालम् अस्मिन्नेव व्यणुके कर्मसञ्चिन्तनं तदा पूर्वोक्तेन विधानेन आश्रयविनाशाद् विभागकर्मणोर्युगपद् विनाश इति ।
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणधर्म्यप्रकरणम्
द्व्यणुकारम्भके च परमाणौ कर्मोत्पत्तिसमकालम् अनारम्भकेऽपि कर्मसञ्चिन्तनात् तदाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागविनाशवद् विनाश इत्यलम् ।
परत्वापरत्ववैधर्म्यम्
परत्वमपरत्वश्व परापराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधं दिक्कृतं कालकृतश्च । तत्र दिक्कृतं देशविशेषप्रत्यायकम् । कालकृतश्च वयोभेदप्रत्ययकम् ।
९३
For Private And Personal Use Only
इदानीं परत्वापरत्वयोर्लक्षणपरीक्षार्थम् परत्वम् इत्यादि प्रकरणम् । अभिधानञ्च प्रत्ययश्चेति, तयोर्निमित्तम् *परत्वमपरत्वञ्च = इत्युक्तेऽतिप्रसङ्गः, तदर्थं परापरग्रहणम् । तथापि परापराभिधानप्रत्ययनिमित्तत्वम् 10 आकाशात्मनोर्न व्यावृत्तमिति विशेषणत्वे सतीत्यूह्यम् । तथा सामान्यमपि विशेषणत्वे सति परापरामिवानप्रत्ययनिमित्तमतो द्रव्यग्रहणम् । तथाहि, परत्वापरत्वे, अन्यस्माद् भिद्येते द्रव्यविशेषणत्वे सति परापरामिधानप्रत्ययनिमित्तत्वात्, यस्त्वितरान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः । अत्र च अभिधानपदेन संख्यादिलक्षणेष्वपि करणव्युत्पत्त्याभिधानम्, भावव्युत्पत्त्या च ज्ञानमित्युभयरूपो व्यवहारः प्रत्ययश्च विवक्षित इति ज्ञापयति । एकस्मिश्च प्रकरणे गुणद्वयनिरूपणम् एकोत्पत्तेरितरोपायापेक्षिकत्वात् पृथगभिवाने तु ग्रन्थबहुत्वं स्यादिति सङ्ग्रहत्वादेकदाभिधानम् ।
परत्वापरत्वयोः सद्भावे किं प्रमाणमित्यपेक्षायां परत्वमपरत्वञ्च परापराभिधानप्रत्ययनिमित्तमिति वाक्यं परीक्षापरत्वेन च योजनीयम् । तथाहि, परापराभिधानप्रत्ययः, विशेषणपूर्वकः, विशेष्याभिधानप्रत्ययत्वात्, दण्डीत विशेष्याभिवानप्रत्ययवत् । न च रूपादीनामन्यतमं विशेषणम्, तद्व्यवहारविलक्षणत्वात् । अबाध्यमानञ्च ज्ञानं निमित्तं विना न सम्भवत्येव । वासना तु निमित्तं तत्र न भवतीत्युक्तम् । अथ द्रव्यमेव विशिष्टोत्पादवशात् परापरव्यवहारजनकम् ? तन्न, क्षणिकत्वप्रतिषेधात् । अभ्युपगमेन तूच्यते, विशिष्टताया व्यतिरेकाभ्युपगमे विशिष्ट व्यवहारजनकत्वे च संज्ञाभेदमात्रम् । अव्यतिरेकेतु
5
15
20
25
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
व्योमवत्यां समानदेशावस्थितपिण्ढे समानवयसि च परापरव्यवहारः स्यात्, द्रव्यसद्भावस्थाविशेषात् । अतः परापरव्यवहारे रूपादिविलक्षणं निमित्तमस्तीति ज्ञातम् ।
तद् द्विविधं कारणभेदादित्याह * दिक्कृतं कालकृतञ्च * इति । ननु 5 दिककालयोः सर्वोत्पत्तिमतां निमित्तिकारणत्वाभिधानाद् विशेषाभिधाना
सम्भव एव ? न, दिककालपिण्डसंयोगयोस्तच्छब्दवाच्यत्वेन तत्कृतत्वोपपत्तेदिकपिण्डसंयोगकृतं दिक्कृतम्, कालपिण्डसंयोगकृतञ्च कालकृतमिति । तथानयोः परस्परं भेदमाह * तत्र दिक्कृतं देशविशेषप्रत्यायकम् * इति । देश
विशेषः प्रत्यायकोऽस्येति, देशविशेषं वा प्रत्याययतीति कालकृताद् भिद्यते । 10 * कालकृतञ्च वयोभेदप्रत्यायकम् * इति । वयोभेदः प्रत्यायको यस्येति वयो भेदप्रत्यायकम्, वयोभेदं वा प्रत्याययतीति दिक्कृताद् भिद्यते ।
तत्र दिककृतस्योत्पत्तिरभिधीयते । कथम् ? एकस्यां विश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सति एकस्य द्रष्टुः सन्निकृष्ट
मधि कृत्वा एतस्माद् विप्रकृष्टोऽयम्' इति परत्वाधारेऽसनिकृष्टा 15 बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिप्रदेशेन संयोगात् परत्वस्योत्पत्तिः ।
तथा विप्रकृष्ट चावधि कृत्वा एतस्मात् सन्निकृष्टोऽयम्' इत्यपरत्वाधारे इतरस्मिन् सन्निकटा बुद्धिरुत्पद्यते । ततस्तामवेक्ष्य अपरेण दिकप्रदेशेन संयोगाद अपरत्वस्योत्पत्तिः ।
तत्र दिककृतस्योत्पत्तिरभिधीयते *। * कथम् * इत्यव्युत्पन्न प्रश्नानन्तरमाह - एकस्यां दिश्यवस्थितयोः पिण्डयोः * इत्यादि । पिण्डयोरिति समवायिकारणनिर्देशः । एकस्यां दिश्यवस्थितयोः, न विभिन्नदिश्यवस्थितयोरिति नियमप्रतिपादनम् । * संयुक्तसंयोगबह्वल्पभावे सति * इति भूप्रदेशान् अधि
कृत्य । एतत्संयुक्तेन सह संयोगास्तेषां बह्वल्पभाव इति एकस्मिन् पिण्डेसंयुक्त25 संयोगाल्पीयस्त्वम्, अन्यस्मिस्ततो बहुत्वम् । तस्मिन् सति * एकस्य द्रष्टु : *
न विभिन्नस्य । * सन्निकृष्टमवधिं कृत्वा एतस्माद् विप्रकृष्टोऽयमिति
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् परत्वाधारे * उत्पत्स्थमानपरत्वे । * बुद्धिरुत्पद्यते, तामपेक्ष्यपरेण दिकप्रदेशेनसंयोगात् परत्वोत्पत्तिरिति । दिक्प्रदेशयोः परापरव्यपदेशस्तत्सम्पादकत्वादुपचारेण ।
विप्रकृष्टश्च पिण्डमवधिं कृत्वा इतरस्मिन् पिण्डसंयुक्तसंयोगाल्पीयस्त्वानिमित्तात् सन्निकृष्टा बुद्धिरुत्पद्यते । तां सन्निकृष्टां बुद्धिमपेक्ष्य अपरेण 5 दिकप्रदेशेन योगाद् परत्वोत्पत्तिरिति । पिण्ड: समवायिकारणम्, दिकपिण्डसंयोगोऽसमवायिकारणम्, विशिष्टा च बुद्धिनिमित्तकारणमिति ।
ननु चात्र सन्निकृष्टमवधिं कृत्वा विप्रकृष्टे बुद्धिः, विप्रकृष्टञ्चावधि कृत्वा सन्निकृष्ट बुद्धिरिति विप्रकृष्टसन्निकृष्टबुद्ध्योः परस्परापेक्षित्वाद् उभयाभावप्रसङ्ग: । तन्न । निविकल्पकज्ञाने प्रतिभातस्यावधित्वेनाभ्युपगमात् । तथाहि, 10 सन्निकृष्टविप्रकृष्टयोः प्रत्यक्षेणैव निर्विकल्पकावभासे सति 'एतस्मादयं सन्निकृष्टो विप्रकृष्टश्च' इति सविकल्पकं ज्ञानं भवत्येव ।
अन्ये तु निर्विकल्पावभासजनितसंस्कारजस्मृत्युपस्थापितयोः सन्निकष्टविप्रकृष्टयोः परस्परावधिभावो घटत इति ब्रुवते । तस्मान्न परस्परापेक्षितत्वादुमयाभाव इति स्थितम् । ____ कालकृतयोरपि कथम् ? वर्तमानकालयोरनियतदिग्देश [ संयुक्त ]योर्युवस्थविरयो रूढश्मश्रुकार्कश्यवलिपलितादिसान्निध्ये सत्येकस्य द्रष्टुयुवानमवधि कृत्वा स्थविरे विप्रकृष्टाबुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः । स्थविरञ्चाधि कृत्वा यूनि सन्निकष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य अपरेण कालप्रदेशेन संयोगाद् 20 अपरत्वस्योत्पत्तिरिति ।।
कालकृतयोरपि परत्वापरत्वयोः कथमुत्पत्तिरित्याह * वर्तमानकालयोः * इत्यादि । वर्तमान: कालो ययोः पिण्डयोस्तौ च तथोक्तो तयोरित्युभयत्रापि दिक्कालकृतपरत्वापरत्वयोरुत्पत्तौ नियमः । * अनियतदिग्देशयोः * इति । न नियतो दिग्देशो ययोस्तौ तथोक्तौ तयोरिति कालकृतयोरुत्पत्तावनियमोप- 25 दर्शनम् । * युवस्थविरयोः * इति वयोभेदोपदर्शनार्थम्, समानवयसि परापर
15
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६
व्योमवत्या
व्यवहारादर्शनात् । [* रूण्श्मश्रुकार्कश्यवलीपलितादिसान्निध्ये सति -7 रूढश्मश्रु च कार्कश्यञ्च वलयश्च पलितानि च तान्यादिर्येषां तानि, तथोक्तानि, तेषां सान्निध्ये सतीति। रूढश्मश्रुकार्कश्यादि सान्निध्यं सन्निकृष्टबुद्धेः कारणम्, बलीपलितादिसान्निध्यञ्च विप्रकृष्टबुद्धेरिति। * एकस्य द्रष्टुः * इति । यो हि द्रष्टा परत्वापरत्वे द्रष्टुभभिवाञ्छति तस्य । * युवानमवधि कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते * । तां विप्रकृष्टां बुद्धिमपेक्ष्य परेण कालप्रदेशेन योगात् परत्वस्योत्पत्तिरिति । विप्रकृष्टञ्च स्थविरमवधि कृत्वा यूनि एतस्मात् स्थविरादयं सन्निकृष्टः' इति सन्निकृष्टा बुद्धिरुत्पद्यते । * तामपेक्ष्य अपरेण
कालप्रदेशेन [सं] योगाद् अपरत्वस्योत्पत्तिरिति * । सन्निकृष्टविप्रकृष्ट10 पिण्डयोः समवायिकारणत्वम्, कालपिण्डयोः संयोगस्य चासमवायिकारणत्वम्, सन्निकृष्टविप्रकृष्टबुद्ध्योश्च निमित्तकारणत्वमिति ।।
ननु चायुक्तमेतत् आहारोपयोगे सति पाकजोत्पत्तिन्यायेनैकस्मिन्नहन्युपजातत्वाविशेषेण सन्निकृष्टविप्रकृष्टबुद्धयोरभावात् परत्वापरत्वयोरसम्भवः ।
नैतदेवम् । जन्मनः प्रभूति एकस्यां शरीरसन्ततावादित्यपरिवर्तनापेक्षया 15 तदुपपत्तेः । तथाहि, एकस्य जनुःप्रभृति भूयास्यादित्यपरिवर्तनानि अपर
स्याल्पीयांसीति तदपेक्षया सन्निकृष्टविप्रकृष्टबुद्ध्योर्भावः । स्थविरे भूयांस्यादित्यपरिवर्तनानीति विप्रकृष्टबुद्धिः, यूनि चाल्पीयांसीति सन्निकृष्टबुद्धिः । तदपेक्षया परत्वापरत्वयोरुत्पत्तिरिति शरीरसन्तानस्यादित्यपरिवर्तनापेक्षया
घटत एवैतत् । दिक्कृतपरत्वापरत्ववैलक्षण्यञ्चानयोनिमित्तान्तरासम्भवे सति 20 कालकृतत्वमिष्टम् । न हि तस्मादेव निमित्ताद् व्यतिकरः सम्भवतीति ।
तदेवं परत्वापरत्वयोरुत्पादे व्यवस्थिते सूत्रेणाभिसम्बन्धोपदर्शनञ्च । तथा च सूत्रम् “एकदिककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च" (वै० सू०) इति । एका दिक कालश्च ययोस्तौ तथोक्तौ ताभ्यामिति समवा
यिकारणनिर्देशः । एकदिग्भ्यामिति दिक्कृतपरत्वापरत्वापेक्षयैव नियमः । 25 एककालाभ्यां वर्तमानकालाभ्याम् उभयत्रापीति । न हि असद्भ्यां सदसद्
भ्याञ्च परत्वापरत्वे जायते । सन्निकृष्टविप्रकृष्टाभ्यामिति समवायिकारणोपसर्जनतया सन्निकृष्टविप्रकृष्टबुद्ध्योनिमित्तकारणत्वमुक्तमेव । तथाहि,
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधर्म्यप्रकरणम्
"परमपरञ्चेति बुद्ध्यपेक्षम् " [ वै० सू० ] इत्यपेक्षाशब्दश्चात्र कारणे वर्त्तत इति । “कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वे " (वै० सू० ) इत्यसमवायिकारणं दर्शयति ।
Acharya Shri Kailassagarsuri Gyanmandir
ननु च कारणपरत्वात् कारणापरत्वाच्च यदि कार्ये परत्वापरत्वे भवतस्तर्हि रूपादिवच्चिरोत्पन्नत्वात् सन्निकृष्टविप्रकृष्टबुद्धि विनापि समाने देशे 5 समाने वयसि च पिण्डे तयोर्ग्रहणं स्यात्, न चैतदस्ति । अथ अनभिव्यक्तितोSनुपलब्धि: ? तन्न, सद्भावे प्रमाणाभावात् । सन्निकृष्टविप्रकृष्टबुद्धयादिसद्भावे चेदानीमुत्पन्नमात्रस्यापि ग्रहणमुपपद्यत एव । तस्माद् दिपिण्डसंयोगः कालपिण्डसंयोगश्च परत्वापरत्वसम्पादकत्वादुपचारेण परत्वापरत्वे इत्यभिधीयेते । न च परत्वापरत्वयोः परस्परापेक्षितत्वाद् असम्बद्धमुत्पत्त्यादिनिरूपणमिति 10 वाच्यम्, सर्वत्र परस्परापेक्षितत्वानुपलब्धेः । तथाहि न बीजाङ्कुरयोः परस्परापेक्षित्वम्, बीजविनाशे सति कालान्तरे द्व्यणुकादिप्रक्रमेण अङ्कुरस्योत्पत्तेः । एवमङ्कुरविनाशे सति उत्तरोत्तरकार्याणां पूर्वपूर्वविनाशे सति भावात्, नाङ्कुराद् बीजमिति परस्परापेक्षित्वाभावः । तथा पितृपुत्रयोः धर्मशरीरयोश्च न परस्परापेक्षित्वं यत एवोपलब्धिस्तत्कारणत्वानुपलब्धेः । कार्यान्तरे तु कारणत्वं न प्रतिषिध्यते इत्यलमतिप्रसङ्गेन ।
15
*
९७
विनाशस्त्वपेक्षा बुद्धिसंयोगद्रव्यनाशात् । अपेक्षा बुद्धि विनाशात् तावदुत्पन्ने परत्वे यस्मिन् काले सामान्यबुद्धिरुत्पन्ना भवति ततोऽपेक्षाबुद्धेविनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । ततोऽपेक्षाबुद्धेविनाशो गुणबुद्धेश्चोत्पत्तिः, ततोऽपेक्षा- 20 बुद्धिविनाशाद् गुणस्य विनश्यत्ता, गुणज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धेरुत्पत्तिर्गुणस्य विनाश इति ।
तदेवं परत्वापरत्वयोरुत्पत्तिमत्त्वादवश्यं विनाश इति, तस्य सहेतुकत्वात् कारणं वाच्यमित्याह विनाशस्त्वपेक्षा बुद्धिसंयोग द्रव्यविनाशात् * इति त्रेधा, त्रितयविनाशाच्चापरः पक्ष इति सप्तधा विनाशः ।
For Private And Personal Use Only
तत्रापेक्षा बुद्धिविनाशात् तावद् विनाशमाह * उत्पन्ने परत्वे स्वकारणाद्
१३
25
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
व्योमवत्यां
विशेषणत्वात् पूर्व तत्संयुक्तसमवेतसमवायात् सामान्यबुद्धिरुत्पद्यते । सा च यस्मिन् काले समुत्पन्ना भवति तदैव तत्सामान्यज्ञानात् * अपेक्षाबुद्धेविनश्यत्ता * विनाशकारणसान्निध्यम् । * सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्व
गुणबुद्धेरुत्पद्यमानता * उत्पत्तिकारणसान्निध्यमित्येकः कालः । ततोऽपेक्षा5 बुद्धविनाशो गुणज्ञानस्योत्पादोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता,
सामान्यज्ञानस्य विनश्यत्ता, गुणाश्च तज्ज्ञानञ्च तत्सम्बन्धश्चेति तेभ्यो द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धरुत्पत्तिरपेक्षाबुद्धिविनाशाद् गुणस्य च विनाशोऽन्यस्य विनाशकारणस्यानुपलब्धेः ।
संयोगविनाशादपि कथम् ? अपेक्षाबुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते, तेन कर्मणा दिपिण्डविभागः क्रियते, अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्यबुद्धरुत्पत्तिदिपिण्डसंयोगस्य च विनाशः। ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिकपिण्डसंयोगविनाशाद् गुणस्य विनाशः।
संयोगविनाशादपि कथं विनाश इत्यव्युत्पन्न प्रश्नानन्तरमाह * अपेक्षा15 बुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते * विभागपरत्वापरत्वयो
रुत्पद्यमानतेत्येक: काल: । ततः * तेन कर्मणा दिपिण्डविभागः क्रियते * परत्वस्य चोत्पत्तिः, सामान्यबुद्धेरुत्पद्यमानता, दिपिण्डसंयोगस्य विनश्यत्ता। * ततः सामान्यबुद्धरुत्पत्तिदिपिण्डसंयोगस्य च विनाश: * सामान्यज्ञानादपेक्षाबुद्धविनश्यत्ता, गुणबुद्धेरुत्पद्यमानता, संयोगविनाशाद् गुणस्य विनश्यत्ता । * ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले * दिपिण्डसंयोगस्य असमवायिकारणस्य विनाशाद् गुणस्य * परत्वस्य विनाशः । (सामान्यज्ञानादपेक्षाबुढेरपि विनाशः । अत एवापेक्षाबुद्धिविनाशो गुणविनाशस्य कारणं समकालत्वात् ।)
द्रव्यविनाशादपि कथम् ? परत्वाधारावयवे कर्मोत्पन्न यस्मिन्नेव कालेऽवयवान्तराद् विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते । १. प्रकरणसङ्गत्यभावात् पङिक्तिरियमत्र न सङ्गच्छते पूर्वप्रकरण एवासीदित्यनुमीयते ।
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवेधम्यप्रकरणम्
ततो विभागाद् यस्मिन्नेव काले संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते । ततः संयोगविनाशाद् द्रव्यविनाशस्तविनाशाच्च तदाभितस्य गुणस्य विनाशः।
द्रव्यविनाशादपि कथं विनाश इत्याह * परत्वाधारावयवे कर्मोत्पन्नम् * यस्मिन् कालेऽवयवान्तरविभागं द्रव्यारम्भकसयो [ गिन ? गविरोधिन मारभते संयोगस्य विनश्यत्ता । तस्मिन्नेव काले स्वकारणादपेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता। विभागाद् यस्मिन् काले संयोगस्य द्रव्यारम्भकस्य विनाशो द्रव्यस्य विनश्यत्ता तस्मिन्नेव काले परत्वमुत्पद्यते । तत्सामान्यज्ञानस्योत्पद्यमानता, ततः संयोगविनाशाद् द्रव्यविनाशः, सामान्यज्ञानस्योत्पादोऽपेक्षाबुद्धविनश्यत्ता, परत्वगुणस्यापि विनश्यत्ता । ततो द्रव्यविनाशात् 10 तदाश्रितस्य गुणस्य विनाशः । सामान्यज्ञानादपेक्षावुद्धश्च विनाश इति पूर्वकालत्वादाश्रयविनाश एव गुणविनाशे कारणमिति ।
द्रव्यापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पद्यते तदेवापेक्षाबुद्धिरुत्पद्यते, कर्मणा चावयवान्तराद विभागः क्रियते, परत्वस्योत्पत्तिरित्येकः कालः। ततो यस्मिल्लेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते । तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाश इत्येकः कालः । ततो द्रव्यापेक्षाबुद्धयोविनाशात् परत्वस्य विनाशः।
द्रव्यापेक्षाबुद्धयोयुगपद् विनाशादपि कथं परत्वापरत्वयोविनाशस्तदाह 0 ॐ यदा * परत्वाधारस्योत्पत्स्यमानपरत्वस्यावयवे कर्मोत्पद्यते विभागस्योत्पद्यमानता तदेवापेक्षाबुद्धिरुत्पद्यते, परत्वस्योत्पद्यमानता, कर्मणा चावयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः, संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिस्तत्सामान्यज्ञानस्योत्पद्यमानतेत्येकः कालः । * ततो यस्मिन्नेव काले * विभागाद् द्रव्यारम्भकसंयोगविनाशो द्रव्यस्य विनश्यत्ता, 25 * तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते * । अपेक्षाबुद्धविनश्यत्ता । * तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाशः *
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
व्योमवत्यां
गुणस्य विनश्यत्तेत्येकः कालः । * ततो द्रव्यापेक्षाबुद्धयोविनाशात् * तदाश्रितस्य *परत्वस्य विनाशः * इति । एकैकस्यान्यत्र गुणविनाशे सामर्थ्यावधारणादुभयोरत्र पूर्वकालभावित्वे सति कारणत्वं निश्चीयते ।
द्रव्यसंयोगविनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पन्नम् 5 अवयवान्तराद् विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबद्धयो
युगपदुत्पत्तिः। ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशः, पिण्डकर्मणा दिपिण्डस्य च विभागः क्रियत इत्येकः कालः। ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले द्रव्यारम्भकसंयोगविनाशात् पिण्डविनाशः, पिण्डविनाशाच्च पिण्डसंयोगविनाशः। ततो गुणबुद्धिसमकालं पिण्डदिपिण्डसंयोगविनाशात् परत्वस्य नाशः।।
संयोगद्रव्यविनाशादपि कथं परत्वापरत्वयोविनाश इत्याह * यदा * द्रव्यावयवे [? परत्वाधारावयवे] कर्मोत्पन्नमवयवान्तराद् विभागं करोति
संयोगस्य विनश्यत्ता, तस्मिन्नेव काले पिण्डेऽपि समवायिकारणे कर्म 15 चापेक्षाबुद्धिश्च स्वकारणात् तयोर्युगपदुत्पत्तिः, दिपिण्डविभागपरत्वा
परत्वयोरुत्पद्यमानतेत्येकः कालः । ततो यस्मिन्नेव काले परत्वमुत्पद्यते तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशः, द्रव्यस्य विनश्यत्ता, पिण्डकर्मणा च दिपिण्डविभागः क्रियते, संयोगस्य विनश्यत्तेत्येकः कालः । ततो यस्मिन्नेव काले 20 सामान्यबुद्धिरुत्पद्यते गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धविनश्यत्ता, तत्समकालं
संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिपिण्डसंयोगविनाशः, गुणस्य विनश्यत्ता । ततो गुणबुद्धिसमकालं पिण्डसंयोगयोविनाशात् परत्वस्य विनाशः, सामान्यबुद्धश्चापेक्षाबुद्धिविनाश इति । अतएव समकालत्वादपेक्षा
बुद्धिविनाशो न कारणम्, पिण्डसंयोगविनाशयोश्चान्यत्र सामर्थ्यावधारणे 25 सति पूर्वकालभावित्वात् कारणत्वमिति ।
संयोगापेक्षाबुद्ध्योर्युगपद् विनाशादपि कथम् ? यदा परस्वमुत्पद्यते तदा परत्वाधारे कर्म, ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते । ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च विकपिण्डसंयोगविनाश इत्येकः कालः । ततः संयोगापेक्षाबुद्ध्योविनाशात् परत्वस्य विनाशः ।
संयोगापेक्षाबुद्ध्योयुगपद् विनाशादपि कथं विनाश इत्याह * यदा परत्वमुत्पद्यते * स्वकारणपरत्वसामान्यज्ञानस्योत्पद्यमानता, * तदा परत्वा- 5 धारे * स्वकारणात् कर्म, विभागस्योत्पद्यमानता, * ततो यस्मिन्नेव काले परत्वसामान्यबुद्धिरुत्पद्यते * गुणबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धविनश्यत्ता, * तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते * तत्संयोगस्य विनश्यत्ता । * ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिपिण्डसंयोगविनाशः * गुणस्य विनश्यत्तेत्येकः कालः । * ततः संयोगापेक्षाबुद्ध्यो- 10 विनाशात् परत्वस्य विनाशः * इति ।
त्रयाणां समवाय्यसमवायिनिमित्तकारणानां युगपद् विनाशादपिकथम् ? यदापेक्षाबुद्धिरुत्पद्यते तदा पिण्डावयवे कर्म, ततो यस्मिन्नेव काले कर्मणावयवान्तराद् विभागः क्रियतेऽपेक्षाबद्धः परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेऽपि कर्म, ततोऽवयव विभागात पिण्डारम्भकसंयोग- 15 विनाशः, पिण्डकर्मणा च दिक पिण्डविभागः क्रियते, सामान्यबुद्धेश्चोत्पत्तिरित्येकः कालः। ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिकपिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धविनाश इत्येतत् सर्व युगपत, त्रयाणां समवाय्यसमवायिनिमित्तकारणानां विनाशात् परत्वस्य विनाश इति ।
त्रयाणां समवाय्यसमवायिनिमित्तानां युगपद् विनाशादपि कथं विनाश इत्याह . * यदापेक्षाबुद्धिरुत्पद्यते* परत्वस्योत्पद्यमानता। तदा पिण्डावयवे कर्म* विभागस्योत्पद्यमानता। ततो यस्मिन्नेव कालेऽवयवान्तराद् द्रव्यारम्भकसंयोगविरोधिविभागः क्रियते, अवयवकर्मणा संयोगस्य विनश्यत्ता, परत्वस्योत्पत्तिः, तत्सामान्यज्ञानस्योत्पद्यमानता, तस्मिन्नेव काले 25 स्वकारणात् पिण्डेऽपि कर्म, विभागस्योत्पद्यमानता, ततो विभागात पिण्डारम्भकसंयोगविनाशः, पिण्डस्य विनश्यत्ता, पिण्डकर्मणा च विभागः क्रियते ।
20
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
व्योमवत्यां दिपिण्डसंयोगस्य विनश्यत्ता सामान्यबुद्धेश्चोत्पत्तिः, अपेक्षाबुद्धविनश्यत्ता, गुणबुद्धरुत्पद्यमानतेत्येकः कालः । ततः संयोगविनाशात् पिण्डविनाशः, विभागाच्च दिपिण्डसंयोगविनाशः, सामान्यज्ञानादपेक्षाबुद्धेविनाश इत्येतत्
सर्वं युगपद् भवतीति । तत्र त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशात् 5 परत्वस्य विनाश इति । अन्यत्र हि व्यस्तानां कारणत्वोपलब्धेः समुदिताना
मत्र सम्भवाद् गुणविनाशे कारणत्वमिति सम्भाव्यमानानेककारणत्वोपन्यासः ।
बुद्धिवैधर्म्यम्
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः । ___ अथेदानी बुद्धरवसरप्राप्ताया लक्षणपरीक्षार्थं * बुद्धिरुपलब्धिः * इत्यादि प्रकरणम् । बुद्धिरिति पदम् आवर्त्यमानं लक्ष्यनिर्देशो लक्षणनिर्देशश्च भवति । तथाहि, बुद्धिरिति लक्ष्यनिर्देशः । बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्याया लक्षणम् ।
अथ आकाशे पर्यायशब्दरूपत्वात् वर्तमानाः कथं व्यधिकरणत्वात् 15 बुद्धलक्षणम् ? वाच्यवाचकभावेन तद्धर्मत्वात् । लक्षणवैचित्र्यज्ञापनार्थञ्चात्र
पर्यायलक्षणाभिधानम् । तथाहि, न परम् असाधारणत्वात् कार्यकरणादिलक्षणम् पर्यायात्मकञ्चेति ।
अथ शब्दानां पुरुषेच्छानुविधायितया अर्थान्तरेऽपि वृत्तिः सम्भवतीति व्यभिचारः ? न, अनादिकालप्रवाहायातत्वेन विशेषितत्वात् । तथाहि, 20 बुद्धिरितरस्माद् भिद्यते, अनादिकालप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्,
यस्त्वितरस्मान्न भिद्यते न चासावेवम्, यथा रूपादिरिति । व्यवहारो वा साध्यः ।
ननु बुद्धेरन्येऽपि पर्याया विद्यन्त इति तत्परिहारेणामीषामेव लक्षणत्वेनाभिधाने विशेषहेतुर्वक्तव्यः । स चायं विशेषोऽत्रैव विप्रतिपत्तेः, 25 लक्षणार्थमपीदं वाक्यं सामर्थ्यात् तन्निरासपरं भवतीति ।
.. तथा च सांख्याः, प्रधानस्याद्यो विकारो बुद्धिः, बीजस्योच्छूनतेव ।
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
प्रधानञ्च सत्त्वरजस्तमसां साम्यावस्था, तद्विकारो वैषम्यम् । उपलब्धिस्तु सुखदुःखाकारपरिणतायां बुद्धावात्मनः प्रतिबिम्बोदयो भोगः । तदाह,
विविक्तदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥(आसुरिः)इति । विविक्तदृगविषयाकारपरिणतेन्द्रियाकारपरिणतिर्यस्याः सा तथोक्ता, 5 तस्यां बुद्धौ सत्यामात्मनो भोगः कथ्यते । किं रूपः ? प्रतिबिम्बोदयः, न वास्तवः । यथा चन्द्रमसः प्रतिबिम्बनं स्वच्छे, न कलुषाम्भसि; एवं विशिष्टपरिणामोपचितायां बुद्धावात्मन इति । वास्तवे हि भोगे पुरुषस्य पूर्वस्वरूपनिवृत्तौ स्वरूपान्तरापत्तिविकारः स्यात् । तत्र चाचेतनत्वादनेकदूषणमिति । अन्ये त्वन्यथा भोगं मन्यन्ते । यथा हि,
पुरुषोऽविकृतात्मैव स्वनिर्भासेन चेतनम् ।
मनः करोति सान्निध्यादुपाधिस्फटिकं यथा ॥(विन्ध्यवासी)इति । सान्निध्यादुपाधिस्फटिकमतद्रूपं स्वनिर्भासं स्वाकारं करोति । एवमयं पुरुषोऽविकृतस्वरूपोऽचेतनं मनः स्वनिर्भासं चेतनमिव करोति सान्निध्यात्, न पुनर्वस्तुतस्तस्य चैतन्यं विकारित्वात् । ज्ञानन्तु विषयाकारपरिणतेन्द्रिया- 15 कारतया बुद्धेः परिणामः । तदा भोगोत्सुकं पुरुषं मत्वा बुद्धेराकूतिः सम्पद्यते । तदाकूतसंवेदनाच्चेन्द्रियाणां पूर्वस्वरूपनिवृत्तेविषयाकारपरिणामः । अन्यथा हि पूर्वरूपापरित्यागे प्रागिव पश्चादपि विषयावबोधो न स्यात् । विषयाकारपरिणामश्च प्रतिकर्मव्यवस्थातो नीलस्येदं पीतस्येदमिति ज्ञेयम् । अन्यथा हि विषयाकारं विना परिणामस्याविशेषादियं व्यवस्था न स्यात् । 20 एवं विषयाकारपरिणतेन्द्रियेषु तदाकारतया बुद्धेः परिणामः ।। तथासिद्धयादिप्रत्यया: पञ्चाशद् बद्धेः परिणामविशेषा एव ।
अष्टधा सिद्धिर्नवधा तुष्टि : पञ्चविपर्ययभेदाः ।
तथाशक्तिरष्टाविंशतिधेत्यसिद्धितुष्टयोर्भेदाः ॥ सप्तदशैकादशेन्द्रियवधाश्चेति पञ्चाशद् भवन्तीति पर्यायत्वं बुद्ध्यादि- 25 शब्दानां न सिद्धाः, विभिन्नार्थवाचकत्वात् । अभिन्नप्रवृत्तिनिमित्ताश्चैकार्थवाचकाः शब्दाः पर्याया इति ।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
व्योमवत्यां
तदेतदसाम्प्रतम्, एषां प्रयोगतः पर्यायताप्रतीतेः । तथाहि, बुद्धः, उपलब्धः, ज्ञातः, प्रतीतः, इत्येकस्मिन्नर्थे प्रयुज्यमानाः प्रतीयन्ते । विभिन्नार्थतायान्तु उपलब्धो न बुद्धः, ज्ञातो न प्रतीत इति संवेदनं स्यात् ।
न चैतदस्ति। न च प्रधानासत्त्वस्य वक्ष्यमाणत्वात् तद्विकारस्य बुद्धेः 5 सद्भावः । तदभावादात्मनि बुद्धेनं बिम्बनम्, उपलब्धिस्तत्परिणामो वा,
ज्ञानं, प्रत्ययश्चेति । यदि न वास्तवो भोगः स्यात्, न संसार्यात्मनो मुक्ताद् विशेषः, स्वनिष्ठायाश्चितेरुभयत्राविशेषात् ।
न च व्यापित्वाविशेषात् संसार्यात्मन एव बुर्विशेषेण सान्निध्यात् प्रतिबिम्बनं नेतरस्येति वाच्यम् । भोग्यभोक्तृत्वसम्बन्धस्तु भोगस्यावास्तव10 त्वाद् विचार्यः । न च कमव नियामकम्, तस्य बुद्ध्या सम्पादित्वात् । तथाहि,
बुद्ध्या सम्पादितं कर्म पुरुषेण विशिष्टसम्बन्धाभावाद् अशेषपुरुषोपभोग्यं स्यात् । न च बुद्धेः कत्तृत्वम्, अचेतनत्वात् । चैतन्यं हि [प्रधानं ? न] क्रियाकरणे वर्त्तत इति । कत्तु त्वं हि स्वातन्त्र्यम् तत्र करणत्वं पारतन्त्र्यं
न स्यात्, स्वातन्त्र्यपारतन्त्र्योविधिप्रतिषेधरूपत्वादिति पुरुषस्यैव कर्तृत्व15 मभ्युपेयम् । न च तस्य पूर्वमकृत्वा कुर्वतः परिणामित्वम्, कारकसाकल्ये
कार्यकरणात्, तवैकल्ये चाकरणात् । साकल्यवैकल्ययोश्चाविर्भावतिरोभावाभ्यां नात्मनस्तथाभावस्ततोऽन्यत्वात् । अतः पुरुषस्य कत्तु त्वे युक्तं वास्तवं भोक्तृत्वम् । अन्यथा हि भोगक्रियामकुर्वतः कथमुदासीनस्य भोक्तृत्वं
स्यात्, भोगस्य सुखदुःखवेदनारूपत्वात् । तदाधारता तु भोक्तृत्वमिति । 20 यच्चेदं पुरुषस्य भोगोत्सुकतां मन्यमानाया बुद्धराकृतिः सम्पद्यते,
तत्संवेदनाच्चेन्द्रियाणामिति, असदेतत्, अचेतनत्वात् । अचेतना हि बुद्धिस्तथेन्द्रियाणि, तेषामाकूतसंवेदनाभावे कथं नियतो विषयाकारतया परिणाम: ? पुरुषस्य तु चिद्रूपताव्यतिरेकेण नापरा भोगोत्सुकतास्ति । यश्चायमिन्द्रियाणां विषयाकारपरिणामस्तस्य विषयाकारतायां न प्रतिकर्मव्यवस्था प्रमाणम्, तदन्तरेणापि तद्भावात् इति वक्ष्यमाणन्यायात् । यदि च बुद्धेः पूर्वरूपनिवृत्ताविन्द्रियाकारतया परिणामस्तहि स्वरूपस्याव्यतिरेकाद् बुद्धेरेवोत्पत्तिनिवृत्तिश्चेति । अन्यत्वे प्रतिसन्धानाधभाव एव । न ह्येकेनोप
25
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१०५ लब्धमर्थमन्यः प्रतिसन्धातुमर्हतीति । परिणामास्तु बुद्धेस्तादात्म्येन वर्तन्त इति तेषामनेकत्वे बुद्धेरप्यनेकत्वम्, विपर्यये तादात्म्यविरहात् ।।
यदपीदं बुद्धेः परिणामविशेषाः पञ्चाशत् प्रत्ययाः, तदबुद्धिपूर्वकम्, तत्परिणामविशेषानामानन्त्यात् । न च तेषामेष्वेवान्तर्भावः प्रतिनियतलक्षणावरोधस्यानुपलब्धेरित्यलमतिप्रसङ्गेन ।
सा चानेकप्रकारा, अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च । __ तदेवं बुदध्यादिपर्यायाः परपक्षव्युदासे सति लक्षणमिष्यन्त इति स्थिते लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धेविप्रतिपत्तेश्च संशये सति तन्निरासार्थं * सा चानेकप्रकारा * इति वाक्यम् । कुत एतत् ? * अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च ।
10 ___ ननु चार्थानन्त्यमर्थधर्म इति व्यधिकरणत्वम् ? न, अन्यथा तदुपपत्तेः । तथाहि, बद्धरर्थानन्त्यमित्यर्थोपदर्शनम, एतत्साधनञ्च अनन्तार्थत्वादिति । अर्थोऽनन्तो यस्याः सा तथोक्ता, तस्या भावोऽनन्तार्थत्वमिति । अर्थस्तु अर्थ्यतेऽनेनेति कारकसामग्र्यं न कारकैकदेशः, तद्भेदेऽपि कार्यस्याभेदोपलब्धः। तथाहि, अनेककारकसम्पाद्यं घटादि एक दृष्टमिति । सामग्री तु 15 प्रतिकार्यनियतत्वान्न तद्भेदं व्यभिचरतीति । अतोऽनेकप्रकारा बुद्धिरनतार्थत्वात्, अनन्तकारकसामग्रीजन्यत्वात् घटादिवदिति । यश्चैको न चासावनन्तकारकसामग्रीजन्यो यथा घट इति । न तु कर्मव्युत्पत्त्या अनन्तकर्मकारकजन्यत्वं साधनं विवक्षितमिति व्याख्येयम्, प्रत्यर्थनियतत्वादित्यनेन गतार्थत्वात् । तथाहि, अर्थमर्थं प्रति नियतं यावद्भेदभिन्नं कर्मकारकं तावद्भेद- 20 भिन्ना बुद्धय इति बुद्धिरनेकप्रकारा प्रत्यर्थनियतत्वाद् घ्राणादिवत् । __अन्ये तु पूर्वस्मिन्नेव वाक्ये कर्मव्युत्पत्त्या अनन्तकर्मकारकजन्यत्वं साधनं लभ्यत एवेति प्रत्यर्थनियतत्वं प्रत्यात्मवृत्तित्वं विवक्षितमिति मन्यन्ते । तथाहि, अर्थतेऽस्मिन्नित्यात्मा इत्यर्थः तं प्रति नियतत्वं प्रत्यात्मवृत्तित्वमेव । सामान्यस्य तु अनन्तात्मवृत्तित्वान्न प्रत्यात्मनियतत्वमस्तीति । सम्भवेऽपि बुद्धेविशेषगुणत्वाद् विशेषगुणत्वे सतीति विशेषणमभ्यूह्यम् ।
१४
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
व्योमवत्यां
___अन्ये तु रूपज्ञानं रसज्ञानमित्यादिबुद्धर्नानात्वस्य प्रत्यक्षेणैव प्रसिद्धेरीश्वरंबुद्धरस्मबुद्धेश्च परस्परभेदज्ञापनार्थम् अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्चेति पदद्वयमिति ब्रुवते । तथाहि, ईश्वरबुद्धिरनन्तार्थत्वादस्मबुद्धेभिद्यते, अस्मद्
बुद्धिश्च प्रत्यर्थनियतत्वादीश्वरबुद्धेरिति । अत्र च बुद्धेरनेकत्वं सामान्येन 5 प्रतिज्ञातमित्ययं विशेषः कुतो लभ्यत इति चिन्त्यम् ।
____ अथ बुद्धिव्यतिरेकेणार्थस्य सद्भावे प्रमाणाभावाद् अयुक्तमर्थानन्त्यं प्रत्यर्थनियतत्वञ्चेति । तथाहि, विज्ञानं स्वयम्प्रकाशरूपत्वादात्मानं प्रकाशयति, अर्थास्तु जडात्मानः, तेषां कथं प्रकाशः ? यदि ज्ञानं प्रगृहीतं प्रकाशक
मिष्येत तस्यापि ज्ञानान्तरेण ग्रहणाभ्युपगमे ज्ञानपरम्परायामुपक्षीणत्वाद् 10 अभिप्रेतस्यार्थस्याप्रकाशनमेव । न च पूर्वज्ञानाग्रहणेऽपि अर्थस्यैव ग्रहणमिति वाच्यम् । तेषामासन्नत्वे सति ग्राह्यलक्षणप्राप्तत्वात् । तदाह,
तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृहणीयादपरं कथम् ॥ (प्र.वा.२१५१५ )
अथागृहीतमेवार्थप्रकाशकम् ? एवं तहिं सन्तानान्तरोद्भतानामपि सर्वेषां 15 प्रकाशकं स्यात् । यथा हि, स्वसन्ततावुपजातमज्ञातमेवार्थप्रकाशकम्, एवं
सन्तानान्तरेऽपि स्यादविशेषात् । अथ स्वसम्बेद्यस्वसन्ततौ विज्ञानमर्थप्रकाशकम् ? एवं तहि बोधशरीरादर्थान्तरस्य वस्तुनोऽप्रकाश एव । तथाहि, यद्यमी पदार्थाः प्रकाशरूपाः कथं बोधाद् व्यतिरिच्यन्ते ? बोधस्यैव तद्रूप
त्वाद्, अप्रकाशरूपतया च सर्वदा न प्रकाशः स्यात् । अतो ज्ञानमेव, प्रकाश20 स्वरूपत्वादिति व्यवह्रियते। प्रकाशरूपतया हि सत्त्वं व्याप्तम् । सा च
व्यावर्त्तमाना बाह्यार्थेभ्यः स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्त्तत इत्यसत्त्वं बोधव्यतिरेकिणाम् ।
न च बोधस्य बोधरूपतया सर्वत्राविशेषाद् विशिष्टार्थप्रकाशकत्वं स्यात् । अथ नीलस्येदं पीतस्येदमिति प्रतिकर्मव्यवस्थातः साकारं विज्ञान25 मिष्टम् ? तर्हि विज्ञानमेवास्तु तदाकारमलं बाह्यार्थकल्पनयेति । तदुक्तम्,
धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः । (प्र.वा.२।४०३ ) इति
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न तु परमार्थतः । तदाह,
१०७
,
तथा विज्ञानकालेऽर्थस्यासद्भावाद्, अर्थंकाले तु ज्ञानस्येति कथं तयो - ग्रह्यग्राहकभावः सदसद्रूपयोस्तदभावात् । एकस्मिश्च काले द्वयोरुत्पत्त्यभ्युपगमे किं ग्राह्यं किञ्च ग्राहकमित्यविशेषात् । न च विज्ञानार्थयोः स्वात्मन्येव पर्यवसाने अर्थाधीनतायाः प्रतिपत्तुमशक्यत्वाद् ग्राह्यग्राहकभावः । तथा अवयविप्रतिषेधद्वारेण रूपादिसमुदायमात्रम्, तच्च समुदीयमानेभ्यो नार्थान्तरमिति व्यवस्थायामर्थाभाव एव समुदायस्य परमार्थसत्त्वेनाप्रतिभासनात् । ये तु परमार्थसन्तः परमाणवस्तेऽस्मद्दर्शनविषया न भवन्त्येव, अतीन्द्रियत्वात् । कार्यञ्चापरमार्थसत्त्वात् प्रतिभासमानमलिङ्गमेव । तस्मादनादिवासनावशाद् विज्ञानांश एव ग्राह्यग्राहकप्रविभागः । एतदाह,
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्ति भेदवानिव
गुणधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्यते ।। ( प्र.वा. २।३५४ )
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्
स्वयं सैव प्रकाशते || ( प्र.वा. २१३२७ )
ननु तर्हि नीलमहं वेद्मि चक्षुषेति प्रतिभासः कथम् ? तथाहि, नीलमिति कर्म, अहमति कर्ता, वेद्मीति क्रिया, चक्षुषेति करणम् । एतेषां परस्परव्यावृत्तवपुषां प्रतिभासनाद् अभेदप्रतिपादनमुन्मत्तभाषितम् ? नैतदेवम् । तैमिरिकस्य द्विचन्द्रदर्शनबदस्याप्युपत्तेः । यथा हि तैमिरिकस्यार्थाभावेऽपि तदाकारं विज्ञानमुदेति एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात् तदाकारं विज्ञानमिति । अथ तैमिरिकस्य केशादिज्ञानं बाध्यमानत्वान्निविषयम्, न चैवमेतत्, तदसत्, बाध्यवाधकभावस्यैवासम्भवात् । तथाहि, न विज्ञानमर्थेन बाध्यते, प्रतीयमानाप्रतीयमानाभ्यां बाध्यत्वेऽतिप्रसङ्गात् । प्रतीयमानेन हि बाधायां सर्वं विज्ञानं बाध्यं स्यात्, एवमप्रतीयमानेनापीति ।
अथ ज्ञानेनैव ज्ञानं बाध्यते, तत्रापि न विभिन्नविषयेण रूपज्ञानेन रसादिज्ञानस्यापि बाधप्रसङ्गात् । समानविषयत्वे तु सम्पादकत्वमेव स्यान्न बाधकत्वम् । न च विज्ञानस्योत्पत्तिविनाशो वा बाधात्, सर्वस्यापि तथा
For Private And Personal Use Only
5
10
15
20
25
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
व्योमवत्या
भावप्रसङ्गात् । अथ विषयान्तरोपसर्पणा मिथ्यापत्तिबर्बाधः ? तदसत्, विषयस्य कर्मकारकरूपत्वात्, यत्रोत्पद्यते ज्ञानं स एव तस्य विषय इति विषयान्तरोपसर्पणमसिद्धम् । विज्ञाने बाध्यबाधकसद्भावस्यैवाप्रसिद्धेर्न मिथ्याज्ञानमस्तीति । नापि संविदि सम्यक्त्वम्, प्रमाणाभावात् ।
अथ अर्थक्रियासंवादः प्रमाणम् ? न, तत्रापि संवादकापेक्षायामनवस्थाप्रसङ्गात्, संवादकञ्च विना न सम्यक्त्वसिद्धिरिति । न चार्थक्रियापि बोधाद् भिद्यते, सर्वस्यापि प्रतिभासमानस्य बोधादव्यतिरेकात् । यथोक्तम्,
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ।।
(प्र. वा. २।३२९) इति । यदि च पदार्थानां निजं स्वरूपादि यथैकस्य प्रतिभासस्तथा सर्वेषामपीति विसंवादो न स्यात् ? न चैतदस्ति । तथाहि,
मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ (प्र. वा. २।३५५) इति । 15 अथ चोपप्लुतचक्षुषामन्यथा प्रतिभासस्तत इति किं प्रमाणम् ? अनुपप्लुतचक्षुषां तथैव दर्शनमिति । तदाह,
तथैव दर्शनात्तेषामनुपप्लुतचक्षुषाम् । दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥ (प्र. वा. २।३५६) इति ।
अव्यवस्थामेवोत्तरार्धेन दर्शयति, एवमेकशो बद्ध्या विचार्यमाणेषु 20 भावेषु रूपं न व्यवतिष्ठते । यथा हि, तन्तुषु विचार्यमाणेषु पटस्याव्यवस्थानम्,
अंशुव्यतिरेकेण तन्तूनाम्, इत्याधुह्यम् । कथं हि शाक्याः स्नानादिक्रियासु प्रवर्तन्ते, बाह्यार्थस्यासत्वादिति ? लोकव्यवहारानुसारितया । यथाहि, अपरीक्षका बाह्यमर्थम् अविद्यावशात् प्रतिपद्यमानाः प्रवर्तन्ते तद्वत् परीक्षका अपीति, 'लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात् ।
तदेतदसत्, अर्थविशेषादुत्पत्तिमन्तरेण बुद्धिविशेषस्याभावप्रसङ्गात् । रूपज्ञानं रसज्ञानमित्यादि परस्परं व्यावृत्तस्वरूपाणि ज्ञानानि प्रथन्त इत्यर्थ
25
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् विशेषोऽभ्युपगन्तव्यः । अथ वासनाविशेषाद् विज्ञानविशेषः ? तस्या अपि विशिष्टज्ञानजनकत्वेऽपि ज्ञानाद् व्यतिरेके च संज्ञाभेदमात्रम् । अव्यतिरेके तु ज्ञानरूपोभयं सर्वत्राविशिष्टमिति रूपज्ञानं रसज्ञानमित्यादिवैचित्र्याभावः । न चाकारविशेषाद् विज्ञानविशेषः, तस्याप्यसम्भवात् । तथाहि, ज्ञानमात्रस्य वास्तवाकारतायां नीलदिज्ञानं वास्तवाकारत्वात् प्रमाणम्, द्विचन्द्रादि- 5 ज्ञानञ्चावास्तवाकारत्वादप्रमाणमिति विशेषव्याघातः, वास्तवाकारतायाः सर्वत्राविशेषात् । अथावास्तवाकारम्, तथापि विशेषाभ्युपगमहानिः, वादिप्रतिवादिनोश्च जयपराजयव्यवस्था न स्यात्, उभयोरप्रमाणेन प्रवृत्तरविशेषात् ।
न चावास्तवस्य विज्ञानतादात्म्यम्, सदसद्रूपयोः खरविषाणयोरिवै- 10 कत्वादर्शनात् । अत एव, सहोपलम्भनियमादभेदो नीलतद्धियोः ।
(धर्मकीर्तेरिति प्रज्ञाकर भा० पृ० १२७) __इत्येकत्वसाधनमुन्मत्तभाषितम् । असतः सत्तादात्म्ये सत्त्वम्, असत्तादात्म्ये तु तद्रूपत्वमिति । तथा परप्रसिद्धया नियमेन सहोपलभ्य- 15 मानत्वं भेदेनैव व्याप्तमिति विरुद्धं स्यात् । अथ साहाय्यं यौगपद्यं वा विवक्षितं सहोपलभ्यमानत्वम् ? तथापि तयोर्भेदेनैव व्याप्तत्वाद् विरुद्धत्वम् । तथा सर्वज्ञः स्वचित्तेन सहोपलभते परचित्तम्, न च तस्य तस्मादभेद इति व्यभिचारः, सर्वेषां सर्वज्ञताप्रसङ्गात् । न चैकस्यैवोपलम्भनियमो हेतुः, अशब्दार्थत्वात्, साध्याविशिष्टत्वाच्च । तथा अनेकरूपाद्यवयवस्य हि तस्यार्थ- 20 स्योपलम्भे स्वरूपासिद्धोऽपीति ।
अथ बाह्यार्थाभावादेकोपलम्भनियमः ? तन्न, इतरेतराश्रयत्वप्रसङ्गात् । तथा चैकोपलम्भनियमात् बाह्याभावसिद्धिः, तसिद्धेश्चैकोपलम्भनियमसिद्धिरित्येकाभावादितराभावः । अथैकेनैवोपलभ्यमानत्वं साधनम् ? न, अन्यवेदनाभावस्याप्रसिद्धेः । अर्थस्तु तत्समानक्षणैरन्यैरप्युपलभ्यत इत्येके- 25 नैवोपलभ्यमानत्वमसिद्धम् । सच्चन्द्रासच्चन्द्रदृष्टान्तो सदसतोरेकत्वविरोधात् साध्यविकल:, साधनविकलश्च, असतश्चन्द्रस्य सत्त्वेनोपलम्भाभावात् ।
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
व्योमवत्यां
तथा ज्ञानं ग्राहकस्वरूपम्, नीलादि ग्राह्यस्वरूपमित्यनयोः शुक्लपीतयोरिव स्वभावभेदाद् भेदः । अभेदे हि बोधोऽपि नीलस्य ग्राह्यः, नीलञ्च बोधस्य ग्राहकमिति स्यात् । न चैतदस्ति, कारणभेदाच्च नीलाद् बोधोऽर्थान्तरम् । तथाहि, 'बोधाद् बोधरूपता', 'इन्द्रियाद् विषयप्रतिनियमः', 'विषयादाकारग्रहणम्' इति भेदादेषां भेद एव । अथ न कारणभेदः ? किं तहि ? व्यावृत्तिभेदमात्रम् । अबोधव्यावृत्तिर्बोधः, निराकारताव्यावृत्तिः साकारत्वम्, अतद्रूपव्यावृत्तिविषयप्रतिनियम इति । एवं तर्हि नीलावबोधचक्षुषामाकारबोधविषयप्रतिनियमेषु व्यावृत्तिस्वरूपेषु व्यापारा
सम्भवाद् अकारणत्वमेव, व्यावृत्तेरवस्तुरूपत्वात् । अथ व्यावृत्ताद् बोधादबो10 धादिव्यावृत्तिर्नान्या, तहि बोधस्यैकरूपत्वात् कारणभेदप्रतिपादनमसम्बद्धं
स्यात् । अतः कारणभेदादेव नीलतद्बोधयोर्भेदः । चित्रप्रतिभासे तु नीलपीताद्यनेकाकारं विज्ञानं बोधमात्रतायां कथं स्यादिति चिन्त्यम् । तथा हि, तेषामाकाराणामेकबोधतादात्म्यादेकत्वम्, तत्तादात्म्ये वा बोधस्यानेकत्वमिति दुर्निवारः प्रसङ्गः ।
अथ यावन्तस्तत्राकारास्तावन्त्येव ज्ञानानीति ? तर्हि तेषां प्रतिनियताकारत्वात् चित्रप्रतिभासाभावः । न चाकारसद्भावे प्रतिकर्मव्यवस्था प्रमाणम्, अन्यथापि भावात् । तथाहि, सकलकारकजन्यत्वाविशेषेऽपि नीलस्य कर्मरूपतया व्यापारात्तेनैव व्यपदेशो नाकारार्पकत्वादिति । सर्वेषां जनकत्वाविशेषेऽपि अर्थस्यैवाकारार्पकत्वे विशेषहेतुर्वाच्यः । अथार्थस्य कर्मरूपतया 20 व्यापारात् तस्यैवाकारार्पकत्वम् ? तहि कर्मरूपतैवास्तु व्यपदेशनियमे हेतु:,
किमाकारेणासम्भविना कल्पितेनेति । तथाहि, नीलादेरसाधारणाकारार्पकत्वे बोधरूपता न स्यात्, साधारणाकारार्पकत्वे तु प्रतिकर्मव्यवस्थाभाव इति ।
___ अथ समारोपिताकारं विज्ञानमिति नायं दोषः ? तदसत्, आत्मनोऽवस्थितस्याभावे कथं ज्ञानात्मनि आकारः समारोप्यते । न तावदनुत्पन्नस्य विनष्टस्य वा समारोपकत्वम् । न चोत्पत्तिसमकालम्, आत्मलाभकाले समारोपणे व्यापारासम्भवात् । तस्मादाकारसद्भावे प्रमाणाभावादर्थविशेषादेवायं विशेष इति युक्तम् ।
15
25
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१११ अथाप्रकाशस्वरूपत्वादर्थानां कर्म?थं प्रकाशः ? तदविषयज्ञानोत्पाद एव । तथाहि, यस्मिन् विषये ज्ञानमुत्पन्नं स एवोपलब्धो नेतर इति विषयविषयिभावस्य नियामकत्वम्, अतो ज्ञानमर्थप्रकाशो न तु प्रकाशकमिति । किं गृहीतमर्थप्रकाशकमुत अगृहीतमित्यादिविकल्पः परमतास्पर्शी, चक्षुरादेः कारकजातस्यार्थप्रकाशकत्वाभ्युपगमात् । यत्र च ज्ञानं विशेषलिङ्गं वा तत्र । गृहीतस्यार्थपरिच्छेदे व्यापारोऽभ्युपगम्यत एव । तस्य च आत्मान्तःकरणसम्बन्धाद् ग्रहणम्, नावश्यम् तत्रापि ज्ञानान्तरमित्यनवस्थाभावः ।
न चोत्पन्ने ज्ञाने संवेदनाभावस्याविशेषात् सन्तानान्तरेऽप्यर्थप्रकाशः ? नियतात्मसम्बन्धस्य नियामकत्वात् । तथाहि, यस्मिन्नात्मनि समवेतं तज्ज्ञानमुपजातं स एव द्रष्टा नान्यः, तत्र विवक्षितज्ञानसमवायात् । यस्य तु 10 स्वसंवेद्यं ज्ञानं निराधारं तस्य सन्तानान्तरेऽर्थप्रकाश[स्त?:कस्मान्न भवतीति चिन्त्यम् । कार्यकारणभावस्तु क्षणिकत्वे सति पूर्वं प्रतिषिद्ध एव ।
यच्चेदं स्वसंवेद्यं विज्ञानम् इत्यर्थान्तरस्यासंवेदनमेव, तदसत्, विकल्पानुपपत्तेः । तथाहि, यदि स्वसंवेद्यमात्मान्तःकरणसंयोगादुपलभ्यं तदिष्टमेव । अथ तदेव ज्ञानं प्रमाणं प्रमेयं फलञ्चेति, तन्न, अन्यत्र त्रितयस्याभेदा- 15 दर्शनात् । भेदेत्वनेकं दण्डाद्युदाहरणम् । अतो न ज्ञाने करणकर्मणोरभेदः स्वसंवेद्यत्वम्, नापि क्रियाकर्मणोरिति । तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् ।
यच्चेदं प्रकाशस्वरूपत्वाद् आत्मनैव प्रकाशते प्रदीपवत् इत्युक्तम्, तत्र यदि प्रकाशकत्वं बोधरूपत्वं विवक्षितं तदा साधनविकलमुदाहरणम्, 20 प्रदीपे बोधरूपत्वस्यासम्भवात् । अथ प्रकाशकत्वं भास्वररूपसम्बन्धित्वं तद् विज्ञाने नास्ति, अतो ज्ञानान्तरस्य तद्विषयस्योत्पाद एव ज्ञानस्य परिच्छेद इति ।
यच्चेदं किं प्रकाशस्वरूपास्तविपरीता वा पदार्था ज्ञानेन प्रकाशन्त इत्युक्तम्, तत्र यदि प्रकाशस्वरूपत्वं बोधरूपत्वं तन्नास्ति, अर्थानामबोध- 25 रूपत्वात् । तेषां कथं प्रकाशः ? तद्विषयज्ञानोत्पादात् । यद्विषयं ज्ञानमुत्पन्नम्
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
११२
व्योमवत्यां
असावर्थः परिच्छिन्न इति व्यवहारः । तस्मान्निराकारत्वे विज्ञानस्य विषयविषयिभावो नियामक इति,
धियो नीलादिरूपत्वे बाह्योऽर्थः किनिबन्धनः । ( प्र वा २१४३३) इत्यपास्तमेव ।
यच्चेदं ग्राह्यग्राहकयोरेककालानुभवाभावेन दूषणम्, तदप्यपास्तम्, क्षणिकत्वानभ्युपगमात् । यो हि क्षणिकत्वं मन्यते तस्यायं दोषो ज्ञानकाले - ऽर्थस्यासद्भावोऽर्थंकाले ज्ञानस्येति तयोर्ग्राह्यग्राहकभावानुपपत्तिरिति । तथा अवयविनः पूर्वमेव व्यवस्थापनात्, न रूपादिसमुदायस्यापरमार्थत्वेन विज्ञानविषयत्वमिति । परमाणूनां सद्भावसिद्धेर्विज्ञानमात्रमेवेति अदूषणमनभ्यु10 पगमात् । अतो यदाह विज्ञानवादी एवं ग्राह्यग्राहकप्रविभागः कल्पनावशादिति', तदप्यपास्तमेव, बोधरूपव्यतिरेकेण बाह्यार्थस्य चक्षुरादिना प्रतिभासनात् प्रवृत्तिनिवृत्त्योश्च तद्विषयत्वादिति । तथाहि अर्थावरोधे सति अर्थं क्रियाथिनस्तदभिमुखाः प्रवर्तन्ते चेति दृष्टम् । न च भ्रान्त्यैव प्रवृत्तिः, अविसंवादोपलब्धेः ।
15
www.kobatirth.org
20
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रवृत्तिनिवृत्त्योरर्थक्रियायाश्च विज्ञानादव्यतिरेक एव, तन्न, वस्तुरूपतया प्रतिभासमानानां परस्परब्यावृत्तात्मनां ज्ञानाभेदे प्रमाणाभावात् । अर्थानभ्युपगमे च संवादानुत्पत्तिः । व्यापारव्याहाराभ्याञ्च सन्तानान्तरानुभवात् अर्थाकारे संवादः, तन्न तस्यासत्त्वात् । न चोत्पादनाविशेषेण संवादः । रूपज्ञानान्तरं रसज्ञानोत्पत्तौ विसंवादप्रसङ्गात् ।
1
अथ स्वसन्ततौ व्यापारव्याहारयोः स्वचित्तेहापूर्वकत्वेनोपलम्भात् सन्तानान्तरेऽपि तत्पूर्वकत्वानुमानमिति सन्तानान्तरसिद्धिः, न, प्रतीयमानयोर्व्यापारव्याहारयोः स्वचित्तादभेदे परचित्तपूर्वं कत्वाभावप्रसङ्गात् भेदे च बहिर्मुखावभासित्वेन प्रतीयमानत्वे कथं न बाह्यार्थसद्भावः ?
न च स्वसंविवादिनोऽविनाभावग्रहणाभावेऽनुमानप्रवृत्तिर्युक्ता । तथा 25 हि, व्यापारव्याहारः प्रतिभासिज्ञानात्मनश्चित्तान्तरपूर्वकतां गृह्णाति, आत्मन्येव पर्यवसानात् । एतत्कारणमपि चित्तं न तत्कारणतां गृह्णाति, नाप्युभाभ्यां
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
वासनाक्रमेण विकल्पज्ञानं कार्यकारणभावग्राहकमिति वाच्यम्, अनुभवानुरूपत्वाद् वासनायाः कथं कार्यकारणभावाग्रहे तदध्यवसायिविकल्प इति । न चातद्रूपसमारोपितो विकल्पः, तस्य पारम्पर्येणाप्यर्थाविषयत्वे कार्यकारणभावाग्रहेऽनुमानाप्रवृत्तिरेव । तस्मादुभयोर्लिङ्गलिङ्गिनोरिदमस्य मिदमस्य व्यापकमित्यविनाभावग्रहे सति अनुमानं प्रवर्तत इति बोधादन्योऽर्थोऽभ्युपगन्तव्यः ।
व्याप्य
यच्चेदं नीलमहं वेद्मीति ज्ञानं तैमिरिकस्य द्विचन्द्रदर्शनवद् भ्रान्तमिति, असदेतत्, अबाध्यमानत्वात् । तथाहि, तैमिरिकस्य तिमिरविनाशादूर्ध्वमेकत्वज्ञाने सति द्विचन्द्रदर्शनं भ्रान्तमिति प्रतिभाति, अनुत्पन्नतिमि - रस्यान्यस्य नैवं नीलमित्यादि ज्ञाने विपरीतार्थग्राहकप्रमाणानुपपत्तेनं मिथ्यात्वमिति ।
ननूक्तं, किं केन बाध्यते ? ज्ञानं ज्ञानेनेति । तथाहि उदकज्ञानस्योदकं विषयः सर्वजनप्रतीतः, तत्परित्यागेन विषयान्तरे मरीच्यादावुत्पन्नं तद्ग्राहिणा ज्ञानेन बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते मिथ्येदं ममोदकज्ञानमुत्पन्नमिति, तज्जनितसंस्कारनिवृत्तिर्वा । तथाहि, मरीचिज्ञाने सति उदकज्ञानजनितसंस्कारनिवृत्तौ कालान्तरेऽपि उदकं मया दृष्टमिति स्मरणानुत्पत्तौ तद्देशाभिमुख्येन प्रवृत्त्यभाव इति । बाधकानभ्युपगमे च ज्ञानस्य सत्येतर - विवेकानुपपत्तेर्वादिप्रतिवादिनोर्जयपराजयव्यवस्था न स्यादित्युक्तम् ।
For Private And Personal Use Only
5
10
15
यत्तु 'मन्त्राद्युपप्लुताक्षाणाम्' इत्यादि वाक्यम्, तन्न परिहारार्हम्, स्वत एव प्रतिभासस्यान्यथात्वाभ्युपगमात् । तथाहि, मृच्छकलादयोऽन्यथा 20 प्रतिभासन्ते न स्वरूपेणोपप्लुतचक्षुषाम्, न सर्वेषामितीष्यत एवेदं मिथ्याज्ञानम्, बाधकोपपत्तेः । इष्टञ्च बाधकं ' तथैव दर्शनं तेषामनुपप्लुतचक्षुषाम्' इति । दूरे च मरुषु अल्पोऽपि महानुपलभ्यते सन्निकृष्ट चाल्प एवेति, अनेन तस्य बाधा । न च तेनैवास्य बाधा, प्रमातृमात्रस्य सर्वदेशेष्वतद्रूपतया प्रतिभासनात् । महत्त्वञ्च देशविशेष एव प्रतिभासते नान्यत्रेत्यसदेव । तदेव हि पदार्थानां स्वरूपं यदविसंवादि स्वस्थात्मनामर्थं क्रियासम्पादकञ्चेति । अतो मृच्छकलादयो येन रूपेणाविप्लुतचक्षुषां प्रतिभासन्तेऽर्थक्रियाञ्च
25
१५
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
5
सम्पादयन्ति तेनैव रूपेण सन्तो न रूपान्तरेणेति । कथम् ? अर्थानामव्यवस्थानात् । अथ स्वप्नावस्थायामर्थानामसत्त्वेऽपि प्रतिभासो विशिष्टार्थक्रिया च रेतसो विसर्गः सम्भवतीति । नन्वेवं तहि स्वप्नावस्थायामर्थानामसत्त्वं कथं ज्ञातमिति वाच्यम् । यदि जाग्रदवस्थायामनुपलम्भात् ? तर्हि येषामुपलम्भस्तेषां सत्त्वमायातम् । अन्यथा हि जाग्रदवस्थायामनुपलम्भेन स्वप्नावस्थायामसत्त्वं न स्यात् । अतः प्रतीयमानत्वात् स्वप्नावस्थायामिव जाग्रदवस्थायामप्यसत्त्वमिति न वाच्यम्, प्रतिभासमानत्वस्य साधनस्य सद्भावेऽपि असत्त्वस्य साध्यस्यानिश्चयात्, प्रतीयमानत्वञ्च बोधेऽस्ति न चासत्त्वमिति व्यभिचारः । तथा अर्थानामसत्त्वे प्रतीयमानत्वस्य साधनस्यापक्षधर्मत्वं स्यात् । उदाहरणे प्रतीयमानत्वेन नासत्त्वम्, अपि तु प्रमाणतोऽनुपलब्धेरित्यन्यथासिद्धञ्चेति । न च 'सर्वं विज्ञानम्' इति वादिनः स्वप्नावस्था जानदवस्था चेति विशेषः सम्भवति, उभयत्रापि स्वसंवेद्यस्य ज्ञानस्यावस्थानाभ्युपगमात् । व्रतवश्च (?) पूर्वं निरस्ता एव । तस्मादक्षादिजनितज्ञानसमवायो जाग्रदवस्था, तद्विपरीता तु स्वप्नावस्थेति युक्तम् ।
यच्चेदं बुद्ध्या विवेचनाद् भावानामसत्त्वम् इत्युक्तम्, तदसत्, स्वबुद्धिप्रतिभासमानवपुषामसत्त्वे बोधस्याप्यसत्त्वप्रसङ्गात् । तथाहि, रूपादयः परस्परस्वरूपपरिहारेण व्यवस्थिताः स्वबुद्धिविषयाः, पटादयोऽप्येवम् । अतो यद्यपि पटस्तन्त्वादिबुद्धौ न प्रतिभासते तथापि स्वबुद्धिविषयत्वात् परमार्थ
सन्नेव । तदेवं पटादयः परस्परव्यावृत्तबुद्धिविषया विशिष्टार्थक्रियाकारिणश्चेति 2) परमार्थसन्त एव ।
न च प्रमाणं विना प्रमेयसिद्धिरिति विज्ञानव्यतिरेकिणामसत्त्वे प्रमाणमभिधेयम् । प्रमाणं विना च पदार्थानामसत्त्वसिद्धौ सत्त्वमपि स्यात्, प्रमाणाभावस्योभयत्राविशेषात् । अथ अर्थानामसत्त्वसिद्धौ ग्राह्यलक्षणायोगः
प्रमाणम् ? न, तस्यापि भावधर्मत्वे विरुद्धत्वम्, अभावधर्मत्वे चाश्रयासिद्धत्वम्, 25 उभयधर्मत्वे तु व्यभिचारादसाधनत्वमिति, व्यधिकरणत्वाच्च । तथाहि,
ग्राह्यलक्षणस्यायोगो न ग्राह्मधर्म इति, कथं तस्यासत्त्वं साधयेत् ? स्वरूपासिद्धश्च, ग्राह्यलक्षणस्य सद्भावात् । तथा च, महत्त्वादि ग्राह्यलक्षणं वक्ष्य
15
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधर्म्यप्रकरणम्
११५
मानमिति । साध्याविशिष्टञ्च, ग्राह्यलक्षणायोगस्यापि साध्यत्वात् । न च प्रमाणान्तरमस्तीति ।
एतेन शून्यवादोऽपि निरस्त एवेति न पृथगभिधीयते। तथाहि, सर्वार्थानामसत्त्वे विज्ञानस्यापि ग्राह्यग्राहकाकाररहितत्वाद् असत्वे च, सर्व शून्यमिति स्यात्, तच्च निरस्तमेव, प्रमाणाभावेन प्रमेयस्यासिद्धेः, बोध- 5 स्यार्थानाञ्च प्रमाणतो व्यवस्थापनादिति । तदेवं बोधव्यतिरेकेणार्थसद्भावसिद्धेरानन्त्यात् प्रत्यर्थनियतत्वाच्च बुद्धेरनेकत्वं युक्तमिति ।
अन्ये तु आत्मनः परिणामविशेषो बुद्धिस्तद्रूपतया चानित्या, आत्मरूपतया तु नित्येति मतम् । तस्य निरासार्थ सा चानेकप्रकारेति वाक्यं मन्यन्ते । तथाहि, बुद्धेरनेकत्वादात्मनोऽप्यनेकत्वम्, अभेदात्, आत्मैकत्वे 10 वा बुद्धेरेकत्वम् । न च भेदाभेदपक्ष: सम्भवति, अनेकान्तवादस्य पूर्वमेव प्रतिषेधात् । अतो बुद्धेर्गुणत्वादनेकत्वेऽप्यात्मनस्तथाभावो न भवतीति दिगवाससां मतं निषिद्धम् ।
तस्याः सत्यप्येनकविधत्वे समासतो वे विधे । विद्या चाविद्या चेति । तत्राविद्या चतुविधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा ।
नन्वेवं तहि बुद्धरानन्त्यात् कथं तत्त्वज्ञानविषयत्वमित्याह * तस्याः सत्यप्यनेकविधत्वे समासतः * संक्षेपतो द्विविधेति परिज्ञानं कार्यमिति । केन रूपेण द्वैविध्यमित्याह * विद्या चा विद्या चेति ।
__ अन्ये तु वेदान्तमते विद्याविद्ययोः श्रवणात् बुद्धेरानन्त्यप्रतिपादनमागमविरुद्धं स्यादित्याशङ्कानिषेधार्थमाह 'तस्याः सत्यप्यनेकविधत्वे ॥ समासतः' संक्षेपतो द्वैविध्यमिष्यत एव 'विद्या चाविद्या चेति' ।
विद्या हि देशकालावस्थादिभेदेनाबाध्यमानोऽध्यवसायः । तद्विपरीतार्था चाविद्येति, न तु प्रमाणाप्रमाणत्वे विद्याविद्यत्वे, व्यभिचारात् । तथाहि, यदि प्रमीयतेऽनेनेति प्रमाणमिति विवक्षितम् संशयादेरप्यात्मान्तःकरणाधिगमे प्रमाणत्वमस्तीति व्यभिचारः । सर्वेषु च प्रत्यक्षादिज्ञानेषु कारणत्वानु- 25 पपत्तेरव्याप्तिश्च । फलविवक्षायान्तु न स्मृतेः प्रमाणफलत्वमिति विद्यात्वं न स्यात्।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
गुरवस्तु विशिष्टव्यवहारकारणं विज्ञानं विद्या, विपरीतञ्चाविद्येति ब्रुवते । तत्र यदि प्रवृत्तिनिवृत्तिलक्षणो विशिष्टव्यवहारो विवक्षितस्तदा संशयादिज्ञानेष्वपि भावादतिव्याप्तिः । न च पक्षे सर्वत्रास्तीति अव्याप्तिश्च । अथ देशादिभेदेनापि सम्यक्तया मयोपलब्धमिति ज्ञानं विशिष्टव्यवहारः ? तज्जनकत्वमपि न सर्वेषु विद्याभेदेष्वस्तीत्यव्याप्तिः । तथा च सम्यङ् मयोपलब्धमिति व्यवहारो न सर्वेषु विद्याभेदेषु विद्यत इत्यव्यापकत्वमेव ।
तत्राप्यविद्या चतुर्विधेति क्रमातिक्रमेणाविद्यायाः स्वरूपनिरूपणमर्थप्रकाशस्य विवक्षितत्वात् तदुच्छेद्यत्वज्ञापनार्थमिति चान्ये, अविद्या हि विद्यया समुच्छिद्यत इति ।
अथ केन रूपेण चतुर्विधा ? * संशयविपर्ययानध्यवसायस्वप्नलक्षणा * स्वरूपेति । ननूहज्ञानमप्यस्ति, तस्यान्तर्भावो न विद्यायां नाप्यविद्यायाम्, उभयत्रापि चातुर्विध्याभिधानात् । न युक्तमेतत, संशयनिश्चयव्यतिरेकेणोहज्ञानस्यासंवेदनात् । अथास्ति संशयादूर्ध्वं बाह्यालिप्रदेशे सम्बन्धोपलब्धेः स्थानुपक्षप्रतिषेधे सति पुरुषणानेन भवितव्यमिति सम्भावनाप्रत्ययः ? स तु तस्मिस्तदिति रूपत्वान्निश्चय एव । तथा हि, किमयं स्थाणुः स्यात् पुरुषो वेत्युभयप्रसङ्गे सत्येकस्य प्रतिषेधात् तदन्यस्याप्रतिषिद्धस्थावस्थानं भवत्येव । .. अथ व्यधिकरणविशेषोपलम्भान्न युक्तो निश्चयः, तदसत्, संयोगि
विशेषस्याभ्युपगमात् । यथा हि, काकनिलयनादयो विशेषाः संयोगिनि स्थाणौ 20 निश्चयमुत्पादयन्ति, एवं बाह्यालीप्रदेशे पुरुषेऽपीति । तत्सम्बन्धस्तु समवेत
एव विशेष इति न व्यधिकरणत्वम् । अथ नायं स्थाणुः बाह्यालीप्रदेशसम्बन्धित्वात्, इति विषयात् साधनान्न निर्णयः, तन्न, व्यापारापेक्षया पुरुषविषयत्वस्यापि सम्भवात् । ज्ञानान्तरत्वे तु ऊहज्ञानस्याव्यभिचार्यर्थज्ञानत्वात्
प्रमाणरूपतायां प्रमाणान्तरमभिधेयम्, प्रमाणं विना तत्फलस्यानुपपत्तेः, 25 व्यभिचारि वा प्रमाणसामान्यलक्षणं स्यात् । अथ इन्द्रियार्थसन्निकर्षाद्येव
प्रमाणमूहोत्पत्तौ ? कथं तहि ज्ञानान्तरम्, प्रत्यक्षफलत्वादित्यलम् ।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
११७ अन्ये तूहस्य सद्भावेऽपि समानतन्त्रप्रसिद्धतया लाभाद् इहानभिधानम् इति ब्रुवते । न च प्रत्यक्षादेरप्यनेनैव न्यायेन लाभः, स्वमताभावे समानतन्त्रतासिधैरभावात् । संशयवैधर्म्यम्
संशयस्तावत प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनात, उभय- 5 विशेषानुस्मरणात्, अधर्माच्च किंस्विदित्युभयावलम्बी विमर्षः संशयः ।
अथ संशयस्येतरस्माद् भेद-विषयविभागनिरूपणार्थं * संशयस्तावत् * इत्यादिप्रकरणम् ।
संशयस्तावद् ब्याख्यायतेऽवसरप्राप्तत्वादिति । प्रसिद्धा अनेके विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम् । न तु प्रसिद्धौ च तावनेक- 10 विशेषौ चेति कर्मधारयपरिग्रहः, संशयस्य च धर्मिविषयत्वात् । अथ एकस्यैव धर्मिणस्तत्र सद्भावाद् उभयोः कथं विषयत्वसम्भवः ? पक्षोपन्यासाददोषः । तथाहि, यत्रानेके विशेषाः प्रसिद्धास्तत्रैव संशय इति नियम्यते, न त्वेकस्मिन्नेव काले तयोविषयत्वम्, एकस्य तत्रासम्भवात् । कालभेदेन तु उभयोविषयत्वम् । यद् यत्र सम्भाव्यते, संशयोत्पत्तौ स तस्य विषय इति । 15 ___कारणमिह * सादृश्यमात्रदर्शनात् * इति । सादृश्यमानं दृश्यतेऽस्मिनिति सादृश्यविशेषि[न?त] र्मिदर्शनं लभ्यत इति व्याख्येयम् । न तु सादृश्यमात्रस्य दर्शनमित्यभ्युपगमेन धर्मोपलम्भाद् मिणि संशयस्य व्यधिकरणत्वात् । अत्र ‘सादृश्यमात्रदर्शनात्' इति मात्राभिधानेनात्यन्तविशेषानुपलब्धि दर्शयति, सामान्यस्य विशेषसहितस्योपलम्भेऽपि संशयादर्शनादिति । 20 न च सामान्योपलम्भं विना विशेषानुपलब्धिः संशयजनिकेत्युभयाभिधानम् । तथापि नावाद्यारूढस्य वृक्षादिषूभयसद्भावेऽपि न संशय इति * उभयविशेषानुस्मरणात् * इति पदम् । विशेषानुस्मरणञ्च न पूर्वोक्तं विना संशयजनकं दृष्टमिति समुदितं कारणम् । तदेवं सामान्यदर्शनाद् विशेषादर्शनाद् उभयविशेषानुस्मरणाद् अधर्मादिभ्यश्चोत्पद्यमानत्वात् संशय इतरेभ्यो भिद्यत । इति कारणात्मकं लक्षणम् । तथा च सूत्रम् 'सामान्यप्रत्यक्षाद् विशेषाप्रत्य
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
www.kobatirth.org
15
Acharya Shri Kailassagarsuri Gyanmandir
११८
व्योमवत्या
क्षाद् विशेषस्मृतेश्च संशय:' (वै०सू० २।२।१७ ) इति । सामान्यं प्रत्यक्षं यस्मिन् धर्मिण्यसौ तथोक्तस्तस्मादिति । प्रत्यक्षशब्चश्च दृढप्रमाणवचनः, अत्रानुमानिकस्यापि संशयस्याभ्युपगमात् । विशेषाप्रत्यक्षादिति विशेषानुपलब्धेस्तत्स्मृतेश्च संशय इति ।
ननु चायुक्तमेतत्, देवदत्तस्य स्वप्रियतमां परित्यज्य व्रजतो देशव्यव - धानात् त्रितयसद्भावेऽपि तत्र संशयानुपलब्धेः । तथाहि, स्त्रीत्वसामान्योपलम्भेऽप्यनेकादिविशेषोपलम्भात् तत्स्मरणाच्च किं मदीया अन्यदीया वेति संशयो न दृष्टः परपक्षप्रतिषेधकस्य देशकालविशेषस्य बाधकस्योपलब्धेः, एकस्मिन् देशे काले चान्या न सम्भवतीति । अतोऽस्य व्यवच्छेदार्थं बाधकसाधकप्रमाणाव्यवस्थातश्चेति पदं कार्यम् ? न । विशेषानुपलब्धिपदेनैव निरस्तत्वात् । तथाहि विशेषानुपलब्धिपदेन समस्तविशेषानुपलब्धिविवक्षिता । सा चात्र नास्ति, देशकालविशेषस्य निश्चितत्वात् । अतो विशेषानुपलब्धिपदेनैवास्य निरस्तत्वादिति व्यवच्छेद्याभावं मन्यमानो मुनिर्न विशेषान्तरमाहेति ।
तस्य स्वरूपमाह = कि स्विदित्युभयावलम्बी विमर्शः संशयः इति । संशीतिः संशयः, संशय्यतेऽनेनात्मा सुप्त इव भवतीति निरुक्तिर्लक्षणम् । विमर्शनं विमर्श:, किमिदमेव आहोस्विदेवं न भवतोति प्रत्ययः । स चोभयमालम्बते तच्छीलश्चेत्युभयावलम्बी विमर्शः संशय इति । न चोभयोर्विषयत्वं घटत इत्युभयोल्लेखीति व्याख्येयम् । अतो विमर्श इतरस्माद् भिद्यते, संशय 20 इति वा व्यवहर्तव्यो, विमर्शरूपत्वात् किं स्यादित्युभयालम्बित्वाद् वेति ।
For Private And Personal Use Only
*
* स च द्विविधः * इति विभागः । केन रूपेण ? *अन्तर्बहिश्च* । ननु पञ्चविधत्वात् संशयस्य द्वैविध्यमनुपपन्नम् ? न, अस्यैवावान्तरभेदेन तदुपपत्तेः । तथाहि समानधर्मोपपत्तेः, अनेकधर्मोपपत्तेः, विप्रतिपत्तेश्चेति बाह्यस्त्रिविधः संशयः । उपलब्ध्यनुपलब्ध्योश्च मनः परिच्छेद्यत्वादान्तरो 25 द्विविध इति । अभिप्रेतञ्चैतद् भाष्यकर्तुर्यत आह 'समानोऽनेकश्चधर्मोज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे' इत्यविरोधः । सङ्ग्रहानभ्युपगमे च प्रत्यक्षाप्रत्यक्षविषयभेदेनापि संशयस्य भेदात् पञ्चत्वमसम्बद्धं स्यात् ।
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम् अथानेनैव सङ्ग्रहादनभिधानम् ? तहिं द्वैविध्येनैव सङ्ग्रहान्न पञ्चत्वमभिधीयते, तस्य हि तद्भेदत्वादिति ।
अनेकश्च धर्मो साधारणत्वात् संशयहेतुर्न भवत्येव, विरुद्ध विशेषैः सहानुपलम्भेन तत्स्मरणाजनकत्वात् । नापि विरुद्धाव्यभिचारी संशयहेतुस्तस्यैवासम्भवादिति वक्ष्यामोऽनैकान्तिकावसरे ।
अन्तस्तावद् आदेशिकस्य सम्यङ मिश्या चोद्दिश्य पुनराविशतस्त्रिषुकालेषु संशयो भवति किन्नु सम्यड मिथ्या वेति ।
तत्र अन्तःसंशयस्य स्वरूपनिरूपणार्थम् * अन्तस्तावदादेशिकस्य * इत्यादि । यथा हि, आदेशिकेन विशिष्टं निमित्तमुपलभ्यादिष्टमेकदा 'वृष्टिर्भविष्यतीति' सम्यक् जातमन्यदा तु विपरीतम् । पुनस्तथैवादिशतस्त्रिषु कालेषु 10 असत्सु तस्मिन् ज्ञाने संशयो भवति किन्नु सम्यङ मिथ्या वेति । अथ ज्ञानस्य सामान्यदर्शनविशेषानुस्मरणकालेऽवस्थानाभावात् कथं संशयविषयत्वम् ? तथाहि, तस्मिन् ज्ञाने भविष्यवृष्टिविषयत्वं समानो धर्मस्तद्विशिष्टे ज्ञाने ज्ञानमुत्पद्यते, तस्य तु विनश्यत्ता, सम्यक्त्वासम्यक्त्वविशेषस्मरणस्योत्पद्यमानता, ततो विशेषस्मरणकाले ज्ञानमतीतं कथं विषयः ? तदुपलक्षितात्मनो 15 विषयत्वाददोषः । तथा च, किन्नु सम्यक् ज्ञानवानहं मिथ्याज्ञानवान् वेति संशयः।
अन्ये तु विद्यमानस्येवातीतस्यापि विषयत्वमस्तीति ब्रुवते ।
बहिदिविधः, प्रत्यक्षविषये चाप्रत्यक्षविषये च। तत्राप्रत्यक्षविषये तावत् साधारणलिङ्गदर्शनाभयविशेषानुस्मरणाद् अधर्माच्च संशयो 20 भवति । यथा अटव्यां विषाणमात्रदर्शनाद गौर्गवयो वेति ।
* बहिदिविधः * केन रूपेण ? * प्रत्यक्षविषये चाप्रत्यक्षविषये च * इति । * तत्राप्रत्यक्षविषये तावत् * अभिधीयते संशय: * साधारणलिङ्गदर्शनात् * इति । यल्लिङ्ग विरुद्धविशेषैः सहोपलब्धं तद्दर्शनाद् विशेषानुपलब्धेः, * उभयविशेषानुस्मरणादधर्मात् * दिक्कालादिभ्यश्च संशयो भवति । 25 * यथाटव्यां विषाणमात्रदर्शनात् तद्गतविशेषानुपलब्धस्तत्स्मरणात् संशयो भवति * गौर्गवयो वेति ।
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
व्योमवत्यां अथ प्रत्यक्षादस्य विशेषः कथम् ? सामान्यविशेषितस्य धर्मिणः प्रत्यक्षत्वं विशेषलक्षणा[नभिधानात् (?)। अथ किं गोगवयविषाणेषु सामान्यम् ? तुल्यावयवरचनायोगः । यथाभूता हि अवयवरचना गोविषाणे दृष्टा तथा
गवयविषाणेऽपीति । ये तु गोविषाणविशेषा गवयविषाणविशेषाश्च पूर्वोप5 लब्धास्तेषामत्रानुपलम्भ इति । अतः सादृश्यमात्रविशेषितं विषाणमुपलभमानस्य विशेषानुपलब्धेस्तत्स्मरणाच्च किं गौः स्यात्, गवयोवेति संशयः ।
प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोलतामात्रसादृश्यदर्शनात् वन[r? ता] दिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषा
नुस्मरणाभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किन्नु खल्वयं 10 स्थाणुः स्यात् पुरुषो वेति ।
* प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोरूवतामात्रसादृश्यदर्शनात् वक्रता] दिविशेषानुपलब्धितः इति । आदिपदेन काकनिलयनादयः स्थाणौ, शिरः पाण्यादयश्च पुरुषेषु विशेषास्तेषामनुपलम्भादिति। स्थाणत्वमादिर्य
स्येत्यादिपदेन पुरुषत्वग्रहणम् । तच्च सामान्यमेव विशेषः। तस्यान15 भिव्यक्तिर्व्यञ्जकस्य शिरः पाण्यादेरनुपलम्भात् । अतस्तद् * अनभिव्यक्तावु
भयविशेषानुस्मरणादुभयत्र * स्थाणौ पुरुषे च, * आकृष्यमाणस्यात्मनः प्रत्ययो दोलायते * नैककोटौ व्यवतिष्ठते । स च किंस्वरूप इत्याह * किन्नु खल्वयं स्थाणुः स्यात् पुरुषो वेति * ।
अथ किमिदमेकं ज्ञानम्, आहोस्विदनेकमिति । यद्यनेकं क्रमेणोत्पद्यते 23 स्थाणुरित्येकं पुरुष इति चान्यत् । तहि यत् तस्मिस्तदिति रूपं तत् सस्यक्
ज्ञानम्, विपरीतन्तु मिथ्याज्ञानमिति संशयोच्छेदः ? न, अनेकत्वानभ्युपगमात् । तथाहि, एकमेव किमयं स्थाणुः स्यात् पुरुषो वेति विरुद्धोल्लेखिज्ञानम्, विरुद्धविशेषानुस्मरणोपलक्षितसामग्रीजन्यत्वात् । एकस्तु संस्कारो विशेषानुभवात् पूर्वपूर्वसंस्कारसचिवादुत्पद्यत इत्येकं स्मरणं विरुद्धविशेष25 विषयं जनयत्येव ।
यद्वा प्रतिनियतविशेषानुभवजनिताः संस्काराः संशयोपभोगप्रापकादृष्टनियमिताः संस्कारमारभन्ते तस्मादनेकविशेषविषयं स्मरणमिति, विषय
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१२१ संशयोत्पत्तावविशेषात्, प्रत्यक्षत्वञ्चोभयत्रापि समानमिति । सत्यम् । तथापि सामान्यविशेषितस्य लिङ्गोपलम्भात् साध्यधर्मविशेषिते धर्मिणि संशयाभ्युपगमोऽन्यत्र च अलिङ्गभूते साध्यधर्मरहिते सामान्यवति प्रत्यक्षे धर्मिणीति विशेषः । किञ्चित् साधर्म्यन्तु न निषिध्यते, सामान्यलक्षणाक्रान्तिश्चान्वयव्यतिरेकाभ्यामुपलभ्यते, प्रत्यभिज्ञानाच्च । तथा हि, ममात्र संशयज्ञानमुत्पन्नमिति 5 पश्चाद् विजानातीति सविषयत्वमस्य । विपर्ययवैधर्म्यम
विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति । __ अथ विपर्ययस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं संशयो * विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति * इत्येवमादि प्रकरणम् । यद्वा, 10 संशयस्य प्रत्यक्षानुमानविषयत्वाभ्युपगमाद् विपर्ययस्य विषयाभावादसम्भवो भाभूदित्याह 'विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति' इति । न च विषयाभेदादेकत्वम्, स्वरूपभेदस्य कारणभेदस्य च सम्भवात् । आगमिकेऽपि विषये विसंवादोपलब्धेविपर्ययदर्शनाद् व्याहतमवधारणं प्रत्यक्षानुमानविषय एव विपर्यय इति ? न, निविषयत्वप्रतिषेधपरत्वात् ।
यच्चेदम् असत्यपि प्रत्यक्षे प्रत्यक्षाभिमान इति वाक्यं तदन्यथा व्याख्येयमिति केचित् ।
अन्ये तु पराभ्युपगतस्य कल्पनाज्ञानस्य निरासार्थं 'विपर्ययोऽपि प्रत्यक्षानुमान विषय एव' । न तु सर्वः सविषयः क्वचिदविषयस्यापि सम्भवात् । यत्र हि विषयोऽन्वयव्यतिरेकाभ्यामुपलभ्यतेऽसौ सविषयोऽन्यस्तु निविषयो 20 न तु सर्व इति ।
अन्ये तु प्रत्यक्षानुमानविषयो भवत्येव विपर्यय इत्यभवनप्रतिषेधो विवक्षितो नित्यविपर्ययव्यवच्छेदार्थमिति ब्रुवते । तदयुक्त व्याख्यानम्, तस्यैवासिद्धेः । न च नित्यस्य प्रत्यक्षानुमानविषयत्वं व्यापारादृते सम्भाव्यत इति कथमस्यात्र अभवनप्रतिषेध इत्यलम् ।
25 प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनाद् असन्निहितविषयज्ञानजसंस्कारापेक्षादात्मनसोः
15
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
व्योमवत्यां
संयोगाद् अधर्माच्चास्मिस्तदिति प्रत्ययो विपर्ययः । यथा गव्येवाश्व इति ।
असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति, यथा व्यपगतधनपटलमचलजलनिधिसदृशवपुरम्बरमञ्जनचूर्णपुजश्यामं शार्वरं तम इति ।
प्रत्यक्षविषये तावद् विपर्यमाह [* प्रसिद्धानेकविशेषयोः * ] प्रसिद्धा अनेका विशेषा ययोस्तौ तथोक्तौ तयोरिति विषयनिरूपणम् । [* पित्तकफानिलोपहतेन्द्रियस्य * इति पित्तञ्च कफश्चानिलश्चेति पित्तकफानिलास्तैरुपहतानीन्द्रियाणि यस्यासौ स तथोक्तस्तस्य विपर्ययो भवति । केभ्य इत्याह
* अयथार्थालोचनात् * इत्यादि। अयथार्थमालोच्यतेऽनेनेत्ययथार्थालोचनं 10 सादृश्यज्ञानम् ।
___ यद्वा आलोचितिरालोचनम, अयथार्थश्च तदालोचनञ्चेत्युपचारेण सादृश्यज्ञानमयथार्थालोचनहेतुत्वाद् विवक्षितम्, तस्मात् । असन्निहितश्चासौ विषयश्चेति तथोक्तस्तस्मिन् ज्ञानम्, तस्माज्जातोऽसन्निहितविषयज्ञानजः,
स चासौ संस्कारश्चेति ! संस्कारकार्यत्वात् स्मृतिः संस्कारपदेन विवक्षिता । 15 तत्संस्कारमपेक्षत इत्यात्ममनःसंयोगस्तदपेक्षः। तस्मादसमवायिकारणाद्
अधर्माचच विपर्ययः । स च कि स्वरूप: ? * अतस्मिस्तदिति प्रत्ययः * इति । तथाहि, अतस्मिस्तदिति प्रत्ययः, इतरस्माद् भिद्यते, विपर्यय इति वा व्यवहर्तव्यः, अयथार्थालोचनादिभ्य उत्पद्यमानत्वादिति । यस्त्वेवं न भवति
न चासावुक्तकारणेभ्यो निष्पद्यते (तस्मिस्तदिति प्रत्ययश्च ?) यथा संशया20 दिरिति । तस्योदाहरणं * यथा गव्येवाश्व इति । यथाहि, दूराद् विषाणादिविशेषमनुपलभमानस्याश्वसादृश्यविशेषितपिण्डोपलम्भाद् अश्वानुस्मरणाच्च गव्येवाश्वोऽयमिति ज्ञानमुत्पद्यते, तथा मरीचिषूदकज्ञानम्, शुक्तिकायां रजतज्ञानमिति ।
ननु चायुक्तमेतत्, विपर्ययज्ञानसम्पादकस्य कारकस्यैवासम्भवात् । 25 तथाहि, इन्द्रियाणि सम्यक्ज्ञानसम्पादनायोत्पन्नानि तस्मिस्तदिति रूपत्वात्, कथं मिथ्याज्ञानं कुर्युरिति । न च काचकामलादिदोषवशाद् विपरीतज्ञानजनकत्वम्, दुष्टस्य कारकस्य कार्याजनकत्वात् । यथा हि, शालिबीजस्य तैलादिनाभ्यक्तस्य
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१२३ शाल्यकुराजनकत्वम्, न पुनर्यवाकुरसम्पादकत्वम् । एवमिन्द्रियाणां सम्यक्ज्ञानसम्पादकत्वमेव स्यात्, न विपरीतज्ञानोत्पादकत्वमिति । न च रजतादिज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणमस्ति । तस्मात् सादृश्यज्ञानानन्तरं स्वाकारपरिभ्रष्टं स्मरणमुत्पद्यते इदं रजतमिति । तथाहि, इदमिति सादृश्यज्ञानं रजतमिति स्मरणं तदित्याकारशून्यम् ।।
नैतद्युक्तम्, रजतार्थिनः प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात् । अथ ज्ञानयोर्भेदेऽपि इदमेव रजतमिति सामानाधिकरण्यं मन्यमानः प्रवर्तते ? तहीदमेव व्यधिकरणयोः सामानाधिकरण्यज्ञानं मिथ्याज्ञानमिति । अथ इदमिति सादृश्यं तत्र रजतमिति भेदाप्रतिभासे सति प्रवृत्तिर्वेष्यते ? तन्न, प्रतिपत्त्यभावस्याप्रवर्तकत्वात् । तथाहि, रजतार्थी इदमेव रजतमिति मन्यमानः 10 प्रवर्तते, नेतरथा । इदमिति ज्ञानस्यापरोक्षतानिर्देशो न ज्ञानान्तरम् । अन्यथा हि इदं रूपम् अयं रस इत्यादावपि स्मृतिप्रमोषः स्यात् ।
यच्चेदं रजतमिति ज्ञानस्य शुक्तिकाद्यालम्बनत्वे प्रमाणाभाव इत्युक्तम्, तदसत्, प्रत्यभिज्ञानादेः सम्भवात् । तथाहि, इयं शुक्तिका मन रजतमिति प्रतिभाता। तथा नेदं रजतमिति ज्ञानस्य शुक्तिकाविषयत्वाद् रजतमिति 15 ज्ञानस्य तद्विषयत्वम् । अन्यथा हि रजतमिति ज्ञानस्य शुक्तिकाविषयतामन्तरेण नेदं रजतमिति प्रतिषेधो न स्यात् प्रसक्तयभावात् । अप्रसक्तस्य च निषेधे नायं घटादिरित्यपि स्यात् । तथा च सति सर्वत्र प्रतिषेधपरम्पराप्रसङ्गः । न चैतदस्ति । तस्माज्ज्ञानद्वारेण रजतं तत्र प्रसक्तमिति निषिध्यते ।
20 यच्चेदम् उत्पत्तिकारणाभावादित्युक्तम्, तदसत्, दोषानुगृहीतस्येन्द्रियादेर्शानजनकत्वात् । यथाहि, दोषाभावे सतीन्द्रियं भावव्यतिरेकाभ्यां सम्यकज्ञानस्य जनकमुपलब्धं तथा दोषसद्भावे सति मिथ्याज्ञानस्यापीत्युभयरूपस्य कार्यस्येन्द्रियव्यापारेणोपलब्धरुभयार्थमिन्द्रियाणां सर्गो निश्चीयते । मिथ्यात्वञ्चास्य स्वविषयपरित्यागेन विषयान्तरोपसर्पणात् ।
अथालौकिकं रजतमेवास्य विषयमिति विषयान्तरोपसर्पणमसिद्धम् ? तन्न, अलौकिकरजताध्यवसाये सति प्रवृत्तिनिवृत्त्योरभावप्रसङ्गात् । अथा
25
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
व्योमवत्यां
लौकिकस्यापि लौकिकतां मन्यमानः प्रवर्तते । कथं तहिं मिथ्याज्ञानस्यसम्भव इति ? न चैतस्मिन् पक्षे मिथ्येदं ममोत्पन्नं ज्ञानमिति बाधक ज्ञानं स्यात्, प्रत्यभिज्ञानाद्यसम्भवश्च । अस्ति प्रत्यभिज्ञानं शुक्तिकादौ, ममात्र रजतज्ञानमुत्पन्नम्, मिथ्यात्वप्रतिपत्तिश्चेति कथं मिथ्याज्ञानस्यासम्भवः ?
यदि चेदं रजतमिति ज्ञानं रजतालम्बनमेव स्यात्, तस्योपलब्धिलक्षणप्राप्तत्वात् समीपवत्तिनः कथमग्रहणम् ? यद् वस्तूपलब्धिलक्षणप्राप्तं दूरस्थेनाप्युपलभ्यते तदवश्यं समीपत्तिना गृह्यत एव, इन्द्रियादेस्तादवस्थ्यात् । न चैतदस्ति । तस्माद् रजतादिज्ञानं शुक्तिकादावुत्पन्न मिति ।
___ अन्ये तु यदेव रजतमन्यदेशकालविशेषितमुपलब्धं तदेवान्यदेशादि10 विशेषितमुपलभ्यत इति मिथ्यात्वं ब्रवते। तदसत, तस्यात्रा
विद्यमानतया विषयत्वासम्भवात् । तस्मादिन्द्रियव्यापारविषयोऽङ्गल्यादिना व्यपदिश्यमानश्च शुक्तिकादिरेव विषयः । अन्यथा विषयान्तरोत्पन्नं रजतज्ञानं कथं शुक्तिकाज्ञानेन बाध्येत ? विभिन्न विषयत्वे बाध्यबाधकमावस्यैवासम्भ
वात् । अतो रजतज्ञानं शुक्तिकायामुपजातं शुक्तिकाज्ञानेन स्वविषयसहकारिणा 15 बाध्यते मिथ्यात्वविशिष्टतया ज्ञाप्यते, विषयान्तरोपसर्पणात् । रजतज्ञानस्य
तु रजतं विषयः सर्वजनप्रतीतस्तत्त्यागेन शुक्तिकायामुत्पद्यमानत्वाद् व्यभिचारित्वम् । एतेन निविषयं कल्पनाज्ञानमेतद् इत्यपास्तम्, विषयस्य शुक्तिकादेः प्रमाणतो व्यवस्थापनात् ।
* असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानः * इत्यादिना निर्विषयं विपर्यय20 माहेति केचित् ।
उदाहरणन्तु * यथा व्यपगतघनपटलम्, अचलजलनिधिसदृशवपु:, अम्बरम्, अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमः * इति । व्यपगतानि घनानां पटलानि यस्मिन् अम्बरे तत् तथोक्तम् । तथा न चलोऽचल:, स चासौ
जलनिधिश्च तेन सदृशं तुल्यं वपुः स्वरूपमस्येति । तच्च जलनिधिसदृशत्र25 पुरम्बरमिति ज्ञानम् अम्बरस्यातीन्द्रियत्वात् उक्तरूपस्यापि न जलनिधिना
सादृश्यग्रहणं सम्भवतीति निविषय: प्रत्यक्षाभिमानः । तथा शर्वर्यां भवं शार्वरं तमः । किंविशिष्टम् ? अञ्जनचूर्णपुञ्जश्याममिति । न चाभावरूपस्य
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१२५ तमसः श्यामरूपसम्बन्धित्वमस्तीति निविषयत्वम् । सविषयत्वाभ्युपगमेऽपि देशकालविशेषितस्य तेजसोऽभावस्यालम्बनत्वाददोषः ।
तथा स्वाश्रयाद् विनिवृत्ताश्चक्षुरश्मयः स्वात्मीयं गोलकरूपं यथोक्तेन जलनिधिना सदृशवपुरम्बरमित्युपलम्भं जनयन्ति । आदर्शात् प्रतिस्खलितानां स्वमुखग्रहणवदिति । यथा हि, आदर्शात् प्रतिस्खलिताश्चक्षुरश्मयः स्वमुखे विपर्ययमुत्पादयन्ति आदर्शमुखमिति तद्वद् इहापि दूराद् विनिवृत्ताः स्वगोलकमेवाम्बरमित्युपदर्शयन्ति ।
अनुमानविषयेऽपि वाष्पादिभिर्धूमाभिमतैर्वह्नयनुमानम्, गवयविषाणदर्शनाच्च गौरिति ।
अनुमानविषयेऽपि विपर्ययमाह * वाष्पादिभिः * इत्यादिना । अत्रादि- 10 पदेन नीहारमशकावर्तादिग्रहणम् । तैः किम्भूतैः * धूमाभिमतैः * धूमरूपतया ज्ञातैरग्न्यनुमानमिति । तथा * गवयविषाणदर्शनाच्च गौरिति * ज्ञानं विपर्ययः । अत्र तु लिङ्गे विपर्ययज्ञानमिन्द्रियजम्, तद्व्यापारजञ्चानुमानिकम् ।
त्रयोदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययो 15 विपर्ययः । शरीरेन्द्रियमनःसु आत्माभिमानः, कृतकेषु नित्यत्वदर्शनम्, कारणवैकल्ये कार्योत्पत्तिज्ञानम्, हितमुपदिशत्सु अहितमिति ज्ञानम्, अहितमुपदिशत्सु हितमिति ज्ञानम् ।
___ इदानीमसद्दर्शनाभ्यासाद् विपर्ययमाह * त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेय इति मिथ्याप्रत्ययः * इत्यादिना । त्रयाणां समाहारस्त्रयी 20 रूढ़िवशाद् ऋग्यजु सामलक्षणा गृह्यते। त्रय्येव दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानीत्यादि पदेन [ नैशना ? जैना ] दिदर्शनस्यावरोधः । तेषु * इदं श्रेयः * इति । सर्वं क्षणिक मिति ज्ञानम्, शून्यं निरात्मकमिति ज्ञानं श्रेयःसाधकत्वाच्छ्रेय इति शाक्यदर्शनाभ्यासाद् विपर्ययः । क्षणिकादिपक्षे बाधकस्योक्तत्वात् । एष्वर्थेष्वनेकान्तज्ञानेन दर्शने विपर्ययः । तथे- 25 तरेष्वप्यूह्यः । न च शाक्यादिदर्शनविपरीतत्वात् त्रय्यामपि विपर्यय इति
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
15
20
25
www.kobatirth.org
१२६
व्योमवत्यां
वाच्यम्, प्रधानार्थेष्वात्मादिषु अर्थेषु बाधकानुपपत्तेः । शाक्यादिदर्शनेषु क्षणिकत्वादिपदार्थेषूक्तं बाधकमबाध्यमानमिति ।
अन्ये तु त्रयाणां प्रत्यक्षानुमानागमानां समाहारस्त्रयी, तदेव दृश्यतेऽनेनेति दर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि तैर्बाधोपपत्तेः । तदुप - लक्षितं वा वैशेषिकदर्शनम्, तद्विपरीतानि शाक्यादिदर्शनानि, बाध्यमानत्वादित्युक्तम् ।
*
तथा • शरीरेन्द्रियमनःसु आत्माभिमानः * विपर्ययः । शरीरमेवात्मेति विपर्ययो लौकायतिकानाम् । इन्द्रियाण्येवात्मेति इन्द्रियचैतन्यवादिनाम् । मनश्चैतन्यवादिनां मन एवेति ।
*
• कृतकेषु नित्यत्वदर्शनम् * विपर्ययो मीमांसकानाम् । तथाहि, क्षित्यादेः कृतकत्वं पूर्वमेव व्यवस्थापितम्, तत्र च नित्यत्वदर्शनं तेषामिति । यद्वा सांख्यानामयं विपर्ययः । कृतकेषु घटादिषु नित्यत्वदर्शनमिति, न समुत्पद्यते भावो न स्वात्मानं जहातीति ।
Acharya Shri Kailassagarsuri Gyanmandir
उक्त कारणवैकल्ये कार्योत्पत्तिज्ञानम् विपर्यय: स्वभाववादिनाम् । तथा च, निरुक्तं क्षित्यादिवैचित्र्यं कर्त्तारमन्तरेण स्वभावत एव भवतीति । एतच्चासत् कार्यत्वस्य स्वकर्तृपूर्वकत्वेन व्याप्तस्योपलम्भात् । क्षित्यादावपि कर्तृपूर्वकत्वस्य व्यवस्थापितत्वात् स्वभाववादिनां विपर्ययज्ञानमेतत् । तथा चेतनमधिष्ठातारं विना कार्यस्यानुपलब्धेः, जैमिनीयानां शौद्धोदने: शिष्याणाञ्च कर्तारं विना क्षित्यादिकार्यविज्ञानं विपर्ययः ।
*
2
प्रधाने प्रलीनयोश्च धर्माधर्मयोरभिव्यक्तत्वान्न कार्योत्पत्तौ व्यापार: सम्भवतीति तद्वैकल्ये कार्योत्पत्तिज्ञानं विपर्यय: सांख्यानाम् ।
सौगातानाञ्च कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः । कथम् ? उत्पत्तिविनाशयोस्तादात्म्यात् । क्षणिकत्वे सति यदैव कार्योत्पादस्तदेव कारणस्य विनाशः, स चोत्पत्तेर्नार्थान्तरमिति । सहोत्पन्नयोर्न कार्यकारणभाव इति कारणवैकल्ये कार्योत्पत्तिज्ञानं विपर्ययः ।
तथा सर्वमिदं कार्यं परमेशपूर्वकं तदाराधनञ्च परमस्य श्रेयसः
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
गुणवैधर्म्यप्रकरणम् साधनम् । वेदानाञ्च स्वरूपेऽप्यर्थे प्रामाण्यमित्येवं * हितमुपदिशत्सु * वैशेषिकेषु नैवं भवतीति ज्ञानं विपर्ययो मीमांसकसौगतजैनानाम् ।
यदा तु न परमशिवादेः सद्भाव इति वैयात्याद् वदन्ति वैशेषिकास्तदा नेदं परमार्थतो हितमिति हितमुपदिशत्सु वैशेषिकेषु अहितमेवेदमिति ज्ञानं विपर्ययस्तेषाम् ।
यहा संसार्यात्मनां नानात्वम्, परमशिवश्चैतेभ्यो भिन्नः, तदाराधनाच्चास्मदादेः श्रेयो भवतीत्येवं हितमुपदिशत्सु वैशेषिकेषु अहितमिति ज्ञानं विपर्ययः ।
द्वैतवादिनां तदर्था नभ्युपगमेन च वचनेन हितमिति ज्ञानं विपर्ययः । तेषां क्षित्यादिकार्यं परमाणुभिव्यणुकादिप्रक्रमेणारब्धमीश्वरकर्तृकञ्चेति, 10 एवं हितमुपदिशत्सु, वैशेषिकेषु नैवमेतत् प्रधानपूर्वकत्वाज्जगत इति ज्ञानं विपर्ययः सांख्यानाम्, प्रधानस्तित्वे प्रमाणाभावात् ।
अथास्ति अन्वयपरिमाणशक्तिप्रवृत्त्युपकार्योपकारकभाववैश्वरूप्येभ्यः प्रधानम् । तथाहि, सर्वमिदं शरीरादिकार्य सुखदुःखमोहान्वितमुपलभ्यते, यच्चान्वितं तदेकस्मात् कारणादुत्पद्यमानं दृष्टम्, यथैकस्मात् मृत्पिण्डात् 15 मृदन्वितमनेकघटादि । तथाचानुमानम्, भुवनादिकार्यम् एकस्मात् कारणादुत्पद्यते अन्वितत्वात् घटादिवत् । तथा चास्य पक्षधर्मत्वं सुखदुःखादिसमन्वयस्य सर्वेषु शरीरादिषु भावात् । न च अतत्स्वभावात् कारणात् सुखादेरुत्पत्तिरिति शरीरादेः सुखदुःखमोहात्मकत्वम्, तज्जनकत्वात्, तथा प्रसादादिजनकत्वोपलब्धेश्च तत्स्वभावत्वम् । सुखादयस्तु सत्त्वरजस्तमसां 20 परिणामविशेषास्ततोऽर्थान्तरं न भवन्ति, कार्यस्य कारणाद् भेदानुपपत्तेः । अतः सत्त्वरजस्तमांस्येव शब्दाद्यात्मना व्यवतिष्ठमानानि सुखदुःखमोहात्मकं कार्यमुपजनयन्तीति शब्दादयोऽपि न सत्त्वादिभ्यो व्यतिरिच्यन्ते । सत्त्वरजस्तमसाञ्च साम्यावस्था प्रधानम् ।
तथा परिमितत्वाच्च । यत् परिमितं तत् एकस्मात् कारणादुत्पद्यते, 25 यथाकूरादि बीजात् । परिमितत्वञ्च इयत्तावधारणविषयत्वम् । तथा शरीरादि कार्यम् एकस्मादुत्पद्यते परिमितत्वात् अङ्कुरादिवत् ।
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
व्योमवत्यां
शक्तिप्रवृत्तेश्च । शक्त्या हि कारणं कार्यार्थिनोपादीयत इति सर्वं कार्य स्वकारणे शक्तिरूपतया व्यवस्थितं तावद् यावत् प्रधानमिति । नन्वेवं सर्वस्यापि कार्यस्य प्रधानादभेदे विद्यमानत्वात् कथमुत्पत्तिविनाशाविति ? असतः
खरविषाणादेरिव कार्यत्वानुपपत्तेः सत एवाविर्भावतिरोभाविति ब्रूमः । 5 शक्तिरूपतया हि व्यवस्थितं कार्यं परं व्यक्तिरूपतामापद्यते । पुनस्तु तिरोभावे शक्तिरूपतया व्यवतिष्ठते, न सन्निरुध्यत इति ।।
तथा परस्परमुपकार्योपकारकभावेनावस्थितानाम् आसन्दिकाङ्गानामेकस्मात् कारकाद् उत्पत्तेरुपलम्भाच्छरीरादेरपि तथाभावोपलब्धेरेककारणपूर्वकत्वं साध्यते ।
तथा दध्यादिवैश्वरूप्यस्यैकस्मात् क्षीरादुत्पत्तेरुपलम्भाच्छरीरादिवैचित्र्यस्याप्येककारणपूर्वकत्वं साध्यते । यच्चैकं कारणं तत् प्रधानमिति । तस्माच्च महान्, महतोऽहङ्कारः, तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि, तेभ्यो भूतानीति ।
___ सर्वमेतदसत्, अन्वयादेर्गमकत्वानुपपत्तेः । तथाहि, शरीरादेरेककारण15 पूर्वकत्वे साध्येऽन्वितत्वमहेतुः सन्दिग्धत्वात् । अथ सुखदुःखादिसमन्वितत्वं
हेतुः, तन्न, स्वरूपासिद्धत्वात् । तथाहि, सुखःखादीनां पूर्वमेवात्मगुणत्वेन प्रतिपादितत्वात् शरीरादिगुणत्वमसिद्धम् । घटादिदृष्टान्तोऽपि साधनविकल: । तत्रान्वितस्यैककारणपूर्वकत्वेन व्याप्तस्यानुपलम्भात् । अथ मृदन्वितत्वं
घटादावस्ति, तच्चासिद्धम्, पक्षे प्रत्यक्षेण च शरीरादेरुपादानं प्रतिनियत20 जातीयमनेकमुपलभ्यत इति, कालात्ययापदिष्टञ्च साधनम् ।
एवं परिमितत्वमियत्तावधारणविषयत्वमसिद्धम्, अवान्तरभेदेन शरीरादेरानन्त्यात् । अथ वर्गापेक्षया परिमितत्वम्, तथाप्यनैकान्तिकत्वम्, परदृष्टया नित्येष्वपि भावात् । सत्त्वरजस्तमांसि च परिमितानि न चैककारणपूर्वका
नीति, प्रधानस्यैव तद्रूपत्वात् । तथा एककारणपूर्वकत्वाभावेऽपि परमाण्वा25 दीनि वर्गापेक्षया परिमितानीति । अङकुरादेरपि भौमानलसम्बन्धाद् बीजा
वयवक्रियाक्रमेण पूर्वद्रव्यविनाशे सति द्व्यणुकादिप्रक्रमेणोत्पादाद् एककारणपूर्वकत्वमसिद्धम् ।
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणधर्म्यप्रकरणम्
यच्चेदं शक्तानां कारणानां कार्योत्पत्तौ व्यापाराच्छक्तिरूपतया कार्यस्यावस्थानमित्युक्तम्, तदसत् शक्तेश्चरमसहकारिरूपतया कार्यादर्थान्तरत्वात् । न च कार्यकारणयोरेकत्वम्, विभिन्नप्रतिभासविषयत्वात् । प्रतिभासभेदश्च पदार्थानां भेदव्यवहारे हेतुः । तत्सद्भावेऽप्येकत्वाभ्युपगमे सर्वेषामेकताप्रसङ्गान्न चतुर्विंशतितत्त्वानीति स्यात् । तथा स्वरूपभेदोऽर्थक्रियाभेदश्च कार्यकारणयोः । सूक्ष्ममनेकञ्च समवायिकारणम्, अधिकमेकञ्च कार्यंमिति, तस्य पूर्वं कारणेष्वसत्त्वम्, अनुपलम्भात् । अथानभिव्यक्तेरनुपलम्भ: ? सद्भावे किं प्रमाणम् ? उत्पत्तेरिति चेत्, न, विद्यमानस्योत्पत्तेरयोगात् । अथ अविद्यमानस्योत्पत्तौ खरविषाणादीनामुत्पत्तिः स्यात् ? [न] कारणाभावात् । येषां हि कारणमस्ति जनकं तेषामेवोत्पत्तिर्न खरविषाणादिष्वेतदस्ति, कार्याभावेनैव 10 कारणाभावप्रतीतेः । एवं तन्तुषु घटादेर्मृत्पिण्डे च पटादेरनुत्पत्तिर्वाच्या, प्रतिनियतसामग्र्याः प्रतिनियतकार्यजनकत्वात् । तन्तूपलक्षिता हि सामग्री पटस्यैव जनिकोपलब्धा, अन्या तु अन्यस्येत्युपादानेषु कार्यनियमो, न सत्त्वादिति । यच्चोत्पद्यते तदुत्पत्तेः पूर्वमसत्, न पुनर्यद् यदसत् तदुत्पद्यत इति व्याप्तिः ।
१२९
यच्चोत्पद्यमानत्वेन हेतुना सत्त्वम्, तदसत्, तस्यासाधारणत्वेनागमकत्वात् । तथाहि सति आकाशादौ, असति च खरविषाणादौ, उत्पद्यमानत्वं नास्तीति ।
For Private And Personal Use Only
5
15
यच्चायं व्यपदेशोऽङ्कुरो जायते, घटं कुर्विति अयमपि मुख्ये बाधकप्रमाणसद्भावाद् भाक्तो द्रष्टव्यः । तथाहि, यदि विद्यमानस्यैव घटस्य कर्मत्व- 20 मङ्कुरस्य च कर्तृत्वमिष्येतोत्पत्तिर्व्याहता स्यात्, विद्यमानत्वादेव कारकव्यापारवैयर्थ्यञ्च । अथाभिव्यक्त्यर्थं व्यापारः, तदसत्, अभिव्यक्तेरपि विद्यमानत्वात् । अथाभिव्यक्तिरविद्यमानैव क्रियते ? तर्हि सदुत्पद्यत इति व्याहतम् । अभिव्यक्तस्तु स्वरूपोपलम्भस्य अविद्यमानस्यैवोत्पत्तेः । न चावरणव्यपगमोऽभिव्यक्तिः, आवरणस्यैवानुपलब्धेः । तस्माद् विद्यमानस्य उत्पत्त्यर्था - 25 सम्भवाद् उपचरितमङ्कुरादेः स्वजनिकर्तृत्वं कर्मत्वञ्चेति व्यपदेशस्यान्यथासिद्धत्वम् ।
१७
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
व्योमवत्यां
यच्चेदम् उपकार्योपकारकभावापन्नत्वादेककारणपूर्वकत्वमित्युक्तं तदप्यसत्,] यदि परस्परापेक्षाणामेककार्यजनकत्वमुपकार्योपकारकभावो विवक्षितः, स च नित्येष्वस्तीति व्यभिचारी, साध्यविकलश्च दृष्टान्तः, विभिन्नकारकजन्यत्वादासन्दिकाङ्गानाम् ।।
तथा दध्यादिवैश्वरूप्यमप्युक्तकारणपूर्वकं न भवति, स्वावयवकार्यत्वात् । तथाहि, स्वावयवेभ्यो दध्युत्पद्यते, न क्षीरात् । भौमानलसम्बन्धादवयव क्रियान्यायेन विनष्टे हि क्षीरे पुनः उत्पन्नपाकजैव्यणुकादिक्रमेण दध्यादेरुत्पत्तिरित्यतो वैश्वरूप्यस्यैककारणपूर्वकत्वाभावः । प्रत्यक्षेण च पक्षे प्रतिनियतजातीयमनेकं कारणमुपलब्धमिति कालात्ययापदिष्टञ्च वैश्वरूप्यमिति ।
न च किञ्चित्कार्यमेकस्मादेव कारणादुत्पद्यमानमुपलब्धमिति अविद्यमानसपक्षस्य अन्वयादेविपक्षे सद्भावः । तदेवमन्वयादीनामगमकत्वात् प्रधानासिद्धौ बुद्ध्यादेरसम्भव एव । प्रतिहतश्च प्रधानवादोऽस्मद्गुरुभिर्विस्तरेणेति नेह प्रतन्यते । अतः सांख्यानामयं विपर्ययः प्रधानपूर्वकम् जगदिति ।
तथा शरीरस्य परिमाणभेदेन भेदोपपत्तेः शरीरमेवात्मेत्यभ्युपगमे 15 प्रतिसन्धानं न स्यादित्यात्मनः शरीरादिव्यतिरेकेण नित्यत्वं प्रतिपत्तव्यमिति
हितमुपदिशत्सु वैशेषिकेष्वहितज्ञानं विपर्ययो लौकायतिकानाम् । समानञ्चैतत् सौगतजैनानाम् । तथाहि, सङ्कोचविकासधर्मकत्वादात्मनः सपरिणामत्वेऽन्यत्वेन भेदोपपत्तेः स्मरणं न स्यात् । बोधाच्च बोधरूपतेति प्रतिबन्ध
प्रतिषेधाद बोधमात्रेऽप्यात्मनि स्मरणानुत्पत्तौ श्रेयोबुद्धेरभाव इत्यलं 20 विस्तरेणेति ।
अनध्यवसायोऽपि प्रत्यक्षानुमानविषये (एव) सञ्जायते । तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गाद[न] थित्वाद् वा किमित्यालोचनमात्रमनध्यवसायः । यथा बाहीकस्य पनसादिष्वनध्य
वसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्व(रूपादिः) शाखाध25 पेक्षोऽध्यवसायो भवति । पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं
प्रत्यक्षमेव, केवलन्तूपदेशाभावाद् विशेषसंज्ञाप्रतिपत्तिर्न भवति ।
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१३१ इदानीमनध्यवसायस्य कारणस्वरूपविषयविभागनिरूपणार्थं न परं विपर्ययः * अनध्यवसायोऽपि प्रत्यक्षानुमानविषये सञ्जायते * इत्यादि प्रकरणम् । अनध्यवसितिरनध्यवसायः, ज्ञानमनिश्चयात्मकम् । तच्च संशयादिभ्योऽर्थान्तरम् , कारणभेदाद्, विषयभेदाच्चेति ।
* [तत्र प्रत्यक्षविषये तावत् * व्याख्यायते । * प्रसिद्धार्थेष्वप्रसि- 5 द्धार्थेषु * च विषयेषु भवतीत्यतः संशयाद भिद्यते । संशयो हि प्रसिद्धार्थेष्वेव भवतीति । अथ प्रसिद्धार्थेषु कुतः कारणादनध्यवसाय इत्याह * व्यासङ्गाद[न]र्थित्वाद् वा * इति । यथा व्यासङ्गात् इषुकारस्य इषावासक्तमनसो महति गतेऽपि राजनि 'किन्नामायं गतः' इत्यनध्यवसायः । अन]र्थित्वात् स्वानुष्ठाननिरतस्य तपस्विनो महत्यपि राजन्यनध्यवसाय: 'किन्नामायं 10 गतः' इति ।
न चायं संशयः, तस्योभयोल्लेखित्वात्, सामान्योपलम्भादिभ्यश्चोत्पद्यमानत्वाच्च । इत्यतोऽनध्यवसाय इतरस्माद् भिद्यते यथोक्तकारणजन्यत्वात् । यथोक्तं वा ज्ञानम् अनध्यवसाय इति व्यवहर्त्तव्यम् उक्तकारणेभ्यो निष्पद्यमानत्वात् । यस्तु न भिद्यते न चैवं व्यवह्रियते, न चासावुक्त- 15 कारणेभ्यो निष्पद्यते । यथा संशयादिरिति ।
तस्य स्वरूपमाह * किमित्यालोचनमात्रम् * किं नामेति ज्ञानं विशेषसंज्ञोल्लेखशून्यमनध्यवसाय इति ।
अप्रसिद्धार्थेषु * यथा बाहीकस्य पनसादिष्वनध्यवसायो भवति * बाहीको हिठकः [ ? हिरठक: ] तस्य पनसादिषु सङ्केताभावाद् विशेषसंज्ञोल्लेख- 20 शून्यं 'किन्नामायम्' इति ज्ञानमुत्पद्यते। तत्र हि * सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपादिशाखाद्यपेक्षोऽध्यवसाय: * एव। तथाहि, सन्नयम् इति निश्चयज्ञानम् । तथा द्रव्यं पृथिवी वृक्षो रूपादिमांश्छाखादिमांश्चेति अध्यवसाय एव । तथा पनसत्वमपि निर्विकल्पकबोधे * पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव ।
25 ___नन्वेवं तर्हि क्व विषयेऽनध्यवसाय इत्याह केवलन्तूपदेशाभावात् * सङ्केताभावाद् विशेषसंज्ञोल्लेखिनी पनसोऽयमिति * प्रतिपत्तिर्न भवति * इति ।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
www.kobatirth.org
१३२
व्योमवत्यां
किन्नामायमित्यनिश्चयात्मकज्ञानस्य
नन्वेवं तर्हि प्रतिपत्त्यभावोऽनध्यवसायः स्यात्, तस्य चाभावरूपत्वाद् अविद्यायामन्तर्भावोऽनुपपन्नः ? नैतदेवम्, संशयादिविलक्षणस्यानुभूयमानतयापलापायोगात् । तस्य चाविद्यालक्षणयुक्तत्वादविद्यायामन्तर्भाव इति ।
Acharya Shri Kailassagarsuri Gyanmandir
अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति ।
*
* अनुमानविषयेऽपि नालिकेरद्वीपवासिनः * अकृतसमयस्य पिण्डानुपलम्भे * सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति पूर्वं हि सङ्केताप्रतिपत्तावपि सास्ना प्रामाण्याविनाभूतोपलब्धा, तदुपलम्भात् पिण्डानुपलम्भेऽपि अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञाने सति को नु खल्वत्र प्रदेशे प्राणीति, किन्नामात्र प्राणीति स्यादित्यनध्यवसायः ।
उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणेव यदनुभवनं मानसं तत् स्वप्नज्ञानम् ।
तदेवमनव्यवसायस्य कारणादिभेदेन भेदमभिधाय स्वप्ननिरूपणमाह
15
* उपरतेन्द्रियग्रामस्य इत्यादि । उपरतः स्वविषयग्रहणं प्रति निवृत्त इन्द्रियाणां
*
ग्रामो यस्यासौ तथोक्तस्तस्य । प्रलीनमनस्कस्य इति । प्रलीनं नेन्द्रियदेशेन
悟
संयुक्तं मनो यस्यासौ तस्य प्रलीनमनस्कस्य । * इन्द्रियद्वारेणेव यदनुभवनं मानसम् * उत्पद्यते, * तत् स्वप्नज्ञानम् इति । मनसि भवं मानसं तच्च स्मरणसुखाद्यपि भवतीति तन्निवृत्त्यर्थमनुभवनपदम् । अनुभवनञ्च बाह्येन्द्रियज20 मपीति मानसग्रहणम् । तथापि सुखदुःखाद्यनुभवैर्व्यभिचा रस्तदर्थमुपरतेन्द्रियग्रामस्येति । सुखाद्यनुभवश्चेन्द्रियज एव मनसस्तत्र व्यापारात् । अथोपरतेन्द्रिग्रामस्य मानसं स्वप्नान्तिकमपि भवतीति व्यभिचार:, तन्न, तस्य स्मृतिरू - पतया अनुभवनपदेनैव व्यवच्छिन्नत्वात् ।
अन्ये त्वस्य व्यवच्छेदार्थमविद्यासामान्यलक्षणमनुवर्तयन्तीति । 25 न च निमीलिताक्षस्य नीलपीतादिज्ञानमुपरतेन्द्रियग्रामस्य भवतीत्याशङ्कनीयम्, विषयसान्निध्ये सतीन्द्रियान्तरेण तस्य ज्ञानोत्पादात् । यदा हि
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयेप्रकरणम
१३३
विषयसान्निध्येऽपि नेन्द्रियेण ज्ञानं तदैवोपरतेन्द्रियग्रामः पुरुषोऽभिधीयत इति । न च चक्षुर्व्यापार विना नीलपीतादिष्वनुभवनं सम्भवतीति स्मरणमेतन्नाय्यम्, तच्चानुभवपदेनैव व्यवच्छिन्नम् । नन्वेवमप्युपरतेन्द्रियग्रामस्य मानसानुभवनत्वात् स्वप्नज्ञानम् इतरस्माद् भिद्यते इत्युक्ते व्यभिचाराभावः, किमर्थं प्रलीनमनस्कस्येन्द्रियद्वारेणेवेति पदद्वयम् ? लक्षणान्तरार्थम् । तथाहि, 5 प्रलीनमनस्कस्य यदनुभवनं मानसं तत् स्वप्नज्ञानमिति द्वितीयं लक्षणम् । प्रलोनमनस्कस्य स्वप्नान्तिकमपि भवतीत्यनुभवनपदम् । अनुभवनञ्च सुखादिषु भवतीति प्रलीनमनस्कपदम् ।
अतः प्रलीनमनस्कानुभवत्वात् इतरस्माद् भिद्यते, तथेन्द्रियद्वारेणेवोत्पद्यमानत्वे सति मानसानुभवनत्वादिति । इन्द्रियद्वारेणेवोत्पद्यते स्वप्नान्तिक- 10 मतोऽनुभवनमिति । अनुभवनञ्च सुखादावपि भवतीति इन्द्रियद्वारेणेवेति पदम् ।
कथम् ? यदा बुद्धिपूर्वादात्मनः शरीरव्यापारादहनि खिन्नानां মলি লিখা লিগালাইলাইহিচালাই বা চাহিৰসমলাঙ্কাदात्मान्तःकरणसम्बन्धान्मनसि क्रियाप्रबन्धादन्तहदये निरिन्द्रिये 15 आत्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलोनमनस्क इत्याख्यायते।
प्रलोने च तस्मिन्नुपरतेन्द्रियग्रामो भवति । तस्थामवस्थायां प्रबन्धन प्राणापानसन्तानप्रवृत्तावात्ममनःसंयोगविशेषात् स्वापाख्यात् संस्काराच्चेन्द्रियद्वारेणेव असत्सु विषयेषु प्रत्यक्षाकारं स्वप्नज्ञानमुत्पद्यते ।
अथ कथं स्वप्नज्ञानमुत्पद्यते, पुरुषश्चोपरतेन्द्रियग्रामः प्रलीनमनस्कश्च 20 भवतीत्याह * यदा * इत्यादि । यदान्तहृदये न बाह्ये, निर्गतानोन्द्रियाणि यस्यासौ तथोक्तस्तस्मिन्नात्मप्रदेशे, निश्चलं क्रियाशून्यं मनस्तिष्ठति तदा पुरुषः प्रलीनमनस्क इत्याख्यायते ।
अन्ये त्वागमाभिमतम् अधोमुखं कमलं निरिन्द्रियात्मप्रदेशस्तत्र निश्चलं मनस्तिष्ठतीति ब्रुवते ।
____25 स च विशिष्टात्मसम्बन्धः क्रियाप्रबन्धात् क्रियासन्तानाद् भवति । क्रिया
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
१३४
स च कदा ?
प्रबन्धश्चात्मान्तःकरणसंयोगाददृष्टकारितात् प्रयत्नापेक्षादुत्पद्यते । तथाहि, मनःसमवायिकारणम्, आत्ममनः संयोगोऽसमवायिकारणम्, अदृष्टकारितप्रयत्नो निमित्तकारणमित्येवं मनसि क्रियाप्रबन्धाद् विशिष्टात्मप्रदेशेन संयोगः स्वापाख्यः सम्पद्यते ।
*
www.kobatirth.org
*
*
**
व्योमवत्यां
तीति विश्रामार्थमाहारपरिणामार्थं वा *
व्यस्तञ्चैतद् विवक्षितम् । कस्यचिदेकं प्रयोजनं कस्यचिदुभयमपि भवतीति । किविशिष्टस्य प्राणिनः ? अनि खिन्नस्य । कुतः ? शरीरव्यापारात् । स च नावाद्यारूढस्यापि सम्भवति न च तस्मात् खेदः, तदर्थम् बुद्धिपूर्वात्
營
10 बुद्धिश्च स्मरणेच्छाद्वारेण व्यापारोत्पत्तौ कारणं न साक्षात् । तथापि शरीरान्तरेषु बुद्धिपूर्वको व्यापारो नियोगद्वारेण सम्भवति न च तस्मात् खेदस्तदर्थम् आत्मनः * स्वशरीरस्येति । एवमुक्तक्रमेण निरिन्द्रियप्रदेशसम्बद्धं प्रलीनं मनोऽपदिश्यते । प्रलीने च तस्मिन् उपरतेन्द्रियग्रामः पुरुषो भवति, मनसानधिष्ठितानामिन्द्रियाणां स्वविषये व्यापारासम्भवात् । जीव15 नन्तु तस्यामवस्थायामनुमीयते । सातत्येन प्राणापानसन्तानस्य प्रवृत्तौ सत्याम् । तथाहि प्राणापानसन्तानप्रवृत्ति: प्रयत्नकार्या न चेच्छाद्वेषपूर्वकः प्रयत्नोऽत्र सम्भवत्यतो जीवनपूर्वकः प्रयत्नोऽनुमीयत इति वक्ष्यामः प्रयत्नाधिकारे ।
निशि इति बाहुल्यापेक्षया तस्य । किमर्थञ्च भव
營
इति । पुरुषभेदापेक्षया समस्तं
. प्रबन्धेन
*
Acharya Shri Kailassagarsuri Gyanmandir
अथैवं प्रलीनमनस्कस्योपरतेन्द्रियग्रामस्यात्मनः कुतः स्वप्नज्ञानमुत्पद्यत 20 इत्याह आत्ममनः संयोगविशेषात् असमवायिकारणात्, स्वाप इत्याख्या संज्ञा यस्यात्ममनः संयोगविशेषस्यासौ तथोक्तस्तस्मात् । संस्काराच्च * इति । संस्कार: स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्तौ कारणमिति ।
營
*
,
For Private And Personal Use Only
यद्वा स्वापाख्यादिति संस्कारविशेषणम् । यो हि संस्कार: स्वापावस्थायां स्मृतिद्वारेण स्वसंज्ञानहेतुर्भवत्यसौ स्वापाख्य इति । तस्माद् 25 दिक्कालदिभ्यश्चेन्द्रियद्वारेणेव असत्सु अविद्यमानेषु विषयेषु हस्त्यादिषु प्रत्यक्षाकारं प्रत्यक्षमिव स्वप्नज्ञानमुत्पद्यते ।
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
गुणवैधर्म्यप्रकरणम् अन्ये तु कुड्यादय एव हस्त्यात्मना व्यवस्थिताः स्वप्नज्ञानस्यालम्बनमिति मन्यन्ते । यच्चेदम् असत्सु विषयेषूत्पद्यते स्वप्नज्ञानमित्युक्तं तदपि हस्त्यादिस्वरूपापेक्षया, तेन हि रूपेण तेषामसत्त्वादिति ।
तदेतदसत्, कुड्यादेरालम्बनत्वे प्रमाणाभावात् । न च स्वप्नोत्थितस्य 'ममैते कुड्यादयो हस्त्यादिरूपतया प्रतिभाता' इति प्रत्यभिज्ञानमस्ति। 5 नापीन्द्रियाणां कुड्यादिषु हस्त्यादिज्ञानजन्मनि व्यापारः सम्भवति, तद्व्यापारोपरमे सति तत्र ज्ञानस्य भवनात् । मनसोऽपि बहिर्विषये स्वातन्त्र्येण व्यापारः प्रतिषिद्ध एव । तस्मान्निविषय एव स्वप्नज्ञानमिति ।
अथ स्वप्नज्ञानं न विपर्ययादिभ्योऽर्थान्तरम् । तथाहि, स्वप्नज्ञानम् अतस्मिस्तदित्युत्पद्यमानं विपर्ययज्ञानमेव । किमयं स्थाणुः पुरुषो वेत्युभयोल्लेखित्वे 10 सति संशयज्ञानम् । किनामायमिति चोत्पादेऽनध्यवसाय इति न स्वप्नज्ञानमेतेभ्योऽर्थान्तरम् । पृथगभिधानन्तु शुभाशुभसूचकत्वादिति ।
नैतद् युक्तम्, कारणादिभेदेनास्य विपर्ययादिभ्योऽर्थान्तरत्वादिति केचित् । तथाहि, विपर्ययज्ञानं प्रत्यक्षानुमानविषये पित्तकफानिलोपहतेन्द्रियस्य पुरुषस्योत्पद्यते । संशयस्तु सामान्योपलम्भादितः प्रत्यक्षानुमानविषये प्रसिद्धो- 20 भयविशेषस्य भवतीत्येवमनध्यवसायस्यापि विलक्षणमेव कारणमुक्तम् । तद्विपरीतानि तु स्वप्नज्ञानोत्पत्तौ कारणानीति कारणभेदाद् भेदः । लक्षणभेदेऽप्यभेदाभ्युपगमे सर्वत्र तथाभावप्रसङ्गः । तथात्यन्ताप्रसिद्धेऽप्यर्थे स्वप्नज्ञानमुत्पद्यते, न चैवं विपर्ययादाविति । तस्मादुभयोल्लेखित्वादिसद्भावेऽपि स्वप्नलक्षणोपपत्तेः संशयादिविलक्षणं स्वप्नज्ञानमेवैतदित्यभ्युपगन्तव्यम् । 15
तत्तु त्रिविधम् । संस्कारपाटवात् धातुदोषात्, अदृष्टाच्च ।
तत्र संस्कारपाटवात् तावत् कामी कुद्धो वा यदा यमर्थमावृतश्चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सजायते । .
धातुदोषात्, वातप्रकृतिस्तदूषितो वा आकाशगमनादीन् पश्यति । पित्तप्रकृतिः पित्तदूषितो वा अग्निप्रवेशकनकपर्वतादीन् पश्यति । श्लेष्म- 25 प्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति ।
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
व्योमवत्यां यत् स्वयमनुभूतेष्वननुभूतेषु वा प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा यच्छुभावेदकं गजारोहणच्छत्रलाभादि तत् सर्व संस्कारधर्माभ्यां भवति । विपरीतञ्च तैलाभ्यञ्जनखरोष्ट्रारोहणादि तत् सर्वमधर्मसंस्काराभ्यां भवति ।
अत्यन्ताप्रसिद्धार्थेष्वदृष्टादेवेति ।
तस्य कारणभेदाद् भेदमाह * तत्तु * स्वप्नज्ञानम् । * त्रिविधम् संस्कारपाटवाद् धातुदोषाद् अदृष्टाच्च * इति । संस्कारपाटवात् तावत् स्वप्नज्ञानमाह * कामी * यस्यामङ्गनायामनुरक्तस्तामादृतोऽतिशयेन प्रयत्नयुक्तश्चिन्तयन्, क्रुद्धो वायं शत्रु प्रयत्नाच्चिन्तयन् स्वपिति । * सैव * सुप्तस्य, * चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते * नादृष्टात् ।
धातुदोषात् स्वप्नमाह * वातप्रकृतिः * वातमधिकं निमित्तमपेक्षमाणैः परमाणुभिरारब्धः, वातदूषितश्च तथाविधाहारोपगमाद् आकाशादिगमनानि पश्यति । एवं पित्तप्रकृतिरित्यादावपि द्रष्टव्यम् ।
अदृष्टकारितं स्वप्नमाह * यत्स्वयमनुभूतेष्वननुभूतेषु * अर्थषु, * प्रसिद्धेष्वप्रसिद्धेषु वा * शुभावेदकमुत्पद्यते स्वप्नज्ञानं तददृष्टात् । तत्र यद् 15 गजारोहणच्छत्रलाभादिशुभावेदकं * तत् सर्वं संस्कारधर्माभ्याम् * उत्पद्यते ।
संस्कारो हि पूर्वानुभवजनितः, स च स्मृत्युत्पत्तिद्वारेण स्वप्नज्ञानोत्पत्ती कारणम् ।
विपरीतमशुभावेदकम् * तैलाभ्यञ्जनखरोष्ट्रारोहणादि * तच्चाधर्मसंस्काराभ्यां भवति ।
अत्यन्ताप्रसिद्धेषु अननुभूतेष्वदृष्टादेव स्वप्नज्ञानमुत्पद्यते । तथाहि, ब्रह्मादिपदारूढ़मात्मानं पश्यतीति ।
स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतज्ञानप्रबन्धप्रत्यवेक्षणात् स्मृतिरेवेति भवत्येषा चतुर्विधा अविद्येति ।
___ अथ स्वप्नान्तं स्वप्नज्ञानमेव, आहोस्विदर्थान्तरमित्याह * स्वप्नान्ति25 कम् * स्वप्नान्ते स्वप्नावसाने भवं स्वप्नान्तिकम् । * यद्यप्युपरतेन्द्रियग्रामस्य
भवति तथापि * स्मृतिरेवेति । * अतीतज्ञानप्रबन्धप्रत्यवेक्षणात् * इति ।
20
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
करण
Acharya Shri Kailassagarsuri Gyanmandir
१३७
अतीतश्चासौ ज्ञानप्रबन्धश्च तस्मिन् प्रत्यवेक्षणरूपत्वात् स्मृतिरेवेति । एवं यथोक्तरूपा चतुर्विधा भवत्यविद्येत्युपसंहारः ।
अन्ये तु एषा * यथा मया व्याख्याता तथा चतुविधा भवत्यविद्या | अन्यथा हि विविधैवेति ।
विद्यापि चतुविधा, प्रत्यक्ष लैङ्गिकस्मृत्यार्षलक्षणा । विद्यास्वरूपनिरूपणार्थं न केवलमविद्या
अथेदानीं
*
* विद्यापि चतुर्विधा * इत्यादि प्रकरणम् । केन रूपेणेत्याह प्रत्यक्ष लैङ्गिकस्मृत्यार्ष - लक्षणा * तत्स्वरूपेति । प्रत्यष्टि: प्रत्यक्षम्, लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम्, स्मरणं स्मृतिः, ऋषीणामिदं (ज्ञानम् ? ) आर्षमिति ।
10
ननु शाब्दज्ञानस्यापि विद्यारूपत्वादिहानुपन्यासे किं प्रयोजनम् ? विप्रतिपत्तिज्ञापनमिति । तथा हि शाब्दमनुमानेऽन्तर्भवतीति केचित्, अन्ये तु प्रमाणान्तरमिति वैशेषिकाणां विप्रतिपत्तिस्तेनेहानभिधानम् । अत्र तु विद्याविभाग परेणापि वाक्येनोपसर्जनतया तज्जनकमपि सामग्रयां प्रतिज्ञातमेव । प्राधान्येन तु करणव्युत्पत्तिद्वारेण प्रत्यक्षादिविभागाभ्युपगमे विद्याविभागनिरूपणमुपसर्जनतया स्यात्, तत्तु न युक्तम्, बुद्धिभेदस्य पूर्वं प्रतिज्ञातस्येह 15 निरूपणात् ।
तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् । अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्छोत्रमनांसि षट् । तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते । द्रव्ये तावत् त्रिविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसत्रिकर्षाद् धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम् ।
For Private And Personal Use Only
5
20
तत्र प्रत्यक्षस्य निरूपणार्थमाह * अक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम् । प्रतिगतमक्षं प्रत्यक्षमिति प्रादिसमासः, अन्यथाव्ययीभावसमासाभ्युपगमे प्रत्यक्षं रूपम्, प्रत्यक्षा: पुमांसः, प्रत्यक्षा स्त्रीति लिङ्गभेदो वचन - भेदश्च न स्यात् । अक्षमक्षमिति वीप्साविधानं सकलेन्द्रियावरोधार्थम् । अथाक्षमिति सामान्यशब्दात् सकलेन्द्रियावरोधो भवत्येव ? न, सामान्यशब्द- 25 स्योभयथापि प्रवृत्तेः । तथाहि 'ब्राह्मणो न हन्तव्यः' इति सकल ब्राह्मणा -
१८
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
व्योमवत्यां पेक्षया प्रतिषेधः, 'ब्राह्मणान् भोजय' इति ब्राह्मणविशेषापेक्षया नियोगः । तस्माद् व्याप्त्यर्थं वीप्साकरणमिति । अथ वीप्सासद्भावेऽपि व्याप्ति!पलब्धा। यथा अन्तर्वेद्यां ग्रामः, ग्रामो रमणीयः, रमणीयः पुरुषः, पुरुषे गुणविशेष
इति वीप्साकरणमत्र । सत्यम्, तथाप्यल्पसंख्यायोगिनि पदार्थे व्याप्तावेव 5 वीप्सोपलब्धेति ।
____ अन्ये तु द्वितीयाक्षपदमवधारणार्थमिति मन्यन्ते । अक्षमेव प्रतीत्य प्राप्य यदुत्पद्यते ज्ञानं तत्प्रत्यक्षम् । अथ ज्ञानस्यानुत्पन्नत्वाद् अक्षेण प्राप्तिर्नास्तीति कथमक्षं प्राप्योत्पद्यते ? उपचारस्य विवक्षितत्वाददोषः । यथाहि, शिशुरयं
मातरं भक्षयित्वोपजात इति । अतएवाक्षाश्रितं कार्यमिति, [तत्त्वेन] तज्10 ज्ञानमिति । इन्द्रियरूपादिश्चेन्द्रियाश्रितो न च ज्ञानमिति ।
नन्वेवमपि संशयज्ञानञ्चाक्षं प्रतीत्योत्पद्यत इत्यतिप्रसङ्गः ? तन्न, विद्यासामान्यलक्षणानुवृत्तिस्तु विशेषलक्षणेऽनुक्तेऽपि लभ्यत इति । वक्ष्यति च 'यदवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणमिति । न वितथमवि
तथमित्यनेन विपर्ययसंशयज्ञानयोगुंदासः । वितथं हि संशयज्ञानं विपर्यय15 ज्ञानञ्चेति ।
अन्ये तु प्रतितन्त्रन्यायेन व्यवसायात्मकपदमनुवर्तनीयमिति मन्यन्ते । अव्यपदेश्यमिति, व्यपदेशः शब्दस्तस्येदं व्यपदेश्यम्, न व्यपदेश्यमव्यपदेश्यम् अशब्दजन्यं ज्ञानमिति । नन्वक्षं प्राप्य नोत्पद्यते शाब्दज्ञानमित्यनेनैव
व्यवच्छिन्नम् ? न, इन्द्रियसहकारिणा शब्देन यज्जन्यते तस्य व्यवच्छेदार्थ20 त्वात् । तथाहि, अकृतसमयो रूपं पश्यन्नपि चक्षुषा रूपमिति न जानीते, रूपमिति शब्दोच्चारणानन्तरं प्रतिपद्यत इत्युभयजं ज्ञानम् ।
नन् च शब्देन्द्रिययोरेकस्मिन्नेव काले व्यापारासम्भवादयुक्तमेतत् । तथाहि, मनसाघिष्ठितन्तु श्रोत्रं शब्दं गृह्णाति, पुनः क्रियाक्रमेण चक्षुषा सम्बन्धे
सति रूपग्रहणम् । न च शब्दज्ञानस्यैतावत्कालमवस्थानं सम्भवतीति कथमु25 भयजं ज्ञानम् ? अत्रैका श्रोत्रसम्बद्धे मनसि क्रियोत्पन्ना विभागमारभते,
विभागाच्च यदैव संयोगस्य विनश्यत्ता तदैव शब्दज्ञानस्योत्पद्यमानता, ततः
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरण
१३९
शब्दज्ञानस्योत्पादः, संयोगस्य विनाशः, उत्तरसंयोगस्योत्पद्यमानता ततो विषयसम्बद्धेन चलुषा सह संयोगस्योत्पादो रूपज्ञानस्योत्पद्यमानता, ततः स्वज्ञानसहायशब्दसहकारिणा चक्षुषा रूपज्ञानमुत्पद्यते इत्युभयजं ज्ञानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यद् वा गृहीतस्य शब्दस्यार्थपरिच्छेदे व्यापार इत्ययं नियमो नावश्यं ग्रहणसहकारिणा इति, कालान्तरेणापि मनसश्चक्षुषा सम्बन्धे रूपशब्दस्य गृहीतत्वात् भवत्येवोभयजं ज्ञानम् । कार्यसद्भावेन च कारणकल्पना क्रियते । तच्चेोपलब्धमित्यनेन क्रमेणोत्पत्तिश्चिन्त्यते । तथा शब्देन व्यपदेशाच्चक्षुषा पश्यतापि रूपमिति मया न ज्ञातं रूपशब्दाच्च प्रतिपन्नमित्युभयजं ज्ञानम् । यदि शब्दस्य व्यापारादप्रत्यक्षं तर्हि इन्द्रियव्यापारान्न शाब्दमिति प्रमाणान्तरफलं स्यात् ? नैतदेवम्, प्रत्यक्षलक्षणेऽव्यपदेश्यमिति विशेषणवच्छब्दलक्षणे- 10 निन्द्रियमिति विशेषणाश्रवणात् शब्दे सहकारिनियमा भावः । शाब्दं हि ज्ञानं शब्दादिन्द्रिय सहकारिणः, तद्रहिताद् वा भवतु सर्वथा तज्जनकं शाब्द प्रमाणं भवति ।
अत्र चाक्षं प्रतीत्योत्पद्यते यज्ज्ञानं तत्प्रत्यक्षमिति वाक्ये विवरणवाक्येषु चतुष्टयादिसन्निकर्षाभिधानात् षोढा सम्बन्धो लभ्यत एव । स च संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायो, विशेषणविशेष्यभावश्वेति ।
For Private And Personal Use Only
5
15
नन्वेवमपीन्द्रियार्थसन्निकर्षपदेनैव व्यवच्छिन्नम् । अथेन्द्रियं मनोऽर्थचात्मा तत्सन्निकर्षाद् अनुमानादिज्ञानमपि भवतीति प्रत्यक्षफलं स्यात् ? न, ज्ञानमात्रोत्पत्तावन्तःकरणस्येन्द्रियत्वानुपपत्तेः । करणत्वादिविशेषणस्या - 20 परोक्षज्ञानजनकत्वमिन्द्रियलक्षणमित्युक्तम् । न चानुमानज्ञानमिन्द्रिग्राह्येऽर्थे भवतीति । तदेवमिन्द्रियं प्रतीत्यार्थे यदवितथमव्यपदेश्यं व्यवसायात्मकं ज्ञानमुत्पद्यते, तद् यतो भवति तत् प्रत्यक्षमिति फलविशेषणपक्षः । एतानि त्वव्यभिचारित्वादीनि व्यवच्छेदकानि अतीतेऽपि विशेष्यज्ञाने बुद्धिसमारोपणाद् भवन्तीति ।
सामग्रीविशेषणपक्षे तु न साक्षादव्यभिचारित्वादिविशेषणयोगः । अथा
25
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
१४०
www.kobatirth.org
व्योमवत्यां
क्षमक्षं प्रतीत्योत्पद्यते सामग्री, तस्याः कारकसाकल्यरूपत्वात् । साकल्यन्तु चरमसहकारिप्राप्तावेव न पूर्वमित्युत्पद्यत एव । तथा ज्ञायतेऽनयेति ज्ञानमक्षाद्युपलक्षिता सामग्र्येव अव्यभिचारि, व्यवसायात्मिका, अव्यपदेश्यपदेन ज्ञानजनकत्वेन सामग्र्यास्तद् व्यपदेश इति सामग्रीविशेषणपक्षेऽपि विशेषणयोगः ? सत्यम्, तथापि अव्यभिचारित्वादिविशेषणानि फलस्य, तद्द्वारेण तु सामग्र्या भवन्तीति परं फलविशेषणपक्षः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वरूपविशेषणपक्षस्तु निरस्त एव प्रमाणशब्दस्य करणार्थत्वात् । तथाहि, प्रमीयतेऽनेनेति प्रमाणम्, येन कर्तृकर्मविलक्षणेन प्रमा क्रियते । स्वरूपविशेषणपक्षे तु न जन्यजनकरूपतया प्रमाणस्य प्रामाण्यम्, किन्त्वव्य10 भिचारित्वादिधर्मोपेतत्वेनैव । तच्चातिव्यापकमव्यापकञ्च । तथा च परामर्शादिज्ञानस्याप्येवं रूपमस्ति, न च तस्य प्रत्यक्षत्वम्, अनुमितिजनकत्वेनानुमानत्वात् । साग्र्यास्तु प्रत्यक्षत्वेनाभिमताया: प्रत्यक्षत्वं न लभ्यत इत्यव्याप्तिः ।
सौगतानान्तु प्रमाणफलयोरव्यतिरेक इति तत्पक्षे स्वरूप विशेषणतैव 15 घटते । तथा[हि], सौत्रान्तिकानामाकारः प्रमाणं प्रमेयोऽर्थः स्वसंवित् फलमिष्यत इति ज्ञानं स एव प्रमाणफलव्यवहारः कल्पनं वा । न चैतद् युक्तम्, क्रियाकरणयोरभेदानुपलब्धेः । न च बोधे विषयाकारः सम्भवतीत्यु - क्तम्, कथं तस्य प्रामाण्यम् ? न च मेयरूपतया विषयपरिच्छेद्ये प्रामाण्यं युक्तम्, विषयस्यात्यन्तपरोक्षतया तेन सह प्रतिबन्धानुपलब्धेः । यदि चागृ20 हीत प्रतिबन्धो व्यापारो विषयविशेषं गमयेत् अतिप्रसङ्गः स्यात् । तथा च रूपाकारस्य रूपवद् रसादिव्यवस्थापकत्वमपि स्यात्, उभयत्रापि प्रतिबन्धानुपलम्भस्याविशेषात् । न चाकारमात्रसंवेदन वादिनो विषयविशेषान्तरग्रहणम् आकारे सम्भवति, विषयस्यात्यन्तपरोक्षत्वेऽवस्थितस्य प्रतिसन्धातुरभावे च अन्वयव्यतिरेकयोरत्यन्तपरोक्षत्वात् ।
營
25 परकीयञ्च प्रत्यक्षलक्षणं गुरुभिविस्तरेण निरस्तमिति नोक्तम् । अक्षशब्दस्यानेकार्थत्वादाह अक्षाणीन्द्रियाणि । तानि तु प्राणरसन
*
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१४१ चक्षुस्त्वक्छोत्रमनांसि * न कर्मेन्द्रियाणि पराभ्युपगतानि । निर्विषयज्ञानस्य प्रतिषेधेन स्मृतिव्यवच्छेदार्थमाह * तद्धि * प्रत्यक्षं यस्मात् * द्रव्यादिषु पदार्थेषूत्पद्यते * तस्मान्न निविषयमिति । अत्र च आदिशब्देन गुणकर्मसामान्यानि गृह्यन्ते । समवायोऽपोत्यन्ये ।
अन्ये तु इन्द्रियस्यार्थेन सन्निकर्षप्रतिपादनार्थं तद्धि द्रव्यादिषु पदार्थेष- 5 त्पद्यते, प्रत्यक्षम् । तस्मादस्तीन्द्रियेण संयुक्तसमवायादिसम्बन्धः ।
यतो वा द्रव्यादिषु पदार्थेषत्पद्यते प्रत्यक्षमतो * द्रव्ये तावत् * व्याख्यायत इति । किं विशिष्टे ? * त्रिविधे * तिस्रो विधा यस्य तत् तथोक्तं तस्मिन् । * महति * महत्त्वाधिकरणे * स्वरूपालोचनम् * निविकल्पक ज्ञानमुत्पद्यते । कुतः ? [ * अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षात् *] अनेकद्रव्य- 10 [त्वं ? वत्त्वं] च [उद्भूत रूपञ्च प्रकाशश्च चतुष्टयसन्निकर्षश्चेति तथोक्तस्तस्मात् । * धर्मादिसामग्रथे च * इति । अनेकञ्च द्रव्यञ्चेत्यनेकद्रव्यं तद यस्यास्ति तत्, तद्वत् तस्य भावोऽनेकद्रव्यवत्त्वम् । रूपञ्चात्र रूपविशेषो विवक्षितः । तथा च सूत्रम् 'महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्' (वै० सू० ४।१।६) इति । अपरोक्षज्ञानसद्भावे सति समस्तं 15 व्यस्तञ्चेदं प्रत्यक्षज्ञानस्य कारणं विवक्षितमित्युक्तं वाय्वधिकारे। चतुष्टयसन्निकर्षश्च आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थनेति चतुष्टयसन्निकर्षस्तस्मात् । धर्मादिसामग्रचे चेति आदिपदाद् दिक्कालादेर्ग्रहणमिति ।
अथास्त्वेवं निर्विकल्पकज्ञानोत्पत्तिः । सद्भावे किं प्रमाणम् ? सविकल्पकज्ञानोत्पत्तिरेव । अन्यथा हि विशिष्टार्थानुपलब्धौ विशिष्टस्य सङ्केतस्मरण- 20 स्यानुपपत्तेः सविकल्पकं ज्ञानं न स्यात्, तस्य तत्कार्यत्वात् । न च सङ्केतस्मरणमेव तस्य निमित्तम्, अक्षणिकत्वे सति अर्थस्य निविकल्पज्ञानोत्पत्ताविव सविकल्पकज्ञानोत्पत्तावन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेरित्युक्तन्यायात् ।
सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनःसन्निकर्षात् प्रत्यक्षमुत्पद्यते सद्रव्यम्,पृथिवी, विषाणी, शुक्लो गौर्गच्छतीति ।
25 तदेवं निर्विकल्पकं प्रतिपाद्य सविकल्पकं विशेष्यज्ञानमाह सामान्य
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
व्योमवत्यों
विशेषद्रव्यगुणकर्मविशेषणापेक्षात् इत्यादिना । सामान्यञ्च सामान्यविशेषश्च द्रव्यञ्च गुणश्च कर्म चेति तथोक्तानि । तान्येव विशेषणानि, तान्यपेक्षत इति तदपेक्षः समुच्चये। न केवलं स्वरूपालोचनमात्रमुक्तकारणेभ्यो निष्पद्यते, सामान्यादिविशेषणापेक्षञ्च तत एवोत्पद्यत इति ।
ननु चतुष्टयसन्निकर्षस्यापवादं विना ऊर्ध्वं सर्वत्रानुवृत्तेरभ्युपगमाद् व्यर्थम् आत्ममनःसन्निकर्षस्याभिधानम् ? न, अनन्तरज्ञानेऽप्यस्यासमवायिकारणत्वज्ञापनार्थत्वात् ।
तत्र सदिति सत्ताविशेषणं द्रव्यमिति सामान्यम्, विशेषापेक्षं पृथिवीति, तथा विषाणीति द्रव्यविशेषणम्, शुक्ल इति गुणविशेषणापेक्षम्, गौरिति सामान्यविशेषविशेषणापेक्षम्, गच्छतीति क्रियाविशिष्टं ज्ञानमित्युदाहरणानि ।
रूपरसगन्धस्पशेष्वनेकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्निकर्षान्नियतेन्द्रियनिमित्तमुत्पद्यते । शब्दस्य त्रयसन्निकर्षाच्छोत्रसमवेतस्य तेनैवोपलब्धिः । संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व
स्नेहगत्ववेगकर्मणां प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्यां ग्रहणम् । 15 बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः ।।
गुणादिषु प्रत्यक्षमाह * रूपरसगन्धस्पर्शेषु * विषयेषु अनेकद्रव्येण सह समवायात् । * स्वगतविशेषात् * च, यत् कृता क्वचिद् विषये तेषामुपलब्धिर्यदभावाच्चानुपलब्धिः स उद्भवसमाख्यातो रूपादिधर्मः सहकारिविशेष
स्तस्मात् । * स्वाश्रयसन्निकर्षात् * च । स्वाश्रयेण द्रव्येण संयुक्तमिन्द्रियं 20 तत्समवायात्, धर्मादिसामग्रये च सति प्रतिनियतेन्द्रियनिमित्तमुत्पद्यते
ज्ञानम् । * शब्दस्य त्रयसन्निकर्षात् * इति । आत्मा मनसा संयुज्यते मन इन्द्रियेणेति त्रयस्य सन्निकर्षः । * श्रोत्रसमवेतस्य * इति । इन्द्रियार्थसन्निकर्षोऽप्युपदर्शित एव । तेनैव श्रोत्रणोपलब्धिर्नेन्द्रियान्तरणेति ।
अन्ये तु त्रयश्चासौ सन्निकर्षश्चेतीन्द्रियार्थसन्निकर्षोऽप्युपलभ्यते । 25 तस्माच्छ्रोत्रसमवेतस्य तेनैवोपलब्धिरिति ।
* संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम् *
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१४३ ग्रहणम् । कुतः ? * प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्याम् तत्समवायात् संख्यादीनां ग्रहणमिति । * बुद्धिसुखदुःखेच्छद्वेषप्रयत्नानां द्वयोरात्मनसोः * सन्निकर्षादुपलब्धिः । बुद्ध्यादयो हि आत्मनि समवेतास्तत्सम्बद्धेन मनसा गृह्यन्ते ।
भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकै- 5 रिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम् ।
सामान्ये प्रत्यक्षमाह [* भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम् *] भावश्च द्रव्यत्वञ्च कर्मत्वञ्च तथोतानि, तान्यादिर्येषामित्यादिपदेन पृथिवीत्वोत्क्षेपणत्वादीनां ग्रहणम् । उपलभ्यश्चासावाधारश्च, तत्समवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम् । येन- 10 वेन्द्रियेणाश्रयग्रहणं तेनैव तत्समवेतानां सत्तादीनां ग्रहणमिति । तथाहि, सत्ता द्रव्ये वर्तमाना संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते । गन्धरसरूपस्पशैषु समवेता घ्राणरसनचक्षुस्त्वगिन्द्रियैरुपलभ्यन्ते संयुक्तसमवेतसमवायेन । शब्दे तु समवेतसमवायाच्छोत्रेण । सुखादि तु संयुक्तसमवेतसमवायान्मनसा गृह्यते । गुणत्वमप्येवम् । अतः सत्तायां गुणत्वे च सर्वेन्द्रियं ज्ञानमिति । 15 द्रव्यत्वं संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते । कर्मत्वञ्च संयुक्तसमवेतसमवायात् । रूपत्वादावप्येवं ग्रहणम् । इत्येतदस्मदादीनां प्रत्यक्षम् * इत्युसंहारः ।
अस्मविशिष्टानान्तु योगिनां युक्तानां योगजधर्मानुग्रहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमाणुवायुमनस्सु तत्समवेतगुणकर्मसामान्य- 20 विशेषेष समवाये चावितथं स्वरूपदर्शनमुत्पद्यते । वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद् योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते।
तथास्मद्विशिष्टानां योगिनां केष्वर्थेषु कथञ्च प्रत्यक्षमुत्पद्यत इति व्याख्यायते । तत्र युक्तानां समाध्यवस्थानां योगजधर्मानुगृहीतेन तत्सहकारिणा 25 मनसा अपरोक्षस्वरूपदर्शनं जन्यते। केष्वर्थेषु ? स्वात्मा चात्मान्तरञ्चा
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
व्योमवत्या
काशञ्च दिक् च कालश्च वायुश्च परमाणवश्च मनश्चेति तथोक्तानि तेषु । तथा न परं स्वात्मादिषु संयुक्तेन मनसा योगिनामपरोक्षग्रहणं तत्समवेतेषु गुणकर्मसामान्यादिविशेषेषु संयुक्तसमवायेन, समवाये च संयुक्तविशेषणविशे
ष्यभावेन ग्रहणम् । अतएव समवायस्य पृथगभिधानं विभिन्नसन्निकर्षपरिच्छे5 द्यत्वात् । गुणकर्मसु परमाण्वादिगतेषु यत्सामान्यं तत्र संयुक्तसमवेतसमवायेन।
अथ योगी यदा स्वमन्तःकरणं गृह्णाति तदा किं करणम् ? आत्ममन:संयोगः, तस्मिन् मनःपरिच्छेद्ये मन एव करणमिति । परकीयेन च मनसा सूक्ष्मशरीरस्थं मनः प्रर्यमभिसम्बन्धयति, तत्सम्बद्वञ्च तद्गृह्णातीति ।
वियुक्तानां पुनश्चतुष्टयसन्निकर्षात् * अस्मदादीनामिव प्रत्यक्षमुत्पद्यते ज्ञानम् । केष्वर्थेषु ? सूक्ष्मव्यवहितविप्रकृष्टेषु * इति । सूक्ष्माः परमाणवो व्यवहिता नागभुवनादयो विप्रकृष्टा मेर्वादयस्तेष्वपरोक्षं ज्ञानम् । असमाध्यवस्थानां योगजधर्मानुग्रहसामर्थ्यात् तदुत्पद्यते, योगीन्द्रियाणां हि
धर्मविशेषानुग्रहेण सर्वत्राप्रतिबन्धात् । चतुष्टयसन्निकर्षग्रहणमुदाहरणार्थम्, 15 त्रयसन्निकर्षणापि ग्रहणात् । तथा हि योगी ब्रहमादिभाषितं योगजधर्मानुग्रहादप्रतिबध्यमानसन्तानन्यायेन श्रोत्रदेशमागतं गृह्णाति त्रयसन्निकर्षण ।
ननु सर्वमेतदसत्, योगिनां सद्भावे प्रमाणाभावाद्, बाधकोपपत्तेश्च । तथा च न योगी अतीन्द्रियार्थद्रष्टा प्राणित्वाद् अस्मदादिवत् । योगीन्द्रियाणि
वा न सर्वविषयाणि इन्द्रियत्वाद् अस्मदादीन्द्रियवत् । नैतद् युक्तम्, स्वतन्त्रे 20 योगिनामप्रसिद्धतया प्राणित्वादिहेतोराश्रयासिद्धत्वात् । अथ परव्याप्त्या
परस्यानिष्टापादनमेतत् ? तत्र यदि सम्यक् प्रमाणेन परप्रसिद्धिस्तेनैव बाध्यमानत्वादनुत्थानं तत्प्रतिषेधहेतूनाम् । न च कार्येणैव कारणस्य व्याघातः, तदन्तरेणापक्षधर्मतया तन्मूलस्य हेतोरप्रामाण्यप्रसङ्गात् । अथ प्रमाणं
विनैव परेणाभ्युपगता योगिन इति प्रतिषिध्यन्ते । तर्हि प्रमाणाभावेनैव 25 प्रमेयस्याप्रसिद्धर्व्यर्थं तत्प्रतिषेधानुमानम् ।
अस्ति च योगिनां सद्भावेऽनुमानम् । तथाहि, अस्मदादीनां प्रत्यक्षेणा
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम् नुपलभ्यमानाः परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति । पक्षीकृतेषु परमाण्वादिषु प्रमेयत्वस्य हेतोः सद्भावात् पक्षधर्मत्वम् । तथा कस्यचित् प्रत्यक्षेण साध्येन प्रमेयत्वस्य हेतोघंटादौ व्याप्तेरुपलम्भः । न चास्य प्रत्यक्षागमाभ्यामस्ति बाधा । नायं सत्प्रतिपक्ष इत्यव्यभिचारित्वाद् गमक एव।
सर्वञ्चानुमानं सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तमानं पक्षे विशेष प्रसाधयतीत्यतः कस्यचित् प्रत्यक्षमेव परमाण्वादेः सामान्येन साध्यते। यस्य च प्रत्यक्षाः परमाण्वादयः सोऽस्मदादिविलक्षणो योगी।
तथा अभ्यासवशाद् बुद्धस्तारतम्यमुपलभ्यमानं क्वचिद् विश्रान्तं तारतम्यशब्दवाच्यत्वादणुपरिमाणतारतम्यवत् । यत्र विश्रामस्तेऽस्मदादि- 10 विलक्षणा योगिनः इत्यनुमानस्य तु निर्दिष्टतायां योगिसद्भावसिद्धेः । शेषं वचनमात्रं न बाधकमित्युपेक्ष्यते ।
तत्र सामान्यविशेषेषु स्वरूपालोचनमात्र प्रत्यक्ष प्रमाणं, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिव्यादिविषयं ज्ञानम् । सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्र प्रत्यक्षं प्रमाणम, अस्मिन् 15 नान्यत् प्रमाणान्तरमस्ति, अफलरूपत्वात् ।
तदेवं योगिनामयोगिनाञ्च प्रत्यक्षं व्याख्याय शिष्यव्युत्पादनाय विप्रतिपत्तिनिरासार्थञ्च प्रमाणफलविभागं निरूपयति * तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रम् * इत्यादिना। सामान्यविशेषेषु द्रव्यत्वगुणत्वकर्मत्वादिषु स्वरूपालोचनमात्रम् । आलोचितिरालोचनं निर्विकल्पकं ज्ञानम् । * प्रत्यक्षं 20 प्रमाणम् * तदुपलक्षिता सामग्री प्रत्यक्षं प्रमाणमिति। मात्राभिधानात् ज्ञानान्तराभावं दर्शयति [* प्रमेयाः * इति ।] प्रमीयन्त इति प्रमेयाः प्रमाणपरिच्छेद्या द्रव्यादयः पदार्थाः, प्रमिणोतीति प्रमाधारत्वात् प्रमाता आत्मा, प्रमितिः प्रमाणादिसाध्या प्रतीतिर्द्रव्यादिविषयं ज्ञानं फलम् । इत्येवमितरेतरव्यावृत्तलक्षणयोगित्वात् प्रमाणादयः परस्परं विभिन्ना इति तदभेद- 25 वादिनो निरस्ता भवन्ति ।
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
१४६
www.kobatirth.org
अथ प्रमाणफलयोर्व्यतिरेकाभ्युपगमात् सामान्यविशेषेषु स्वरूपालोचनस्य प्रमारूपत्वादुत्पत्तौ किं प्रमाणमित्याह * सामान्यविशेषज्ञानोत्पत्तावविभक्तम्* विशेषणज्ञानशून्यम्, आलोच्यतेऽनेनेत्यालोचनमात्रम् । इन्द्रियार्थसन्निकर्षा - द्युपलक्षितं कारकसामाग्रयं प्रत्यक्षं प्रमाणं, प्रमेयं सामान्यविशेषा इति । अथ तस्मिन्नपि स्वरूपालोचने कस्मान्न ज्ञानान्तरमिष्यत इत्याह न तस्मिन् स्वरूपालोचनेऽन्यत् प्रमाणान्तरं ज्ञानान्तरमस्तीति, अफलरूपत्वान्निष्प्रयोजनत्वादिति । तथाहि, विशेष्यज्ञानं विशेषणानुरक्तम्, अन्यथानुपपद्यमानं विशेषणज्ञानसत्तां दर्शयति । न चैवं विशेषणज्ञाने विशेषणानुरागोऽस्ति । ज्ञानान्तराभ्युपगमे चानवस्था स्यादिति विशेष्यज्ञानानुत्पत्तिरेव । दृष्टञ्च 10 विशेष्यज्ञानम्, अतो न विशेषणज्ञाने ज्ञानान्तरमस्तीति ।
25
व्योमवत्यां
अन्ये तु 'सामान्यविशेषेषु स्वरूपालोचनमात्रम्' इति मात्राभिधानेन निराकारं प्रत्यक्षं प्रमाणफलमिति ब्रुवते । सामान्यविशेषाश्च द्रव्यादय एवानुगतव्यावृत्तज्ञानविययत्वादुपचारेण विवक्षिताः । अत्र हि ज्ञानविशेषस्याकारप्रतिषेधेऽन्यत्राकारभ्युपगमः स्यात् । शेषं पूर्ववत् । यथा ज्ञाने नाकारः 15 सम्भवति तथोक्तं ज्ञान[ [कार ]वाद प्रतिषेधावसरे ।
Acharya Shri Kailassagarsuri Gyanmandir
*
अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षात् यद् अवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्गुणदोषमाध्यस्थदर्शनमिति ।
* अथवा * इति प्रमाणफलविभागे प्रकारान्तरोपदर्शनम्, न तु विकल्प - 20 नार्थम् । हेयादिज्ञानोत्पत्तावपि द्रव्यादिज्ञानं प्रमाणमिति वाक्यार्थः । तदाह : सर्वेषु पदार्थेषु द्रव्यादिषु : यदवितथमव्यपदेश्यं ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम्, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम् * इति । गुणदर्शनमुपादेयज्ञानम्, दोषदर्शनं हेयज्ञानम्, उपेक्षणीयज्ञानञ्च माध्यस्थ्यदर्शनमिति ।
ननु द्रव्यादिज्ञानोत्पत्तावनेककालव्यवधानेनोपादेयादिज्ञानस्योत्पत्तेः कथं द्रव्यादिज्ञानफलत्वम् ? पारम्पर्येणेति । तथाहि द्रव्यत्वादिजातीयस्य पूर्वं
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४७
सुखदुःखसाधनत्वोपलब्धेस्तज्ज्ञानानन्तरं यद् यद् द्रव्यत्वादिजातीयं तत्तत् सुखसाधनमित्यविनाभावस्मरणम्, तथा चेदं द्रव्यत्वादिजातीयमिति परामर्शज्ञानम्, तस्मात् सुखसाधनमिति विनिश्चयः । तत उपादेयज्ञानम्, अतः पारम्पर्येण द्रव्यादिज्ञानफलत्वम्, समानञ्चैतद्धेयोपेक्षणीयज्ञानोत्पत्तावपीति ।
गुणप्रकरणम्
骆
5
अथोपादेयादिज्ञानस्य सुखसाधनत्वादिविनिश्चयाद् विषयभेदो वक्तव्यः । अन्यथा ह्यनुमानफलत्वमेव स्यात्, प्रत्यक्षफलत्वञ्च सुखदुःखादिसाधनत्वादिविनिश्चयानन्तरमिन्द्रियार्थसन्निकर्षेणोपादेयादिज्ञानस्योत्पत्तेः ? सत्यम्, तथापि विषयभेदो विशेषणभेदात् । सुखादिसाधनत्वविशेषणं सुखसाधनादिज्ञानात्, तस्माच्चोपादेयादिज्ञानमिति ।
लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यक्षानन्तरमुद्देशवतो लैङ्गिकस्य लक्षणपरीक्षार्थमाह लिङ्गदर्शनात्
सञ्जायमानं लैङ्गिकम् इति । यद्यपि लिङ्गदर्शनात् संस्कारो विपर्ययज्ञानं
संशयज्ञानञ्च भवति तथापि विद्यासामान्यलक्षणानुवृत्तौ विशेषलक्षणस्याभिधानान्नातिप्रसङ्गः ।
।
यद् वा अवितथं व्यवसायात्मकमव्यपदेश्यमिति विशेषणमिहाप्यनुवर्तनीयम् । अविनाभावसम्बन्धस्मरणन्तु विद्यारूपलिङ्गदर्शनात् सञ्जायते तद्व्यवच्छेदार्थं द्रव्यादिषूत्पद्यत इत्यनुवर्तनीयम् । तदेवं लिङ्गदर्शनाद् यदव्यभिचारित्वादिविशेषणं ज्ञानमनुमेये तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति । परामर्शज्ञानं वा लिङ्गदर्शनाद् यथोक्तविशेषणज्ञानमुत्पद्यते साधकतमत्वापेक्षयानुमानम् ।
節
For Private And Personal Use Only
लिङ्ग पुनः
यदनुमेयेन सम्बद्धं प्रसिद्धश्च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत् स्यादेकेन द्वितयेन वा । विरुद्धा सिद्धसन्दिग्धम लिङ्गं काश्यपोऽब्रवीत् ॥ किं पुर्नालङ्गमित्याह लिङ्गं पुनः यदनुमेयेन सम्बद्धम् * इत्यादि ।
*
10
15
20
25
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
www.kobatirth.org
25
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
१४८
अनुमेय: पक्ष: [ प्रत्ययाद्यधर्म ? प्रतिपिपादयिषितधर्म] विशिष्टो धर्मी तेन व्याप्त्या सम्बद्धम् । व्याप्तिस्तु विवरणवाक्यसहचरितपदाल्लभ्यते । अन्यथा हि पक्षैकदेशे वर्तमानस्यानुमेयेन साहचर्यं स्यात् । यथा नित्या: परमाणवो गन्धवत्त्वाद् अतोऽस्य व्यवच्छेदः सहचरित पदेन ।
अनुमेयेन सम्बद्धमेवेत्यवधारणाद् भागासिद्धव्युदास इति चान्ये | तदसत्, यत एवकारकरणं ततोऽन्यत्रावधारणमिति न्यायाभ्युपगमेनानुमेय - सम [ धृतं ? व्याप्तं ] स्यात् ( न ?) लिङ्गम् । अनुमेयो हि लिङ्गं न जहातीति व्याप्त्या पक्षे सम्बन्धो ज्ञायते । लिङ्गस्य त्वनवधारणादन्यत्रापि वृत्तिर्ज्ञायत इति व्यर्थं तदन्विते प्रसिद्धमिति पदमवधारणार्थं क्रियते । तत्रापि तदन्विते प्रसिद्धमेवेत्यवधारणाभ्युपगमे सपक्षैकदेशवृत्तेरगमकत्वप्रसङ्गात् । अथ विपक्षवृत्तिप्रतिषेधार्थं तदन्वित एव प्रसिद्धमित्यवधार्यते । नन्वेवमनवधारणेनैव विपक्षाद् व्यावृत्तिसिद्धेः व्यर्थं ' तदभावे च नास्त्येव' इति पदम् । तथानु15 मेयेनैव सम्बद्धमित्यवधारणं बाधितम् । अथ समुच्चीयमानावधारणमेतत् । तथाहि, पक्षे वृत्तौ सिद्धायां विपक्षादेव व्यवच्छेदार्थमवधारणम् तथाप्यवधारणस्य विद्यमानज्ञापकत्वाद् विपक्षादत्यन्तं व्यावृत्तिस्ततोऽपि लभ्यत इति व्यर्थं 'तदभावे च नास्त्येव' इति पदम् । तस्यापि विद्यमानज्ञापकत्वादिति । न चान्वयोपदर्शने सति व्यतिरेकाभिधानम्, व्यतिरेकाभिधाने त्वन्वयस्या20 प्रतिपादनम्, एकाभिधानेनापरस्यार्थादापन्नत्वात् स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्यादित्येवंविधार्थकथनार्थम् ' तदभावे च नास्त्येव' इति वचनमशब्दार्थत्वात्, परार्थानुमानस्य चाप्रस्तुतत्वात्, तत्रैष न्याय इति । तस्मादवधारणं विनैव प्रकारान्तरेण पक्षैकदेशवृत्तिव्युदासो वाच्यः ।
अन्ये तु पुनरिति वीप्साभिधानस्य विवक्षितत्वाल्लिङ्गं पुनः पुनर्यदनुमेन सम्बद्धमिति पक्षे व्याप्तिर्लभ्यत इति ब्रूवते ।
येषान्तु सर्वं वाक्यं सावधारणमिति मतं तल्लक्षणे तद् दूषणमनिवार्यमूह्यम् । यथा,
'अनुमेयेऽथ तत्तुल्ये सद्भावोऽसति नास्तिता'
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
इति । अनुमेयः पक्षस्तत्र सद्भावः, तत्तुल्यः सपक्षस्तत्र चेति । अथशब्दः 'च' शब्दस्थाने। असति विपक्षे नास्तिता व्यावृत्तिर्यस्य तल्लिङ्गमिति । विपक्षस्तु ततोऽन्यः, तद्विरुद्धस्तदभावो वा, त्रिविधोऽप्यसतीत्यनेनावरुद्धः, साध्याभावरूपतायाः सर्वत्र समानत्वात् । तत्रानुमेये एव सद्भाव इत्यवधारणेऽसाधारणस्य गमकत्वप्रसङ्गः । न चास्माद् । भागासिद्धिव्युदासः, पदान्तरवैयर्थ्यञ्च । अथानुमेये सद्भाव एवेत्ययोगव्यवच्छेदः ? तथापि सद्भावस्यानवधारणाल्लिङ्गस्यान्यत्रापि वृत्तिलभ्यत इति व्यर्थं 'तत्तुल्ये सद्भावः' इति पदम् । अथावधारणार्थं क्रियते ? तत्रापि तत्तुल्य एव सद्भाव इत्यवधारणे पूर्वोत्तरव्याघातः । अथ पक्षे वृत्तौ सिद्धायां विपक्षादेर्व्यवच्छेदार्थ[स]मुच्चीयमानावधारणमेतत् ? 10 तथापि 'असति नास्तिता' इति न कार्यम्, अवधारणेन गतार्थत्वात् । न च तुल्ये सद्भाव एवेत्यवधारणं युक्तम्, सपक्षकदेशवृत्तेरपि गमकत्वाभ्युपगमात् । अथ असत्येव नास्तीत्यवधारणार्थं पदम् ? तथापि विपक्षैकदेशवृत्तेर्गमकत्वप्रसङ्गः, तस्य हि विपक्ष एव नास्तितेति । असति नास्त्येवेत्यवधारणम् ? तथापि नास्तिताया विपक्षव्यतिरेकेणान्यत्रापि सद्भावो लभ्यत 15 इत्यसाधारणादेर्गमकत्वप्रसङ्गः । तस्मात् सर्वं वाक्यं सावधारणमिति पक्षे दूषणमेतदनिवार्यम् ।
विस्तरेण चावधारणपक्षोऽस्मद्गुरुभिनिरस्त इति नेह प्रतन्यते ।
अथास्तु अवधारणं विनैव सहचरितपदात् भागासिद्धिव्युदासस्तथाप्येतद्रूपं विरुद्धासाधारणयोरस्तीति तद्व्यवच्छेदार्थं 'प्रसिद्धञ्च तदन्विते' इति । 29 तेनानुमेयसमानधर्मेणान्वितो युक्तस्तस्मिन् तदन्विते प्रसिद्धम् । न चैवं विरुद्धासाधारणाविति । तथाप्यनैकान्तिकस्य पक्षधर्मत्वं सपक्षे सत्त्वञ्चास्तीति 'तदभावे च नास्त्येव' इति पदम् । तस्य साध्यसमानधर्मस्याभावो यस्मिन् धर्मिणि तत्रात्यन्तं नास्त्येवेति । न चैवमनैकान्तिकम् ।
__ नन्वेवमपि प्रकरणसमकालात्ययापदिष्टयोस्त्रैलक्षण्योपपत्तेर्गमकत्वप्रसङ्गः। 25 तथा च अनुष्णस्तजोऽवयवी कृतकत्वात् घटवदिति सत्यपि त्रैलक्षण्ये प्रत्यक्षे
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
व्योमवत्यां
णोष्णताग्राहिणा बाध्यमानत्वात् कालात्ययापदिष्टः । प्रकरणसमस्तावत् नित्यः शब्दः अनुपलभ्यमानानित्यधर्मकत्वात् आकाशादिवत्, अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात् घटवत् । अत्रापि त्रैलक्षण्यसद्भावेऽप्यगमकत्वं
सत्प्रतिपक्षत्वात् । अतश्चानयोर्व्यवच्छेदार्थमबाधितविषयत्वमसत्प्रतिपक्षत्वञ्च 5 समानतन्त्रगतमभ्यूह्यम, 'च' शब्दस्यानुक्तसमुच्चयार्थत्वात् ।
अन्ये तु प्रतिज्ञादोषेण गतार्थत्वान्न कालात्ययापदिष्टो हेत्वाभासान्तरम् । तथा च नित्यानित्यविशेषानुपलब्धेरितरेतरवाद्यभिप्रायेण असिद्धेऽन्तर्भाव इति ब्रुवते। तच्चासत्, प्रतिज्ञादोषसदभावेऽपि हेतोर्दुष्टपक्षोपन्यासानन्तरमुप
न्यासात् कालात्ययापदिष्टत्वमुच्यते । अथ बाधाविनाभावयोविरोधान्न प्रत्यक्षेण 10 त्रिलक्षणस्य बाधा, अभ्युपगमे वा न लक्षण्यमिति, तन्न, तेजोऽवयविनोऽ
नष्णत्वे साध्ये कृतकत्वस्य हेतोस्त्रलक्षण्यसद्भावेऽपि पक्षण विपरीतार्थोपस्थापनाद् बाधितविषयत्वेनाविनाभावस्यैवाप्रसिद्धेः । प्रत्यक्षव्यवस्थापितेन च वपूषा सर्वप्राणभृतामर्थक्रियाजनकोऽग्निर्न रूपान्तरेणेति स्वविषयसहकारि
प्रत्यक्षम्, न चैवमनुमानमिति बाध्यते । 15 अथ दुष्टस्यैवानुमानस्य प्रत्यक्षेणैव बाधनाद् येन दोषेण दुष्टं तदेवास्तु
दूषणमलं प्रत्यक्षबाधया । न, प्रत्यक्षेण दूषणस्यैव ज्ञापनात् । तथाहि, विपरीतार्थमुपस्थापयता प्रत्यक्षेणोपर्दाशतं बाधितविषयमेतदनुमानमिति । अथ कार्यस्यानुष्णत्वे साध्ये तैजसपरमाणूनामुष्णानुष्णत्वे प्रमाणाभावात् सन्दिग्ध
व्यतिरेकित्वेन कृतकत्वस्यागमकत्वं न कालात्ययापदिष्टत्वादिति चेत्, नैत20 देवम्, यो हि परमाणुषूष्णत्वमभ्युपगम्य तत्कार्येऽनुष्णत्वं प्रसाधयेत् तं प्रति
व्यतिरेकनिश्चयोपपत्तेः । न च सन्दिग्धव्यतिरेकस्यापि उष्णपक्षोपन्यासानन्तरमभिधानात् कालात्ययापदिष्टत्वं विरुध्यते । न चायं नियमो यत्रैक दूषणं तत्रान्यन्नास्तीति । यथानेकविशेषणासिद्धत्वादिहेतोरिति ।
__ यच्चेदं तत्त्वानुपलब्धेरितरेतरवाद्यभिप्रायेणासिद्धत्वम् इत्युक्तम्, तदसत्, 25 उभयोः सन्दिग्धत्वात् । तथाहि, सामान्योपलम्भादिसद्भावे सति विशेषानुपल
म्भाद् वादिप्रतिवादिनोः पूर्वमुपजातः संशयः, तत्रैकः सन्दिग्धः परप्रतारणाभिप्रायेण संशय?यितं हेतुमेव धमिनिर्णयार्थमुपादत्ते, तथेतरोऽपि सन्दिग्धः ।
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१५१ तदेवमुभयोः संशयान्नान्यतरस्यापि असिद्धतोद्भावने सामर्थ्यमिति । यदि चान्यतरोऽपि नित्यानित्यविशेषोपलम्भं प्रमाणेन ब्रूयात् तदा असिद्धत्वमेव न प्रकरणसमत्वमिति । न च सन्दिग्धावस्थायां विरुद्धाव्यभिचारिणः प्रयोग इति तस्माद् व्यतिरेकः ? नापि विरुद्धाव्यभिचारी सम्भवतीति वक्ष्यामः ।
तदेवमनयोर्व्यवच्छेदार्थम् अबाधितविषयत्वमसत्प्रतिपक्षितत्वञ्च रूपान्त- 5 रमभ्युपगन्तव्यम् । अन्यथा हि प्रत्य ? व्य] वयवं वाक्यं स्यान्न पञ्चावयवम्, अवयवद्वयस्यैतद्व्यवच्छेदार्थपरत्वादिति ।
__ नन्वेवमपि न्यूनं लक्षणवाक्यम्, केवलान्वयिनः केवलव्यतिरेकिणश्चाव्यापनादिति । अस्ति च तयोः साध्यसाधनत्वम् । तथा च यत्र सामान्यमेव साध्यं तत्र सामान्यमेव हेतुः। यथा अभिधेयो विशेषः प्रमेयत्वात् सामान्य- 10 वदिति । विशेषाणामभिधेयत्वे साध्येऽनभिधेयस्य वस्तुनोऽसम्भवाद् विपक्षाभावः । प्रमाणेन हि विपक्षमुपलभ्य तस्माद् व्यतिरेक वचनेनोपपादयतस्तत्राभिधेयत्वप्रमेयत्वयोः प्राप्तेस्तस्य सपक्षत्वमेव स्यादिति न विपक्षाद् व्यतिरेकोऽस्तीत्यतोऽन्वयाव्यभिचारेणैव गमकत्वम् ।।
तथा जीवच्छरीरं निरात्मकं न भवति, अप्राणादिमत्त्वप्रसङ्गाद्, यद् 15 यद् निरात्मकं तत्तदप्राणादिमद् यथा घटादि, न च तथा जीवच्छरीरम्, तस्मान्निरात्मकं न भवतीति, सर्वस्य निरात्मकत्वाभ्युपगमाज्जीवच्छरीरस्य नैरात्म्यप्रतिषेधे साध्ये न सपक्षोऽस्ति । प्राणादिमत्त्वञ्च विपक्षादेवात्यन्तव्यावृत्तम्, अतो व्यतिरेकाव्यभिचारेणैव गमकत्वम् । न चैवमसाधारणम्, तस्य विपक्षादिवत् सपक्षादपि व्यावृत्तेर्व्यभिचारेणागमकत्वात् । अथ नैरात्म्यप्रति- 20 षेधेनात्र सात्मकत्वं विवक्षितम्, न चात्मा प्रसिद्ध इत्यप्रसिद्धविशेषण: पक्षः, तन्नैरात्म्येऽपि समानम्, अप्रसिद्धत्वादात्मनः कथं तत्प्रतिषेधः ? न च कल्पनासमारोपितस्य प्रतिषेधः, वास्तवत्वेन प्रतिपादनात् । प्रत्यक्षादिप्रमाणेश्च आत्मा प्रतिपादकस्य प्रसिद्धस्तदपेक्षया न अप्रसिद्धविशेषणता पक्षदोषः । प्रतिपाद्यापेक्षया तु नैतद् दूषणम्, अप्रतिपन्नतत्त्वस्य प्रतिपाद्यत्वात् । सपक्षे 25 तु अप्रसिद्धत्वं न व्यतिरेकिणो दूषणम्, तस्य व्यतिरेकाव्यभिचारेणैव गमक
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
१५२ त्वात् । अयं सपक्षाभाव एव सपक्षस्तस्मिन्ननुवृत्तावन्वयोपपत्तिः, व्यावृत्तौ तु । असाधारणत्वमेव । तदुक्तम् ,
निवृत्तिर्यदि तस्मिन्न हेतोवृत्तिः किमिष्यते । सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ॥(प्र.वा.४।२२४) इति ।
अस्यार्थः । तस्मिन् सपक्षाभावे हेतोर्यदि निवृत्ति स्ति, वृत्तिः स्यात्, तद्व्यावृत्तिरूपत्वात् । वृत्तिप्रतिषेधे तु निवृत्तिरेव स्यादिति । न च विधिप्रतिषेधव्यतिरेकेणापरः शाब्दो व्यवहारः सम्भवतीति मूकताप्रसङ्गः । तदेतदसत्, पक्षाभावस्यापि साध्यानधिकरणत्वेन विपक्षत्वात्, तस्माच्च निवृत्तिरेव अप्राणादिमत्त्वादिति हेतोः ।।
न च कल्पनासमारोपितत्वात् पक्षादिव्यवस्थायाः कल्पिते सपक्षे हेतोवृत्तावन्वयव्यतिरेकित्वम्, व्यावृत्तौ त्वसाधारणत्वमिति दूषणम्, वास्तवत्वात् पक्षादिव्यवस्थायाः । कल्पितत्वे तु कथं हेतुतदाभासव्यवस्था, कल्पनायाः सर्वत्राविशेषात् । अथ घटादौ कि सात्मकत्वव्यावृत्त्या प्राणदिमत्त्वव्या
वृत्तिरुत वस्तुस्वाभाव्यादिति सन्दिग्धो व्यतिरेकः । न च घटादौ सात्मक15 त्वस्य सदसत्त्वे प्रमाणमस्ति । नैतदेवम्, प्राणादिमत्त्वस्य कार्यविशेषस्याभा
वेन तत्कारणविशेषस्य सात्मकत्वस्य तत्र व्यावृत्तिप्रसिद्धेः । तथा हि, प्राणादिमति शरीरे प्राणाद्युत्पादनसमर्थात्मसम्बन्धविशेषः सात्मकत्वं साधयति, तदभावस्तु प्राणादिकार्याभावेनैव ज्ञायते घटादाविति ।
नन्वेवं कार्यस्य कारणपूर्वकत्वेनोपल [ म्भ ? ब्ध ] त्वादन्वयोपपत्तेः 20 कथं केवलव्यतिरेकित्वम् ? न, कार्यविशेषेण कारणविशेषे साध्येऽन्वयाभावात् ।
जीवच्छरीरे हि प्राणाधुत्पादनसमर्थात्मसम्बन्धविशेषः साध्यस्तेन चान्वयाभाव एव । यस्य तु सर्वं निरात्मकमिति पक्षः स कथं घटादौ (किं ?) सात्मकत्वं व्यावृत्तं न वेति सन्देहं ब्रूयात् ?
नापि बुद्ध्यादिनिवृत्तावेव प्राणादिनिवृत्तिर्घटादाविति वाच्यम्, आदि25 शब्देन सर्वेषामवरोधात् । तदुत्पादनसमर्थश्च आत्मसम्बन्धविशेषः साध्यस्तद
भावे तु कथं बुद्ध्यादीनामुत्पत्तिः, जीवच्छरीरे कारणाभावेन कार्यस्याभाव
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
प्रसङ्गात् । क्षणिकत्वे च सति कार्यकारणभावः पूर्वं प्रतिषिद्ध इति न बोधाद् बुद्ध्यादीनामुत्पत्तिः । तदेवं प्राणादिकार्यविशेषः कारणविशेषे साध्ये व्यतिकाव्यभिचारेणैव गमक इति ।
ननु शशविषाणादिवच्छरीरं प्राणादिमत्त्वेन साध्यं स्यादिति दूषणम्, तदभावायत्तव्यावृत्तेः प्रतिपत्तुमशक्यत्वादिति । प्राणाद्युत्पत्तौ च कारणत्वाभ्युपगमेन कार्यविशेषव्यावृत्त्या यदि कारणविशेषव्यावृत्तिरिष्यते संज्ञाभेदमात्रं स्यात्, विपर्यये तु स न स्यात् तदभावायत्त प्रतिपत्त्यभाव इत्यलम् ।
नन्वेवं कथमनयोर्लक्षणवाक्येनावरोध: ? वाक्यभेदेन । तथाहि, 'यदनुमेयेन सम्बद्धं विपक्षाभावे च तदन्वित एव प्रसिद्धमिति केवलान्वयी, पक्षधर्मत्वे सति सपक्षाभावात् तदभाव एव नास्त्येवेति केवलव्यतिरेकी । सामान्यलक्षणन्तु 10 सति साधने साध्यस्यावश्यम्भावनियमः, साध्यसाधनत्वमनुमापकत्वपदेनोक्तमिति । लिङ्गभासनिरूपणार्थमाह
• विपरीतमतो यत् स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥ इति ।
अत इत्युक्तरूपाल्लिङ्गाद् यद् विपरीतमेकेन धर्मेण धर्मद्वितयेन, 'वा' शब्दात् त्रिभिश्चेति, तदलिङ्गं लिङ्गप्रतिरूपकमिति काश्यपोऽब्रवीत् । विरुद्धासिद्धसन्दिग्धमिति विशेषसंज्ञानिर्देशः । तत्र धर्मद्वयसद्भावेऽपि सन्दिग्धो न विपक्षाद् व्यावृत्त इत्येकेन धर्मण विपरीतः । विरुद्धस्तु पक्षधर्मत्वसद्भावेऽपि न सपक्षे वर्तते नापि विपक्षाद् व्यावृत्त इति धर्मद्वयेन विपरीतः । असिद्धस्त्वेकेन द्वाभ्यां त्रिभिश्च विपरीतो भवतीति ।
5
For Private And Personal Use Only
15
20
तत्र नित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वादित्येकेन विपरीतः । तथा च, अस्य सपक्षे घटादौ सद्भावेऽपि विपक्षाच्च सामान्यादेर्व्यावृत्तावपि न पक्षधर्मत्वमस्तीति । तथा नित्यः शब्दोऽप्रमेयत्वादिति द्वितयेन विपरीतः, अप्रमेयत्वस्य हि विपक्षादेव व्यावृत्तिर्न सपक्षे सद्भावो नापि पक्ष इति । त्रिभिश्च विपरीतो यथा अनित्यः शब्दः अकार्यत्वादित्यस्य हि न शब्दे पक्षे 25 सद्भावो न सपक्षे घटादौ नापि विपक्षाद् व्यावृत्तिरिति ।
२०
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
व्योमवत्यां
यदनुमेयेनार्थेन देशविशेष कालविशेषे वा सहचरितम्, अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम्, अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रसिद्धार्थस्थानुमापकं लिङ्गं भवतीति ।
पूर्वस्य सङ्ग्रहवाक्यस्य स्पष्टार्थं विवरणमाह * यदनुमेयेनार्थेन * इत्यादि। अनुमेयेन सम्बद्धमित्यस्य विवरणमनुमेयेनार्थेन परिच्छेद्यमानेन सहचरितमजहद्वत्तीति । * देशविशेषे कालविशेषे वा * सर्वस्मिन् देशे सस्मिश्च काल इति । प्रसिद्धञ्च तदन्विते इत्यस्य विवरणम् * अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम् - इति । अनुमेयः पक्षस्तस्य धर्मस्तेन तत्समान
धर्मेणान्वितो युक्तः सपक्षस्तस्मिन् सर्वत्रैकदेशे वा प्रसिद्ध इत्यादि नियमः । 10 तदभावे च नास्त्येवेत्यस्य विवरणम् * अनुमेयविपरीते च सर्वस्मिन् प्रमाण
तोऽसदेव * इति । अनुमेयविपरीतोऽनुमेयधर्मरहितो विपक्षस्तस्मिन् सर्वत्रासदेव, 'प्रमाणतः' इति प्रमाणेन साध्यव्यावृत्त्या साधनव्यावृत्तिर्वाच्येत्युपदर्शयति । 'अनुमापकम्' इत्यस्य विवरणम् यदेतदुक्तरूपं लिङ्ग * तदप्रसिद्धार्थस्यानुमापकम् * भवतीति ।
यत्तु यथोक्तात् निरूपाहिलङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीत तदनुमेयस्याधिग लिईन भवतीत्येतदेवाह सूत्रकारः अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः" इति ।
द्वितीयस्य सङ्ग्रहवाक्यस्य विवरणम् * यत्तु यथोक्तात् त्रिरूपाल्लिङ्गात् * इति । अबाधितविषयत्वात् सत्प्रतिपक्षत्वसहितादेकेन धर्मेण द्वाभ्यां वा 20 धर्माभ्यां त्रिभिश्च विपरीतं तदनुमेयस्याधिगमे कर्त्तव्ये लिङ्ग न भवतीति ।
* एतदेवाह सूत्रकारः, * 'अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्च'' (वै. सू.)इति सूत्रितत्वोपदर्शनम् ।
__'अप्रसिद्धोऽनपदेशः' इति बिरुद्धावरोधः, तस्य सपक्षेऽप्रसिद्धत्वात् । 'असन्' इत्यसिद्धः, तस्य हि पक्षधर्मत्वेनासत्त्वात् । 'सन्दिग्धश्चानपदेशः' 25 इत्यनैकान्तिकसङ्ग्रहः । कालात्ययापदिष्टप्रकरणसमयोश्चाप्रसिद्धपदेनैवावरोधः,
तयोरबाधितविषयत्वासत्प्रतिपक्षत्वेनाप्रसिद्धत्वात् । समानतन्त्रन्यायन वा सङ्ग्रहः ।
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५
गुणवैधयंप्रकरणम् विधिस्तु यत्र यत्रधूमस्तत्र तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीति । एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तरमग्न्यध्यवसायो भवतीति। एवं सर्वत्र देशकालाविनाभूतमितरस्य
लिङ्गम् ।
यथोक्तरूपं लिङ्ग नागृहीताविनाभावस्य गमकमित्यविनाभावस्वरूपोप- 5 दर्शनार्थम् विधिस्तु यत्र यत्र धूमः* इत्यादि वाक्यम् । विधिर्व्याप्तिरविनाभाव इति ।
अथ यदि सामान्ययोरविनाभावः सिद्धसाधनम्, अपास्तविशेषस्य सामान्यस्य सिद्धत्वात्, नियतदेशावच्छेदेन विशेषार्थिनां प्रवृत्तिनिवृत्त्योरभावप्रसङ्गः । न च विशेषयोरविनाभावः, तेषामानन्त्येनाप्रसिद्धस्तदायत्तस्याविनाभावस्याप्रसिद्धेः । [मनुष्य ? अनुक्त धर्माणाञ्च सर्व एव विशेषाः प्रतिपत्तुं न शक्यन्त इति यावतामुपलम्भस्तावत्स्वेवाविनाभावग्रहणे च नागृहीताविनाभावस्य विशेषान्तरस्योपलम्भादनुमानं स्यात् ।
नैतद् दूषणम्, सामान्यवतोरविनाभावग्रहणाभ्युपगमात् । यद्यप्यग्निविशेषा धमविशेषाश्चानन्त्येनावस्थितास्तथापि तेष्वेवावस्थितमग्नित्वं 15 धूमत्वञ्च सामान्यम् उपग्राहकमस्तीति तदुपग्राहकवशाद् भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽप्यव्यभिचारग्रहणम् । तथाहि, प्रातमध्याह्नादिभेदेन कालस्य भेद, समविषमादिभेदन च दशभेद धुमस्याग्निना साहचर्योपलब्धेर्देशान्तरे कालान्तरे च धूमोऽग्नि विनापि भविष्यतीत्याशङ्का न स्यात् । अत एव न कुलालस्य रासभेन व्याप्तिग्रहणप्रसङ्गः, कालान्तरे च तेन 20 विनाप्युपलम्भात् ।
अन्ये तु व्याप्तिग्रहणकाले प्रतिपत्तुर्योगिन इव अशेषविषयं परिज्ञानमस्तीति ब्रुवते । अन्यथा हि सर्वो धूमोऽग्नि विना न भवतीति व्याप्तिस्मरणं न स्यात् । विवेकेन चाप्रतिभासः समानाभिव्याहारात् । यथा धान्यराशिनिक्षिताया धान्यव्यक्तेरिति ।
तदेवं 'यत्र यत्र' इति वीप्सार्थस्य विवक्षितत्वात् * यत्र यत्र धूमस्तत्र
25
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
10
व्योमवत्यां
तत्राग्निरग्न्यभावे च धूमोऽपि न भवतीत्येवं प्रसिद्धसमयस्य गृहीताविनाभावस्य प्रतिपत्तुरसन्दिग्धधूमदर्शनानन्तरं साहचर्यानुस्मरणम् 'यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निरस्तीति साहचर्यानुस्मरणात् * तदनन्तरम् अग्निरध्यवसीयते अनेनेति * अग्न्यध्यवसायः परामर्शज्ञानम् । तस्माच्चाग्नि5 प्रतिपत्तिरिति ।
15
www.kobatirth.org
१५६
*
*
Acharya Shri Kailassagarsuri Gyanmandir
*
अन्ये तु परामर्शज्ञानस्याभावमेव ब्रूवते । तच्चासत्, अविनाभावसम्बन्धस्मरणस्यानियतत्वान्नियतप्रदेशेऽग्निप्रतिपत्तिर्न स्यात् । उपनयवैयर्थ्यञ्च, उपनयार्थस्यानभ्युपगमात् । तस्माद् व्युत्पत्त्या उपचारेण वा 'अग्न्यध्यवसायः ' परामर्शज्ञानं व्याख्येयमिति ।
अन्ये तु कार्यकारणभावात् स्वभावाच्च नियामकादविनाभावग्रहणमिति मन्यन्ते । तच्चासत् । कार्यकारणभावेऽप्यवश्यं भूयो दर्शनबलादेवाविनाभावग्रहणमिति वाच्यम् । अन्यथा हि देशान्तरे कालान्तरे वा अग्नि विनापि धूमो भविष्यतीत्याशङ्का स्यात् । अथाग्निधूमयोः कार्यकारणभावावगतौ कथमग्नि विना धूमस्य सम्भव इत्याशङ्का, तस्य निर्हेतुकत्वप्रतिषेधेनावश्यं स्वकारणादेवोत्पत्तेरिति । सत्यमेतत्, यदि नाम सर्वो धूमोऽग्निकार्यं इति ज्ञानमपि भूयो दर्शनं विना न भवतीति तदभ्युपगन्तव्यम् ।
For Private And Personal Use Only
,
न चाग्नेरसाधारणं कार्यं धूमः, तस्य धुमान्तरादप्युत्पत्त्यभ्युपगमात् । तथा हि गोपालघुटिकादिषु चिरनिवृत्ते वह्नौ धूमक्षणादेव धूमोत्पत्तिरिति कथम् अतत्कार्यस्य धूमस्योपलब्धेरग्न्यनुमानम् ? अथाग्निकार्यस्योपलम्भा20 दनुमानमिति चेत्, न अग्निप्रतिपत्ति विना धूमे तज्जन्यत्वविनिश्चयस्यासम्भवात् प्रतिपत्तौ वा किमनुमानेन ? धूमस्वरूपप्रतिपत्ति वच्चागृहीतानलस्य नारिकेलद्वीपवासिनो धूमेऽग्निजन्यत्वप्रतिपत्तिर्दृष्टा, तथा प्रयोगानुपपत्तेश्च । तथाहि पर्वतस्याग्निमत्त्वे साध्ये कार्यत्वमनैकान्तिकमेव । अथ धूमस्याग्निमत्त्वं साध्येत ? तत्रापि कार्यत्वमनैकान्तिकमेव । धूमत्वे सति कार्यत्वं हेतुः ? 25 तर्हि धूमत्वमेव समर्थमिति व्यर्थविशेष्यता हेतोर्दोषः । न चाग्निकार्यत्वं धूमस्याग्निसम्बन्धात्, पूर्वद्रव्यनिवृत्तावुत्पन्नपाकजैर्द्वयणुकादिप्रक्रमेणोत्पत्तेरित्यलम् ।
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणधर्म्यप्रकरणम्
१५७
तथा वृक्षत्वशिशपात्वयोर्न तादात्म्य प्रतिबन्ध:, [तथाच सति ] साध्य - साधनभावानुपपत्तिप्रसङ्गात् । तथाहि धर्मिण्युपलब्धे तत्तादात्म्यादुभयोरप्युपलम्भे कथं साध्यसाधनभावः ? तदुपलम्भेऽप्यनुपलब्धौ तु तादात्म्यं न स्यादिति । अथ सामान्यविशेषवत्त्वादनुमानस्य समारोपव्यावृत्त्योर्गम्यगमकभावः ? तत्र च तादात्म्यतदुत्पत्योरसम्भव एव । तादात्म्याभ्युपगमेऽपि न साध्यसाधनत्वमेकताप्रसङ्गादिति । तथा उभयोस्तादात्म्याविशेषेऽपि शिशपात्वेन वृक्षत्वस्य प्रतिपत्तिवद् वृक्षत्वेन शिशपात्वप्रतिपत्तिरपि स्यात् ।
Acharya Shri Kailassagarsuri Gyanmandir
न च तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धाभ्युपगमे रूपदर्शनात् स्पर्शानुमानम्, उदयादस्तमयप्रतिपत्तिः, कृत्तिकोदयाच्च रोहि [य? युदया ] नुमानं (न) स्यात्, तादात्म्यतदुत्पत्त्यभावात् । अथ एकसामग्रयधीनतया रूपात् स्पर्शानुमानम् ? तदसत्, समानक्षणयोर्गम्यगमकभावोपलब्धेः । तथाहि, रूपक्षणात् समानकाल: स्पर्शोऽनुमीयते न पूर्वः । तत्र चैकसामाग्रयधीनत्वासम्भव एव । न च रूपस्पर्शयोः परस्परोत्पत्तौ कारणत्वे प्रमाणमस्ति, इतरान्वयस्येतरत्रानुपलब्धेरित्यलमतिप्रसङ्गेन ।
*
एवं सर्वत्र देशकालाविनाभूतमितरस्य * साध्यस्य, * लिङ्गम् इत्युपसंहारः । देशाविनाभूतं यथा केदारगिरिमारोहतां कलकलाशब्दश्रवणादशनिपातानुमानमिति ।
-
For Private And Personal Use Only
*
अथ कार्यादेः कथं लिङ्गत्वम् ? अविनाभूतत्वात् । तथाहि, कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं सद् गमकम् । यथा हि विशिष्टनदीपूरोपलम्भाद् उपरिष्टाद् वृष्टो देव इति । तथा च बहुलस्वरूपफेनफेनिलपर्ण काष्ठादिबहन
5
10
अथ अस्य सूत्रेणासङ्ग्रहः । तथा च सूत्रम् " अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्" ( वै. सू.) । न च कलकलाशब्दोऽशनिपातकार्यः, तदन्तरेणापि स्वकारणादेवोत्पत्तेः । नापि कारण - 20 मशनिपातस्य, प्रतिबन्धकाभावविशिष्टगुरुत्वकार्यत्वात् । उभयोश्चाद्रव्यत्वान्न संयोगित्वम् । परस्परमेकस्मिन्नर्थं समवायाभावात् स्वात्मन्यनारम्भकत्वान्न समवायित्वम् । परस्परविरोधाभावाच्चाविरोधित्वमित्यर्थान्तरत्वम् ।
15
25
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
;
10
15
20
www.kobatirth.org
व्योमdत्यां
१५८
विशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् पुनस्तदुपलम्भे सति युक्तमनुमानम् अयं नदीपूर : वृष्टिकार्य : विशिष्टनदीपू रत्वात् पूर्वोपलब्धनदीपूरवदिति । पूरस्तूभयतटव्यापकोदकसंयोगः, स पारम्पर्येण वृष्टिकार्य इति कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं तल्लिङ्गम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा च विशिष्ट मेघोन्नतिर्वर्ष कर्मण इति । अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात्, कार्याणाञ्च अनियतात् कारणादुत्पत्तेर्व्यभिचारः । तथाहि, मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा । कार्यञ्च अनियतात् कारणादुत्पद्यमानं दृष्टम् । यथा वृश्चिकाद् वृश्चिको जायते, गोमयात्, सर्पाच्चेति । एवमन्यत्राप्यनियतं कारणमभ्यूह्यम् इति कथं कार्यात् कारणविशेषप्रतिपत्तिः, कारणाच्च कार्यविशेषस्येति ? नैतदेवम्, कारणविशेषस्य कार्यंविशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते तस्यापराधो नानुमानस्येत्यदोषः ।
तथा धूमोऽग्नेः संयोगी, अथ संयोगस्योभयनिष्ठत्वाविशेषे कथमेक नियमेन साधनमितरच्च साध्यमिति व्यवस्था ? तदविनाभावेऽपि समानम्, तस्याप्युभयनिष्ठत्वात् कथमेषा व्यवस्था स्यात् ? अथ यस्योपलम्भादनुमेये प्रतिपत्तिस्तदेव साधनं नान्यदिति चेत्, संयोगित्वेऽपि समानमेतत् । अविनाभूतस्यावान्तरविशेषनिरूपणात् ।
समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा अहिविस्फूर्जन विशिष्टो नकुलादेलिङ्गमिति ।
*
?
शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । कस्मात् व्यतिरेकदर्शनात् । तद् यथा अध्वर्युरों श्रावयन् व्यवहितस्य होतुलिङ्गम्, चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि तत्सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् ।
अथ सूत्रे कार्यादिग्रहणमुदाहरणार्थमवधारणार्थं वेत्याह * शास्त्रे कार्यादि -
25 ग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् * । कथमेतज्ज्ञायते ? * व्यतिरेक
दर्शनात्
1 * तद् यथा अध्वर्युरो श्रावयन् व्यवहितस्य होतुलिङ्गम्
For Private And Personal Use Only
營
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१५९ इति । न च होतुरों श्रावयेति शब्द: कारणं कार्य वा, अन्वयव्यतिरेकाभावात् । तथा च होतारं विनैवोपपत्तिः, होतुश्चानेन विनापीति । संयोगादिष्वप्यन्तर्भावानुपपत्तिः । स च यागभूमावेवास्याविनाभावो न च देशान्तरे इति । तथा चायमध्वर्युरपि दूरदेशेन होत्रा तद्वान् ओं श्रावयेति शब्दकर्तत्बात्, पूर्वोपलब्धाध्वर्युवत् । * चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च * 5 लिङ्गम् । समुद्रस्य च वृद्धिरवयवोपचयः, स च स्वावयवेभ्यो निष्पद्यते न चन्द्रोदयात् । कुमुदविकाशोऽप्यवयवानामारब्धकार्याणां परस्परं विभागो द्रव्यारम्भकसंयोगाविरोधिक्रियाकार्य इति । कारणञ्चात्राभिव्यङ्गयस्य जनक विवक्षितं न प्रतिपत्तेः, सर्वेषां कारणभाव एवान्तर्भावप्रसङ्गात् । * शरदिजलप्रसादोऽगस्त्योदयस्य * लिङ्गम् । अस्यापि तत्कार्यादिष्वानान्तर्भाव: । 10 शरदि जलप्रसादोऽगस्त्योदयवान् जलप्रसादत्वात् पूर्वोपलब्धैवंविधजलप्रसादवत् । * इत्येवमादि* इत्यादिपदेनोदयादि| रुदयादेरस्तश्चास्तादे लिङ्गमित्यूह्यम् ।
अथ कथमेषां सूत्रेण सङ्ग्रहस्तदाह * तत्सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवनात् सिद्धम् । तथाहि, इदमस्य गमकम्, 'इदमस्य गम्यम्, इति 15 सामान्येन सर्वलिङ्गपरिग्रहः । विशेषापेक्षया तु 'इदमस्य कार्य' कारणमित्यादि योज्यम् ।
अन्ये त्ववधारणार्थमेतत् सूत्रमिति मन्यन्ते । 'शास्त्रे कार्यादिग्रहणं निदर्शनार्थम्' इति वाक्यमन्यथा व्याख्यायन्ते। तथाहि, तदुक्तं परैः 'व्यतिरेकदर्शनाच्छास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतमिति ज्ञायते' इत्येतन्न, किन्त्व- 20 वधारणार्थं सर्वेषामत्रैवान्तर्भावेन व्यतिरेकदर्शनस्यासिद्धत्वात् । तथा च होतरि सन्निहितेऽध्वर्युरों श्रावयेति शब्दमुच्चारयति यागभूमौ, न तेन विनापि, इति कथं न तस्य कारणत्वम् ? एवं चन्द्रोदयोऽपि समुद्रवृद्धेः कारणमन्वयव्यतिरेकवत्त्वात्, तथा च तेन सता जलनिधेर्वृद्धिर्न तदभाव इति कार्येण मेघपटलान्तरितश्चन्द्रोऽनुमीयते । गृहीतव्याप्तिकस्य देशान्तरेऽपि चन्द्रोदयोपलम्भा- 25 दम्भोनिधेवृद्ध्यनुमानम् । एवं कुमुदविकाशेऽपीति । यद् वा रश्मिद्वारेण
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
10
व्योमवत्यां
20
पक्षद्वये च गुणदोषनिरूपणं स्वत एव कार्यं परीक्षकैरिति ।
तत्तु द्विविधम् दृष्टं सामान्यतो दृष्टञ्च । तत्र दृष्टं प्रसिद्धसाध्ययो5 जत्यभेदेऽनुमानम् । यथा गव्येव सास्नामात्रमुपलभ्य देशान्तरेऽपि सास्नामात्रदर्शनाद् गवि प्रतिपत्तिः । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेय धर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतो दृष्टम् । कर्षक व णिग्राजपुरुषाणाञ्च प्रवृत्तेः फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुदिश्य प्रवर्तमानानां फलानुमानमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
१६०
संयोगित्वमेव । तथा अगस्त्योदयोऽपि जलप्रसादस्य कारणम् संयोगि वा
रश्मिद्वारेणेति ।
盛
भेदमाह * तत् अनुमानम् । द्विविधम् । केन रूपेण ? • दृष्टं सामान्यतो दृष्टञ्च * इति । * तत्र दृष्टं प्रसिद्धसाध्ययोर्जात्यभेदेऽनुमानम् * प्रसिद्धश्च साध्यश्चेति प्रसिद्धसाध्यौ तयोः प्रसिद्धसाध्ययोर्दृष्टान्तदान्तिकयोजत्यभेदे सति यदनुमानं तद् दृष्टम् । यथा हि साध्यधर्मो दृष्टान्तधर्मिणि प्रत्यक्षार्हस्तथा दान्तिकेऽपीति साध्यधर्माभेदो न तु जातेः सामान्यस्य । 15 तथाहि ब्राह्मणकर्तृकं चित्रादिकार्यं प्रतिपद्य पुनः क्षत्त्रियादिकर्तृकस्याप्युपलम्भात् केनचित् कर्त्रा सम्पादितमेतत् चित्रादिकार्यत्वात् पूर्वोपलब्धैवंविचित्रादिकार्यवदित्यनुमानं जातेः सामान्यस्य भेदेऽपि दृष्टमेव, साध्यधर्मस्यानुमानात् पूर्वं ऊर्ध्वञ्च प्रत्यक्षग्रहणार्थत्वात् ।
यथा
अन्ये तु प्रसिद्धौ च तौ साध्यौ चेति प्रसिद्धसाध्याविति समासं कुर्वते । तत्र दृष्टान्तधर्मी प्रसिद्धत्वात् साध्यो न भवति, दाष्टन्तिकश्च न प्रसिद्ध इति कथमेतत् ? उपचारस्य विवक्षितत्वाददोषः । तथा हि दृष्टान्तधर्मा साध्यसमानधर्माधिकरणत्वादुपचारेण साध्यः, दान्तिकस्त्वनुमानादूर्ध्वं प्रसिद्धि यास्यतीति पूर्वमपि प्रसिद्धः । शेषं पूर्ववदिति ।
For Private And Personal Use Only
अस्योदाहरणं यथा गव्येव सास्नामुपलभ्य पुनर्देशान्तरे गोपिण्डव्यवधा25 नेऽपि सास्नादर्शनाद् गवि प्रतिपत्तिः गौरियं सास्नावत्त्वात् पूर्वोपलब्धसास्ना
दिवदिति ।
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
सामान्यतो दृष्टञ्च * प्रसिद्धसाध्ययोः दृष्टान्तदान्तिकयोरत्यन्तं सर्वथा जातिभेदे साध्यधर्मभेदेऽनुमानम् । तथा च साध्यधर्मोऽनमानात् पूर्वमवंञ्च सर्वदा अप्रसिद्ध एवेति । अथ साध्यधर्मस्य भेदेऽविनाभावस्यैवाप्रसिद्धेः कथमनुमानमित्याह * लिङ्गानुमेयधर्मसामान्यानुवृत्तितः * इति । लिङ्गश्च अनुमेयधर्मश्च तयोः सामान्येनानुवृत्तिः, यत्र यत्रेदं साधनसामान्यम्, तत्र 5 तत्रेदं साध्यसामान्यमिति, तद्ग्रहणेऽनुमानं प्रवर्तत एव । यथा कर्षकवणिग राजपुरुषाणां प्रवृत्तेरभिप्रेतफलत्वेन फलवत्त्वमुपलभ्य, वर्णाश्रमिणामपि, किं विशिष्टानाम् ? दृष्टं भिक्षालाभादिकं प्रयोजनमनुद्दिश्य प्रवर्तमानानामभिप्रेतफलानुमानम् । तथाहि, वर्णाश्रमिणाञ्च प्रवृत्ति : अभिप्रेतफलेन फलवती प्रेक्षापूर्वकारिप्रवृत्तित्वात् कर्षकादिप्रवृत्तिवत् ।
10 न च दृष्टप्रयोजनापेक्षया सिद्धसाधनमिनि दूषणम्, दृष्टं प्रयोजनमनुद्दिश्येति पक्षविशेषणेन निरस्तत्वात्। ये तु दृष्टमेवोद्दिश्य प्रवर्तते न ते पक्षीक्रियन्त इति । नाप्यदृष्टफलेन फलवत्त्वं साध्यते येन दृष्टान्तः साध्यविकलो हेतुश्च विरुद्धः स्यात् । किं तर्हि ? सामान्यनाभिप्रेतफलेन फलवत्त्वं साध्यते, तच्च कर्षकादिप्रवृत्तावस्त्येवेति न दृष्टान्तस्य साध्यविकलत्वं विरुद्धत्वं 15 वा हेतोर्दोषः ।
सर्वानुमानेषु समानञ्च विशेषविरुद्धानुमानमित्यनुमानमात्रस्योच्छेदप्रसङ्गः । अथेष्यत एवानुमानस्याप्रामाण्यम् । तथा च सामान्य सिद्धसाधनं विशेषेऽनुगमाभावः । धर्मिणोश्च समुदाये साध्ये न हेतो: पक्षधर्मत्वम्, न चान्वयः समुदायस्यान्यत्रावृत्तेः । अथ समुदायैकदेशेऽपि वर्तमानः समुदाये 20 वर्तत इत्युपचर्यते, तर्हि प्रमाणस्य गौणत्वाद् अनुमानार्थनिश्चयो दुर्लभः । तथा हि, प्रमाणं प्रत्यक्षम्, गौणम् अनुमानम्, (वा) उपचरितपक्षधर्मापेक्षित्वात् । गौणमित्यप्रमाणम् । धर्मस्यापि साध्यत्वेऽन्वयसद्भावेऽपि न पक्षधर्मत्वं समुदायस्यान्यत्र । अथ प्रतिपाद्यमानधर्मविशिष्टो धर्मी साध्यः ? तेन चान्वयाभाव एवेति सर्वमनुमानमप्रमाणम् ।
तदेतदसत, प्रतिपाद्यधर्मविशिष्टस्य धर्मिणः साध्यत्वे पक्षधर्मत्वोपपत्तेः, अन्वयस्तु साध्यसमानधर्मेण । नहि एकत्र देशे हेतोवृत्तिः व्यतिरेकस्तु तदभावे
25
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
१६२
www.kobatirth.org
व्योमवत्यां
1
व्यावृत्तिरिति । लिङ्गोपलम्भाच्च साध्यधर्मिणि प्रतिपत्तेर्दृष्टत्वाद् इत्थम्भूतान्वयपरिकल्पना क्रियते । अनभ्युपगमे [वा? च] व्यभिचारिज्ञानमेव न स्यात्, तत्तु दृष्टमिति विशेषः । विरुद्धेन तु नियतविशेषप्रतिषेधे विशेषान्तरोपगमः स्यात् । समस्तविशेषप्रतिषेधं तु तन्नियतस्य सामान्यस्याप्यसिद्धिः । साधनसामान्यव्यापकं वा अवश्यं [साध्य ] सामान्यं सिध्यतीति । अतः [ साध्य ] सामान्य - स्यैव आक्षिप्तविशेषस्यैव अनुमानात् प्रसिद्धेर्वर्णाश्रमिणां फलन्तु अदृष्टं विशेषातीतमेव सिध्यतीति ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्र लिङ्गदर्शनं प्रमाणम्, अनुमेयं ज्ञानं फलम्, प्रमेयोऽग्निः प्रमाता आत्मा । अथवा अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्य10 दर्शनम् इत्येतत् स्वनिश्चयार्थमनुमानम् ।
*
शिष्यव्युत्पादनाय प्रमाणफलविभागं दर्शयति तत्र लिङ्गदर्शनं प्रमाणम्, अनुमेयं ज्ञानं फलम्, प्रमेयोऽग्निः प्रमाता, आत्मा इति । ननु लिङ्गदर्शनं व्यधिकरणत्वात् कथमग्निज्ञानोत्पत्तौ प्रमाणम् ? व्यापारापेक्षया तद्विषयत्वात् । यथा हि धूमज्ञानं धूमविषयम् आत्मलाभापेक्षया, तथा अग्निप्रति-15 पत्तौ व्यापारापेक्षया अग्निविषयमपीति । स्वावयवसमवेतस्य चक्षुषः समुत्पादे व्यापारापेक्षया रूपविषयत्वमिवेति ।
नन्वेवमेकस्मिन् विषये व्यापारापेक्षया करणादिव्यवस्थानुपपत्तिः ? विभिन्नलक्षणयोगित्वेन तद्भावात् । तथाहि प्रमाधारत्वं प्रमातुर्लक्षणमुक्तम्, एवं प्रमितेविषयः प्रमेयम्, तद्व्यतिरिक्तञ्च प्रमाजनकं प्रमाणम्, तत्साध्यञ्च 20 फलमित्येवं लक्षणभेदादेषां भेद इति ।
*
* अथवा * इति प्रमाणफलविभागे प्रकारान्तरमाह अग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनम् इति । अग्निज्ञाने सत्यविनाभात्रसम्बन्धस्मरणात् परामर्शज्ञानात् सुखसाधनत्वावबोधे सति उपादेयज्ञानम्, दुःखसाधनत्वावबोधे च यज्ञानम्, यस्य नेदं सुखसाधनं नापि दुःखसाधनम् .5 इत्येवं बोधस्तस्योपेक्षणीयज्ञानमिति । अग्निज्ञानफलत्वञ्चोपादेयादिज्ञानस्य पारम्पर्येणेति पूर्ववद् वाच्यम् ।
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संसूचकः ।
गुण वैधकरणम्
* इत्येतत् स्वनिश्चयार्थमनुमानम् इत्युपसंहारः परार्थानुमान
*
Acharya Shri Kailassagarsuri Gyanmandir
शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात् । यथा प्रसिद्धसमस्या सन्दिग्ध लिङ्गदर्शन प्रसिद्ध्यनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति । श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्ष, तद्वचनादाम्नाय प्रामाण्यम्, लिङ्गाच्चानित्यो बुद्धिपूर्वा वाक्यकृतिबुद्धिपूर्वो ददातिरित्युक्तत्वात् ।
,
१६३
अथेदानीं प्रमाणविभागस्य न्यूनतापरिहाराय तत्सामान्यलक्षणस्य व्यभिचारपरिहारार्थं * शब्दादीनामप्यनुमानेऽन्तर्भावः * इत्यादि प्रकरणम् । ननु पूर्वमन्येषामनुमानेऽन्तर्भावस्यानुक्तत्वात् 'अपि' शब्दवैयर्थ्यम् ? न, 10 अनुमानपदेनाभिसम्बन्धात् । न परं प्रत्यक्ष एवं अनुमानेऽप्यन्तर्भाव इति । प्रमाणविभागश्च विद्याविभाग परेणापि वाक्येन पूर्वमुपदर्शित एव । तत्र च शब्दादीनामपि प्रमाणानां सद्भावादनुपपन्नोऽयमित्याशङ्का, तद्व्युदासार्थमन्तर्भावप्रकरणम् । तथा शब्दादेः कारकजातस्यानुमानसामग्रचामन्तर्भावे तत्फलस्यापि फलेऽन्तर्भावो ज्ञायत एव ।
तत्र शब्द आदौ येषां तानि तथोक्तानि अतस्तेषामनुमानेऽन्तर्भावो लक्षणैक्यमिति तद्गुणसंविज्ञानबहुव्रीह्यभ्युपगमे शब्दस्याप्यनुमानेऽन्तर्भावः । अतद्गुणसंविज्ञाने शब्द विना अपरेषामिति ।
*
For Private And Personal Use Only
5
20
3
अन्तर्भावव्यवहारे च * • समानविधित्वात् समानलक्षणयोगित्वादिति हेतूपन्यासः कथं साध्यान्न विशिष्यते ? लक्षणैकत्वस्य तद्व्यवहारादन्यत्वात् । समानो विधिरुपायो लक्षणं येषां तानि तथोक्तानि तेषां भावस्तत्त्वं तस्मादिति । तदेवाह * यथा [ प्रसिद्धसमयस्यासन्दिग्ध ] लिङ्गदर्शनप्रसिद्ध्यनुस्मरणाभ्याम् अतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति । यथा हि गृहीतसम्बन्धस्य लिङ्गदर्शनानन्तरम् अविनाभावसम्बन्धस्मरणं ताभ्यामतीन्द्रियेऽर्थे परिच्छेद्ये भवत्यनुमानम् । अनुमीयतेऽनेनेति परामर्शज्ञानमेवोप- 25 चारेण व्युत्पत्त्या वा तद् विवक्षितम् । ' एवं शब्दादिभ्योऽपीति' दान्तिकव्याख्यानम् ।
15
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
१६४
www.kobatirth.org
20
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
अन्ये तु परामर्शज्ञानस्यासत्त्वमेवेति मन्यन्ते । तच्चासत्, अविनाभाव - सम्बन्धस्मरणस्य अनियतत्वान्नियतदेशे प्रतिपत्तिर्न स्यात्, उपनयवैयर्थ्यञ्चेत्युक्तमतः पूर्वमेव न्याय्यम् ।
अत्र तद्गुणसंविज्ञानपक्षे शब्दस्याप्यनुमानेऽन्तर्भावः । तथा च शब्दश्रवणात् समयानुस्मरणे सति परामर्शज्ञानं तस्मात् परोक्षार्थप्रतिपत्तिरिति । अयं गोशब्दः ककुदादिमदर्थवान् गोशब्दत्वात् पूर्वोपलब्धैवंविधगोशब्दवदिति, सम्बन्धावगमेनार्थंप्रतिपादकत्वाच्च धूमवत् ।
तदेतदसत्, गोशब्दस्य ककुदादिमदर्थवत्तायाः प्रतिपादयितुमशक्यत्वात् । तथाहि शब्दस्यार्थेन अन्यसम्बन्धाभावाद् वाच्यवाचकत्वेनार्थ10 प्रतिपादकत्वे साध्ये गोशब्दत्वमहेतुः प्रतिपादकत्वस्य प्रतिपत्त्यवसेयत्वात्, स्वाभाविकसम्बन्धानुपपत्तेश्च । धूमो हि स्वाभाविकसम्बन्धेन सर्वप्राणभृतामनुमेयार्थप्रतिपादकः, न चैवं शब्दः पुरुषेच्छासम्पादितसमयापेक्षस्यार्थप्रतिपादकत्वात् । स्वाभाविकसम्बन्धे हि विनापि सङ्केतं म्लेच्छादिशब्दश्रवणाद् अर्थप्रतिपत्तिः स्यात् । सङ्केतापेक्षस्य तु अर्थप्रतिपादकत्वे स एवास्तु, 15 अलं नित्यसम्बन्धेनेति । न च नित्यसम्बन्धाभावेऽतिप्रसङ्गः, नैमित्तिकशब्दानां द्रव्यत्वादिनिमित्तसद्भावे सत्येव सङ्केतात्, यादृच्छिकशब्दानान्तु पुरुषेच्छा [नु] विधानादिति । यत्र च विशिष्टानुपूर्वीमत्त्वसद्भावस्तदेव नियमेन वाचकम्, इतरच्च वाच्यमिति व्यवस्था सङ्केतज्ञानस्योभयनिष्ठत्वाविशेषादिति ।
सङ्केतस्तु शब्दाद् वृद्धव्यवहारतश्च प्रतीयते । तथाहि, 'इदमस्य वाचकम्', 'इदमस्य वाच्यम्' इति वाक्यात् सङ्केतप्रतिपत्तिः । वृद्धव्यवहाराद् यथा 'देवदत्त ! गामभ्याज शुक्लां दण्डेन' इति प्रयोगाद् अव्युत्पन्नोऽन्वयव्यतिरेकाभ्यां देवदत्तादिशब्देषु सङ्केतं प्रतिपद्यते । वृद्धव्यवहर्तॄणामपि सङ्केतप्रतिपत्तिरन्यतो व्यवहारादित्यनादित्वं परिहारः । यद् वा आदिपुरुष: 25 साक्षाद्रष्टा केषाञ्चित् सङ्केतकर्ता अस्तीति । वाक्यरूपस्तु शब्दोऽर्थप्रतिपत्तौ समयमपि नापेक्षत इति सम्बन्धबलेनार्थप्रतिपादकत्वमसिद्धम् ।
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् न च शब्दस्यानुमानत्वमेव निषिध्यते, विवक्षाकाश ? योर]धिगमे लिङ्गत्वात् । यथाहि, आकाशाधिगमे सर्वः शब्दोऽनुमानम्, विवक्षाकार्यस्तु विवक्षाधिगमेऽपीति । न च शब्दज्ञानवल्लैङ्गिकज्ञानमाप्तोक्तत्वमपेक्षते । तथाहि, शब्दज्ञाने किमिद सम्यङ मिथ्या वेति संशयोत्पत्तावाप्तोक्तमनाप्ोक्तं चा? वान्वीक्षते, लैङ्गिकन्तु पक्षधर्मत्वादिकमिति व्यतिरेकः ।
तदाह * श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्षः * इति । न च परं लौकिकः शब्दो वक्तृप्रामाण्यमपेक्षते श्रुतिस्मृतिलक्षणोऽपीति ।
ननु वक्तृप्रामाण्येनाम्नायप्रामाण्याभ्युपगमे बहूना मन्योऽन्याश्रयत्वं स्यात् । तथाहि, अर्थप्राप्त्या आप्तोक्तत्वं शब्दे निश्चीयते निश्चयाच्चार्थावबोधे सति प्रवर्तमानस्यार्थप्राप्तिरिति । तथा पौरुषेये वचसि सत्यासत्यत्वो- 10 पलब्धेर्वेदेऽपि पुरुषानुप्रवेशे तदाशङ्कायामप्रामाण्यमेव स्यात् । न च साक्षादतीन्द्रियार्थद्रष्टा पुरुष: सम्भवतीति कथं तद्वाचकानि वचांसि तत्पूर्वकानीति ?
यदि चान्यस्माद् वेदवाक्यादर्थं प्रतिपद्य वचनरचनां कुर्यात्, तस्यापि नित्यत्वेन किञ्चिद् बाधितं स्यात्, अनित्यत्वे तु तत्कर्तुरप्यन्यस्माद् वाक्या- 15 दर्थावबोध इत्यनवस्था स्यात् । न चानित्यत्वं वेदवाक्यानां प्रमाणप्रसिद्धमिति कथं वक्तृविशेषापेक्षं प्रामाण्यम् ?
अर्थप्रतिपत्तौ च शब्दस्य स्वाभिधाशक्तिबलेनैव व्यापारो नाप्तोक्तत्वमपेक्षमाणस्येति । सा च तस्य स्वात्मभूतैव, न पश्चात् परेण सम्पाद्यत इति स्वत एव प्रामाण्यम् । न चाप्तोक्तत्वं शक्यते प्रतिपत्तुं प्रति पक्षा ? बन्धा] 20 देरविषयत्वात् । अप्रामाण्यन्तु दुष्टपुरुषप्रणीतत्वापेक्षमिति परतः ।
तथा सर्वप्रमाणानामपि प्रामाण्ये न परापेक्षिता सम्भवति, स्वकारणेभ्योऽर्थावबोधस्वरूपाणामुत्पत्तेः । यदि चाविद्यमानमर्थपरिच्छेदकत्वं परिनिष्पन्ने विज्ञाने कारकान्तरादुत्पद्यते, प्रतिपद्येमहि परतः प्रामाण्यम्, न चैतदस्तीत्याह,
25
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ।। (श्लो. वा. २।७६)
न च ज्ञानस्यार्थपरिच्छेदकत्वं कारणगुणपूर्वकम्, इन्द्रियेषु तदभावात्, तदाह,
व्यापारः कारकाणां हि दृष्टो जन्मातिरेकतः । प्रमाणेऽपि तथा मा भूदिति जन्म विवक्ष्यते ।। (श्लो. वा. पृ० १५१)
यथा हीन्द्रियाणां जन्मव्यतिरेकणापरो व्यापारो नैवं ज्ञानस्य, अनन्तरमेव फलसम्पादकत्वात् । दृष्टञ्च परेणापि विशेषणादिज्ञानस्य विशेष्यादिज्ञान
जन्मनि प्रामाण्यमिति । अथोपजातमपि ज्ञानं न कारकपरिशुद्धेर्बोधं विना 10 अर्थपरिच्छेदकत्वभाक् ? तहि तत्रापि कारकपरिशुद्धिग्रहणं वाच्यमित्यनवस्था । तदाह,
जातेऽपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत् कारणशुद्धत्वं न प्रमाणान्तरागतम् ।। (श्लो० वा० पृ० ६०) तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत् समा ।। (श्लो० वा० पृ०६०) तस्यापि कारणे शुद्ध तज्ज्ञानस्य प्रमाणता । तस्याप्येवमितीत्थञ्च न कश्चिद् व्यवतिष्ठते ।। (श्लो० वा० पृ० ६१)
अथ विद्यमानमपि प्रमाणस्य प्रामाण्यं न प्रमाणान्तरसंवाद विना प्रमाणव्यवहारकारणम् ? तर्हि प्रमाणपरम्परायामुपक्षीणशक्तविवक्षितज्ञाने 20 प्रमाणव्यवहारो न स्यात् । तदाह,
सम्मत्या यदि चेष्येत पूर्वपूर्वप्रमाणता। प्रमाणान्तरमिच्छन्तो न व्यवस्थां लभेमहि ।। (श्लो० वा० पृ०६८) यदि च कस्यचित् स्वत एव प्रामाण्यमिष्येत परम्, आद्यस्यैवास्तु इत्याह, कस्यचित्तु यदीष्येत स्वत एव प्रमाणता। प्रथमस्य तथाभावे प्रद्वेषः किं निबन्धनः ॥
(श्लो. वा. पृ. ६९)
25
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१६७
प्रथमोत्तरयोः परस्परापेक्षं प्रामाण्यमित्यभ्युपगमे चेतरेतराश्रयत्वं स्यात् । अतः स्वत एव प्रामाण्यम् अप्रामाण्यन्तु परतः । तथाहि, लौकिकानामेव शब्दानामप्रामाण्यम्, पुरुषदोषानुप्रवेशात्, वैदिकानान्तु तदभावादप्रामाण्यशङ्कव नास्तीति ।
अथेन्द्रियाणां काचकामलादिदोषवशादप्रामाण्यं न स्वरूपतः । तथाहि, 5 काचकामलादिदोषसद्भावे सति मिथ्याज्ञानजनकत्वं न तदभाव इति ।
ज्ञप्तौ चावबोधकत्वेन मिथ्यामतेरौत्सर्गिकमानत्वं न निवृत्तमिति बाधकप्रत्ययान्मिथ्यात्वावगतौ व्यावर्तते । न चास्मत्पक्षे शक्तिकाज्ञानेनापि [अ] शुक्तिकाज्ञानस्य बाधायामनवस्था, कारकशुद्धिग्रहणपरम्परा वेति वाच्यम्, अवबोधकत्वेनौत्सर्गिकस्य प्रमाणत्वस्य दोष[?] दर्शनमात्रेणैव 10 [वि ? नव स्थानात् । तदाह,
यदा स्वतः प्रमाणत्वं तदान्यं नैव मृग्यते । निवर्तते च मिथ्यात्वं दोषज्ञानादयत्नतः ।। (श्लो० वा० पृ० ६१) दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका।
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।। (श्लो० वा० पृ० ६४) 15 इत्यनवस्थापरिहारः ।
तदेतत् सर्वविदितार्थम्, सर्वप्रमाणानामुत्पत्तौ ज्ञप्तौ च परापेक्षितोपलब्धेः । तथाहि आप्तोक्तत्वमपेक्षमाणः शब्दोऽर्थे सम्यग् ज्ञानमुपजनयति, न तदन्तरेणेति दृष्टम् । यच्च बहूनामन्योन्याश्रयत्वमुक्तम्, तन्न युक्तम्, आप्तोक्तत्वस्यागृह्यमाणस्यैव शब्दसहकारित्वाभ्युपगमात् । अर्थप्राप्तौ च 20 प्रमाणान्तरेण पश्चात् तद्ग्रहणमिष्यत एव । तथाहि, लौकिकशब्दानामर्थप्राप्त्याप्तोक्तत्वं निश्चीयते । प्रत्यक्षेणापि गृह्यत इत्यन्ये । तथा च श्रोत्रव्यापाराद् वाक्यश्रवणे सति चाणक्योक्तं कालिदासोक्तञ्चैतदित्यबाध्यमान: प्रत्ययो दृष्टः, वैदिकवाक्यानान्तु प्रधानार्थेषु अविसंवादादाप्तोक्तत्वनिश्चयः ।
यदि पौरुषेये वचसि द्वैविध्योपलब्धेर्वेदेऽपि पुरुषानुप्रवेशेऽप्रामाण्यशङ्का 25 स्यादिति दूषणम्, तन्न, तत्कर्तुर्दोषाभावात् । तथाहि, यस्य रागादिदोषोऽस्ति,
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
व्योमवत्यां
5
तद्वचनमेवाप्रमाणमित्युपलब्धम्, वेदकर्तुश्च तत्सद्भावे प्रमाणाभावः । साक्षादतीन्द्रियार्थद्रष्टा पुरुषः सम्भवतीत्युक्तमधस्तात् । अतः 'तद्वचनादाम्नायस्य (वेदराशेः ?] प्रामाण्यम्' इति सूत्रकारेणोक्तम् ।
अथ शब्दस्यानित्यत्वे सत्याप्तोक्तत्वेन प्रामाण्यं स्यात्, तत्तु नास्तीत्याशङ्कयाह * लिङ्गाच्चानित्य [: शब्द:] * (वे० सू०) इति । परं प्रत्यक्षेणोच्चारणात् प्राग ऊर्ध्वञ्चानुपलम्भादनित्यः शब्द इति प्रतीयते, लिङ्गाच्चेति, तत्तु वक्ष्याम: शब्दपरीक्षायाम् । वेदानाञ्चानित्यत्वेऽनुमानम्, अनित्यानि वेदवाक्यानि वाक्यत्वादुभयाभिमतवाक्यवत् । तथा * बुद्धिपूर्वा वाक्यकृतिः * वाक्यरचना, वेदे [बुद्धिपूर्वा वाक्यरचनात्वाद् उभयाभिमतवाक्यरचनावत् । यच्चेदं वेदरचनायाः सर्वदा अन्यथात्वोपलम्भादिति वैधय॑ण प्रत्यवस्थानम्, तत् सर्वानुमानेषु समानमिति । एवं (वेदे ?) * बद्धिपूर्वो ददातिः * [वेदे बुद्धिपूर्वो ददातिशब्द: ददातीत्युक्तत्वाद् उभयाभिमतददातीतिशब्दवत् ।
____ या चेयं पुरुषानुप्रवेशे सत्यप्रामाण्यशङ्का, सा नित्यत्वेऽपि न निवर्तते, 15 श्रोतुः पुरुषस्य तत्राप्यनुप्रवेशात्, तद्वैगुण्येन चाप्रामाण्योपलब्धेः । तथाहि,
श्रोतुरप्रतिभादमिथ्याज्ञानोत्पत्तौ कारण [त्वं तदभावश्च सम्यग् ज्ञानोत्पत्तावित्युपलब्धमेव । न च नित्यत्वं वेदानाम् एकान्तेन प्रामाण्यहेतुः, तद्भावेऽपि श्रोत्रान्तःकरणयोः प्रतिपत्तृदोषानुप्रवेशेन क्वचिदप्रामाण्यात् । ___स्वाभिधाशक्तिबलेनैव शब्दस्य प्रामाण्यमित्यभ्युपगमे च अङगुल्यग्रे करिणस्तिष्ठन्तीत्येवमादेरप्रामाण्यं न स्यात् । अथानाप्तप्रणीतत्वेन विसंवादादप्रामाण्यमेषाम् ? तहि यदाप्तप्रणीतम्, तदेव प्रमाणमिति प्राप्तम् । यथा हि पुरुषगतस्य रागादेरप्रामाण्येऽन्वयव्यतिरेकाभ्यां व्यापारस्तथा तद्गुणादे: प्रामाण्ये पीत्युभयं परतः ।
अभिधानस्य च वर्ण त्विा ? T] नुपूर्वीसङ्केतव्यतिरेकेण अतीन्द्रिया 25 शक्तिर्न विद्यते, तस्याः पूर्वमेव प्रतिषेधात्, वर्णत्वादिसद्भावे च कार्यकरणात्,
स च परत एव प्रतिनियतजातिसम्बन्धस्यादृष्टकार्यत्वात् । सङ्केतस्याप्यन्यत् कारणमुक्तमिति ।
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैधर्म्यप्रकरणम्
यत्तु साक्षाद्दर्शनादिः पुरुषस्य रागादिविनाशे व्याप्रियते न ज्ञानोत्पत्तावित्युक्तम्, तदसत् सम्यग्ज्ञानोत्पत्तावन्वयव्यतिरेकोपपत्तेः । यथार्थद्रष्टा तच्छिष्याणामुपदेष्टा चेति समुदितमाप्तलक्षणं यथार्थोपदेशे हेतुस्तदन्तरेणानुपदेशात् । यदि चान्वयव्यतिरेकवतोऽपि यथार्थदशित्वादे रागादिविनाश एव व्यापारः ? तर्हि रागादेरप्येतद्विनाशकत्वमेवेत्युभयं परतः स्यात् । तस्माद् रागादेरप्रामाण्योत्पत्ताविव यथार्थोपलम्भादेरपि सम्यग्ज्ञानोत्पत्तौ व्यापारोऽभ्युपगन्तव्यः ।
१६९
तथेन्द्रियाणामपि काचकामलादिदोषसद्भावे [sपि ?] मिथ्याज्ञानमेव तदभावे सम्यग्ज्ञानजननादुभयं परतः । परेणाप्यभावस्य कारणत्वमनेकधेष्टम् । यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्तेर्मानसज्ञानोत्पत्तौ पक्षधर्मताद्यनतमापाये च लिङ्गस्य मिथ्याज्ञानोत्पत्तावित्यादि । अथ काचकामलादेर्दोषस्य मिथ्याज्ञानोत्पत्तौ कारणतोपलब्धेः तदभावे तस्यैवानुपलब्धिर्न सम्यग्ज्ञानमिति चेत्, न, अन्वयव्यतिरेकवतोऽकारणत्वेऽतिप्रसङ्गात् [ यदि ? तथा ] च दोषाभावे ऽन्वयव्यतिरेकवानपि न सम्यग्ज्ञानोत्पत्तौ कारणं तत्सद्भावेऽपि न मिथ्याज्ञानोत्पत्तावित्युभयं स्वतः स्यात् । सर्गश्चेन्द्रियाणामुभयरूपस्य 15 कार्यस्योपलब्धेरुभयार्थमिति ज्ञायेत ।
For Private And Personal Use Only
यच्चेदं न कारणगुणपूर्वकं परिच्छेदकत्वं तदिष्यत एव अनुभवज्ञानस्येन्द्रियादुत्पन्नस्यार्थपरिच्छित्तिरूपत्वात् । तज्जनकञ्चेन्द्रियादिकारकं कारकान्तरापेक्षञ्चेति परतः प्रामाण्यम् । कारकसामग्रयन्तु न पश्चाद्भाविनिमित्तमपेक्षत इति । तदपेक्षया तूभयं स्वत इति न मिथ्याज्ञानं परतः स्यात् ।
२२
5
ननु दोषसद्भावे सति इन्द्रियं मिथ्याज्ञानं जनयति, तदभावे च सम्यग् ज्ञानमित्यभ्युपगमाद् उभयाभावे च उभयविकलं विज्ञानं कुर्यादित्येतदचोद्यम्, उभयविकलस्येन्द्रियस्यासम्भवात् । यथा हि पूर्वमसतां दोषाणामुत्पत्तिरूर्ध्वञ्च प्रध्वंस इति नास्त्युभयविकलमिन्द्रियम् । न चोभयविशेष- 20 विकलं ज्ञानत्वसामान्यं सम्भवति, सामान्यवतो विशेषयोगात् । यथा गोत्वसामान्याधारस्य शावलेयादिविशेष इति ।
10
25
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
व्योमवत्यां
10
___ अथ ज्ञातृव्यापारो ज्ञानं तच्च अर्थपरिच्छेदेऽनपेक्षमिति स्वतः ? नन्मिथ्याज्ञानेऽपि समानम् । अथ मिथ्याज्ञानं दोषमपेक्षते ? तहि सम्यग् ज्ञानमपि तदभावाद्यपेक्षत इति । न च ज्ञातृव्यापारः सम्भाव्यते, अर्थप्रति
पत्तेरन्यथाभावात् । तथा हि सर्वं कारकं चरमसहकारिसद्भावे सति कार्य 5 करोतीति न तस्मादन्यो व्यापारः, सद्भावेऽपि नित्यतायां सर्वकार्योत्पत्ति
प्रसङ्गस्तस्यानपेक्षकारणत्वाभ्युपगमात् । अनित्यत्वे तु तदुत्पत्तावपि निर्व्यापारस्य कारणत्वायोगादन्यो व्यापारस्तदुत्पत्तावप्यन्य इत्यनवस्था स्यात् । चरमसहकारिरूपे तु व्यापारे नायं दोषस्तत् सद्भावे कार्यकरणं न तदभाव इति ।
यच्चेदं कारकशुद्धेर्ग्रहणापेक्षितायां दूषणम्, तदपास्तम्, अनभ्युपगमे नेति । अथ प्रमाणस्य प्रामाण्यं विनैव प्रमाणं विज्ञायत इति, तदसत्, सर्वस्य प्रमेयस्य प्रमाणपरिच्छेद्यत्वोपलब्धः। तथा च प्रामाण्यं प्रमाणपरिच्छेद्य प्रमेयत्वाद् घटादिवत् । न चानवस्था, सर्वत्रावश्यं प्रामाण्यग्रहणानभ्युप
गमात् । यत्र हि ज्ञानोदये सति किमिदं सम्यमिथ्या वेति संशयोत्पत्तिस्तत्रैव 15 प्रमाणान्तरापेक्षा, अर्थप्राप्तिपर्यन्तव्यवहारसम्भवे वा अपेक्षाविनिवृत्तेर्नानवस्थादिदोषः ।
यदि च ज्ञानधर्मत्वात् प्रामाण्यस्य स्वसंवेद्यत्वमिष्येत, अप्रामाण्यमप्येवं स्यादिति कथं परतः ? तथा मिथ्याज्ञानोत्पादे न प्रवर्तते मिथ्यात्वस्य प्रतिपन्न
त्वात्, सम्यग्ज्ञानोत्पत्तौ च सम्यक्ताध्यवसाये किमिदं सम्यङ् मिथ्या वेति 20 संशयाद्यभावः ।
यच्चेदम् अवबोधकत्वेन प्रमाणस्य प्रामाण्यं दोषादर्शनमात्रेणैवावतिष्ठत इत्युक्तम्, तत्र यदि दोषादर्शनदोषज्ञानानुत्पत्तिर्न तया प्रामाण्यं ज्ञाप्यते, नापि क्रियत इति कथमनिश्चितस्थितेरवस्थानवचनम् ? अथ दोषदर्शनस्य बाधक
प्रत्ययस्य मिथ्यात्वज्ञापकत्वमिव तदभावज्ञानस्य प्रामाण्यज्ञापकत्वमिष्येत, तर्हि 25 तस्यापि प्रामाण्यमन्यस्माद् विज्ञायत इत्यनवस्था स्यात् । अथ ज्ञानोत्पत्तौ
संशयं विना न सर्वत्र प्रामाण्यग्रहणापेक्षेति परिहारः ? तहि न स्वतः प्रामाण्यम्, उत्पत्तौ ज्ञप्तौ च परापेक्षित्वाभ्युपगमात् ।
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१७१ अथ इन्द्रियादिकारकेषु विद्यमानं सम्यक्त्वं न कारणगुणप्रक्रमेण ज्ञानेषत्पद्यत इति स्वत: ? तदप्रामाण्येऽपि समानम् । तत्रापि हि विपर्ययादिरूपता न इन्द्रियादिषु विद्यमाना जायत इति ।
बोधात्मकप्रमाणापेक्षया तू स्वतः प्रामाण्यं विवक्षितमित्यभ्युपगमस्य चोदनाया वक्तृविशेषापेक्षं प्रामाण्यमित्यभ्युपगमेनाविरोधाद् अविवाद एव स्यात्, 5 अस्य हि समर्थनार्थम् अन्यप्रमाणानां परतः प्रामाण्योपदर्शनात् । न च चोदनायाः स्वतः प्रामाण्याभ्युपगमे, चोदनाजनितं ज्ञानं प्रमाणम्, दोषवजितैः कारकैर्जन्यमानत्वात्, लिङ्गात् प्रत्यक्षबुद्धिवदिति परीक्षार्थ प्रयासो घटते । अथ अपरेषां व्यामोहव्यावर्तनद्वारेण सम्यग्ज्ञानसम्पादनार्थं परीक्षावाक्यम् ? तज्जनितज्ञानेऽपि व्यामोहे सति अन्या परीक्षा स्यादित्यनवस्था। सा चोक्तन्यायेनैव 10 परिह्रियत इति कथं न परतः प्रमाणस्य प्रामाण्यमुत्पद्यते ज्ञायते वेति ।
शेषञ्चात्र दूषणप्रतिसमाधानम् अस्मद्गुरुभिविस्तरेणाभिहितमिति नेहोतम् । अतः शब्दस्याप्तोक्तत्वेन प्रामाण्यान्नानुमानेऽन्तर्भावः ।
अथ शब्दानामर्थन प्रतिबन्धाभावाद् अप्रामाण्यमेव । तथा च दृश्य-- विकल्प्यावर्थावेकीकृत्य तत्समारोपेण श्रोतुः प्रवृत्तिनिवृत्ती इत्युक्तम् । योऽयं 15 विकल्पगत आकारः, स एव बाह्योऽर्थ इति मन्यमान: प्रतिपत्ता प्रवर्तते, न बाह्यार्थप्रतिपत्तौ अर्थदर्शने सति विवक्षाक्रमेण, शब्दोत्पत्तिकालेऽर्थस्य क्षणिकत्वेनातिक्रान्तत्वात् ।
प्रत्यक्षानमानविषय स्या ? ||तिरिक्त विषयाभावाच्च, न शब्द: प्रमाणान्तरम् । तथा हि स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानम् । 20 प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यमिति कथं शब्दोऽर्थान्तरत्वे सति प्रमाणम् ?
यदि चेन्द्रियेण समानविषयः शब्दो भवेदन्धानन्धयोरविशेष: स्यात् । तदाह,
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः । शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥
25 अन्यदेव रूपादिस्वलक्षणमिन्द्रियग्राह्यम्, तस्मादन्यः शब्दस्य गोचरोऽ
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
व्योमवत्या
10
पोह [विषय इति गृह्यताम् । यतः शब्दात् प्रत्येति भिन्नाक्षः प्रध्वस्तनयनः, न तु प्रत्यक्षं यथा भवति तथेक्षते । समानविषयत्वे वा अनन्धस्येवान्धस्यापि शब्दादपरोक्षैव प्रतिपत्ति: स्यात् । तथात्वे इन्द्रियाग्निसम्बन्धादिवद् दाहशब्दादपि दाहार्थप्रतिपत्तिः स्यादित्याह,
अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ।। तस्मान्नेन्द्रियेण समानविषयत्वं शब्दस्य। तथा पदादिशब्दस्य स्वलक्षणविषयत्वे तस्य निर्भागतया शुक्लादिशब्दानामपि पर्यायता भवेत् । अपोहविषयत्वे तु नायं दोषः, विभिन्नानां समारोपव्यवच्छेदपरत्वादिति ।
वास्तवार्थविषयत्वे च शब्दानां पुरुषेच्छावशेन अनियतार्थत्वं न स्यात् । व्यवहारस्तु शब्दान्मया प्रतिपन्नं शब्देन च प्रतिपादयामीति, प्रतिपाद्यप्रतिपादकयोस्तमिरिकद्वयद्विचन्द्रदर्शनवद् भविष्यतीति । यथैकस्तैमिरिकश्चन्द्रद्वयं प्रतिपद्य प्रतिपादयति, अपरश्च प्रतिपद्यते, तथा सर्वत्र व्यवहत्तणामयं शब्दो व्यवहार इति । अथ परीक्षकास्तहि शब्दार्धाध्यवसाये सति मिथ्यात्वं मन्यमानाः प्रवर्तन्ते ? लोकव्यवहारानुसारितया, 'लोकव्यवहारं प्रति सदृशौ बालपण्डितौ' इति न्यायात् । मिथ्याज्ञानस्य चार्थप्रतिपादकत्वं क्वचिदुपलब्धम् । यथा मणिप्रदीपप्रभयोमणिबुद्ध्याभिधावतोमिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।
तदेतदसत्, शब्दादर्थाध्यवसाये सति प्रवर्तमानस्य अर्थाविसंवादेन 29 अक्षजज्ञानवद् अभ्रान्तत्वेन प्रामाण्योपपत्तेः । तथा हि इन्द्रियज्ञानस्यापि
सम्यक्त्वे न अर्थाविसंवादं विना प्रमाणान्तरमस्ति, स च शाब्दज्ञानेऽप्यस्तीति कथमप्रमाणम् ?
प्रतिबन्धोऽपि कार्यविशेषोपलब्धेरिन्द्रियाणामिव शब्दस्याप्यर्थेन वाच्यः । स च वाच्यवाचकालम्बनं सङ्केतज्ञानमेव, अन्यस्यासम्भवात् । तस्य च 25 विशेषाणामानन्त्येऽपि एकसामान्यस्योपग्रहादुपपत्तिरित्युक्तमेव । यदि च
शब्दानामप्रामाण्यम्, प्रमाणादिस्वरूपावबोधार्थ शास्त्रमनर्थकं स्यात्, प्रमाणादिस्वरूपस्य पारम्पर्येणापि तस्मादप्रतीतेः ।
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम् यदि च विवक्षासूचकत्वेनैव प्रामाण्यमिष्येत, तहि सर्ववाक्यानां तत्राव्यभिचारादविशेषेण प्रामाण्ये वादिप्रतिवादिनोविवादे जयपराजयव्यवस्था न स्यात् । अथ यद्वाक्यमर्थप्रतिबन्धां?द्धां विवक्षां सूचयति, तदेव प्रमाणं न सर्वमिति चेत्, न, शब्दवद् विवक्षाणामपि एकान्तेन अर्थप्रतिबन्धाभावात् । तथा च अर्थ दर्शनानुस्मरणक्रमेण विवक्षाकाले नार्थस्यावस्थानमस्तीति । अतो 5 बाह्यार्थाध्यवसाये सत्येव प्रवर्तन्ते न 'दृश्यविकल्प्यावर्थावेकीकृत्य तत्समारोपेण' इति। ___ न च दृश्यस्यानुपलब्धेविकल्प्येनकीकरणं युक्तम्, उपलभ्यमानपदार्थे हि चन्द्रादौ द्वित्त्वादिसमारोपस्यान्यत्रोपलब्धेः, शब्दार्थप्रतिपत्तौ बाधकानुपपत्तेश्च मृषैषा कल्पना।
यच्चेदं विवक्षाक्रमेण शब्दोत्पत्तिकाले नार्थस्यावस्थानमस्तीति, तदपास्तम्, क्षणिकत्वानभ्युपगमेन ।
__ अथ सामान्यविशेषव्यतिरिक्तविषयाभावादप्रमाणत्वं शब्दानाम्, तदसत्, एकान्तेन प्रमाणेषु व्यवस्थानभ्युपगमात् । तथा च, आगमादात्मा प्रतीयते, पुनरुत्पादलिङ्गैः योगबलाच्च प्रत्यक्षतोऽपीति संप्लवः । क्वचिद् व्यवस्था 15 च । यथा आगमस्य मेध्यामेध्यप्रतिपत्तौ, इन्द्रियाणां स्वविषयेष्विति । अतः प्रत्यक्षादिविषयेऽपि शब्दस्य प्रवृत्तेर्न विषयान्तराभावस्तदप्रामाण्ये हेतुरिति । विषयद्वैविध्येन च प्रमाणद्वित्त्वावधारणे दूषणं गुरुभिविस्तरेणाभिहितमिति नेहोच्यते।
__यत्तु शब्दानां स्वलक्षणविषयत्वे अन्धानन्धयोरविशेषप्रसङ्ग इत्युक्तम्, 20 तदसत्, विषयैकत्वेऽपि करणभेदेन प्रतिपत्त्योर्भेदात् । अन्धस्य हि शब्दाद् रूपविषयं विज्ञानमुत्पद्यते, न तु चाक्षुषमिति । यस्य च अपरोक्षं चाक्षुषं विज्ञानमस्ति, असौ अनन्धः । शब्दो हि व्यवहितमप्यर्थं प्रकाशयति, सन्निकृष्टञ्च इन्द्रियम् इत्यनयोविभिन्न प्रतिपत्तिजनकत्वम् ।
यत्तु त्वगिन्द्रियाग्निसम्बन्धादिव दाहशब्दादपि दाहार्थः सम्प्रतीयतेत्यु,- 25 क्तम्, तत्र यदि दाहो दुःखम्, तत्प्रतीयत एव दाहशब्दात् । न चैवं श्रोतुर्दुःखि
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
व्योमवत्या
त्वप्रसङ्गः, दुःखासमवायात् । यस्य हि दुःखं समवेतमुपजातम्, स एव दुःखी, न तु दाहशब्दाद् आत्मनि समवेतं दुःखमुत्पद्यते । किं तहि ? परात्मसमवेतमपि ततो विजानातीति । स्फोटादिलक्षणस्तु दाहस्त्वचोऽग्निसम्बन्धादुपजायते, न दाहशब्दादिति। तस्मादेधाग्निसम्बन्धादुत्पन्नस्फोटादिकार्यस्तजनितदुःखम् आत्मान्तःकरणसम्बन्धाद् अनुभवतीति दुःखीत्यतिदिश्यते । दाहाब्दञ्च अन्यथैव अनुत्पन्नस्फोटादिकार्यो दुःखं परात्मगतं प्रतिपद्यते, इत्यदूषणमेतत् ।
न च स्वलक्षणस्य निर्भागतया शुक्लादिशब्दानां पर्यायत्वप्रसङ्गः, धर्मर्धामणोर्व्यतिरेकान् प्रत्ययभेदस्य भेदलक्षणत्वादित्युक्तम् । तस्माद् भिन्न10 प्रवृत्तिनिमित्तानां शब्दानामेकार्थत्वेऽपि न पर्यायत्वमिति ।
न चापोहः शब्दार्थः, तस्यैवासम्भवादिति वक्ष्यामः । यत्तु वास्तवार्थविषयत्वे पुरुषेच्छावशेन अनियतार्थत्वं न स्यादिति, तदसत्, नैमित्तिकशब्दानां निमित्तवशेन प्रवृत्ते नियतार्थत्वम्, यादृच्छिका
नान्तु पुरुषेच्छावशेन अनियतार्थत्वमिष्यत एव, बाधकानुपपत्तश्च न तैमिरि15 कस्य द्विचन्द्रदर्शनवच्छाब्दो व्यवहारः । तथाहि, तैमिरिकस्य द्विचन्द्रदर्शने
तिमिरोत्पत्तेः प्रागूर्वञ्च बाधकमस्ति, अनुपजाततिमिरस्य तु सर्वदा, न चैवं शब्दव्यवहारे।
यत्तु मिथ्याज्ञानाविशेषेऽप्यर्थक्रियासिद्धिः, यथा मणिप्रदीपप्रभयोरित्युक्तम्, तदपरिज्ञानात् । तथाहि, समीपत्तिनो यन्मणावेव विज्ञानं तदे20 वार्थक्रियाजनकम्, न प्रभायामिति । शाब्दज्ञानन्तु अर्थप्राप्तिपर्यन्तव्यवहारोपलब्धेरिन्द्रियजज्ञानवद् भ्रान्तं न भवतीति ।
न च वास्तवसम्बन्धाभावे शब्दानाम् अश्वशब्दादश्वाध्यवसायो गोशब्दाच्च गव्यध्यवसाय इति विकल्पनियमो घटते, दृष्टश्चासाविति ।
तथाश्वशब्देऽपि सम्बन्धाग्रहे सम्बन्धिप्रत्ययो न स्यादित्यलमतिविस्तरेण । 25 तदेवं तादात्म्यतदुत्पत्तिप्रतिबन्धस्य पूर्वमेव प्रतिषेधात् शब्दानान्तु
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम
१७५ समयवशेनार्थप्रतिपादकत्वाद् उपपन्नम् अनुमानादर्थान्तरत्वे सति प्रामाण्यमिति ।
प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात तदप्यनमानमेव
अथ चेष्टाप्रमाणान्तरमिति केचित्, तनिषेधार्थमाह * प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव * प्रसिद्धोऽभिनयश्चेष्टा कायिको 5 व्यापारोऽर्थविशेषाविनाभूतो यस्यासौ तथोक्तः, तस्य चेष्टया अर्थविशेषे प्रतिपत्तिः । यथा मुखाञ्जलिसंये गाद् विशिष्टात् पिपासाप्रतिपत्तिः, तस्य तया पूर्वमविनाभावोपलब्धेः । तथा च, अयं पिपासान्वितः, विशिष्टमुखाञ्जलिसंयोगवत्त्वात्, तदन्यैवंविधदेवदत्तवत् । अतः पक्षधर्मत्वादिबलेन गमकत्वाद् एतदप्यनुमानमेवेति । एवमन्यापि चेष्टा नाट्यशास्त्रप्रसिद्धा अनुमानेऽन्त- 10 विनीयेति।
आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।
अथोपमानं प्रमाणान्तरमिति केचित्, तनिषेधार्थमाह * आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनाद् उपमानमाप्तवचनमेव * इति । आप्तेन प्रसिद्धगोगवयसारूप्येण[अ]प्रसिद्धगवयस्य गवा गवयप्रतिपाद- 15 नादिति । यथा गौरेवं गवय इत्युपमानमिष्टम् । तद् आप्तवचनमेव न प्रमाणान्तरमिति । न चास्य उपमारूपत्वात् प्रमाणान्तरत्वम्, विध्यर्थवादादिभेदेनापि प्रमाणानन्त्यप्रसङ्गात् । अथ सत्यप्यवान्तरभेदे नामीषाम् आप्तोपदेशाद् भेदः, तदुपमानेऽपि समानम् ।
अथ वाक्यादुपलब्धसादृश्यस्याटव्यामटतो गवयार्थिनो मदीया गौरनेन 20 सदृशीति ज्ञानमुपमानम्, असदेतत्, फलाभावात् । अज्ञाननिवृत्तिः फलमित्युक्तम्, निवृत्तेः प्रध्वंसत्वात् । तथाहि, यदि ज्ञानानुत्पत्तिः, विपरीतं वा ज्ञानमज्ञानम् उभयथापि तन्निवृत्तिः प्रध्वंस एव । प्रमाजनकञ्च प्रमाणम् । न च हेयादिबुद्धयः फलम्, तदपाये सति कालान्तरेण सुखदुःखादिविनिश्चयानन्तरमुत्पत्तेः । न च सादृश्यस्य प्रमेयत्वम्, तज्ज्ञानस्याफलत्वात् । अभ्यु- 25 पगमे वा अन्यत् प्रमाणं वाच्यमिति ।
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
व्योमवत्यां
अथ गवयज्ञानमुपमानं मदीया गौरनेन सदृशीति ज्ञानफलम्, सादृश्यावच्छिन्नः पिण्डः, तदवच्छिन्नं वा सादृश्यं प्रमेयमिति । न चेदं ज्ञानमिन्द्रियजम्, अटव्यां व्यवस्थितस्य गृहावस्थितपिण्डविषयत्वेनोत्पत्तेः । न चानुमानजम्, लिङ्गव्यापारानुपलब्धेः । गोसादृश्यन्तु गवये गृह्यमाणमप्यसिद्धम्, 5 व्यधिकरणत्वात् । तथा च मदीया गौरनेन सदृशी, अस्य तत्सदृशत्वाद् इति व्यधिकरणतैव । अनुपपद्यमानस्यार्थस्याभावाद् नार्थापत्तिजम् । शब्दं विनाप्युत्पत्तेर्न शाब्दम् । अभावस्य च नियतविषयत्वम् । न चेदं स्मरणम्, गवयसादृश्यस्य गोपिण्डे' पूर्वमननुभूतत्वात् । अतः प्रमाणान्तरफलमेतदित्या
शयः परस्य ।
10
www.kobatirth.org
१७६
25
यदि च गोसादृश्यावच्छिन्नं गवयपिण्डम् इन्द्रियार्थसन्निकर्षादेवोपलभ्यते, तदा प्रत्यक्ष फलमेव, न प्रमाणान्तरफलम् । तत्र किं स्मरणापेक्षमिन्द्रियमेवं ज्ञानं जनयति, अनपेक्षं वा ? अनपेक्षस्य ज्ञानजनकत्वेऽप्रसिद्धगोपिण्डस्य स्मरणेऽप्येतत् स्यात् । अथ पिण्डमात्रस्मरणे, अश्वादिपिण्डस्मरणे [s] स्यात्, अथ गवयसादृश्यावच्छिन्नस्मरणापेक्षं जनकम्, तत्रापि यदि स्मरण15 मात्रमपेक्षेत, गजादिस्मरणेऽपि स्यात् । अथ गोपिण्डस्मरणापेक्षम्, तत्रापि किं गोपिण्डमात्रस्मरणमपेक्षते, गवयसादृश्यावच्छिन्नं गोपिण्डस्मरणं वा । गोपिण्डमात्रस्मरणेऽश्वादिपि [ण्डस्मरणेऽपि ? ण्डेऽपि ] स्यात् । गवयसादृश्यावच्छिन्नगोपिण्डस्मरणापेक्षित्वे पूर्वमेवानुभवो वाच्यस्तदन्तरेण संस्कारानुत्पत्तेः स्मरणस्यैवाभावात् । अतः सविकल्पकज्ञानाभावेऽपि गवयसादृश्यावच्छिन्ने 20 गोपिण्डे पूर्वमनुभवोऽभ्युपगन्तव्यः । येन हि संस्कारोत्पत्तौ स्मरणाद् मदीयया गवा सदृशोऽयं गवय इति ज्ञानं स्यात् । पूर्वञ्च गवयसादृश्यावच्छिन्नगोपिण्डेऽनुभवप्रसिद्धौ गवयोपलम्भाद् मदीया गौरनेन सदृशीति कथमेतत् स्मरणं न स्यात् ? तथा पृष्टो ब्रवीति एतत्सदृशी मयोपलब्धा, न तु प्रमाणान्तरं निर्दिशतीति मन्यमानः प्रशस्तो भगवान् अन्तर्भावमाहेति ।
Acharya Shri Kailassagarsuri Gyanmandir
अन्ये तु यथा गौर्गवयस्तथेति वनेचरवाक्यात् सादृश्योपलम्भे सति उपजातसंस्कारस्याटव्यां परिभ्रमतो गोशादृश्यावच्छिन्नगवयदर्शने सति अविनाभावसम्बन्धस्मरणानन्तरं तथा चायं गोसदृश इति ज्ञानमुपमानं
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७
गुणवैधर्म्यप्रकरणम् मन्यन्ते। तस्माच्चानन्तरं गवयना [मे ? मायमि]ति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः। फलं संज्ञासंज्ञिरूपम्, संज्ञावच्छिन्नो वा पिण्ड: प्रमेयमिति । न च वाक्यादेव सङ्केतप्रतिपत्तिर्गवयपिण्डस्य परोक्षत्वात्, 'प्रत्यक्षं संज्ञाकर्म' (वै० सू०) इति सूत्रव्याघाताच्च ।
न युक्तमेतत्, वाक्यादेव सङ्केतस्य प्रतीतत्वात् । तथाहि, सादृश्य- 5 वाक्यस्यायमर्थो यो गोसदृशः, स गवय इत्येवं व्यवहर्तव्यः । स च वाक्यादुपलब्धसङ्केतः सादृश्यावच्छिन्नं पिण्डमुपलभमानः परं व्यवहरति 'अयं गवयः' इति, न तु सङ्केतं प्रतिपद्यते प्रतिपिण्डम्, अन्यत्रापि सङ्केतप्रसङ्गात् । तथाहि, यत्र यत्र गोत्वं पश्यसि, तत्र तत्र गोशब्द: प्रयोक्तव्यः, तस्माच्च असावर्थः प्रतिपत्तव्य इति सङ्केतग्रहे सति गोपिण्डोपलम्भादयं गौरिति प्रतिपद्यते, न तु 10 गोना [ मे ? मायमि] ति, व्यवहाराभावप्रसङ्गात् । न तु सूत्रव्याघातः, प्रत्यक्षशब्दस्य दृढप्रमाणोपलक्षणत्वात् । दृढप्रमाणपरिच्छिन्नेऽर्थे संज्ञा प्रवर्तते । यथा देशान्तरव्यवस्थितोऽपि पिता स्वपुत्रस्य नाम करोति 'यज्ञदत्त नामासौ' इति ।
___ अथ जातिशब्दस्य प्रत्यक्ष एवार्थे सङ्केतः, न, अतीन्द्रियेषु असङ्केत- 15 प्रसङ्गात् । दृष्टञ्च मनः शब्दस्यातीन्द्रियेऽपि मनसि दृढप्रमाणपरिच्छिन्ने सङ्केतः । तथा अयं गवय इति कथं पुनर्भवान् जानातीति परेण पृष्टो वनेचरेण ममाख्यातमिति वचनमेव निर्दिशति, न तु सादृश्यात् प्रतिपन्नमिति । कारकेण च व्यपदेशः । यथा चक्षुषा प्रतिपन्नमनुमानाच्च प्रतिपन्नमिति, तथा निर्विषयवाच्यप्रमाणमुपमानम् । अथास्ति संज्ञासंज्ञिरूपं प्रमेयम्, न, 20 सम्बन्धप्रतिपत्तेः फलत्वे सम्बन्धिनः प्रमेयत्वानुपपत्तेः । अथ सम्बन्ध इव सम्बन्धिनः प्रतिपत्तिरेव उभयनिष्ठतया उपचारेणाभिधीयते । तथापि न संज्ञासंज्ञिरूपं प्रमेयम्, संज्ञायास्तदभावात् । अथ स्वयमुच्चार्य शब्दं प्रतिपद्यते, न, विवक्षाक्रमेण शब्दोत्पत्तिकाले सादृश्यज्ञानस्य प्रमाणस्यासम्भवात् । अथ जगतो विस्तीर्णतया क्वचिदुत्पन्नो गवयशब्दः प्रमेयः, न, तस्याश्रूयमाणस्य 25 प्रमेयत्वानुपपत्तेः । अथ अप्रतिबन्धन्यायेन दूरस्थस्यागमने ब्रह्मभाषितस्यागमनं स्यात् ।
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
व्योमवत्यां
न च सन्निहितः क्वचित् तदैव शब्दमुच्चरति, असंवेदनात् । अथ स्मृतिसमारोपितस्य गवयशब्दस्य प्रमेयत्वम्, न, तत्कल्पनायां कारणाभावात् । सादृश्यज्ञानानन्तरं अयं गवयनामेति प्रतिपद्यते, न चान्तराले तत्स्मृतेरनुप्रवेशे प्रमाणमस्तीति । संज्ञावच्छिन्नस्य तु पिण्डस्य प्रमेयत्वेन सम्बन्धज्ञानं स्यात्, तस्योभयालम्बनत्वादिति । तथा परेणापि अनुमानादुपमानस्य भेदमुपदर्शयता 'यथा तथेत्युपसंहारादुपमानसिद्धर्ना विशेषः' इति वाक्यरूपमुपमानमिष्टमेव । तस्य चागमेऽन्तर्भावा न दोषायेति ।
কালাগিনিংহলুখাললল।
अथ अर्थापत्तेरनुमानेऽन्तर्भावार्थं * दर्शनार्थाद] पत्तिस्तदप्यनुमान10 मेव * इति वाक्यम् । दृश्यत इति दर्शनं तस्मादुपलभ्यमानादर्थादन्यथानुप
पद्यमानाद् अर्थस्याप्तिः प्राप्तिः प्रसङ्ग इति । तदुक्तम्,
प्रमाणषटकविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्या सार्थापत्तिरुदाहृता ।।
(श्लो. वा. ४५० पृ०) 15 इति षड्भेदा अर्थापत्तिः । तत्र प्रत्यक्षपूर्विका तु यथा स्फोटादिलक्षणं
कार्यमुपलभ्य तदन्यथानुपपत्त्या वह्नदाहिका शक्तिः प्रतीयते । न चात्र प्रमाणान्तरेण अविनाभावग्रहणम्, शक्तेः प्रमाणान्तरागोचरत्वात् । अनुपलब्धाविनाभावञ्च लिङ्गं न भवत्येव । अतः प्रमाणान्तरमेतत् ।
अनुमानपूर्विका तु यथा धूमादग्नि प्रतिपद्य तदन्यथानुपपत्त्या तद्विशेष20 प्रतीतिरिति । उपमानपूर्विका च यथा अटव्यां गवयदर्शनान्तरं मदीया गौरनेन
सदृशीति गां प्रतिपद्य तदन्यथानुपपत्त्या वाहदोहादिसामर्थ्यप्रतिपत्तिः । अर्थापत्तिपूर्विका तु रूपोपलम्भान्यथानुपपत्त्या अवगतस्य चक्षुषः परिच्छेदिका शक्तिः प्रतीयत इति । आगमपूर्विका तु जीवति देवदत्ते गृहे नास्तीति
वाक्याद् गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः । न च 25 बहिर्भावाविनाभूतं किञ्चिल्लिङ्गमस्तीति प्रमाणान्तरफलमेतत् ।
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधम्यप्रकरणम्
१७९
अभावपूर्विका तु यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या देवदत्तस्य गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्देशसम्बन्धः प्रतीयते ।
अन्तर्भावमाह * तदप्यनुमानमेव * न प्रमाणान्तरम् । तथा च स्फोटादिकार्येण अग्नेरतीन्द्रिया शक्तिः प्रतीयते, इत्यसदेतत्, तस्याश्चरमसहकारिव्यतिरेकेण पूर्वमेव प्रतिषेधात् । प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एव 5 अग्नेः शक्तिः, तत्सद्भावे कार्यकरणात् । अग्नित्वन्तु निजा शक्तिः, सापि प्रत्यक्षैव । यच्चानुमानात् सामान्यावबोधे सत्यापत्तितो विशेषावबोध इति, तदपास्तमेव, सामान्यविशेषस्य साध्यत्वादिति वदता। उपमानस्य तु स्मरणादभेदेऽपि तत्पूर्विकार्थापत्तिरनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात् । तथा च सादृश्यावच्छिन्नो गोपिण्डो वाहादिसमर्थः, तत्पिण्डत्वात् पूर्वोपलब्धवंविध- 10 गोपिण्डवत् । अर्थापत्तिपूर्विकापि अर्थापत्तिरनुमितानुमानमेव । तथा च रूपोपलब्धिः करणकार्या क्रियात्वात्, छिदिक्रियावदिति । चक्षुः प्रसिद्धम्, तच्चानुमितं शक्तिमत् करणत्वात् वास्यादिवदिति ।
या चेयं जीवति देवदत्ते गृहे नास्तीत्यन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः, साप्यनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात्। तथाहि देवदत्तो बहिर्देशसम्बन्धी 15 जीवनसम्बन्धित्वे सति गृहेऽनुपलभ्यमानत्वाद् विष्णुमित्रवत् । जीवनसम्बधित्वञ्च देवदत्तस्य अर्थापत्तिवादिनापि आगमादेव प्रतिपत्तव्यम्, अन्यथा अर्थापत्तिर्न प्रवर्तत । समानञ्चैतदभावपूविकायामप्यर्थापत्ताविति।
प्रमाणपञ्चकाभावेनापि जीवतो देवदत्तस्य गृहेऽसत्त्वप्रतिपत्तौ बहिर्देशसम्बन्धोऽनुमीयते । एवमन्यदप्युदाहरणमर्थापत्तेरविनाभावोपदर्शनेन अनुमान 20 एव अन्तर्भावनीयम्, तथोत्पत्ति विना अन्यथानुपपत्तेरुपदर्शयितुमशक्यत्वादिति।
अथ विरोधिनः सादेविस्फूर्जनादिशब्दश्रवणाद् तदनुमितौ विरोधिन्येव नकुलादौ प्रतिपत्तिः प्रमाणान्तरमिष्टं कैश्चित् । तदनुमितानुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात् । प्रयोगस्तु विस्फूर्जनशब्दो भुजङ्गकार्यो विस्फूर्जन- 25 शब्दत्वात् पूर्वोपलब्धैवंविधविस्फर्जनशब्दवत् । एवमनुमितः सर्पः सन्निहितेन विरोधिना तद्वान्, विस्फूर्जनशब्दकर्तृत्वात् पूर्वोपलब्धैवंविधाहिवदिति ।
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
व्योमवत्यां
सम्भवोऽप्यविनामावित्वादनुमानमेव ।
सम्भवः प्रमाणान्तरमिष्टं परैः । तनिषेधार्थं * सम्भवोऽप्यविनाभावित्वादनुमानमेव * इति वाक्यम् । यत्र हि सहस्रं तत्रावश्यं शतं] सम्भव
तीत्यविनाभावस्य ग्रहणात् । तथा च सहस्रं स्वसमुदायि शतवत् सहस्रत्वात् 5 पूर्वोपलब्धसहस्रवत् ।
अभावोऽप्यनुमानमेव । यथा उत्पन्न कार्य कारणसद्भावे लिङ्गम्, एवमनुत्पन्न कार्य कारणासद्भावे लिङ्गम् ।
कार्यानुत्पादेन कारणाभावः प्रतीयत इत्यभावरूपतयैव प्रमाणान्तरमिति केचित् । तनिषेधार्थं न परं सम्भवः * अभावोऽप्यनुमानमेव * इति । * यथा 10 उत्पन्न कार्य कारणसद्भावे लिङ्गम् * अविनाभावस्य पूर्वमेव ग्रहणात्, तथा
* अनुत्पन्न कार्य कारणासद्भावे * कार्यानुत्पादस्य कारणाभावेनाव्यभिचारात् । तथा च कार्यानुत्पत्तिः कारणाभाववती कार्यानत्पत्तित्वाद् उभयाभिमतकार्यानुत्पत्तिवत् ।
अथ सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या वस्तुनोऽभावस्य ग्रहणमिति 15 प्रमाणान्तरमभावः । यथा हि, भावांशपरिच्छेदे भावस्य व्यापारस्तथा तदभावपरिच्छेदे अभावस्याप्यभ्युपगन्तव्यः । तदुक्तम्,
प्रत्यक्षाद्यवतारस्तु भावांशो ग्रह्यते यदा। व्यापारस्तदभावस्याप्यभावांशे जिघृक्षते ।।
(श्लो० वा० पृ० ४७८) 20 तथा हि, न प्रत्यक्षेणाभावस्य ग्रहणम्, तेन सम्बन्धाभावात् । सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिना ।
(श्लो० वा० पृ० १६०) प्रत्यक्षाभावादनुमानस्याप्य[प्रवृत्तिः, तस्य सम्बन्धिग्रहणापेक्षित्वात् । __ एवं शब्दस्यापि । उपमानार्थापत्त्योश्चाव्यापारात् प्रमाणपञ्चकाभावेनैव 25 प्रमेयाभावस्य ग्रहणमिति । तदुक्तम्,
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्रामावप्रमाणता ।।
(श्लो० वा० पृ० ४७३) नन्वेवं तहि व्यवहितेऽप्यर्थे प्रमाणपञ्चकव्यावृत्तेः सद्भावादभावग्रहणप्रसङ्ग: ? न, वस्तुग्रहणप्रतियोगिस्मरणादेरपि व्यापारात् । तदुक्तम्,
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ।।
(श्लो० वा० पृ० ४८२) वस्तुनो भूतलादेः सद्भावं गृहीत्वा प्रतियोगिनं घटञ्च स्मृत्वा इन्द्रियव्यापार विनैव मनसा प्रतिपद्यते नेह भूतले घटोऽस्तीति । तथा देवकुलं दृष्ट्वा 10 बहिनिर्गतो हस्तिना] देशान्तरव्यवधानाद् इन्द्रियसम्बन्धं विनापि परेण पृष्टस्तदैव हस्तिनः]नास्तितां प्रतिपद्यते । तदुक्तम्,
वस्तुमात्रं गहीत्वापि पश्चात किञ्चित स्मरन्नपि । तत्रान्येनास्तितां पृष्टस्तदैव प्रतिपद्यते ॥
(श्लो० वा० पृ० ४८३) 13 तथा,
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनी ॥
(श्लो० वा० पृ० ४७५) सर्वमेतदसत्, प्रत्यक्षादिनैव अभावस्य प्रतीतेः । तथा च, अक्षव्यापाराद् 20 इह भूतले घटो नास्तीति ज्ञानम् अपरोक्षमुत्पद्यमानं दृष्टम् । अथ इन्द्रियाणां भूतलग्रहणे व्यापारो नाभाव इति चेत्, न, भूतलग्रहणे प्रमाणाभावात् । विशेषणस्य हि पूर्वं ग्रहणं पश्चाद् विशेष्यस्य, भूतलञ्च विशेष्यमिति न तस्य पूर्वं ग्रहणे प्रमाणमस्ति । उपेत्यवादेन तूच्यते, यदि वस्तुमात्रग्रहणे सति प्रतियोगिस्मरणं घटावरुद्धभूतलोपलम्भेऽपि तत्स्मरणे नास्तिताज्ञानप्रसङ्गः। 25
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
व्योमवत्यां अथ विशिष्ट वस्तुग्रहणे सति प्रतियोगिस्मरणम्, तहि येन विशेषणेन विशिष्ट तद् वस्तु पूर्व प्रतिपत्तव्यमिति किम् इन्द्रियादेव प्रतीयते, प्रामाणान्तराद् वेति । इन्द्रियादेव प्रतिपत्त्यभ्युपगमे कथं नाभावः प्रत्यक्षविषयो विशिष्टतायास्तद्रूपत्वात् । न चानुमानादेापारे प्रमाणमस्ति ।
यदि च अन्यया प्रमाणपञ्चकव्यावृत्त्यैव विशिष्टता प्रतीयते, तत्राप्यन्यवस्तुग्रहणाभ्युपगमे विशिष्टताग्रहणमेवाभ्युपेयमित्यनवस्था स्यात् । तस्मादिन्द्रियेणैव इतरपदार्थविविक्तं भूतलमुपलभ्य प्रतियोगिनं स्मरतीत्यभ्युपगमे घटाभावस्य प्रतोतत्वाद् अलं प्रमाणपञ्चकव्यावृत्त्येति ।
सदंशप्रकाशकस्यैव असदंशेऽप्यन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेर्न 10 प्रमाणपञ्चकापरिच्छेद्ये वस्तुनि अभावस्य प्रमाणतेति वाच्यम् । न चेन्द्रियेण
सम्बन्धाभावादग्रहणम्, तस्य कार्यणेव सद्भावसिद्धः । तथा च परेणापि अपरोक्षज्ञानसद्भावेन इन्द्रियार्ययोर्योग्यतालक्षणः सम्बन्धोऽभ्युपगतः, सच रूपादावि[वाभावेऽप्यभ्युपगन्तव्यः, कार्यस्योभयत्राविशेषात् तथा वैशेषिकैरपि अपरोक्षज्ञानसद्भावेन इन्द्रियार्थयोः षोढा सम्बन्धोऽभ्युपगत इत्यभावेन विशेषणविशेष्यभावोऽस्त्येव, तेन हि सता अपरोक्षज्ञानोत्पत्तेः ।
सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या तु अभावग्रहणे कथं षडेव प्रमाणानीत्यवधारणम्, प्रमाणाग्रह तस्यानुपपत्तेः । न हि सदुपलम्भकप्रमाणाभावस्य परिच्छेद्यत्वे अन्यत् तस्य परिच्छेदकं प्रमाणमस्ति । अथ प्रमाणपञ्चका
भावस्यानेकत्वात् कश्चित् कस्यचिद् ग्राहको भवति ? एवं तर्हि तस्याप्यन्येन 20 ग्रहणं तस्याप्यनेनेत्यनवस्था स्यात् । न च प्रमाणव्यक्तेरनेकत्वात् तदग्रहणे
तनिष्ठस्य षडेवेत्यवधारणस्य सम्भवः स्यात् । वैशेषिकाणान्तु प्रमाणव्यक्तीनामानन्त्येऽपि एक लक्षणमुपग्राहकमस्तीति युक्तं प्रमाणग्रहणे सत्यवधारणमिति ।
यच्चेदं देवकुलमात्रं दृष्ट्वा निष्क्रान्तोऽन्येन पृष्टस्तदैव हस्त्यादे25 नास्तिता प्रतिपद्यत इत्युक्तम्, तन्न, अस्य स्मरणत्वात् । यद्यपि पूर्वं हस्ती
त्यादि सविकल्पकं ज्ञानं नोत्पन्नम्; तथापि हस्त्याद्यभावविशिष्टे देवकुले निर्वि
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१८३
कल्पकं ज्ञानमुत्पन्नम् । अन्यथा हि यदाहं देवकुलमद्राक्षम्, न तदा तं समीपतिनं हस्तिनमिति प्रश्नानन्तरं स्मरणं न स्यात् । तत्तु दृष्टम् । यस्य वस्तुनः पूर्वं नाभावः परिच्छिन्नस्तत्र परप्रश्नानन्तरं संशेते, न निरीक्षितं मया किं तत्र देवदत्तोऽस्ति उत नास्तीति । न चेदानीमभावं निश्चिनोति आगमस्यापि प्रमाणान्तरेणार्थतथाभावप्रतिपत्तिः । नाप्तोपदेशेन कदाचित् 5 सम्भवात् । अतः पूर्वमेव हस्त्याद्यभावस्य प्रतीतेर्युक्तमेतत् स्मरणं न मया तत्र हस्ती दृष्ट इत्यादि । अभावस्य च प्रमेयत्वं क्षणभङ्गावसरे व्यवस्थापितमेवेति ।
तथैतिहमप्यवितथमाप्तोपदेश एवेति ।
अथ अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्य यथा इह वटे यक्षः प्रतिवसतीति, अस्यापि यदि प्रमाणान्तरेण अर्थतथाभावप्रतिपत्तिर्न आप्तोपदेशावर्थान्तरत्व- 10 मित्याह * तथैतिहमवितथमाप्तोपदेश एव । तथा हि पूर्वप्रमाणानि नार्थान्तरम्, तथा ऐतिह्यमपि अवितथं यथार्थमाप्तोपदेश एव, न प्रमाणान्तरम् । विपर्यये तु अप्रामाण्यमिति।
पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थानुमानम् । पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां स्वनिश्चितार्थ- 15 प्रतिपादनं परार्थानुमानं विज्ञेयम् ।
अथ प्राक सूचितस्य परार्थानुमानस्य व्याकरणार्थं * पञ्चावयवेन इत्यादि प्रकरणम् । परार्थानुमिति[रिति लक्ष्यनिर्देशः । * पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनम् * इति लक्षणम् । स्वनिश्चितार्थः साध्यः, प्रतिपाद्यतेऽनेनेति स्वनिश्चितार्थप्रतिपादनं लिङ्गम्, तत् पञ्चावयवेन वाक्येन सहितं. 20 परार्थमनुमानम्। प्रतिपत्तिा प्रतिपादनम्, स्वनिश्चितार्थविषयं ज्ञानं पञ्चावयवेन वाक्येन जनितम्, यतः कारकसमूहाद् भवति तत् परार्थानुमानमिति साध्यार्यवाक्यार्थवादिनां व्याख्यानम् । लिङ्गवाक्यार्थपक्षे तु अर्थ्यतेऽनेनेत्यर्थो लिङ्गम्, प्रतिपाद्यत इति प्रतिपादनम्, पञ्चावयवेन काक्येन प्रतिपाद्यमानं लिङ्गं परार्थानुमानमिति । यद्वा स्वनिश्चितार्थप्रतिपत्तिः प्रतिपा- 25 दनम्, तच्च पञ्चावयवेन वाक्यन जनितं परार्थानुमानमिति ।
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८४
व्योमवत्यां
नन्वेतस्मिन् पक्षे कथं स्वार्थाद् विशिष्यते परार्थानुमानम्, चक्षुरादिना शब्देन वा लिङ्ग प्रतिपद्य तस्मात् साध्यं प्रतिपद्यत इति कुतः स्वार्थपरार्थ इति भेद: ? न च परसम्पादिताच्छब्दाल्लिङ्ग प्रतिपद्यत इति विशेष:, चक्षुरादेरपि परसम्पादितत्वात् शब्दरूपतावैलक्षण्यन्तु वैधर्म्य मात्रमेव । अतः 5 साध्यवाक्यार्थपक्षो दोषानुपपत्ते ( र ? ) ग्रह्य इति । तथा च केवलं लिङ्ग चक्षुरादिना प्रतिपन्नं साध्यप्रतिपत्तौ स्वार्थानुमानमशब्दसहितम्, शब्दसहितन्तु परार्थानुमानमिति विशेषः । तस्मादित्यनेन समर्थलिङ्गपरामर्शानन्तरम् अनित्य एवायम् इति साध्यप्रतिपत्तेः संवेदनाच्च साध्यमेव वाक्यार्थः । तस्मादित्येवमन्तमेव वाक्यम् । शेषञ्च अभिप्रायनिवेदनमिति, न त्वार्थम्, 10 साध्यवाक्यार्थ पक्षे बाधकानुपपत्तेरित्यलमतिविस्तरेण ।
25
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वस्य सङ्ग्रहवाक्यस्य विवरणम् 'पञ्चावयवेनैव वाक्येन, न द्वयवयवेन दशावयवेन वेति । केषाम् ? • संशयित विप [ रीता ? यस्ता ] व्युत्पन्नानाम् * स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् ।
*
अथ निरवयवत्वाद् वाक्यस्यानुपपन्नमेतत् पञ्चावयवेनेति । तथा च 15 वर्णानां न समुदितानामर्थं प्रतिपादकत्वम्, क्रमभाविनामाशुविनाशित्वेन समुदायासम्भवात् । न व्यस्तानाम्, एकस्मादेवार्थप्रतीतावन्येषामुच्चारणवैयर्थ्यात् । उपलभ्यते च शब्दाद् उच्चरितार्थप्रतिपत्तिः । अतस्तदन्यथानुपपत्त्या वर्णकलापादतिरिच्यमानः स्फोटात्मा प्रतीयत इति । तथा गौरिति शब्दोच्चारणाद् अभिन्नाकारं विज्ञानं श्रोत्र व्यापारादुत्पद्यमानं दृष्टम् । न चेदं 20 संशयविपर्ययव्यतिरेकादवयविज्ञानवद् अभिन्नमर्थं विना भवतीति । वर्णोच्चारणन्तु स्फोटस्वरूपाभिव्यक्तये क्रियत इति न व्यर्थम् ।
3
असदेतत् पूर्ववर्णानुगृहीतस्यान्त्यवर्णस्य स्वानुभव सहकारिणोऽर्थप्रतिपादकत्वात् । यथा च, एकस्मिन् वर्णे ज्ञानम्, तेन क्रियते संस्कारः; पुनर्द्वतीयवर्णे ज्ञानम्, तेनापि पूर्ववर्णसंस्कारसहकारिणा संस्कार इति क्रमेण अन्त्यवर्णंज्ञानम्, तस्मात् पूर्वसंस्काराभिव्यक्तावशेषवर्णानुस्मरणे सति अन्त्य - वर्णादर्थप्रतिपत्तिः । न चैवं घटाद्यनुभवजनितसंस्कारस्य अनुभवान्तरसहकारिणः संस्कारारम्भकत्वेनातिप्रसङ्गः, तत्र विशिष्टादृष्टाभावात् । तदभावस्तु कार्या
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१८५
भावेनैव ज्ञायत इति । अत्र च कार्यस्य सद्भावाद् विशिष्टोऽदृष्ट: कारणत्वेन कल्प्यत इति ।
अन्ये तु शब्दार्थोपभोगप्रापकादृष्टनियमिताः पूर्ववर्णानुभवजनितसंस्काराः पूर्ववर्णेष्वेकं स्मरणमारभन्ते तत्सहकारी चान्त्यो वर्णः पदम् । यद्वा संस्कारमेकं विचित्रमारभन्ते, तस्माच्च पूर्ववर्णेष्वेकं स्मरणमिति। 5 ____ अन्ये तु पूर्ववर्णानां तज्ज्ञानानाञ्च अतीतानामपि अन्त्यवर्णसहकारित्वम्, अन्वयव्यतिरेकोपपत्तेः । यथा हि, वर्तमानस्य कारणत्वम् अन्वयव्यतिरेकाभ्यां विज्ञातम्, एवमतीतस्यापीति । यद् वा पूर्ववर्णविनाशास्तज्ज्ञानप्रध्वंसाश्च समीपतिनोऽन्त्यवर्णसहकारिण इति क्षीणार्थापत्तिः । एवंविधकल्पनानभ्युपगमे च वर्णोच्चारणवैयर्थ्यमेव स्यात् । न च स्फोटाभिव्य[क्त ? 10 ञ्जक]मुच्चारणम्, समस्तव्यस्तविकल्पानुपपत्तेः। न समस्तैरभिव्यज्यते, समुदायानभ्युपगमात्, न व्यस्तैः, एकेनैवाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात् । अथ कल्पना आश्रीयते, सा अर्थप्रतिपत्तावपि समर्थेत्यलं स्फोटपरिकल्पनया । अभिन्नाकारञ्च ज्ञानमन्त्यवर्णविषयं वर्णत्वविषयं वा ।
यद् वा घनावस्थितिप्रत्यक्षेष्विव वर्णेषु भ्रान्तमभिन्नाकारं विज्ञान- 15 मिति न स्फोटसिद्धिः । शब्दाभिव्यक्ताविव स्फोटाभिव्यक्तावपि दोषा इति समानतया शब्दपरीक्षायामेवाभिधास्यन्त इत्यलम् ।
वाक्यकल्पना त्वेकस्मिन् पदे ज्ञानस्योत्पादः, संस्कारस्य सङ्केतस्मरणस्य च उत्पद्यमानता, ततः संस्कारस्य सङ्केतस्मरणस्य च उत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, पदज्ञानस्य विनश्यत्ता, ततः पदार्थप्रतिपत्तेरुत्पत्तिः, 20 स्मरणस्य विनश्यत्ता, पदज्ञानस्य विनाशः, संस्कारस्य द्वितीयपदज्ञानस्य च उत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पूर्वसंस्कारसचिवेन पदार्थज्ञानेन संस्कारस्योत्पादः, संस्कारान्तरस्योत्पद्यमानता सङ्केतस्मरणस्याप्युत्पद्यमानता, पदार्थप्रतिपत्तेविनश्यत्ता, पूर्वसङ्केतस्मरणस्य विनाशः, ततो द्वितीयपदज्ञानसंस्कारस्योत्पादः सङ्केतस्मरणस्याप्युत्पादः, पदज्ञानस्य 25 विनश्यत्ता, पदार्थप्रतिपत्तेरुत्पद्यमानता, पूर्वपदार्थप्रतिपत्तेविनाश इत्ययं
२४
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
व्योमत्यां
न्यायस्तावद् यावदन्त्यपदे ज्ञानम् । तेन च कल्पनया तत्संस्काराभिव्यक्तेरशेषपदार्थविषयं स्मरणं जन्यते । तेन च स्वानुभवेन च विशिष्टमन्त्यपदमेव वाक्यम्, तस्माच्च वाक्यार्थप्रतिपत्तिरिति ।
ननु पदज्ञानोत्पत्तेः पूर्वम् अदृष्टवशात् पदपदार्थविषयस्मरणोत्पादाभ्युप5 गमे तस्य पदज्ञानात् सङ्केतस्मरणकाले नावस्थानमिति पदार्थप्रतिपत्तेरूज़
कथं वाक्यार्थप्रतिपत्तिः ? न च पदार्थप्रतिपत्ति विनैव वाक्यार्थप्रतिपत्तिः, अदर्शनात् । अथ पदज्ञानादूर्व कल्पनया तत्संस्कारेण स्मरणं जन्यते ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणकाले तस्यानवस्थानात् पदार्थप्रतिपत्त्य
भावे न वाक्यार्थप्रतिपत्तिरिति दूषणं तदवस्थमेव ? 10 असदेतत्, वाक्ये सङ्केतानुपपत्तेः । अन्त्यपदं वाक्यमेव, तद् अन्त्यार्थस्तु
वाक्यार्थ इति । यदा च पूर्ववर्णतज्ज्ञानादूर्ध्वं कल्पनया तत्संस्कारेण स्मरणं जन्यते, ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणाभावविशिष्टोऽन्त्यो वर्णः पदम्, तदैषा काक्यकल्पना । अन्यथा पूर्ववर्णेषु ज्ञानद्वारेण संस्काराद्
विचित्रस्मरणानुगृहीतोऽन्त्यो वर्ण: पदमित्यभ्युपगमेन पदार्थज्ञानानन्तरं 15 पदज्ञानं स्यात्, वर्णज्ञानव्यवधानात् ।
अन्ये तु पूर्वार्थस्य प्रतिसमाधानार्थमन्त्यपदज्ञानानन्तरं कल्पनया तत्संस्कारः सङ्केतानुभवजनितसंस्कारश्च एकं स्मरणमारभते, ततः पदार्थज्ञानस्योत्पादः, पदज्ञानस्य विनश्यत्ता, स्मरणानुभवयोश्चाविरोध इति । ततः स्मरणानुभवविशिष्टाद् अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति ।
अन्ये तु यद्यप्यन्त्यपदज्ञानानन्तरं सङ्केतस्मरणात् पदार्थावबोधे सति पदज्ञानं विनष्टम्, तथापि पुनस्तस्मिन्नेव ज्ञानमुत्पद्यते, ततः कल्पनया तत्संस्कारात् स्मरणोत्पादे सति अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति ।
असदेतत्, शब्दस्य विरम्य व्यापारप्रतिषेधात् । एकदा पदं स्वविषयज्ञानं कृत्वा पुनर्न करोतीति । 25 अन्ये तु प्रतिज्ञादिपदस्य पदान्तरोच्चारणकालेऽपि आकाशे पदान्तरा
रम्भकत्वेनावस्थानं तावद् यावदन्त्यपदम्, ततः पञ्चभिः पदैः श्रोत्रदेशे
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
१८७ वाक्यम् अवयविभूतमारभ्यते, ततो वाक्यार्थप्रतिपत्तिरिति । निरस्तञ्चैतद् अनुभवेन । न हि पूर्वपूर्वपदस्योत्तरोत्तरपदकाले सर्वेषाञ्च वाक्यकालेऽनुभवोऽस्तीति । __अन्ये तु एकस्मिन् पदे ज्ञानम्, तेन क्रियते संस्कारः, पुद्वितीयपदज्ञानम्, तेन प्राक्तनेन संस्कारेणान्यः संस्कार इति तावद् यावदन्त्यपदे 5 ज्ञानमिति; ततः प्राक्तनसंस्काराभिव्यक्तौ पदचतुष्टयविषयं स्मरणमुत्पद्यते, तद्विशिष्टञ्चान्त्यपदं वाक्यमिति । न चात्रानुभवेन विरोधः, करणांशस्यैव कीर्तनात् ।
अन्ये स्मरणेनानुभवस्याविरोधं मन्यमानाः कल्पनामाश्रयन्ते। पदज्ञानात् सङ्केतस्मरणस्योत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, ततः पदार्थ- 10 ज्ञानस्योत्पादः पूर्वपदज्ञानस्य विनश्यत्ता, द्वितीयपदज्ञानस्योत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पदार्थज्ञानस्य विनश्यत्ता, पदज्ञानस्य विनाशः, सङ्केतस्मरणस्योत्पद्यमानतेत्यनेन क्रमेण अन्त्यपदज्ञाने सति वाक्यार्थप्रतिपत्तिः । न चात्र पूर्वपदपदार्थानुस्मरणेन प्रयोजनमस्ति, तत्कार्यस्य विनश्यदवस्थपदज्ञानेनैव कृतत्वात् । पूर्वपदानुरक्ते हि द्वितीयपदे ज्ञानमुत्पन्नम्, 18 तदनुरक्तं तृतीयपदमिति अशेषपदानुरक्तम् अन्त्यपदं वाक्यमिति ।
एतच्चासत्, पूर्वपदानुरागस्यान्त्यपदेऽप्रतिभासनात् । यथा हि, दण्डीति ज्ञानं दण्डानुरक्तमेव, नैवं द्वितीयादिपदज्ञानं पूर्वपदानुरक्तमिति । न चायं नियमः सम्भवति पूर्वपदानन्तरमेव द्वितीयादिपदोच्चारणम्, कतिपयकालव्यवधानेऽपि उच्चारणेऽर्थप्रतिपत्तिदर्शनादिति पूर्वैव कल्पना न्याय्या।
अथास्त्वेवं वाक्यपरिकल्पना वाचकत्वन्तु निषिध्यते, अन्वयव्यतिरेकाभावात् । पदार्थेभ्यस्तु वाक्यार्थप्रतिपत्तिः। यत्र हि प्रमाणान्तरेणापि पदार्थप्रसिद्धिस्तत्रान्तरेणापि वाक्यं वाक्यार्थप्रत्तिपतिर्दृष्टा । यथा,
पश्यतश्चक्षुषा रूपं हेषाशब्दश्च शृण्वतः । खुरनिक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ॥
(श्लो० वा० पृ० ९४)
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८८
व्योमवत्यां
तथा च दूराच्चक्षुषा श्वेतं रूपमुपलभ्य हेषाशब्देन वा अश्वत्वजातिमनुमिनोति, खुरनिक्षेपशब्देन च धावनक्रियामवगत्य वाक्यं विनापि वाक्यार्थ प्रतिपद्यते । सत्यपि च वाक्ये पदार्थानामप्रतिपत्ते वाक्यार्थप्रतिपत्तिः, यथा प्रसिद्धपदार्थैः कविभिविरचिते वाक्य इति । तस्मादभिहित5 पदार्थानाम् आकाङ्क्षायोग्यतासन्निधिद्वारेण वाक्यार्थगमकत्वमिति ।
न युक्तमेतत् शब्दस्याप्रामाण्यप्रसङ्गात् । तथा च पदरूपस्य तावद् अप्रामाण्यम्, अनुवादकत्वात् । तदुक्तम्,
10
पदमभ्यधिकाभावात् स्मारकान्न यच्चाधिक्यं भवेदेतत् स पदस्य
विशिष्यते । न गोचरः ॥
( श्लो० वा० पृ० ४१२)
वाक्यन्तु पारम्पर्येणाप्यवाचकमिति कथं शब्दः प्रमाणं स्यात् ? अथ पदैरभिहितानाञ्च पदार्थानां गमकत्वादिति पारम्पर्येण शब्द: प्रमाणम् ? तहि श्रोत्र परिच्छिन्नस्य शब्दस्यार्थपरिच्छेदे व्यापारादिति पारम्पर्येण प्रत्यक्षस्यापि चोदनाविषये सन्निधिप्रामाण्योपपत्तेः कथं चोदनैव धर्मे प्रमाणम् । प्रमाणमेव 15 चोदनेति नास्यावधारणस्य व्याघातः । वाक्यस्यार्थपरिच्छेदकत्वानभ्युपगमे च प्रमाणान्तरासम्भवात् पदार्थानां प्रत्यक्षादिष्वन्तर्भावश्चिन्तनीयः ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्रेन्द्रियार्थसन्निकर्षेण सह व्यापारानुपलब्धेर्न प्रत्यक्षेऽन्तर्भावः । अविनाभावस्यानुपपत्तेर्नानुमाने । अनुपपद्यमानार्थासम्भवान्नार्थापत्तौ । उपमानाभावयोश्च नियतविषयत्वमेव । प्रमाणान्तरस्य च अनभ्युपगमादयुक्तमेतत् । 20 न च पदानां स्वार्थप्रतिपत्तावेव चरितार्थत्वम् उक्तन्यायेन वाक्यार्थप्रतिपत्तावपि व्यापारात् । विरम्य व्यापारस्तु एकमर्थं प्रतिपाद्य पुनस्तमेव प्रतिपादयन्तीति प्रतिषिद्ध: ।
यच्चेदं विनापि वाक्यं वाक्यार्थप्रतिपत्तिरित्युक्तम्, तदपरिज्ञानात् । वाक्येन हि जनिता वाक्यार्थप्रतिपत्तिः, प्रत्यक्षानुमानसम्पादिताः श्वेतोऽश्वो 25 धावतीति बुद्धयः । यदपीदं पदार्थाप्रतिपत्तौ सत्यपि वाक्येन वाक्यार्थप्रतिपत्तिरिति, तदसत् पूर्वपदार्थस्मरणानुगृहीतस्य अन्त्यपदस्य वाक्यत्वाच्च अवश्यमर्थप्रतिपादकत्वमिति व्यभिचाराभावः ।
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
अन्विताभिधानन्तु न सर्वपदानाम्, एकेनैव क्रियाकारकसंसर्गान्वितस्य पदार्थस्याभिधाने शेषपदोच्चारण वैयर्थ्यप्रसङ्गात् । अथ अन्त्यं पदमन्विताभिधायकम् ? तस्यापि पूर्वपदानपेक्षित्वे तदुच्चारणवैयर्थ्यम्, सापेक्षित्वे तु न अस्मत्सिद्धान्ताद् भेदः ।
अवयवोद्देशः प्रतिज्ञावैधर्म्य |
अवयवाः पुनः प्रतिज्ञापदेश निदर्शनानुसन्धानप्रत्याम्नायाः । तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा । प्रतिषिपादयिषितधर्मविशिष्टस्य धर्मिणोऽपदेशविषयमापादयितुम् उद्देशमात्रं प्रतिज्ञा । यथा द्रव्यं वायुरिति ।
१८९
अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचन विरोधिनो अनुमेयोद्देशा निरस्ता भवन्ति । यथा अनुष्णोऽग्निरिति, प्रत्यक्षविरोधी, 10 घनमम्बरम् इत्यनुमानविरोधो, ब्राह्मणेन सुरा पेया इत्यागमविरोधो, वैशेषिकस्य सत् कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी |
के पुनरवयवास्तदाह * प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः * वाक्यैकदेशत्वात् । न पुनः परोपगता जिज्ञासादय:, तेषामशब्दरूपत्वात् ।
For Private And Personal Use Only
5
*
तत उपदेशक्रमेणावसरप्राप्तायाः प्रतिज्ञायास्तावल्लक्षणमुच्यते अनुमेयोदेशोऽविरोधी प्रतिज्ञा * इति । अनुमेयः प्रतिपिपादयिषितधर्मविशिष्टो धर्मी । धर्मविशिष्टता हि अस्तित्वाद्यपेक्षया सर्वपदार्थेष्वस्तोति प्रतिपिपादयिषितपदम् । यो हि धर्मः प्रतिपादयितुमिष्ट:, तद्विशिष्टो धर्मी पक्षः । तस्योद्देश मात्रं प्रत्यक्षाद्यविरुद्धं परेषाम् अनिश्चितार्थाभिधायकं वचनं प्रतिज्ञेति । अपदेशस्य 20 हेतोर्विषयापादनम् अर्थः प्रयोजनमस्येति प्रयोजनोपन्यासः । प्रयोगस्तु, प्रतिज्ञा इतरस्माद् भिद्यते, प्रत्यक्षाद्यविरुद्धानुमेयोद्देशत्वात्, यस्तु न भिद्यते, न चासावेवं यथा उदाहरणादिरिति । अनुमेयोद्देशो वा प्रतिज्ञेति व्यवहर्तव्यः, यथोक्तानुमेयोद्देशत्वात्, यश्चैवं न व्यवह्रियते, न चासावेवम्, यथा अपदेश इति । उदाहरणन्तु यथा द्रव्यं वायुरिति ।
*
ननु च असाधनाङ्गं प्रतिज्ञावचनम्, तदन्तरेणापि सम्बन्धवचनमात्रा
15
25
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
व्योमवत्यां
दर्थप्रतीतेः । तथाहि, यद् यत् कृतकम्, तत्तद् अनित्यं दृष्टम्, यथा घटः, तथा च कृतकः शब्द इत्यत्र सामर्थ्यादेव प्रतिज्ञार्थसिद्धेर्व्यर्थं तदभिधानम् । अत्र च प्रमेयस्य प्रमाणेनैव सिद्धेः सामर्थ्य किरूपमिति चिन्त्यम् । न प्रत्यक्षस्वरूपम्, इन्द्रियार्थसन्निकर्षेण विप्रतिपत्तिविषयस्यापरिच्छेदात् । एवमागमेनापीति । अथानुमानमेव सामर्थ्य तदवश्यमर्थप्रतिपत्तौ पक्षधर्मत्वादिकमपेक्षत इति प्रतिज्ञावचनमन्तरेण सपक्षासपक्षाप्रविभागे सति तदर्थाप्रतीतेन गमकमिति । अथ अभिधीयमानानुमानव्यतिरेकेण अन्यदनुमानं प्रस्तुतानुमानसामर्थ्यम्, न, तस्यापि अविनाभावानपेक्षित्वे न गमकत्वम्, प्रतिज्ञावचनञ्च
विना तदर्थाप्रतीतेरिति पूर्वदोषानुषङ्गात् । न चाभिप्रेतार्थप्रतिपादनाय 10 अनुमानोपन्यासकाले तदर्थसिद्धयेऽनुमानान्तरं पश्यामः ।
न च कृतकत्वानित्यत्वयोः सामान्येन व्याप्त्यभिधाने समर्थसाधनस्य शब्द एवोपसंहाराद् विज्ञायते अत्रैवानित्यत्वम् अस्याभिप्रेतमिति, सम्बन्धाभिधानस्य विरुद्धाविरुद्धाभिप्रायेणापि समानतया विवेकप्रतिपत्तेरभावप्रसङ्गात् ।
___ अथ यद्यत् कृतकं तत्तन्नित्यं दृष्टमिति व्याप्तिवचने विरुद्धवादी, 15 अनित्यत्वेन च कृतकत्वस्य व्याप्तिवचने तत्त्ववादीति विनिश्चयः, तन्न,
कृतकत्वनित्यत्वयोाप्तेः प्रतिपादयितुमशक्यत्वात् । तथा च, न कृतकेषु घटादिषु नित्यत्वम्, नित्येषु चाकाशादिषु कृतकत्वमिति दृष्टान्तदोषेण गतार्थत्वात् कथं विरुद्धत्वम् ? यदा च नित्यः शब्द इति प्रतिज्ञाय कृतकत्वा
नित्यत्वयोर्व्याप्ति ब्रूते, तदा अभिप्रेतार्थविपरीतेन व्याप्तिकथनाद् विरुद्ध20 वाद्ययमिति विशेषाध्यवसायो भवत्येव ।
ननु नित्या नित्याभिप्रायेणैवापि नित्यः शब्द इति वचनसम्भवात् प्रतिज्ञावचने सत्यपि तत्त्वातत्त्ववादिनोरनिश्चय एव, न, वचनेनैवाभिप्रायविशेषप्रसिद्धेः । न हि वक्तृणां वचनादृतेऽभिप्रायावबोधे प्रमाणान्तरमस्तीति नित्य
वचनान्नित्याभिप्राय एव निश्चीयते, अभिप्रायान्तरकल्पनायां प्रमाणाभावात् । 25 अत एव वादिप्रतिवादिनोर्जयपराजयव्यवस्था प्राश्निकैः क्रियते । यत्राप्यन्यथा
प्रतिपद्यमाना विचित्राभिप्रायतया प्रकरणार्थमन्यथा ब्रुवते, तत्रापि वचनविशेषेणैव अभिप्रायविशेषोऽनुमेयः, विवक्षान्तराद् वचनान्तरानुत्पत्तेः ।
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
गणवैधयंप्रकरणम्
अभ्युपगमे वा सम्बन्धवचनादपि अनिश्चय एव स्यात् किं नित्यत्व] विवक्षातः कृतकत्वानित्यत्वयोः सम्बन्धवचनम्, उत अनित्यत्वविवक्षात इति ।
अथ हेतुतदभावव्यवस्थाया वास्तवसम्बन्धापेक्षित्वाद् विपरीतविवक्षयापि कृतकत्वानित्यत्वयोरस्त्येव सम्बन्ध इति गमकत्वम् ? तर्हि नित्यत्वाभिप्रायेणापि एवंसम्बन्धमुपदर्शयतः तत्त्ववादित्वं स्यात्, प्रकारान्तरेण सम्बन्धो- 5 पदर्शनस्यैवाभावात् । तथा प्रतिज्ञावचनं विना सन्दिग्धविपर्यस्ताव्युत्पन्नपुरुषविशेषाणां प्रमेयविशेषेषु आकाङ्क्षाप्रतिपत्तौ वादिनो विशेषेण पुरुषमात्रस्य प्रमेयमात्रप्रतिपादनाय प्रवर्तमानस्य उन्मत्तवादित्वं स्यात् ।
अथ विवादात् पुरुषविशेषस्य प्रमेयविशेषापेक्षित्वप्रतिपत्तिः ? तर्हि प्रतिज्ञा अभ्युपगतैव, विवादस्य तद्रूपत्वात् । प्रतिज्ञा हि प्रतियोगिप्रतिज्ञान्तरम- 10 पेक्षमाणो विवादः, साधनसहिता तु प्रतिज्ञेति । न च शास्त्रादेव यथोक्तविशेषप्रतिपत्तिः, अनुमानोपन्यासकाले तस्याप्रमाणत्वात्, प्रामाण्ये वा किमनुमानेनेति ? तस्मात् परार्थानुमानमिच्छता अवश्यं कार्य प्रतिज्ञावचनमिति । यच्चेदम्
अर्थादर्थगतौ शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ।। (प्र. वा. ४।१५) इत्युक्तम् । तत्र अर्थस्यार्थगती सामर्थ्य न निषिध्यते, केवलयोश्च पक्षहेत्वभिधानयोर्नार्थपरिच्छेदे सामर्थ्यम्, अवयवान्तरसद्भावे च स्वार्थोपस्थापनद्वारेण सामर्थ्यमिष्यत एव । अन्यथा हेत्वभिधानस्यापि असामर्थ्य परार्थानुमानस्याप्रवृत्तिरेव ।
20 अथ हेतुवचनं स्वयमसमर्थमपि समर्थहेतुसंसूचकत्वात् परप्रतिपत्तावुप[हीयते? दीयते न चैवं प्रतिज्ञेत्याह,
साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ।। (प्र. वा. ४।१७)
तत्र पक्षोक्तिः प्रतिज्ञावचनं पारम्पर्येणाप्यलं समर्थं न भवतीति 25 असाधनाङ्गमिति । साध्ये साध्याभिधानमसाधारणमेव, सपक्षासपक्षयोर
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
व्योमवत्यां प्रसिद्धः । तथा साध्याभिधानस्य पक्षोक्तेः पर्यायत्वात् साध्याविशिष्टता चेति । अथ साध्यानुपयोगित्वात् साध्यानभिधानम्, तदप्यवयवान्तरसहितस्य साध्यप्रतिपादकत्वादसिद्धम्, विपर्यये तु अनैकान्तिकम्, केवलस्य हेतुवचनस्यापि
असाधकत्वात् । तथा प्रतिज्ञावचनमपि असाधनाङ्गमिति वदता अभ्युपगतैव 5 प्रतिज्ञेति व्याघातः ।
अथ स्वप्रतिपत्तौ प्रतिज्ञावचनस्यानुपलम्भात् परप्रतिपत्तावनुपादानम् ? एवं तहि हेतुवचनस्यापि अदर्शनादनुपादानं स्यात् । अथ हेत्वर्थस्योपलम्भाद् युक्तं हेतुवचनम् ? तहि प्रतिज्ञार्थस्योपलव्धेः कार्य प्रतिज्ञावचनम् । यथा हेत्वर्थः कारणं साध्यप्रतिपत्तौ, एवं प्रतिज्ञार्थ: कर्मेत्युभयो: कारणत्वाविशेषात् पक्षस्यावचने प्रमाणं नास्तीति । उपस्थापिते च कर्मणि करणानां प्रवृत्तेरुपलम्भात् तदुपस्थापनार्थमवश्यं कार्य प्रतिज्ञावचनमित्यलं विस्तरेण ।
* अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनोऽनुमेयोद्देशा निरस्ता भवन्ति * इति व्यवच्छेद्यं दर्शयति । यो ह्यनुमेयोद्देशो न प्रत्यक्षादिना विरुध्यते, सा प्रतिज्ञेति ।
अन्ये तु प्रत्यक्षाद्यविरुद्धोऽनुमेयस्तस्योद्देशः प्रतिज्ञेति व्याख्यां कुर्वते । यद्यपि अनुमेयस्य साध्यस्य साधनार्हतया प्रत्यक्षादिविरोधाभावान्न व्यवच्छेद्य[त्व मस्ति, तथापि किम्भूतं साध्यमित्यपेक्षायां स्वरूपोपवर्णनार्थ प्रत्यक्षाद्यविरुद्धपदम्, प्रत्यक्षशब्देनैव विशिष्टार्थप्रतीतौ इन्द्रियार्थसन्निकर्षा
दिपदवदिति। तच्चासत्, अविरोधिपदस्योद्देशपदेन सामानाधिकरण्यात्, 20 कर्मणः करणेन विरोधाभावाच्चेति । यथाभूतमुपलभ्यमानं कर्म तथाभूत
मनुपलभ्यमानमपि इति उद्योतकरपादैरुक्तम् । प्रतिज्ञा तु करणमिति युक्तस्तत्र विरोधः । ___तत्र प्रत्यक्षविरोधी * यथा अनुष्णोऽग्निः * इति । [अनु?उ]ष्णताया
स्त्वगिन्द्रियेण प्रतिभासनात् । * धनमम्बरमित्यनुमानविरोधी * आकाशस्य 25 अनुमानादेव अमूर्त्तत्वविभुत्वप्रसिद्धेः । घनं निविडावयवमित्युद्देशस्तेन
विरुध्यत एव, घनत्वे सति अस्मदादीनामसञ्चारप्रसङ्गाच्चेति । अभ्युपगतशास्त्रविरोधी यथा * वैशेषिकस्य * सर्वकार्यमुत्पत्तेः पूर्व सदुत्पद्यत?त्
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधकरणम्
१९३
इति ब्रुवतः । वैशेषिकशास्त्रे हि असदुत्पद्यत इति प्रसिद्धम् । न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी । यदि हि शब्दोऽर्थप्रत्यायको न भवति, कथमस्यार्थस्य ज्ञापनार्थं शब्दोच्चारणं न विरुध्येत इति ।
अथ प्रमाणत्रित्वे सति कथं विरोधबहुत्वम् ? लोकप्रसिद्ध्यपेक्षया । यद्यपि आगमविरुद्धस्य प्रत्यक्षविरुद्धस्य चामी भेदास्तथापि स्ववचनविरुद्धः स्वशास्त्रविरुद्धश्चेत्यादिव्यपदेशो जनानाम् अतस्तथैवाभिधानम् । अनुमानस्य तु अनुमानान्तरेण विरोधासम्भवेऽपि स्वकीयानुमानस्य बलवत्वादयं व्यपदेशो ऽनुमानेन प्रतिज्ञा बाध्यत इति ।
हेतुवैषम्यंम्
Acharya Shri Kailassagarsuri Gyanmandir
10
लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्र सामान्येन प्रसिद्धं, तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम् । तस्य वचनमपदेशः । यथा क्रियावत्त्वाद् गुणवत्त्वाच्च तथा च तदनुमेsस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वम् । उभयमप्येतद् अद्रव्ये नास्त्येव, तस्मात् तस्य वचनमपदेश इति सिद्धम् ।
}
For Private And Personal Use Only
*
5
營
प्रतिज्ञानन्तरं हेतुलक्षणमाह * लिङ्गवचनमवदेशः * इति । अर्थलक्षणत्वाद् वचसामिति लिङ्गलक्षणानुवादेन अपदेशस्य लक्षणाभिधानमिति । • यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र च सामान्येन प्रसिद्धम् * यथाभूतो धर्मः पक्षे तत्समानः सपक्षे प्रसिद्धो न पुनविशेष:, अन्यधर्माणामन्यत्रावृत्तेः । सर्वत्र चेति व्यापकाव्यापकभेदं दर्शयति । : तद्विपरीते 20 च विपक्षे सर्वत्र नास्त्येवेति विपक्षादत्यन्तव्यावृत्ति दर्शयति । प्रकरणसमकालात्ययापदिष्टयोश्च व्युदासः पूर्ववदित्येतत् * लिङ्गमुक्तम् * इति लक्षणानुवादः । तस्य वाचकं वचनं तृतीयान्तं पश्चम्यन्तं वा अपदेशः | तथा च अयमितरस्मात् भिद्यते यथोक्तलिङ्गवचनत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा प्रतिज्ञादिरिति ।
तस्य व्यापकाव्यापकस्वरूपोपदर्शनार्थम् उदाहरणद्वयम् यथा क्रिया
२५
15
25
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
15
20
१९४
क्रियावत्त्वं गुणवत्त्वञ्चानुमेये पक्षेऽस्ति । तत्समानजातीये च सपक्षे सर्वस्मिन्
गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वमस्तीति । उभयमप्येतद् अद्रव्ये * सत्तादौ
營
5 नास्त्येवेति तस्य गुणवत्त्वस्य क्रियावत्त्वस्य च यथोक्तम् वचनमपदेश इति
25
ब्यो भवत्यां
वत्त्वाद् गुणवत्त्वाच्च * इति । च शब्देन प्रकारान्तरं क्रियावत्वेन गुणवत्वेन चेति दर्शयति । अनयोर्लक्षणेनाभिसम्बन्धोपदर्शनार्थमनुवादः । तथा च तत्
सिद्धम्
www.kobatirth.org
* /
हेत्वाभासनिरूपणम्
एतेनासिद्धविरुद्धसन्दिग्धानध्यव सितवचनानामनपदेशत्वमुक्तं भवति । उभयासिद्धोऽन्यतरा सिद्धस्तद्भावासिद्धोऽनुमेया
तत्रासिद्धश्चतुविधः, 10 सिद्धश्चेति । तत्रोभयासिद्धः, उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति । अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति । तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायामुपन्यस्यमानो वाष्पो धूमभावेनासिद्ध इति । अनुमेयासिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूपवत्त्वादिति ।
Acharya Shri Kailassagarsuri Gyanmandir
咨
*
• एतेन सामर्थ्याद् अपदेशाभासा निरस्ता भवन्तीति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्भावनार्थं संलक्ष्यते । तत्रेदं सामान्यलक्षणम्, अपदेशवदाभासमानाः सम्यङ् मतौ अपदेशाभासाः । [ अ ] हेतु [ रवि ? रपि वि] पर्यस्त बुद्धेर्हेतुव [दा?द्] भासते इति सम्यङ्मताविति पदम् । एतस्मिंश्च पक्षेऽन्यतरासिद्धस्य सम्यङ्मतौ हेतुवदाभासमानत्वं चिन्त्यम् । तस्य हि पक्षधर्मत्वादिमत्वमित्यतो हेतुवदाभासमानत्वाद् हेत्वाभासा इति सिद्धं लक्षणम् । यस्य तु हेतुरपि तस्य पक्षधर्मत्वाद्युपदर्शनेन हेतुत्वप्रतिपत्तौ यत्नः कार्यस्तप्रतिपत्तेर्ह्यर्थप्रतिपत्तौ कारणत्वादिति । अत एव अन्यतरासिद्धो यद्यपि वस्तुवृत्त्या हेतुस्तथापि पक्षधर्मतया परेणाप्रतिपन्नत्वाद् असिद्धबुद्धिं जनयतीति । प्रतिपन्ने च प्रमाणतः पक्षधर्मत्वेन साध्यसिद्धेर्भावाद् हेतुरेवेति ।
For Private And Personal Use Only
अन्ये तु अहेतवः पक्षधर्मत्वाद्यन्यतमरूपाननुविधानात् समानधर्माणो हेत्वाभासा इति ।
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१९५ अथ कियतां पुनरेवमनपदेशत्वमित्याह * असिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति * इति । * तत्रासिद्धश्चतुर्विधः * इति विभागः । सामान्यलक्षणञ्च आशङ्क्यमानपक्षवृत्तित्वम् अर्थाल्लभ्यते । आशयमाने हि पक्षे वृत्तिः सर्वस्य विशेषणासिद्धादिप्रपञ्चस्यास्तीति पक्षव्यापीदं सामान्यलक्षणम् । न चैवं पक्षावृत्तित्वं तस्य असमर्थविशेषणादि- 5 भेदेषु असम्भवात् ।
केन रूपेण चतुर्विध इत्याह * उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति * । तत्र * उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति * शब्दे हि सावयवत्वं नित्यानित्यवादिनोर्न प्रसिद्धमिति । * अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति * मीमांसकस्य 10 हि प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कार्यत्वं तावदसिद्धं यावद् अन्यतरपक्षव्युदासद्वारेण प्रमाणतो (न?) व्यवस्थाप्यत इति निश्चीयते। निश्चिते तु पक्षधर्मत्वे ततः साध्यं प्रतिपद्यत एव । * तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ * इति। धूमत्वेनानिश्चितं वाष्पादिकमुपलभमानस्याग्न्यधिगतौ कर्तव्यायां तद्भावासिद्धो धूमभावस्यानिश्चितत्वादिति । * अनुमेया- 15 सिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूप[त्वा?वत्त्वा] दिति । ___सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वाद् अयमाश्रयासिद्धो न तु अभावरूपतमोऽपेक्षया । तस्य तु प्रमाणेन प्रसिद्धेः पक्षीकरणे कृष्णरूपत्वंीवत्त्वं स्वरूपासिद्धं, नत्वाश्रयासिद्धमिति ।
नन्वेवं विशेषणासिद्धादिप्रपञ्चस्यासङ्ग्रहणादयुक्तोऽयं विभागः ? न, 20 उभयासिद्धेऽन्यतरासिद्धे वा अन्तर्भावात् । तथा च उभयोविशेषणासिद्धो यथा] नित्यः शब्दःअनभिधेयत्वे सतिबाह्येन्द्रियप्रत्यक्षत्वात् । बाह्येन्द्रियप्रत्यक्षत्वे च सति अनभिधेयत्वादिति उभयोविशेष्यासिद्धः । अन्यतरविशेषणासिद्धो यथा] नित्यः शब्दः कृतकत्वे सति अमूर्तत्वात् । एवमन्येष्वपि पुरुषविशेषाभिप्रायेण असिद्धत्वाचूह्यमिति । असमर्थविशेषणासिद्धो [यथा] नित्यः शब्दः प्रमेयत्वे 25 सति कृतकत्वात् । विपर्ययेण असमर्थविशेष्य सिद्ध इति । व्यधिकरणविशेषणासिद्धो [यथा नित्यः शब्दः चाक्षुषत्वे सति कृतकत्वात् । विपर्ययेण
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
व्यधिकरणविशेष्यासिद्ध इति । विरुद्धविशेषणासिद्धो यथा] [अ] नित्यः शब्द: कार्यत्वे सति अमूर्तत्वादिति । अन्यथासिद्धविशेषणासिद्धो यथा] नित्यः शब्दः अभ्यस्यमानत्वे सति अमूर्तत्वादिति ।।
नन्वेवमपि एषामभयासिद्धेऽन्यतरासिद्धेऽन्तर्भाववत् तद्भावा [सिद्धा नु5 मेयासिद्धयोरप्यन्तर्भावः स्यादिति कथं चातुविध्यम् ? तयोरवान्तरभेदापेक्षया
तद्भावासिद्धः, परार्थानुमानस्य प्रस्तुतत्वाद् उभयासिद्धोऽन्यतरासिद्धश्चेति भिद्यते । एवम् अनुमेयासिद्धोऽपीति चातुर्विध्यम् ।
अन्ये तूभयासिद्धं यत्र विशेषणं विशेष्यञ्च असिद्धमिति । अन्यतरासिद्धन्तु विशेषणासिद्धं विशेष्यासिद्धं वेति मन्यन्ते । न चैतद् भाष्यकर्तुरभि10 प्रेतम्, वाद्यभिप्रायेण उदाहरणोपन्यासात् ।
____ अन्ये तु स्वार्थानुमानस्य तद्भावासिद्धोऽनुमेयासिद्धश्चेति भेदः सकलभेदसङ्ग्राहकः, परार्थानुमानस्य तूभयासिद्धोऽन्यतरासिद्धश्चेति । अत्र तु स्वार्थानुमानेन परार्थस्य भेदनिरूपणमिष्टमेव, स्वातन्त्र्यन्तु निषिध्यते ।
यो हि अनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन् नास्ति 15 तद्विपरीते चास्ति स विपरीतसाधना विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति ।
विरुद्धलक्षणमाह * यो ह्यनुमेये * पक्षे व्याप्त्या अविद्यमानोऽपि तत्समानजातीये च सपक्षे * सर्वस्मिन् नास्ति तद्विपरीते च * विपक्षेऽस्ति *स विपरीतसाधनाद् विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति * । विषाणिनां पिण्डं पक्षीकृत्य अश्वोऽयम् इति साधयतो विषाणित्वाद् इति हेतुविरुद्धः, अस्य हि अनश्वेनैव व्याप्तत्वात् । अयन्तु विपक्षकदेशवृत्तिः । विद्यमानसपक्षस्तथा विपक्षव्यापकः नित्य शब्द: कार्यत्वाद् इति । अविद्यमानसपक्षो विपक्षव्यापकः सर्व कार्य सर्वज्ञकर्तृकं प्रमेयत्वादिति । विद्यमानसपक्षो
विपक्षकदेशवृत्तिः, जीवच्छरीरं सात्मकं कार्यत्वादिति । अतश्चतुर्विधः । 25 यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव सन्दह
जनकत्वात् सन्दिग्धो यथा यस्माद् विषाणी तस्माद् गौरिति ।
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयंप्रकरणम
एकस्मिश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोविरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति कचित् । यथा सूर्तत्वामूर्तत्वं प्रति मनसः कियावत्वास्पर्शवत्वयोरिति ।
नन्वयमसाधारण एव अचाक्षुषत्वप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवात्, ततश्चानध्यवसित इति वक्ष्यामः ।
ननु शास्त्रे तत्र तत्र उभयथा दर्शनं संशयकारणमपदिश्यत इति, न, संशयो विषयद्वैतदर्शनात् । संशयोत्पत्तो विषयवतदर्शनमेव कारणम्, तुल्यबलत्वे च तयोः परस्परविरोधात् निर्णयानुत्पादकत्वं स्थान तु संशयहेतुत्वम् । न च तयोस्तुल्यबलत्वमस्ति अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद् अयन्तु विरुद्ध भेद एव ।
10 ____ * यस्तु सन्ननुमेये * व्याप्त्या * तत्समानासमानजातीययोः * सपक्षविपक्षयोः सन्नेव, स सन्दिग्धोऽनैकान्तिकः । * सन्देहजनकत्वात् * इति कार्योपन्यासो न तु लक्षणम्, इन्द्रियादिष्वपि सद्भावेनातिव्यापकत्वात् । उदाहरणन्तु * यथा यस्माद् विषाणी तस्माद् गौरिति * विषाणिनं पिण्डं पक्षीकृत्य गौरिति साधयतो विषाणित्वादिति हेतुरनैकान्तिकः, पक्षत्रयवृत्ति- 15 त्वात् । अयन्तु सपक्षव्यापकत्वे सति विपक्षकदेशवृत्तिः । अगौरयं विषाणित्वात् इति सपक्षकदेशवृत्तित्वे सति विपक्षव्यापकः । सपक्षविपक्षैकदेशवृत्तिश्च नित्यः शब्दः अस्पर्शवत्त्वात् इति चतुर्विधोऽनैकान्तिकः ।
अथ चातुविध्यमनुपपन्नम्, अनैकान्तिकस्य लक्षणञ्चाव्यापकम्, विरुद्धाव्याभिचार्यसाधारणयोरव्यापनाद् इत्याशङ्काप्रतिषेधार्थम् * एकस्मिश्च 20 द्वयोः * इत्यादि प्रकरणम् । द्वयोर्हेत्वोविभिन्नधर्मिस्थयोः सन्निपाते संशयादर्शनात् यथा नित्यः शब्दः कार्यत्वात्, नित्यमाकाशम् अकार्यत्वाद् इति एकस्मिन् धर्मिणीति पदम् । तथाथाप्येकस्मिन् धर्मिणि द्वयोः सन्निपातेऽपि न संशयो यथा अनित्यः शब्दः कार्यत्वात्, नित्यस्त्वमूर्तकार्यत्वादिति तदर्थं * यथोक्तलक्षणयोः ।'
25 तथाप्यविरुद्धार्थसाधकयोरेवंविधयोरपि न संशयहेतुत्वं यथा नित्यः
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
व्योमवत्यां
शब्द: कार्यत्वात्, आश्रितो गुणत्वात् । अतो * विरुद्धयोः * विरुद्धार्थसाधकयोः सन्निपाते संशयस्य दर्शनात् * अयमन्यः सन्दिग्धः * अनैकान्तिक इति केचित् । उदाहरणन्तु * यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति * ।
मूर्तं मनः क्रियावत्त्वात् छत्रवत् इत्येकः, अमूर्तं मनः अस्पर्शवत्त्वात् आकाशवत् 5 इत्यपरः । उभयोश्च पक्षधर्मान्वयव्यतिरेकवत्त्वोपलब्धेः किं मूर्तं मनः स्यादुत अमूर्तमिति संशयः ।
तदसत्, अभयोः प्रयोगासम्भवात् । तथाहि, एकस्मिन् साधने प्रयुक्त तस्य निर्दुष्टतायां साध्यसिद्धेरन्यस्य उपन्यासानुपपत्तिः, दुष्टतायां वा सैव
अस्य अभिधेयेति । न च परस्परविरुद्धार्थसाधकत्वमेव अनुमानयोर्दोषः, प्रमा10 णेन उभयोरेकत्र सद्भावसिद्धौ विरोधस्याभावप्रसङ्गात् । अव्यभिचार्यानुमा
नयोश्च अवश्यमर्थव्यवस्थापकत्वम्, अव्यभिचारस्य तल्लक्षणत्वात्, विपर्यये तु व्यभिचारित्वमेव । यथा मूर्त मनोऽस्पर्शवत्त्वे सति क्रियावत्त्वात्, अमूर्तञ्च क्रियावत्त्वे सत्यस्पर्शवत्त्वात् इति समस्तयोः प्रयोगः ।
तत्रापि असाधारणमित्याह * नन्वयमसाधारण एवं अचाक्षुषत्वप्रत्यक्ष15 त्ववत्, संहतयोरन्यतरपक्षासम्भवात् * इति । यथा हि, रूपातीन्द्रियगुणव्यति
रेकेण अन्यगुणानां गुणव्यवहारे साध्यसामान्यवत्त्वाद् द्रव्यत्वे सति नियमेनाचाक्षुषत्वं हेतुर्न सपने रूपादावस्ति, नापि विपक्षे घटादावित्यसाधारणः; तद्वत् सहचरयोः क्रियावत्त्वास्पर्शवत्त्वयोरन्यतरपक्षासम्भवादित्यन्यतरस्मिन्
सपक्षे विपक्षे वा असम्भवाद् असाधारणत्वम् । न चास्यासङ्ग्रह इत्याह 20 * ततश्चानध्यवसित इति वक्ष्यामः ।
यद् वा चाक्षुषत्वप्रत्यक्षत्ववत् इति वैधोदाहरणम् । यथा हि गुणः शब्द: सामान्यवत्त्वाद् द्रव्यत्वे सति नियमेन अचाक्षुषप्रत्यक्षत्वात् अन्धादिवदिति । अस्य सपक्षैकदेशे वर्तमानस्य विपक्षादत्यन्तं व्यावृत्तिर्न चैवं क्रियावत्त्वास्पर्शवत्त्वयोरित्याह * संहतयोरन्यतरपक्षासम्भवात् * इति ।
एवं विरुद्धाव्यभिचारिणोऽसाधारणस्यच संशयहेतुत्वे निराकृते सूत्रविरोधमुद्भावयन्नाह * ननु(च?)शास्त्रेतत्र तत्रोभयथा दर्शनं संशयकारणमपदिश्यते
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१९९ इति । तत्र तत्र शास्त्रे तस्मिस्तस्मिन् सूत्रे ‘दृष्टञ्च दृष्टवत्' (वै० सू०) दृष्ट्वा संशयो भवति । दृष्टश्च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवद् अस्पर्शवत्त्वम् । अतो विरुद्धसाधनाभिसम्बद्धं मनो दृष्ट्वा संशेते किं मूर्तम् उत अमूर्त मन इति । 'यथा दृष्टम् अयथादृष्टञ्च' (दै० सू०) उभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम् । यथा दृष्टं पक्षे, 5 पुनरयथा दृष्टं सपक्षे, विपक्षे च न दृष्टम्, अत उभयथा दृष्टत्वात् संशयः ।
यद् वा यथादृष्टं क्रियावत्त्वेन पुनरयथादृष्टम् अस्पर्शवत्त्वेन, अत उभयथा उभाभ्यां सह दृष्टत्वात् संशय इत्युक्ते परेणाह न युक्तमेतत्, संशयस्य विषयद्वैतदर्शनादुत्पत्तेः । अस्यैव विवरणम् * संशयोत्पत्तौ विषयद्वैतदर्शनमेव कारणम् * इति । विषयद्वैते दृश्यत इति विषयद्वैतदर्शनं सामा- 10 न्यमेव । विषयस्य वा द्वैतं द्वैविध्यं यस्य, तत् तथोक्तं सामान्यं तदर्शनमेव, विरुद्धविशेषानुवृत्तिहेतुत्वात् संशयकारणं न विरुद्धहेतुसन्निपातः, असाधारणधर्मो वा, विरुद्धविशेषः सहानुपलम्भेन तस्य तत्स्मारकत्वानुपपत्तेः । विरुद्धविशेषानुस्मृतिहेतुश्च धर्मः संशयकारणं न परस्परविरोधी समानबल इति । समानबलत्वे च * तयो :परस्पर विरोधात् * इतरस्येतरेण प्रतिबन्धात् 15 * निर्णयानुत्पादकत्वं स्यान्न (तु?) संशयहेतुत्वम् * तैलादिनाभ्यक्तस्य शालिबीजस्य स्वाङकुरानुत्पादकत्ववदिति अभ्युपगम्यैतदुक्तम् । परमार्थतो * न च तयोस्तुल्यबलत्वमस्ति * अन्यतरस्य अमूर्तं मन इति * अनुमेयोद्देशस्यागमविरोधित्वात् * इति । तथा चागमः 'तदभावादणु मनः' (वै. सू.) इति । मूर्तत्वञ्च अव्यापिपरिमाणसम्बन्धित्वमेव ।।
अथेदं वचनमप्रमाणम् ? तहि मनः सद्भावासिद्धेराश्रयासिद्धमनुमानमिति यथोक्तलक्षणानुपपत्तिः । न च मूर्तत्वानभ्युपगमे युगपज्ज्ञानानुत्पत्यापि मनःसद्भावसिद्धिः, अमूर्तस्य सकलेन्द्रियाधिष्ठायकत्वेन युगपज्ज्ञानोत्पत्तिप्रसङ्गात् । अतः प्रतिज्ञावचनस्यागमेन विरोधाद् अमूर्तानुमानं न यथोक्तलक्षणमिति । अयन्तु विरुद्धभेद: प्रतिज्ञावसरेऽभिहित एव । 25 विरुद्धाद् भिद्यते इति विरुद्धभेद: कालात्ययापदिष्टः, दुष्टपक्षोपन्यासानन्तरमुपन्यासात् ।
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
व्योमवत्यां
सूत्रद्वितयञ्च एकधर्मिविषयत्वेन संशयप्रतिपादनार्थमिति व्याख्येयम् । तथा च, नियतसामान्यवस्तु प्रतिनियतविशेषैः सहचरितमेकदा दृष्टं पुनस्तत्तुल्यम् अन्यविशेषाविनाभूतम्, अत: कालान्तरे देशव्यवधानवशात् तद्
दृष्ट्वा संशेते किमिदमेवम् आहोस्विदेवं न भवतीति । तथा एकधर्मि5 विषयत्वेऽपि । 'यथादृष्टम्' इति किञ्चित् सामान्यवद्वस्तु केनचिद् विशेषेण
सह दृष्टम्, 'अयथादृष्टम्' तदेवोपलब्धिविशेषशून्यं विशेषान्तरसहितं दृष्टम्, अत उभयथा दृष्टत्वादुभाभ्यां सह दृष्टत्वाद् उभयशून्यस्योपलब्धौ तत्स्मरणे तु असति, संशयो भवतीति । यथा देवदत्तं सकेशमुपलभ्य पुनर्निष्केशम्,
अतः कालान्तरे तमेव वेष्टितशिरसमुपलभमानस्य किमयं सकेशो निष्केशो 10 वेति संशयो भवतीति ।
यश्च सन्ननुमेये तत्समानासमानजातीययोरसन्नेव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वाद् अनध्यवलितः । यथा, सत् कार्यम् उत्पत्तः इति । अयम् अप्रमिद्धोऽनपदेश इति वचनादवरुद्धः ।
ननु चायं विशेषः संशयहेतुरभिहितः शास्त्र तुल्यजातीयेष्वर्थान्तर15 भूतेषु विशेषस्योभयथा दृष्टत्वादिति ? न, अन्यार्थत्वात् । शब्दे विशेष
दर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्थाच्छावणत्वम्, किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? तुल्यजातीयेध्वर्थान्तरभूतेषु व्यादिभेदानाम् एकैकशो विशेषस्योभयथा दृष्टत्वा
दित्युक्तं न संशयकारणम् । अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् । 20 तस्मात् सामान्यप्रत्ययादेव संशय इति ।
समस्तसपक्षे तु असाधारणस्यानध्यवसित्वमाह * यश्च सन्ननमेये तत्समानासमानजातीययोः * सपक्षविपक्षयोः । * असन्नेव(च?) सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वात् - निश्चयानुपादकत्वात् । अतस्तद्धेतुत्वाद् * अन
ध्यवसितः । * यथा सत् कार्यम् उत्पत्तेः ५ इत्युदाहरणम् । सकलं कार्य25 मुत्पत्तेः प्राक् स[अनु?उत्पद्यमानत्वादिति हेतुर्न प्रत्या?आ]काशादौ
नापि खरविषाणादावित्यनध्यवसितः
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२०१ न चास्य सूत्रेणासङ्ग्रह इत्याह * 'अयमप्रसिद्धोऽनपदेशः' (वै. सू.) इति वचनादवरुद्धः * सपक्षविपक्षयोरप्रसिद्धत्वादिति । एवमसाधारणस्य संशयहेतुत्वे निरस्ते सूत्रविरोधमुद्भावयन्नाह * ननु चायं विशेष: संशयहेतुरभिहितः शास्त्रे, तुल्यजातीयेषु * सपक्षेषु । * अर्थान्तरभूतेषु * [विशेषेषु?विपक्षेषु च । * विशेषस्य * असाधारणधर्मस्य । * उभयथा 5 दृष्टत्वात् * सपक्षे विपक्षे च दृष्टत्वात् इति । अनेनासाधारणस्य संशयहेतुत्वमुक्तमित्याङक्याह न * । सूत्रस्य - अन्यार्थत्वात् * सत्तासम्बन्धित्वात्, अर्थशब्दवाच्यत्वाच्च किं द्रव्यं गुणः कर्म वा शब्द इति संशयः । न परं सत्तासम्बन्धात्, श्रावणत्वाच्च * इत्युक्ते* सूत्रकारेण, परो ब्रूते श्रावणत्वविशेषस्योपलब्धेः कथं शब्दे संशय इत्याशङ्क्याह * नायं द्रव्यादी- 10 नामन्यतमस्य * इति । न द्रव्यस्य गुणस्य कर्मणो वा विशेषः श्रावणत्वम् । * किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? * यस्मात् गुणत्वे शब्दस्य साध्ये * तुल्यजातीयेषु रूपादिषु शुक्लत्वादिविशेषो गुणत्वेन सहचरितो दृष्ट: । * अर्थान्तरभूतेषु * (च?) उत्क्षेपणादिषु कर्मत्वेन सहचरित उत्क्षेपणत्वादिविशेषो दृष्टस्तथा पृथिव्यादिषु पृथिवीत्वादिव्यत्वेनेति । * द्रव्यादि- 15 भेदानाम् द्रव्यगुणकर्मणाम् । * एकैकशः * प्रत्येकम् । *विशेषस्योभयथा दृष्टत्वात् * द्रव्यत्वगुणत्वादिसहचरितस्य दृष्टत्वात् । उपलभ्यते च शब्दे श्रावणत्वं विशेषस्तद् द्रव्यत्वादिविषयं स्मरणं भवत्येव । अतः किं द्रव्यस्य सतोऽयं विशेष: श्रावणत्वम्, गुणस्य कर्मणो वा, इत्युक्तेन न्यायेन संशयकारणं श्रावणत्वम्, न तु असाधारणत्वेन । * षट्स्वपि पदार्थेषु * असा- 20 धारणधर्मोपलब्धौ * संशयप्रसंङ्गात् * । उत्क्षेपणत्वादिविशेषानुपलब्धेश्च संशयकारणत्वम् अन्वयव्यतिरेकाभ्यामुपलब्धम् न तदुपलब्धेः ।
न च सर्वस्माद् व्यावृत्तं विशेषमुपलभमानस्य विरुद्धविशेषानुस्मृतेरभावात् संशयो युक्तः, सद्भावेऽप्यनुच्छेदः स्यात्, निर्णयोत्पत्तिकारणाभावात् । * तस्मात् सामान्यप्रत्यक्षादेव संशयः * न विशेषदर्शनादित्युपसंहारः । 25
यद् वा विशेषवत्त्वस्योभयथा सपक्षविपक्षाविशेषितस्योपलब्धेस्तदुपलम्भाच्च शब्दे संशयः । न संशयकारणम् असाधारणो धर्मः, षट्स्वपि पदार्थेषु
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
व्योमवत्यां
संशयप्रसङ्गादिति । शेषं पूर्ववत् ।
द्विविधं निदर्शनं साधर्मेण वैधपेण च । तत्र अनुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम् । तद् यथा, यद् यत् कियावत् तत् तद् द्रव्यं दृष्टं यथा शर इति । अनुमेयविपर्यये च लिङ्गस्याभावदर्शनं वैधर्म्यनिदर्शनम् । तद् यथा, यद् यद् अद्रव्यं तत् तत् क्रियावन भवति यथा सत्तेति।
अथापदेशानन्तरं निदर्शनस्वरूपनिरूपणार्यम् * द्विविधं निदर्शनम् * इत्यादि प्रकरणम् । द्विविधमिति विभागो निदर्शनमिति निरुक्तिलक्षणम् ।
निदर्श्यते साध्यसाधनयोर्बहिव्याप्तिरस्मिन् इति निदर्शनं दृष्टान्तः । तथा 10 निदर्श्यते साध्यसाधनयोर्व्याप्तिरनेनेति निदर्शनं व्याप्तिप्रतिपादकं दृष्टान्त
वचनम् । तथाहि, निदर्शनम् इतरस्माद् भिद्यते यथोक्तदृष्टान्तवचनत्वात्, यस्तू न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति ।।
तत् केन रूपेण द्विविधम् ? * साधर्येण वैधयेण च * इति । तत्रानुमेयसामान्येन * साध्यसामान्येन। * लिङ्गसामान्यस्य * साधनसामान्यस्य । 15 * अनुविधानदर्शनं साधर्म्यनिदर्शनम् * । साधनसामान्यं व्याप्यम्, व्यापकञ्च
साध्यसामान्यमिति । * यद् यत् क्रियावत् तत्तद् द्रव्यं दृष्टं यथा शरः * इत्युदाहरणम् । अत्र हि द्रव्यत्वव्याप्तौ क्रियावत्त्वं साधनमस्तीति । * अनुमेयविपर्यये * साध्यविपर्यये, लिङ्गस्य * साधनस्य, * अभावदर्शनं
वैधर्म्यनिदर्शनम् तद्यथा] यद् यद् अद्रव्यं तत् तत् क्रियावन्न भवति । 20 यथा सत्तेति * । सत्तायां हि द्रव्यत्वव्यावृत्या क्रियावत्त्वव्यावृत्तिरस्तीति वैधोदाहरणम् ।
अनेन निदर्शनाभासा निरस्ता भवन्ति । तद् यथा नित्यः शब्दः अमूर्त्तत्वात् यद् अमूतं दृष्टं तन्नित्यम्, यथा परमाणुः, यथा कर्म, यथा
स्थाली, यथा तमः अम्बरवदिति । यद् यद् द्रव्यं तत् तत् क्रियावद 25 दृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधम्यनिदर्शनाभासाः।
यदनित्यं तन्मतं दृष्टं यथा कर्म, यथा परमाणुः, यथाकाशं यथा
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
गुणवैधयंप्रकरणम् तमः घटवत्, यनिष्क्रियं तद् अद्रव्यं दृष्टञ्चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वेधर्म्यनिदर्शनाभासा इति ।
* अनेन [निदर्शनाभासाः] * निदर्शनवदाभासन्त इति निदर्शनाभासास्तत्समानधर्माणः । * निरस्ता भवन्ति * इति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्भावनार्थं निरूप्यन्ते । * तद् यथा नित्यः शब्दः अमूर्तत्वात्, 5 [यद्?] यद् अमूर्तं दृष्टं तन्नित्यं दृष्टं?] यथा परमाणुः * इति । साधनस्यामूर्तत्वस्य परमाणावभावात् साधनविकलमुदाहरणम् । अस्मिन्नेव साध्ये 'यथा कर्मेति' साध्यविकलम्, नित्यत्वस्य कर्मण्यभावात् । 'यथा स्थाली' इत्युभयविकलम्, नित्यत्वस्यामूर्तत्वस्य च स्थाल्यामभावात् । 'यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वात् । 'अम्बरवत्' इति 10 साध्यसाधनाधिकरणत्वेऽपि अननुगतो वचनदोषः । यद् यद् अमूर्तं दृष्टं तत्तन्नित्य दृष्टं यथा अम्बरमिति वचनं विना अनुगतस्याप्रतीतेः ।
यद् वा सम्यग्दृष्टान्तोऽपि आकाशासत्त्ववादिनो न साध्यसिद्धि करोति यावन्न प्रमाणतो व्यवस्थाप्यत इत्याभास उच्यते ।
अन्ये तु आभासावसरे सम्यग्दृष्टान्तोपदर्शनम् आभासानाम् आभास- 15 ताज्ञापनार्थम् । इत्थम्भूतं हि निदर्शनम्, एतत्प्रतिरूपकाणि च तदाभासा इति ।
* यद् यद् द्रव्यं तत्तत् क्रियावद् दृष्टम् * इति च विपरीतानुगमः । तथा च एवं अवतो द्रव्यत्वं व्याप्यं क्रियावत्त्वञ्च व्यापकं स्यादिति विपरीता व्याप्यव्यापकभावप्रतिपत्तिः । न चैतदस्ति, आकाशादौ क्रियावत्त्वं विनापि 20 द्रव्यत्वोपलब्धेः । समव्याप्तिकेऽपि साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादितिदूषणम् । विषमव्याप्तिके विपरीतानुगमो दोषो न समव्याप्तिके इति चान्ये । अत्रोपसंहारवाक्यं लिङ्गश्च, अनुमेयश्च, उभयञ्च, आश्रयश्चेति लिङ्गानुमेयोभयाश्रयाः, ते असिद्धा येषु आभासेषु ते तथोक्ताः, ते च अननुगताश्च, विपरीतानुगताश्चेति * लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानु- 25 गताः साधर्म्यनिदर्शनाभासाः ।
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
व्योमवत्यां
वैधय॑निदर्शनाभासान् दर्शयति - यदनित्यं तन्मर्तं दृष्टं यथा कर्म * इति साधनाव्यावृत्तम्, तस्य हि अमूर्तत्वादिति । तस्मिन्नेव साध्ये 'यथा परमाणुः' इति साध्याव्यावृत्तं व्यतिरेकोदाहरणम्, परमाणोनित्यत्वादिति ।
'यथा आकाशम्' इत्युभयाव्यावृत्तम्, अमूर्तत्वस्य नित्यत्वस्य च तत्राव्यावृत्ति5 रिति । 'यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वादिति । 'घटवत्' इत्युभयाव्यावृत्तावपि अव्यतिरेकः, यद् यन्नित्यं न भवति तत्तदमूर्तं न भवतीति वचनं विना व्यतिरेकस्याप्रतिपत्तेः । घटासत्त्ववादिनो वा प्रमाणेनाप्रतिपादितो न साध्यसिद्धि करोतीति आभास उच्यते,
* यन्निष्क्रियं तद् अद्रव्यं दृष्टम् * इति व्यतिरेकः । साध्यव्यावृत्त्या हि साधन10 व्यावृत्तिर्वाच्या, न तु साधनव्यावृत्त्या साध्यव्यावृत्तिः, क्रियावत्त्वाभावेऽपि
आकाशादौ द्रव्यत्वस्य साध्यस्याव्यावृत्तेः, साधनाभावो हि व्यापकः साध्याभावो व्याप्य इति । एतेषामुपसंहारः, लिङ्गञ्च, अनुमेयश्च, उभयञ्चेति लिङ्गानुमेयोभयानि, तानि अव्यावृत्तानि येषु आभासेषु ते लिङ्गानुमेयो
भयाव्यावृत्ताः, ते च आश्रयासिद्धञ्च अव्यावृत्तञ्च विपरीतव्यावृत्तञ्चेति 15 * लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासाः * इति।
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्य अनुमेये. ऽन्वानयनमनुसन्धानम् । अनुमेयधर्ममानत्वेनाभिहितं लिङ्गसामान्यमनु
पलब्धशक्तिकं निदर्शने अनुमेयधर्भसामान्येन सह दृष्टम् अनुमेये येन 20 वचनेनानुसन्धीयते तदनुसन्धानम् । तथा च वायुः क्रियावानिति । अनुमेयाभावे च तस्यासत्त्वमुपलभ्य, न च तथा वायुनिष्क्रिय इति ।
एवं सह आभासैनिदर्शनमुपदर्य अनुसन्धाननिरूपणार्थमाह * निदर्शनेऽनुमेयसामान्येन सह * इत्यादि । * निदर्शने * दृष्टान्ते । * अनुमेयसामान्येन * साध्यसामान्येन । * सह दृष्टस्य लिङ्गसामान्यस्य अनुमेये * पक्षे । * अन्वानयनमनुसन्धानम् * । आनयनं प्रतिपादनमन्यस्यापि सम्भवतीति लिङ्गस्येति पदम् । तथापि लिङ्गस्य निदर्शने प्रतिपादनमस्तीति तद्व्युदासाय अनुमेयपदम् । अनुमेये च गृहीताविनाभावस्य लिङ्गस्य प्रतिपादकं हेतुवचनमपीति निदर्शने
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
Acharya Shri Kailassagarsuri Gyanmandir
२०५
Sनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्येति पदम् । अतः अनुसन्धानमितरस्माद् भिद्यते निदर्शने गृहीतव्याप्तिकस्य लिङ्गस्यानुमेयेऽन्वानयनरूपत्वात्, यस्तु न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति ।
सङ्ग्रहोक्तेविवरणमाह * अनुमेयधर्ममात्रत्वेनाभिहितं लिङ्गसामान्यम्
*
न तु समर्थमिति मात्राभिधानेन दर्शयति । • अनुपलब्धशक्तिकम् * इति । अनुपलब्धा शक्तिरविनाभावो यस्य तत् तथोक्तम् । पुनः * • निदर्शनेऽनुमेयधर्मसामान्येन सह दृष्टम् । [ अनुमेये पक्षे] येन वचनेन 'अनु' पश्चात् सन्धीयते पक्षधर्मतया ख्याप्यते तद् अनुसन्धानम् ।
*
तदपि द्विविधम्, साधर्म्येण वैधर्म्येण च । तत्र अनुमेयसामान्येन सह लिङ्गसामान्यस्य निदर्शने सत्त्वमुपलभ्याभिसन्धत्ते तथा चायं क्रियावान् वायुरिति । वैधर्म्यनिदर्शने तु अनुमेयस्य द्रव्यत्वस्याभावे च तस्य क्रियावत्त्वस्या:सत्त्वमुपलभ्य न च तथा वायुर्निष्क्रिय इत्युपसंहारः । निष्क्रियत्वप्रतिषेधेन क्रियावत्त्वमुपसंहरतीति । पृथग्वचनन्तु प्रतिषेधाभिप्रायेणैव ।
*
For Private And Personal Use Only
5
10
ननु व्यर्थमनुसन्धानवचनम्, तदन्तरेणापि हेतुवचनाद् गृहीतव्याप्तिकात् साध्यसिद्धेः ? न, अनेन विना अबाधितविषयत्वस्याप्रतिपत्तेः । हेतुवचनन्तु कारणमात्रोपस्थापकम्, न तु गृहीतव्याप्तिकस्य अन्तर्व्याप्तिप्रतिपादकमिति । यथाभूतेन द्रव्यत्वाविनाभाविना प्रमाणान्तराविरुद्धेन क्रियावत्त्वेन क्रियावान् करः, तथा च वायुरित्यन्तर्व्याप्तिप्रतिपत्तिः । तदभावे तु बहिर्व्याप्ति - सद्भावेऽपि न गमकत्वम् । यथा शब्दस्य अनित्यत्वे साध्ये सामान्यवत्त्वे सति चाक्षुषप्रत्यक्षः, तस्य कालात्ययापदिष्ट [स्य त्वं ] चेति । अत एवात्रोपनयवचनं 20 न निर्विषयत्वादप्रमाणम् ।
15
न चोपसंहार विना धर्मिविशेषेण सम्बन्धाप्रसिद्धौ तत्रैव साध्यविशेषप्रतिपत्तिः स्यात् । स्वार्थानुमानकाले च उपनयार्थस्योपलब्धेः कार्यं तद्वचनम्, स्वप्रतिपत्त्यनुसारेण परार्थानुमानप्रवृत्तेः । न च स्वप्रतिपत्तावेतस्यासत्वम्, अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञानस्यानुभवात् । अनभ्यु - पगमे च सम्बन्धस्मरणस्यानियतत्वात् नियतप्रदेशे प्रतिपत्तिर्न स्यादित्युक्तम् ।
25
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
व्योमवत्यां
तस्माद् अयमित्यपरोक्षतानिर्देशस्याविनाभावसम्बन्धस्मरणानन्तरमुपलब्धरस्ति परामर्शज्ञानम्, अतस्तदुपन्यासार्थं कार्यमनुसन्धानवचनमिति ।
___ अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चयापादनार्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः । प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन निश्चयापादनार्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः, तस्माद् द्रव्यमेवेति ।
अथ प्रत्याम्नायस्वरूपोपदर्शनार्थम् * अनुमेयत्वेनोद्दिष्टे * इत्यादि प्रकरणम्। * अनुमेयत्वेन * अनुमानयोग्यत्वेन । * उद्दिष्टे चानिश्चितेच
परेषाम् * संशयितविपर्यस्ताव्युत्पन्नानाम् । पुनः * निश्चयापादनार्थं प्रतिज्ञायाः 10 [पुनः]वचनं प्रत्याम्नायः * ।
___सङ्ग्रहोक्तेविवरणमाह अनुमेये धर्ममात्र * प्रतिपाद्यत्वेन * साध्यत्वेन, * उद्दिष्टे चानिश्चिते च परेषाम् * । कि विशिष्टानाम् ? * हेत्वादिभिर
?वयवैरा हितशक्तीनाम् * इति । आहिता शक्तिरविनाभावो यस्य लिङ्गस्य
यैस्तैस्तथोक्तैस्तेषाम् । एतस्मात् साधनाद् भविष्यति साध्यसिद्धिरित्येवं 15 कृतास्थानामिति भावः । * निश्चयापादनाथ प्रतिज्ञायाः पुनर्वचनं
प्रत्याम्नायः * इति । पुनरुक्तमात्रव्यवच्छेदार्थं प्रतिज्ञायाः पुनर्वचनमिति पदम् । तथापि अनित्यः शब्दोऽनित्यः शब्द इति पुनरुक्तव्यु दासार्थं निश्चयापादनार्थमिति पदम् । अविप्रतिपन्नस्य एतस्मादपि निश्चयो भवतीति तदर्थं
परेषामिति । तथापि तेषां मध्ये कस्यचिद् एकावयवोपदर्शनेन अन्वयव्यतिरे20 कानुस्मरणद्वारेण अर्थप्रतिपत्तिर्भवतीति * परिसमाप्तेन वाक्येन * इति
ग्रहणम् । यस्मिन्नवयवे सति वाक्यं परिसमाप्यत इति । तदेवं प्रत्याम्नायः इतरस्माद् भिद्यते यथोक्तलक्षणत्वादिति ।
ननु प्रतिज्ञावचनस्य तु विनाशित्वेन अवस्थानासम्भवात् कथं पुनर्वचनमिति ? तत्समानशब्दोच्चारणात् । यथा क्षणिकत्वेऽपि कर्मणः पूर्वं समानाभि25 नयकरणात् पुनर्नृत्यतीति व्यपदेशस्तद्वत् प्रतिज्ञासमान शब्दप्रयोगकरणात्
पुनर्वचनमिति व्यपदेशो भवत्येव । अतिशये 'पुनः' शब्दो विवक्षित इति प्रतिज्ञा पक्षस्तस्य पुनर्वचनं घटत एव ।
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधर्म्यप्रकरणम्
२०७
लिङ्गवाक्यार्थवादिनस्तु प्रतिज्ञायतेऽनेनेति प्रतिज्ञा लिङ्ग तस्य
पुनर्वचनं प्रत्याम्नाय इति ।
उदाहरणन्तु प्रमाणाभावोऽप्युपदर्शित एव ।
5
अथ व्यर्थ प्रत्याम्नायवचनम्, सम्बन्धाभिधानादेव विवक्षितार्थप्रसिद्धेः । तदुक्तम्,
* तस्माद् द्रव्यमेवेति
Acharya Shri Kailassagarsuri Gyanmandir
*
। एतेन अद्रव्यत्वप्रतिपादक
*
"डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किं इयतार्थ - प्रतिपत्तिर्भवति नवेति । यदि इह भवति किमनया शब्दमालया ? न भवतीति न वाच्यं दृष्टत्वात् ' ( हेतुविन्दु:, बड़ोदा, पृष्ठ. ५६ )
नैतदेवं प्रतिज्ञावचनं विना अन्वयव्यतिरेकाप्रसिद्वौ सम्बन्धाभिधान- 10 स्यागमकत्वेन पूर्वमेव व्यवस्थापितत्वात्
न ह्येतस्मिन्नसति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति । गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् । तथाहि, प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम्, विदुषामन्वयव्यतिरेकस्मरणात् तदर्थावगतिर्भविष्यतीति । तस्मादत्रैवार्थपरिसमाप्तिः
१. डिण्डिका नग्नाचार्याः । ते निष्फलमुपर्युपरि* नामलेखने प्रसक्तास्ततस्तेषामिव 'परेणोक्ते तस्योपरि मया अवश्यमयुक्ततया निष्फलमपि अभिधानीयम् इत्यस्थानाभिनिवेशं त्यक्त्वा अक्षिणी निमील्य बहिविक्षेपमुपसंहृत्य चिन्तय तावत् किमियता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिः स्यान्नवेति । भावे प्रतीतेः किं प्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदूपयोगवर्णनलक्षणया वा । ( अटभट्ट कृता हेतुविन्दुटीका, वड़ोदा, पृ. ७१, पं. १-१४ ।
For Private And Personal Use Only
15
20
उपरीति । प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा योगिनान्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा वा तदुत्साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जतेऽत एव नामलेखनमिति णिचा निर्दिष्टम् | ( दुर्वेक मिश्रकृत हेतु विन्दुटी काटीका आलोक:, वड़ोदा, पृ. ३२०, पं. ७-१० ।
25
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
10
20
25
२०८
www.kobatirth.org
व्योमवत्यां
कथम् ? अनित्य शब्द: इत्यनेन अनिश्चिता नित्यत्वमात्र विशिष्टः शब्द: कथ्यते । प्रयत्नानन्तरीयकत्वादित्यनेन अनित्यत्वसाधनं धर्ममात्रमभिधीयते । इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टम्, यथा घट इत्यनेन साध्यसामान्येन साधनसामान्यस्य अनुगममात्रमुच्यते । नित्यम् अप्रयत्नानन्तरीयकं दृष्टम्, यथा आकाशम् इत्यनेन साध्याभावेन [सह ] साधनस्य असत्त्वं प्रदर्श्यते । तथा च प्रयत्नानन्तरीयकः शब्दो दृष्टः, न च तथा आकाशवदप्रयत्नानन्तरीयकः शब्द इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते । तस्माद् अनिन्यः शब्द इत्यनेन अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिगम्यते ।
अथ प्रतिज्ञादेरेवार्थप्रतिपादकत्वमस्तु किं प्रत्याम्नायेन, तथाहि, प्रतिज्ञावचनैविषयव्यवस्थापनाद् हेतुदाहरणाभ्यां वहिर्व्याप्तिप्रसिद्ध उपनये -
15 नान्तर्व्याप्त्युपदर्शने सति अवश्यमभिप्रेतार्थसिद्धिरिति । सत्यमेतत्, तथापि अवश्यम्भाविनोऽर्थस्य प्रतिज्ञादिना प्रतिपादितस्य प्रतिपादनार्थमवश्यं कार्यं
तस्मात् पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं कियत इत्येतत् परार्थानुमानं सिद्धमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
निगमनमित्याह * न ह्येतस्मिन् इति । न पूर्वेषामवयवानां समस्तानां तदर्थवाचकत्वमस्ति । व्यस्तानामितरेतरव्यावृत्तस्वार्थव्यवस्थापने चरितार्थत्वमित्यन्यदतो वाच्यं यस्य सहकारिणां पूर्वपदानां समस्तानामपि स्मृत्युपस्थापितानां वाक्यार्थप्रतिपादकत्वमिति ।
*
營
अथ साधनस्य अन्तर्व्याप्तिबहिर्व्याप्यभिधाने सति साध्यविशेषो गम्यत एवेत्याह * गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् । तथाहि प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम् स्वत एव विदुषां हेतुपलम्भे सति अन्वयव्यतिरेकानुस्मरणं, तस्माच्चार्थाधिगतिर्भविष्यतीति विशेषाभिधानवैयर्थ्यं स्यात् ।
अथ परं प्रतिपादयता वचनेनैव प्रतिपादनं कार्यमिति शेषाणां प्रयोगः ? तर्हि वाक्यार्थप्रतिपादनार्थं निगमनमपि कार्यम् । न च प्रतिपाद्याभिप्रायेण प्रयोगो युक्तः, तस्य मनुष्यधर्मणा साक्षादप्रतीतेरव्यवस्थापनाच्च । तथाहि,
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२०९ कश्चिदेकस्मादेव अवयवादर्थं प्रतिपद्यते, कश्चिद् द्वाभ्याम्, अन्यस्त्रिभिरित्यनवस्थितत्वात् प्रतिपाद्यानां तदभिप्रायानिश्चये प्रयोगानुपपत्तिरेव स्यात् । अतः परं प्रतिपादयता स्वप्रतिपत्त्युपायोपदर्शनं कार्यमिति पञ्चानां प्रयोगो युक्तः। तथाहि, प्रदेशस्थं धूममुपलभ्य अविनाभावसम्बन्धं स्मृत्वा तथा चायं धूमवानिति परामृशति, ततः साध्यं प्रतिपद्यते तस्मादग्निमानिति 5 निगमनार्थस्याप्युपलब्धेः परप्रतिपादनाय तदुपन्यासो युक्त एवेति पञ्चानां प्रयोगः कार्य इत्याह भाष्यकार: *तस्मादत्रैवार्थपरिसमाप्तिः - इति ।
अन्ये तु अन्तर्व्याप्तिप्रतिपादनार्थं निगमनमिति मन्यन्ते । अनुसन्धानात् पक्षव्यापकत्वप्रसिद्धौ विपरीतप्रसङ्गप्रतिषेधार्थं निगमनमिति ।
विपरीतार्थव्यवस्थापकप्रमाणस्याप्रामाण्योपदर्शने सति पक्षे व्याप्ति: 10 प्रतीयत एव । यत्र च परपक्षाप्रतिषेधस्तत्र हेतोनं गमकत्वम् । यथा मूर्योsसौ तत्पुत्रत्वात् उपलभ्यमानतत्पुत्रवदिति । अत्र हि तत्पुत्रस्य अमूर्खत्वे न किञ्चिद् बाधकमस्तीति तत्साधकप्रमाणाभावश्च निश्चित एवेति अन्यथासिद्धं साधनमेतत् ।
अथाविनाभूतस्य प्रमाणविरोधाभावान्न युक्तं विपरीतप्रमाणस्याप्रामा- 15 ण्योपदर्शन मिति चेन्न, तदन्तरेणाविनाभावस्यैवाप्रसिद्धः । तथाहि, नित्यत्वप्रतिपादकप्रमाणस्य प्रामाण्ये सति न शब्दे कृतकत्वस्यानित्यत्वेन व्याप्तिः स्यादिति । न च परपक्षप्रतिषेधकादेव स्वपक्षसिद्धिः, व्यधिकरणत्वात्, हेतोरपि वैयर्थ्यप्रसङ्गाच्चेति । परपक्षप्रतिषेधे तूपदर्शितबहिर्व्याप्तिकं पक्षे चोपलभ्यमानं भवत्येव साधनमिति निगमनप्रयोगः कार्यः ।
अथ प्रतिज्ञावचनमेव परपक्षप्रतिषेधसहायं साधनमिति चेन्न, तस्य साध्यमात्राभिधायकत्वात्, साध्यम् इति अर्हत्यर्थे, शक्यार्थे वा कृ[त्यताभिधानात् कथं तद्वचनात् तस्य सिद्धिः? तस्माद् बहिर्व्याप्तिवदन्तर्व्याप्ति समर्थयता अबाधितविषयत्वासत्प्रतिपक्षत्वप्रतिपादनार्थमेव अवयवान्तरमभिधेयम् ।
अथ प्रकरणसमकालात्यापदिष्टयोरपि बहिर्व्याप्तिसद्भावात् गमकत्वं 25 स्यात्, अस्ति च तयोः पक्षव्यापकत्वे सत्यन्वयव्यतिरेकसद्भाव इति ? अयुक्त
२७
20
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
व्योमवत्यां
मेतत्, तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धायत्तस्तु अव्यभिचारो न भवतीत्युक्तं व्याप्तिसमर्थनावसरे । तस्मादुक्तन्यायेन अत्रैवार्थपरिसमाप्तिरिति ।
एवं विभिन्नप्रकरणेषु अवयवानां स्वरूपोपदर्शनेऽपि एकत्र तत्स्वरूपपरिज्ञानापेक्षया प्रश्नः * कथम् * इति । * अनित्यः शब्द इत्यनेन 5 अनिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते * इति प्रतिज्ञेषा। * प्रयत्ना
नन्तरीयकत्वादित्यनेन अनित्यत्वसाधनधर्ममात्रमभिधीयते * न तु समर्थमिति हेतुवचनम् । * इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इत्यनेन साध्यसामान्येन (सह ?) साधनसामान्यस्यानुगममात्रमुच्यते * इति साधोदाहरणम् । * नित्यम् अप्रयत्नानन्तरीयकं दृष्टं यथा आकाशम् इत्यनेन साध्याभावेन [सह साधनस्यासत्त्वं [व्याख्यायते ? प्रदश्यते * इति वैधर्योदाहरणम् । * तथा च प्रयत्नानन्तरीयकः शब्दः * न च तथा प्रयत्नानन्तरीयको न भवतीति, *अन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते*। *तस्मादनित्यः [एव ? शब्दः] इत्यनेन
अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते इत्यभिप्रेतार्थ 15 सिद्धिर्भवतीति । अतः * पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते इति सिद्धम् ।
अत्र च शब्दविशेषस्य पक्षीकरणे प्रयत्नानन्तरीयकत्वं साधनं विवक्षितमिति ज्ञेयम् । अन्यथा हि शब्दमात्रपरिग्रहे प्रयत्नानन्तरीयकत्वं भागासिद्धं स्यात् । न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्तीति ।
20 निर्णयवैधर्म्यम्
विशेषदर्शनजमवधारणज्ञानं संशयविरोधी निर्णयः । एतदेव प्रत्यक्षमनुमानं वा। यद्विशेषदर्शनात् संशयविरोध्युत्पद्यते स प्रत्यक्षनिर्णयः । यथा स्थाणपुरुषयोरूर्वतामात्रसादृश्यालोचनाद् विशेषेष्व
प्रत्यक्षेषु उभयविशेषानुस्मरणात् किमयं स्थाणुः पुरुषो वेति 25 संशयोत्पत्तौ [सत्यां?] शिरःपाण्यादि[विशेष?]दर्शनात् पुरुष एवायमित्य
वधारणज्ञानं प्रत्यक्षनिर्णयः ।
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२११ विषाणमात्रदर्शनाद् गौर्गवयो वेति संशयोत्पत्तौ सास्नामात्रदर्शनाद् गौरेवायमित्यवधारणज्ञानमनुमाननिर्णयः ।
अथ निर्णयो विद्यान्तरमिति केचित् । तनिषेधार्थं *विशेषदर्शनजम् - इत्यादि प्रकरणम् । परार्थानुमानानन्तरमस्यान्तर्भावनिरूपणमत्रापि अन्तर्भावज्ञापनार्थम् । निर्णय इति लक्ष्यनिर्देशोऽवशिष्टं लक्षणम् । अवधारणज्ञानं हि 5 विपर्ययज्ञानमपि भवति न तु विशेषदर्शनाज्जायते। विशेषदर्शन [चोभ ? च संश] यज्ञानमपीत्यवधारणग्रहणम् ।।
तथापि विशेषदर्शनजमवधारणज्ञानं निर्णय इत्युक्त व्यभिचाराभावाद् व्यर्थं संशयविरोधीति पदम् ? न, विशिष्टनिर्णयलक्षणार्थत्वात् । यद्यपि विशेषदर्शनजमवधारणज्ञानमिति सकलनिर्णयव्यापीदं सामान्यलक्षणं तथापि 10 संशयविरोधीति पदं संशयपूर्वकस्य निर्णयस्य लक्षणार्थम् । तथा च नैयायिकैरुक्तं 'विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' (न्या. सू. १।११४१) इति संशयपूर्वकस्य लक्षणम् । विमृश्येति विमर्श कृत्वा, पक्षप्रतिपक्षाभ्यामिति तद्वचनाभ्याम्, स पुनः साधनदूषणाभ्यां निर्णय इति ।
अथ विशेषदर्शनात् संशयो व्यावर्तते, न निर्णयादिति कथं तद्विरोधि- 15 त्वम् ? उपचारेण, निर्णयकारणस्य संशयविरोधित्वात् निर्णयस्तविरोधीत्यु
____ अस्यान्तर्भावमाह * एतदेव प्रत्यक्षमनुमानं वा * न ज्ञानान्तरम् । प्रत्यक्षसामग्रीजन्यं हि प्रत्यक्षमनुमानसामग्रीजन्यन्तु अनुमानमिति । * यद् विशेषदर्शनात् संशयविरोध्युत्पद्यते स निर्णयः * इति प्राक्तनस्य विवरणम् । 20
अत्र स्थाणुपुरुषयोरूयतामात्रसादृश्यालोचनाद् विशेषेष्वप्रत्यक्षेषुभयविशेषानुस्मरणात् [किमयं स्थाणुः पुरुषो वेति संशयोत्पत्तौ सत्यां शिरः पाण्यादिविशेषदर्शनात् पुरुष एवायमित्यवधारणज्ञानम् *इन्द्रियार्थसन्निकर्षादुत्पत्तेः प्रत्यक्षनिर्णयः । * विषाणमात्रदर्शनात् * इति पिण्डव्यवधानेऽपि सादृश्यविशिष्टविषाणदर्शनात् । *गौर्गवयो वेति संशयोत्पत्तौ* सत्याम् । 25 * सास्नामात्रदर्शनात् * अविनाभावसम्बन्धस्मरणे सति परामर्शज्ञानानन्तरम् । * गौरेवायमित्यवधारणज्ञानं अनुमाननिर्णयः ।
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
व्योमवत्या स्मृतिवैधर्म्यम्
लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पटवभ्यासादरप्रत्ययजनिताच्च संस्काराद् दृष्ट श्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिरिति ।
अथ स्मृतेः कार्यकारणविषयस्वरूपनिरूपणार्थं लिङ्गदर्शनेच्छा[नु स्मरणाद्यपेक्षात् * इत्यादि प्रकरणम्। [* लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षात् । लिङ्गदर्शनञ्च इच्छा च अनुस्मरणञ्चेति तथोक्तानि, तान्यादिर्येषामित्यादिपदेन प्रणिधानादेब्रहणम्, तान्यपेक्षत इति तदपेक्षस्तस्मात् । * आत्ममनसोः
संयोगविशेषात् * इत्यसमवायिकारणनिर्देशः । लिङ्गदर्शनेच्छानुस्मरणाद्य10 पेक्षात् * पट्वभ्यासादरप्रत्ययजनिताच्च संस्कारात् * इति निमित्तकारण
निर्देशः । * दृष्टश्रुतानुभूतेष्वर्थेषु * इति दृष्ट: प्रत्यक्षेण, श्रुतः शब्देन, अनुभूतोऽनुमानेन ।
अन्ये तु दृष्टश्चक्षुषा, अनुभूतस्त्वगिन्द्रियेणेति ।
तत्र लिङ्गं दर्शयति * शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुः - इति । 15 उपयुक्ताल्लिङ्गाद् अनुमेयः शेषः, सोऽनुव्यवसीयते अनेनेति शेषानुव्यवसाय:
परामर्शज्ञानम्, तस्य हेतुरविनाभावसम्बन्धस्मरणम्, तथा पदस्मरणाद् वाक्यस्मरणम्, सुखस्मरणादिच्छो दुःखस्मरणाद् द्वेष इति । * अतीतविषया * इति स्वरूपकथनम् । अतीतो विषयो यस्याः सा तथोक्तेति ।
नन्वयुक्तमेतत्, विद्यमानेऽपि वस्तुनि स्मरणस्य दर्शनादित्यव्याप्तिः, 20 अतिव्याप्तिश्च अनुमानादेरतीतविषयत्वादिति ।
अथ चोदनैव भूतं भविष्यन्तं विप्रकृष्टादिकमर्थं प्रकाशयति नान्यत् किञ्चन इन्द्रियादिकमिति चेन्न, अनुमानस्यापि अतीताद्यर्थप्रकाशकत्वेनोपलम्भात् । तथा च, मेघोन्नत्या भविष्यति वृष्टिरित्यनुमीयते, नदीपूराच्च
विशिष्टाद् उपरिष्टाद् वृष्टिरित्युक्तम् । प्रत्यक्षञ्चात्र अविनाभावग्राहकमभ्युपे25 यम्, अन्यथा व्याप्तिग्रहणाभावेऽनुमानमेव न प्रवर्तेत । न चानुमानेनैवाविना
भावग्रहणम्, अनवस्थाप्रसङ्गात् । वर्तमानेन चाविनाभावग्रहणे कथम् अतीता
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणवैधयंप्रकरणम
२१३
द्यर्थानुमानं स्यात्, अन्येनाविनाभावग्रहणेऽन्यस्यानुमितौ अतिप्रसङ्गात् । तस्मादतीतविषयत्वं व्याख्येयमुपचारेण । यत्र हि विषयेऽनुभवोऽतीतस्तत्र स्मृतिरुत्पद्यत इति ।
अन्ये तु अतीतो व्यवहितो विषयो यस्यानुभवस्यासौ अतीतविषयः, स विषयो यस्याः सा अतीतविषयेति प्राप्ते सति एकस्य विषयस्य लोपो 5 द्रष्टव्य इत्यतीतानुभवविषयत्वं लभ्यत इति मन्यन्ते ।
अथ अर्थजत्वमेव स्मृतेः कस्मान्नेष्यते ? अर्थविनाशेऽप्युत्पादात् । न च यद्देशकालालिङ्गितेऽनुभवज्ञानमुत्पन्नं तदालम्बनमेव न्याय्यम्, स्मृतिकाले तस्याविद्यमानतया विषयत्वाभावात् । बाह्येन्द्रियाणाञ्च स्मृतिजन्मनि प्रत्येक व्यभिचारादन्तःकरणस्य व्यापारो निश्चीयते । न च तस्य स्वात- 10 त्र्येण बहिर्विषये व्यापारः सम्भवतीति अनर्थजत्वमेव न्याय्यम् । अवश्यञ्च अर्थजत्वे सति अव्यभिचारित्वादिधर्मोपेतत्वात् प्रमारूपतायां स्मृतेः प्रमाणादुत्पत्तिर्वाच्या। अनुमानादेश्च व्यापारानुपलब्धेरन्तःकरणस्य स्वातन्त्र्येण तदुत्पत्तौ प्रामाण्ये सति स्मृतेरपरोक्षत्वं स्यात्, न चैतदस्ति, तस्मान्निविषयत्वमेव । आर्षज्ञानवैधर्म्यम्
आम्नायविधातणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु च आत्ममनसोः संयोगाद् धर्मविशेषाच्च यत् प्रातिभ यथात्मनिवेदनं ज्ञानमुत्पद्यते तद् आर्षमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम, कदाचिदेव लौकिकानाम, यथा कन्यका 20 ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं में कथयतीति।।
अथ आर्षज्ञानस्य कारणविषयप्रमाणनिरूपणार्थम् * आम्नायविधातणाम् * इत्यादि प्रकरणम् । आम्नायो वेदः श्रुतिस्मृतिलक्षणः, तस्य विधातारः कर्तारः, तेषामृषीणामुत्पद्यते * यत् प्रातिभं ज्ञानम् * इति प्रतिभया संस्कारविशेषेण नित्तितम् । * यथात्मनिवेदनम् * यथा तस्य पदार्थ- 25 स्यात्मा स्वरूपं तन्निवेदनम् तदालम्बनमुत्पद्यते * तद् आर्षमित्याचक्षते * ।
15
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
व्योमवत्यां
5
केष्वर्थेषूत्पद्यते ? * अतीतानागतवर्तमानेषु * । किंविशिष्टेषु ? * अतीन्द्रियेषु धर्मादिषु * आदिपदेन परमाण्वादेर्ग्रहणमिति । * ग्रन्थोपनिबद्वेष्वनुपनिबद्धेषु च - ग्रन्थोपनिबद्धेषु आत्मदिषु], अनुपनिवद्धेषु च परमाण्वादिषु इयान् धर्म इति । कुतः कारणादेषु यथार्थविज्ञानम् ? * आत्ममनसोः संयोगात् * असमवायिनः * धर्मविशेषाच्च * निमित्तादिति । *तत्तु प्रस्तारेण ऋषीणामतस्तदार्षम् । तत्तु कदाचिदेव लौकिकानामप्यर्षीणामेवंविधं विज्ञानमस्तीति । किम स्मदादीनां?त्र प्रमाणमित्याह * कदाचिदेव लोकिकानाम् * तत् प्रातिभं ज्ञानमिति । * यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति * । न चेन्द्रिय तत्, [तद्]व्यापारं विनाप्युत्पत्तेः ।
अथ बाह्येन्द्रियाणां व्यापारासम्भवेऽपि अन्तःकरणस्य व्यापारात् प्रत्यक्षफलत्वम् । सम्बन्धोऽपि इन्द्रियेण सह भ्रातु: संयुक्तविशेषणविशेष्यभावः । तथाहि, तद्विशिष्टमात्मानं देशं कालं वा आलम्ब्योत्पद्यते ज्ञानमेतद् इत्युक्तं परैः । तच्चासत्, अस्यापरोक्षत्वा[नुप?]पत्तेः । यत्र हि अपरोक्षज्ञानं तत्रैव इन्द्रियव्यापारकल्पना क्रियते। न चात्र तदस्तीति । न च बहिर्विषये विशेषणेऽपि मनसः स्वातन्त्र्येण व्यापारः सम्भवतीत्युक्तम् । लिङ्गलिङ्गिसम्बन्धानुस्मरणाननुभवाच्च नानुमानजम् । शब्दं विनाप्युत्पत्तेर्न शाब्दम् । अतः प्रमाणान्तरफलमेतत् । तथा प्रश्ने कृते सति न प्रत्यक्षादिकं निर्दिशति, अपि तु * हृदयं मे कथयतीति * ब्रूते ।
अथ कस्मात् प्रत्यक्षानुमानानन्तरमार्षज्ञानस्य न निरूपणम् ? अस्मदा20 दीनां तेन व्यवहाराभावात् । यतस्तत्तु प्रस्तारेण ऋषीणामेव, कदाचिदेव
लौकिकानामिति ।
सिद्धदर्शनस्य विद्यान्तरत्वनिरासः
सिद्धदर्शनं न ज्ञानान्तरम् । कस्मात् ? प्रयत्नपूर्वकम् अञ्जनपादलेपखड़गगुलिकादिसिद्धानां दृश्यद्रष्टणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु 25 यद् दर्शनं तत्प्रत्यक्षमेव । अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहन
क्षत्रसञ्चारादिनिमित्तं धर्माधर्मविपाकदर्शनमिष्टं तदप्यनुमानमेव । अथ
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२१५ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन् अन्तभूतमित्येवं बुद्धिरिति ।
सिद्धदर्शनं विद्यान्तरमिष्टं परैस्तन्निषेधार्थमाह - सिद्धदर्शनं न ज्ञानान्तरम् * इति । आर्षज्ञानानन्तरमस्य अन्तर्भावनिरूपणम् आर्षेऽप्यन्तर्भावार्थम् । यत् सिद्धानां दर्शनमुत्पद्यते तत्प्रत्यक्षमेव । केष्वर्थेषु ? * सूक्ष्म- 5 व्यवहितविप्रकृष्टेषु इति । सूक्ष्माः परमाणवः, व्यवहिता नागभुवनादयोऽस्मदादीन्द्रियापेक्षया । न तु सिद्धेन्द्रियाणां व्यवधायकमस्ति । विप्रकृष्टा मेर्वादयः, तेषु । सिद्धानां कि विशिष्टानाम् ? मुक्तात्मव्यवच्छेदार्थ * दृश्यद्रष्टृणाम् * इति । किञ्च तेषां सद्भावे प्रमाणमित्याह * दृश्यानाम् । कदाचिद् अञ्जनादिवियुक्ताः प्रत्यक्षेणाप्युपलभ्यन्ते । का पुनस्तेषां सिद्धिरित्याह 10 * अञ्जनपादलेपखड्गगुलिकादिसिद्धानाम् * इति । आदिपदेन चिन्तामणिप्रभृतीनां ग्रहणम् । अञ्जनादिवशाच्च सिद्धेन्द्रियाणां सूक्ष्माद्यर्थप्रकाशनम्, अतः तत् प्रत्यक्षमेव * [न] ज्ञानान्तरमिति । ____ अथ ज्योतिषामयनं दृष्ट्वा प्राणिनां शुभमशुभं वा भविष्यतीति ज्ञानं प्रमाणान्तरमिष्टं तनिषेधार्थम् * दिव्यान्तरिक्षभौमानाम् * इत्यादि । 15 दिवि भवं दिव्यमुल्कापातादि, अन्तरिक्षे भवश्चान्तरिक्षं दिग्दाहादि, भूमौ भवं भौमं भूसञ्चलनादि, तेषाम् । * ग्रहनक्षत्रसञ्चारादिनिमित्तम् * उपलभ्य प्राणिनां धर्माधर्मयोर्विपाकः फलदानसामर्थ्यं तद्दर्शनं न] ज्ञानान्तरमिष्टम् * तदप्यनुमानमेव * लिङ्गदर्शनानु[बन्ध] स्मरणादिजन्यत्वात् ।
यद् वा दिव्यान्तरिक्षभौमानां सुरसिद्धमनुष्याणां प्राणिनां ग्रहनक्षत्र- 20 सञ्चारादिनिमित्तमुपलभ्य धर्माधर्मयोविपाकदर्शन मिष्टं तदप्यनुमानमेवेति ।
अथ लिङ्गानपेक्षं धर्माधर्मादिषु दर्शनमिष्टं तदपि यदि इन्द्रियार्थसन्निकर्षादपरोक्षमुत्पद्यते प्रत्यक्षमेव । अथेन्द्रियार्थसन्निकर्ष विनैव धर्मविशेषादुत्पद्यते तथाप्यार्षमित्याह * प्रत्यक्षाय रन्यतरस्मिन्नन्तर्भूतमिति * । * एवं बुद्धिरिति * उपसंहार: परोपगताया बुद्धेविनाशपर इति ।
25 सुखवैधर्म्यम्
अनुग्रहलक्षणं सुखम् । स्त्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोप
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
व्योमवत्यां लब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगाद् अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम् । अतीतेषु विषयेषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् । यत्तु विदुषाम् असत्सु विषयानु
स्मरणेच्छासङ कल्पेवाविर्भवति तद् विद्याशमसन्तोषधर्मविशेषनिमित्त5 मिति ।
अथ बुद्धेरनन्तरं सुखस्य कार्यकारणस्वरूपोपदर्शनार्थम् * अनुग्रहलक्षणं सुखम् * इत्यादि । अनुग्रहलक्षणमनुग्रहस्वरूपम् । यस्मिन्नुत्पन्ने सति आत्मा अनुगृहीतमात्मानं मन्यत इति । * स्रगाद्यभिप्रेतविषयसान्निध्ये सति *
इति। स्रगादयश्च ते अभिप्रेतविषयाश्चेति तेषां सान्निध्यम् । अनभिप्रेता 18 रागादयः सुखहेतवो न भवन्तीति अभिप्रेतग्रहणम् । इष्टोपलब्धिश्च इन्द्रिया
र्थसन्निकर्षश्चेति तथोक्तं तस्मात् । धर्माद्यपेक्षादित्यादिपदेन दिककालादेहणम् । तान्यपेक्षत इति तदपेक्षस्तस्मात् । इष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगात् असमवायिकारणाद् आत्मनि सुख
मुत्पद्यते । * अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकम् * इति कार्यनिरूपणम् । 15 अनुगृहीतिरनुग्रहः सुखविषयं ज्ञानम्, आसत्तिरभिष्वङ गः, नयनादिप्रसादः
प्रसन्नता । आदिपदेन मुखादिप्रसन्नता गृह्यत इति । तदेतत् असाधारणत्वादितरस्माद् भेदकमिति ज्ञेयम् । न च सर्वं विवेकिनः स्वरूपतो दुःखम्, अनुग्रहात्मकस्य सुखस्याप्यनुभवात् । अतएव न दुःखाभावे सुखव्यवहार
इति वाच्यम् । विभिन्नकारणजन्यस्य तीव्रतरादिभेदभिन्नस्य प्रतिभासनात् । 20 एवं दुःखस्यापि न सुखाभावरूपतेति ।।
यदेतदुक्तं सुखं तत् सन्निहिते वस्तुनि इन्द्रियार्थसन्निकर्षादुत्पद्यते, अतीतानागतेषु स्मरणसङ्कल्पाभ्यामित्याह * अतीतेषु * सुखसाधनेषु, * स्मृतिजम्, अनागतेषु सङ्कल्पजम् * इत्येतद् हेयमुपदर्शितम् ।
* यत्तु विदुषामसत्सु [विषयानुस्मरणेच्छासङ्कल्पेषु] * विषयानुस्म25 रणञ्चेच्छा च सङ्कल्पश्चेति तथोक्ताः, तेष्वविद्यमानेष्वाविर्भवति तद्पादेय
मेव । * विद्याशमसन्तोषधर्मविशेषनिमित्तम् * इति कारणोपन्यासः । विद्या तत्त्वज्ञानं तस्मात् तत्त्वज्ञानिनां सुखम् । तथा शमो रागादिविनाशः,
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१७
तस्माच्च शान्तमनसां सुखम् । सन्तोषो विषयेष्वलम्प्रत्ययः, तस्माच्च सुखम् । केषाञ्चिद् धर्मविशेषाच्चेति ।
अन्ये तु विद्यया जनितः सः शमः, तस्मात् सुखमिति । शेषं पूर्ववत् ।
दुःखवैधर्म्यम्
वैधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
उपघातलक्षणं दुःखम् । विषाद्यनभिप्रेत विषयसान्निध्ये सति अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः संयोगाद् यद् अमर्षोपघात दैन्यनिमित्तमुत्पद्यते, तद् दुःखम् । अतीतेषु सर्पव्याघ्रचौरादिषु स्मृतिजम् । अनागतेषु सङ्कल्पजमिति ।
२८
ॐ
募
दुःखनिरूपणार्थमाह * उपघातलक्षणम् उपघातस्वरूपं दुःखमिति । उपहन्यतेऽनेनेति उपहतमात्मानं मन्यत इति । कारणमाह [ विषाद्यनभि- 10 प्रेतविषयसान्निध्ये सति ] विषादयश्च तेऽनभिप्रेतविषयाश्चेति, तेषां सान्निध्ये सतीति । अभिप्रेताश्च विषयादयः सुखहेतव एवेत्यनभिप्रेतग्रहणम् । [ * अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षात् ] अनिष्टोपलब्धिश्च इन्द्रियार्थसन्निकर्षश्चेति तथोक्तः, तस्मादधर्मापेक्षादित्यादिपदेन दिक्कालादेग्रहणम् । तस्मादनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः 15 संयोगादसमवायिकारणाद् आत्मनि समवेतं यद् उत्पद्यते तद् दुःखम् । अमर्षोपघात दैन्यानां निमित्तं कारणम्, तदितरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पादिष्विति कार्यनिरूपणम् । अमर्षोऽसहिष्णुता, उपहतिरुपघातो दुःखालम्बनं ज्ञानमिति । दैन्यं दीनरूपता दुःखादुत्पद्यत इति । तदेतद् असाधारणत्वाद् इतरस्माद् भेदकमिति ज्ञेयम् । अतीतेषु सर्पव्याघ्रचौरा - 20 दिषु दुःखसाधनेषु, • स्मृतिजम्, अनागतेषु सङ्कल्पजमिति । इच्छावैधर्म्यम्
*
*
*
5
स्वार्थ परार्थं वा अप्राप्तप्रार्थनेच्छा । सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा उत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । कामोऽभिलाषः, रागः सङ्कल्पः, कारुण्यम्, वैराग्यम्, उपधा, भाव इत्येव- 25 मादय इच्छाभेदाः । मैथुनेच्छा कामः, अभ्यवहारेच्छा अभिलाषः, पुनः
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
व्योमवत्यां
पुनविषयानुरञ्जनेच्छा रागः, अनासन्नक्रियेच्छा सङ्कल्पः, स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम्, दोषदर्शनाद् विषयत्यागेच्छा वैराग्यम्, परवञ्चनेच्छा उपधा, अन्तनिगूढेच्छा भावः। चिकीर्षाजिहीर्षेत्यादिक्रियाभेदाद् इच्छाभेदा भवन्ति ।
इच्छायाः कार्यकारणस्वरूपनिरूपणार्थं स्वार्थं परार्थ वा * इत्यादि । अप्राप्ते वस्तुनि प्रार्थनारूपत्वादिच्छेति । स्वार्थ परार्थं वेति विप्रतिपत्तिनिरासार्थं विभागकथनम्, न केवलं स्वार्थमेव परार्थमपि । उत्पत्तिकारणमाह * सा चात्ममनसोः संयोगात् * असमवायिकारणादुत्पद्यते । किमपेक्षात् ? * सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा ५ इति ! * प्रयत्नस्मृतिधर्माधर्महेतु: * इति कार्यनिरूपणम् । शुद्धाभिसन्धिर्धमहेतुर्दुष्टाभिसन्धिश्चाधर्महेतुरिति । ___अन्येऽपि गुणाः कामादयः सन्ति च शब्दे ? ते च] किं न सूचिता इति चोद्यस्य परिहारार्थमन्तर्भाव निरूपयति * कामोऽभिलाषो रागः सङ्कल्पः
कारुण्यं वैराग्यम् उपधा भाव इत्येवमादय इच्छाभेदाः तद्विशेषा इति । 15 मैथुनेच्छा कामः, तत्सद्भावे कामीति व्यपदेशात्, नेच्छामात्रमिति । अभ्यव
हरणेच्छा अभिलाषः, अभिलाषलक्षणेच्छा । सामान्येन सर्वस्मिन् वस्तुनि अभ्यवहरणमादानं विवक्षितम् । तदिच्छा अभिलाष इति चान्ये । * पुनः पुनविषयानुरञ्जनेच्छा रागः * तेन हि सता रागीति व्यपदेशात् । अनासन्नक्रियायाम् अनागतक्रियायामिच्छा सङ्कल्पः । * स्वार्थमनपेक्ष्य परदुःखप्रहा220 णेच्छा * तद्विनाशेच्छा कारुण्यम् । दोषदर्शनाद् विषयेषु परित्यागेच्छा
वैराग्यम् । तत् सद्भावे विरक्तव्यवहारात्। * परवञ्चनेच्छा उपधा। अन्तर्निगढेच्छा भावः * इति । यद्यपि इच्छा सर्वा अन्तर्न बाह्येति; तथापि इयमन्यापेक्षया कथञ्चिद् विज्ञायत इत्यन्तनिगूढत्युच्यते । *चिकीर्षा
जिहीर्षेत्यादिक्रियाभेदादिच्छाभेदा भवन्ति * कर्तुमिच्छा चिकीर्षा, 25 हर्तुमिच्छा जिहीर्षेति । द्वेषवैधर्म्यम्
प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते,
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणवैधयंप्रकरणम्
२१९
स द्वेषः । स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षा वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः। द्रोहः, क्रोधः, मन्युरक्षमा अमर्ष इति द्वेषभेदाः ।
द्वेषनिरूपणार्थमाह *प्रज्वलनात्मकः प्रज्वलनस्वरूपो द्वेषः। * यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते, स द्वेषः इति पूर्वस्य विवरणम् । 5 * स चात्मनसोः संयोगात् * असमवायिकारणात्, दुःखापेक्षात् स्मृत्यपेक्षाद् वा * आत्मन्युत्पद्यत इति । * प्रयत्नस्मृतिधर्माधर्महेतुः * इति कार्यनिरूपणम् । यथा हि द्वेषाद् वधादौ प्रवर्त्तमानस्याधर्मो भवत्येवं यजनादौ प्रवर्त्तमानस्य धर्मोऽपीति । भेदनिरूपणार्थमाह द्रोहः क्रोधो मन्युरक्षमा अमर्ष इति द्वेषभेदाः * तद्विशेषा इति । स्वामिनोऽपकारो द्रोहः, क्रोधस्तु 10 यस्मिन्नुत्पन्ने शरीरेन्द्रियावयवानां विकारः सम्पद्यते । मन्युरपकृतस्यापकर्तुमसमर्थस्य कण्ठाक्षविकारजनकः । अक्षमा असहिष्णुता। अमर्षोऽपकर्व दिव्यवधानेनाप्य[पकरणम् ।
नन्वेते सुखदुःखेच्छाद्वेषाः कथं विज्ञानाद् व्यतिरिच्यन्ते, समानकारणजन्यत्वाद् अन्तर्मुखाकारतया प्रतीयमानत्वाच्चेति कारणभेदेन हि पदार्था 15 भिद्यन्त इत्युक्तम् । [ तदुक्तम् ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।।
(प्र. वा. २।२५१) इति । तथाहि, केचिद् भावस्तद्रूपिणो धान्यादिरूपिणः, अन्येऽतद्रूपिणस्तद्- 20 विधर्माण इति । कस्मात् ? तदतद्रूपहेतुजत्वात् । धान्यरूपात् कारणादुत्पन्नास्तद्रूपिणः, अन्ये तु विलक्षणा अतद्रूपिणः, इत्युक्ते सत्याह यद्येवं तत्सुखादिविज्ञानेनाभिन्नहेतुजं किमज्ञानमिष्टम् ? नैतदेवम्, अभेदे साध्ये समवाय्यसमवायिनिमित्तापेक्षयापि समानकारणजन्यत्वस्य व्यभिचारात् । तथाहि, एकस्मात् समवायिकारणादुत्पद्यन्ते पाकजाः परस्परं विभिन्नाश्चेति । 25 असमवायिकारणन्तु पार्थिवपरमाण्वग्निसंयोगस्तेषामेक एव । तथा एकोऽप्युष्णस्पर्शस्तेषां निमित्तकारणमिति, तदपेक्षयापि व्यभिचारः । सामग्रयपेक्षया
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
व्यामवत्या
त्वसिद्धं समानकारणजन्यत्वम्, तस्याः प्रतिकार्यनियतत्वात् । उक्तञ्च एकत्रस्रगाद्युपलक्षिता सामग्री कारणम्, अन्यत्रान्यथाभूतेति । तथा प्रतिनियतजातेः प्रागभावस्य चानुप्रवेशे सर्वत्र सामग्रीभेदो भवत्येवेति । अन्तर्मुखाकारतया प्रतीयमानत्वञ्च ज्ञानधर्मेर्व्यभिचारीति । अस्ति च धर्मर्मिणोर्भेद इत्युक्तम् । तथा ज्ञानस्यानुत्पत्तिविनाशाभ्यां व्यभिचारः, तयोरन्तर्मुखाकारतया प्रतीय मानत्वम्, न च बोधरूपतेत्यलमतिप्रसङ्गेन । प्रयत्नवेधण्यम
प्रयत्नः संरम्भ उत्साह इति पर्यायाः। स द्विविधो जीवनपूर्वकः, इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः, 10 प्रबोधकाले च अन्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जोवनपूर्व
कस्य आत्ममनसोः संयोगाद् धर्माधर्मापेक्षादुत्पत्तिः । इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः, शरीरविधारकश्च । सच आत्ममनसोः संयोगाद् इच्छापेक्षा द्वेषापेक्षा बोत्पद्यते ।
अथ प्रयत्नस्य कारणस्वरूपविभागनिरूपणार्थमाह * प्रयत्नः संरम्भ 15 उत्साह इति पर्यायाः * लक्षणम्, असाधारणत्वात् । तथाहि, प्रयत्न इतर
स्माद् भिद्यते, अनादिकालप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्, यस्तु न भिद्यते, न चासावेवम्, यथा रूपादिरिति । स द्विविधः कारणभेदादित्याह * जीवनपूर्वक इच्छाद्वेषपूर्वकश्च - जीवनं पूर्वं कारणमस्येति जीवनपूर्वकः ।
स कथं विज्ञायत इत्याह * सुप्तस्य प्राणापानसन्तानप्रेरकः - इति । येयं 20 सुप्तस्य प्राणापानसन्तानक्रिया, सा प्रयत्नकार्या शरीर क्रियात्वात्, जानद
वस्थायां प्राणक्रियादिवदिति । न परं प्राणादिसन्तानप्रेरकः * प्रबोधकाले चान्तःकरणस्यन्द्रियान्तरेण प्राप्तिहेतुः * इति । यथा हि प्रबोधसमये येनैवेन्द्रियेणोपलम्भस्तेनैव सम्बन्धार्थमन्तःकरणस्य निरिन्द्रियात्मप्रदेशे
वर्तमानस्यावश्यं कर्माभ्युपेयम्, तच्च प्रयत्नकार्य परिगृहीतान्तःकरण25 कर्मत्वात्, जाग्रदवस्थायां तत्कर्मवत् । अत एव नादृष्टस्यैवात्र कारणत्वम्,
अनुमानेन प्रयत्नकार्यत्वोपलब्धेः । कारणान्तरासम्भवे चादृष्टस्यैव [निमित्त कारणत्वमिष्यत इति ।
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२२१
स्थिते हि सद्भावे जीवनपूर्वकस्योत्पत्तिकारणमाह * आत्ममनसोः संयोगात् * असमवायिकारणाद् विशिष्टधर्माधर्मापेक्षादुत्पत्तिरिति । इतरस्तु इच्छाद्वेषपूर्वकः * हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य * कायिकव्यापारस्य हेतुः । तथा * शरीरविधारकश्च * । तेन हि प्रतिबद्धं शरीरे गुरुत्वं न पतनमारभते । तस्योत्पत्तिकारणमाह * आत्ममनसोः संयोगात् * असमवायि- 5 कारणात् । * इच्छापेक्षाद् द्वेषापेक्षाद् वोत्पद्यते - इति । गुरुत्ववैधर्म्यम्
गुरुत्वं जलभूस्योः पतनकर्मकारणम् । अप्रत्यक्षम, पतनकर्मानुमेयम्, संयोगप्रयत्नसंस्कारविरोधि । अस्य च अबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः।
10 गुरुत्वस्य लक्षणपरीक्षार्थं गुरुत्वं जलभूम्योः- इत्यादि प्रकरणम् । अप्रत्यक्षत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम् इतरस्माद् भिद्यते। वेगोऽपि पतनकर्मकारणमित्यप्रत्यक्षग्रहणम् । जलभूम्योरिति आश्रयनिरूपणम् । इतरपदापेक्षं वा लक्षणम् । जलभूम्योरेव वर्तमानत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम् । रसोऽपि जलभूम्योरेव वर्तते, न तु पतनकारणम्, अभ्युपगमे 15 [वा?च] कारणातिशयेन कार्यातिशयस्य अन्यत्रोपलब्धेः पाषाणादे रसातिशयाभावेन पातातिशयाभावः, पिप्पल्यादौ च तत्सद्भावेन सद्भावः स्यात् । स नास्तीति न रसः कारणं पतनोत्पत्तौ। रूपादेश्च कारणत्वे अनलादा वपि सद्भावात् पातः स्यात्, न चास्तीत्यतो रूपादिव्यतिरिक्तं कारणमनुमीयत इत्यत आह * पतनकर्मानुमेयम् * इति । आद्यस्य हि पतनकर्मणोऽसमवायि- 20 कारणं गुरुत्वम्, द्वितीयादेस्तु संस्कारोऽपीति । स चासौ जलभूम्योरेव वर्तते।
ननु त्वगिन्द्रियस्य व्यापारात् पञ्चपलं दशपलमिति प्रतिभासनाद् गुरुत्वं प्रत्यक्षम् ? न, त्वगिन्द्रियेण सम्बन्धोपपत्तेः पृथिव्यादिगुरुत्वस्यापि प्रत्यक्षताप्रसङ्गात् । अथ आधेयगतमेव गुरुत्वं परिच्छिनत्ति त्वगिन्द्रियम्, न 25 च तत् पृथिव्यादिगुरुत्वेऽस्तीति । नन्वेवमपि मक्षिकादिगुरुत्वं परिच्छिन्द्यात्,
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
व्योमवत्यां तस्याप्याधेयगतत्वादिति । न च तस्य अविशिष्टत्वादपरिच्छेदः, प्रत्यक्षद्रव्यसमवायस्याविशेषात् । अथ अधोगतिहेतुत्वं वैशिष्टयम् ? तहि त्वगिन्द्रियसम्बन्धेन अधोगतिविशेषमुपलभमानस्य पञ्चपलं दशपलमित्यानुमानिक एव प्रत्ययः ।
अथ दशपलैस्तन्तुभिरारब्धे पटे गुरुत्वातिशयस्यानुपलब्धेः, कारण एव गुरुत्वम्, न तु कार्ये । तदसत्, उभयत्रापि पातोपलब्धेः । न च स्वगतगुरुत्वाभावेऽपि आश्रयान्तरगुरुत्वादेव पतनम्, वाय्वादेरपि पातप्रसङ्गात् । तस्मादुभयत्रापि कार्येण सद्भावसिद्धगुरुत्वमस्तीति । अवनतिविशेषानुपलम्भश्च
कार्ये मक्षिकादिगुरुत्वसम्पर्केणापि समान इति । तथाहि, तन्तुषु मीयमानेषु 10 मक्षिकादिसम्पर्केऽपि अवनतिविशेषा नोपलभ्यन्ते, न च तद्गुरुत्वस्यासत्त्वमित्यलम्।
अथ गुरुत्वस्य पातहेतुत्वे किमिति सर्वदा पातो न भवति ? प्रतिबन्धादित्याह * संयोगप्रयत्नसंस्कारविरोधि * इति । वृन्तफलसंयोगेन प्रतिबद्धं न
फले पतनमारभते, प्रयत्नप्रतिबन्धाद् आकाशावस्थितेषु शकुनिषु गुरुत्वं न 15 पतनं करोति, [धनुनिक्षिप्तेषु शरेषु गुरुत्वं न पतनं करोति वेगाख्य]संस्कारप्रतिबन्धात्, एषामपाये फलादिषु पातदर्शनात् ।
* तस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः इति । अबादयश्च ते परमाणवश्चेति तथोक्ताः, तत्परमाणुरूपादीनामिवेति । यथा
आप्यपरमाणुरूपादीनामनिष्पद्यमानत्वान्नित्यत्वम्, एवमेव गुरुत्वं नित्येष्वनि20 ष्पत्तेनित्यम्, अनित्ये तु कारणगुणपूर्वप्रक्रमेण निष्पद्यमानत्वात् तद्रूपवदेवानि
त्यमित्यतिदेशार्थः ।
द्रवत्ववेधय॑म्
द्रवत्वं स्यन्दनकर्मकारणम् । विद्रव्यवृत्ति । तत्तु द्विविधम्, सांसिद्धिकम्, नैमित्तिकञ्च । सांसिद्धिकभपां विशेषगुणः । नैमित्तिकं पृथिवी25 तेजसोः सामान्यगुणः । सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ।
सङ्घातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्, न, दिव्यतेजः
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैवयंप्रकरणम्
२२३ संयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भकः सङ्घाताख्यः, तेन परमाणुद्रवत्वस्थ प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः ।
नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम् । कथम् ? सपिर्जतुमच्छिष्टादीनां कारणेषु परमाणध्वग्निसंयोगाद् वेगापेक्षात् कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशात् कार्यद्रव्यनिवृत्तावग्नि- 5 संयोगाद् औषण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते । ततस्तेषु भोगिनामदृष्टापेक्षाद् आत्माणुसंयोगात् कर्मोत्पत्तौ तज्जेभ्यः संयोगेभ्यो द्वयणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते, तस्मिश्च रूपाद्युत्पत्तिसमकालं कारणगुणप्रक्रमेण द्रवत्वमुत्पद्यत इति ।
द्रवत्वस्य लक्षणपरीक्षार्थमाह द्रवत्वं स्यन्दनकर्मकारणम् इति। स्यन्दन- 10 कर्म वक्ष्यमाणम् । तत्कारणं द्रवत्वमित्युक्ते वेगेन व्यभिचारः, तदर्थं विद्रव्यवृत्तीति । तथापि त्रिद्रव्यवृत्तित्वं वेगस्यापि सम्भवतीति नियमेनेति पदमूह्यम् । रूपन्तु नियमेन विद्रव्यवृत्ति, न तु स्यन्दनकर्मकारणम् । अतो द्रव्यत्वम्, इतरस्मा द्भिद्यते, नियमेन विद्रव्यवृत्तित्वे सति स्यन्दनकर्मकारणत्वादिति ।
तत्त द्विविधमिति विभागः । केन रूपेण ? सांसिद्धिकं नैमित्तिक- 15 ञ्चेति । तयोः परस्परं वैलक्षण्यनिरूपणार्थमाह * सांसिद्धिकमपां विशेषगुणः, नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः इति परस्परभेदः । * सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः इति । यथा गुरुत्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम् अनित्येषु निष्पत्तेरनित्यं कारणगुणपूर्वकमाश्रयविनाशाच्च विनश्यति, एवं सांसिद्धिकद्रवत्वमपीत्यतिदेशार्थः ।
ननु चायुक्तमेतद् अपां सांसिद्धिकद्रव्यत्वमिति, हिमकरकादावनुपलम्भात् ? * तदाह सङ्घातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्, * नैतदेवम्। अन्यत्र सलिले सांसिद्धिकद्रवत्वस्योपलब्धेः, आप्यपरमाणुषु तत्सद्भावसिद्धौ हिमकरकादौ तस्यानुत्पादात् प्रतिबन्धकमस्तीति निश्चीयते । तच्च अन्यस्यानुपलम्भाद् दिव्यतेजःसंयोग एवेत्याह * दिव्यतेजःसंयुक्तानामाप्यानां परमाणूनां 25 परस्परं संयोगो द्रव्यारम्भकः * । स च * सङ्घाताख्यः, तेन परमाणुद्रवत्वस्य प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः * इति । तेजःसद्भावस्तु
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
२२४
www.kobatirth.org
व्योमवत्यां
*
स्फोटादिकार्यानुमेयः । तथा च हिमकरकासम्बन्धादुपलभ्यते स्फोटादिलक्षणं कार्यं शरीरे वृक्षादौ च दाह इति । विलयनञ्चास्य दिव्यतेजः सम्बन्धात् । अवयवे क्रिया, ततो विभागस्तस्मात् संयोगनिवृत्तौ द्रव्यविनाशे सति परमाणवः कार्यमारभन्ते । तत्र च दिव्यतेजः संयोगस्य प्रतिबन्धकस्य निवृत्तेः परमाणुद्रवत्वं कार्ये द्रवत्वमारभते ।
न चेदं नैमित्तिकम्, सर्पिरादाविव पुनः संग्रहानुपलब्धेः । यथाहि नैमित्तिकद्रवत्वं सर्पिरादाविति द्रुतस्य संग्रह:, तथेहाऽपि स्यात् । न चैतदस्तीति ।
* नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम् । कथमित्यव्युत्पन्नप्रश्नः । 10 तत्राह सर्पिरादीनां कारणेष्वित्यादिपदेन सूत्रोक्तानां संग्रहः । तथाहि सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् । त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यमिति (वै० सू० २१११५४-५५ ) । अतः सर्पिरादिकारणेषु च परमाणुष्वग्निसंयोगापेक्षाद् वेगापेक्षात् कर्मोत्पत्तौ सत्यन्ततो विभागा जायन्ते । तेभ्यो विभागेभ्यो 15 द्रव्यारम्भकसंयोगविनाश:, ततः कार्यद्रव्यनिवृत्तिस्तस्याञ्च सत्यामग्निसंयोगाद् औष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते । परमाणवः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणमुष्णस्पर्शो निमित्तकारणमिति । ततोऽनन्तरमुत्पन्नद्रवत्वेषु भोगिनामदृष्टापेक्षादात्मानुसंयोगात् क कर्मोत्पद्यत इति । परमाणुः समवायिकारणम्, आत्माणुसंयोगोऽसमवायि20 कारणम्, भोगिनामदृष्टो निमित्तकारणमिति । ततो विभागेभ्यः प्राक्तनसंयोगविनाशे सति तेभ्यः कर्मभ्यः परमाण्वन्तरेण संयोगा जायन्ते । तेभ्यः संयोगेभ्यो द्वणुकाण्युत्पद्यन्ते । तदादिक्रमेण त्र्यणुकादिकार्यमुत्पद्यते । तस्मिंश्च द्व्यणुकादौ रूपाद्युत्पत्तिसमकालं कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यत इति * पाकजोत्पत्तिन्यायोऽत्र द्रष्टव्यः । एतावांस्तुविशेषः, तत्रावश्यं रूपादि25 निवृत्तिर्न चैवं द्रवत्वस्येति ।
स्नेह वैधर्म्यं
*
Acharya Shri Kailassagarsuri Gyanmandir
स्नेहोsपां विशेषगुणः । संग्रहमृजादिहेतुः । नित्यानित्यत्वनिष्पत्तयः ।
For Private And Personal Use Only
अस्यापि गुरुत्वव
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
गुणधर्म्यप्रकरणम्
२२५ स्नेहस्य लक्षणपरीक्षार्थं * स्नेहोऽपां विशेषगुणः सङ्ग्रहमजादिहेतुः * इति । अपां विशेषगुणो रूपादिरपीति सङ्ग्रहमृजादिहेतुरिति पदम् । सङ्ग्रहः पिण्डीकरणम् । मृजा तु विशदत्वम् । तद्धेतुत्वादितरस्माद् भिद्यते ।
ननु स्नेहस्याभिनवपल्लवादावुपलम्भाद् उदकविशेषगुणत्वमसिद्धम् ? न, संयुक्तसमवायेनोपलम्भात् । संयुक्तं हि पल्लवादिना उदकं तत्समवेत- 5 स्नेहो गृह्यते, तदपाये तस्यानुपलब्धेः, तथा स्नानोत्तरकालं केशादौ स्निग्धप्रत्ययदर्शनात् । यथा च संयोग्याश्रयवैगुण्याभावे सर्वस्मिन्नुदके स्निग्धज्ञानं नैवं सर्वस्यां पृथिव्यामिति । अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तय इति । नित्येषु नित्योऽनित्येषु कारणगुणपूर्वः, आश्रयविनाशाद् विनश्यतीति । संस्कारधर्म्यम्
संस्कारस्त्रिविधो लेगो भावना स्थितिस्थापक। तत्र बेगो मूतिमत्सु पञ्चसु द्रव्येषु निमितविशेषापेक्षात् कर्मणो जायते, निय दिक्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविशेषविरोधी क्वचित् कारणगुणपूर्वकोणोत्पश्चाते।
संस्कारनिरूपणार्थमाह * संस्कारविविधः * । केन रूपेण? वेगो भावना 15 स्थितिस्थापकत्वेनेति। विभाग एवासाधारणत्वाल्लक्षणमिति, तल्लक्षणवैचित्र्यज्ञापनार्थमेतत् । तत्र वेगस्य समानजातीयात् भेदमाश्रयञ्च निरूपयन्नाह * मूर्तिमत्सु * इत्यादि । मूर्तिमत्सु द्रव्येषु । न ज्ञायते कियत्सु, तदर्य * पञ्चसु * । तथापि न ज्ञायते केषु, तदर्थं * मूर्तिमत्सु * इत्याश्रयनिरूपणम् । यद् वा संस्कारत्वे सति पञ्चसु मूर्तिमत्स्वेव वर्तमानत्वाद् वेग इति लक्षणम् । 20
कारणमाहानिमित्तविशेषापेक्षात् कर्मणो जायते इति । संयोगविभागयोः कर्मजत्वमिति निमित्तविशेषापेक्षादिति विशेषणम् । निमित्तविशेषो नोदनाभिधातसंयुक्तसंयोगा:, तदपेक्षादिति । कर्म असमवायिकारणम्, स्वकारणविशेषो नोदनादिनिमित्तकारणम्, वेगाधारस्तु समवायिकारणमित्यसाधारणत्वाल्लक्षणं चेदम् । कार्यमाह नियतायां दिशि क्रियाप्रबन्धस्य 25 क्रियासन्तानस्य हेतुरिति ।
ननु चायुक्तमेतत्, अनियतदिगदेशस्य भ्रमणाख्यस्यापि कर्मण: कारण
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
www.kobatirth.org
व्योमवत्यां
15
२२६
त्वात्, सत्यमेतत्, तथाप्यदोषः, नियतदिक्क्रियाप्रबन्धस्यैव हेतुरित्यवधारणानभ्युपगमात् । सोऽपि नियतायामेव दिशि क्रियाप्रबन्ध इति चान्ये । अनियतदिक्क्रियाप्रबन्धहेतुरित्यवधारणस्यात्र पूर्वरूपतां मन्यमाना व्याख्यान्तरं कुर्वते । तस्य विनाशकारणमाह स्पर्शवद्द्रव्यसंयोगविशेषविरोधी इति । स्पर्शवद्द्रव्यसंयोगमात्र विरोधित्वे वायुसंयोगेन विरोधादिषोर्गमनं न स्यात्, तद्धेतोर्वेगस्य विनाशादिति विशेषग्रहणम्, कठिनावयवसंयोगेनादावपि तद्विनाशोपलब्धेः ।
*
Acharya Shri Kailassagarsuri Gyanmandir
नन्वेवमप्याकाशे प्रक्षिप्तस्येषोर्निबिडावयवसंयोगस्य वेगविनाशकस्याभावादपातः स्यात्, न, अनेककार्यकरणे स्पर्शवद्रव्यसंयोगमात्रेणापि विना10 शस्यान्वयव्यतिरेकाभ्यामुपलम्भात् । तथा च क्षिप्तस्येषोर्वेगविनाशोपलब्धेरवश्यं कारणमभिधेयम्, निर्हेतुकविनाशप्रतिषेधात् । अतो वायुसंयोगेनाप्यनेककार्यकरणे सति विरुध्यते, अदृष्टप्रक्षयाद् वेति । * क्वचित् कारणगुणपूर्वप्रक्रमेणोत्पद्यते * यथा पर्वतस्रोतसामधः पततां संयोगे सत्येकस्मिन्नुदके समुत्पन्ने रूपादिवत् कारणवेगादु वेगोऽपीति ।
*
*
भावनासञ्ज्ञकस्त्यात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर्भवति, ज्ञानमददुःखादिविरोधी । पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षादात्ममनसोः संयोगाद् आश्चर्येऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति । विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् 20 प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य विद्युत्सम्पातदर्शनवदादरप्रत्ययः, तमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते । यथा देवहदे सौवर्णरजतपद्मदर्शनादिति ।
For Private And Personal Use Only
भावनासंज्ञकस्त्वात्मगुणत्वादितरस्माद् भिद्यते । न च बुद्ध्यादिभिर्व्य25 भिचारः, संस्कारस्य सतोऽवान्तरविशेषनिरूपणात् । स्मृतिप्रत्यभिज्ञानहेतुः इति कार्यनिरूपणम्, सद्भावे प्रमाणञ्चेति । 'स्मृतिर्वासनाख्यात्' भवति,
*
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२२७
तथोक्तमात्माधिकारे । केषु स्मृतिप्रत्यभिज्ञानहेतुरित्याह * दृष्ट श्रुतानुभूतेषु * इति, निर्णीतार्थेष्विति भावः ।
नाशकारणमाह * ज्ञानमददःखादिविरोधी * इति । ज्ञानं प्रतिपक्षज्ञानं विवक्षितम्, तेन विरुध्यते, यथा आत्मादिज्ञानजनितः संस्कारो नैरात्म्याद्यभ्यासेनेति, तस्मिन् सति तत्रास्मरणात् । स्वमदेन विरोधः, बालावस्थानुभवजनितसंस्कारस्य पुनर्युवावस्थायां विषयाभिभूतस्य तत्रास्मरणात् । दुःखेन, यथा शास्त्रानुभवजनितसंस्कारस्य तीव्रेण दारादिदुःखेनेति, तेन सता तत्रास्मरणात् । आदिपदेन तु क्रोधादेरपि संस्कारनिवर्तकत्वमुक्तम् ।
__तस्योत्पत्तिकारणमाह पटवभ्यासादरप्रत्ययेभ्यो जातस्तत्प्रत्ययज इति । पटुप्रत्ययापेक्षादात्ममनसोः संयोगादसमवायिकारणादात्मन्याश्चर्येऽर्थे 10 पटुः संस्कारो जायते, * यथा दाक्षिणात्यस्योष्ट्रदर्शनात् * । स चातिशयेन स्मृतिहेतुर्भवतीति । (अभ्यासाद्) * विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । पूर्वपूर्वसंस्कारापेक्षो हि उत्तरोत्तरप्रत्ययोऽभ्यासः, तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणा- 15 दात्मनि संस्कारातिशयो जायते । तत्र विद्यायाम् उपाध्यायोच्चरितपदश्रवणे सति संस्कारः । पुनविवक्षादिक्रमेण स्वयमुच्चारणे सति तु ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभते । पुनस्तदुच्चारणे सति तज्ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभत इत्येवं त्रिचतुरादिपरिवर्तने सत्यन्त्यपदानुभवात् पूर्वसंस्कारापेक्षात् संस्कारातिशयो जायते । एतच्चावश्यमभ्युपेयम्, अन्यथा- 20 भ्यासवेयर्थ्यं स्यात् । न चातिप्रसङ्गः, अदृष्टस्य व्यवस्थाहेतुत्वात् । न च तस्यास्ति सर्वत्र सद्भावः, कार्यस्य स्मरणस्य सर्वत्रानुपलब्धेः । यत्र हि स्मरणमस्ति तत्रैव पूर्वसंस्कारापेक्षं ज्ञानं संस्कारमारभत इति । आन्तरे चाभ्यासे पूर्वपूर्वसंस्कारापेक्षं नियतार्थस्मरणमेव संस्कारमारभत इति चिन्त्यम् । एवं शिल्पेऽप्युपाध्यायलिखितचित्रदर्शनात् संस्कारः, पुनः स्वयं 25 सम्पाद्योपलभते; तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, पुनः स्वयं लिखित्वोपलभते, तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, इत्येवं
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
व्योमबत्या
द्वियादिपरिवर्त्तनेन संस्कारातिशयः । व्यायामेऽपि उपाध्यायेन धनुर्वेदपरिपठितन्यायेन प्रयुक्तेषूपलम्भादुपजाते संस्कारे पुनस्तदनुसारितया स्वयं प्रयुक्त तदनुभवेन पूर्वसंस्कारापेक्षेण संस्कारान्तरमारभ्यते, पुनस्तथैव प्रयोगे सति तदनुभवेन पूर्वसंस्कारापेक्षेणान्यः संस्कार इत्येवमन्त्यानुभवात् संस्कारातिशय इति ।
आदरप्रत्ययजसंस्कारमाह * प्रयत्नेन मनः चक्षुषि स्थापयित्वा अपूर्वमर्थ दिदृक्षमाणस्य * इति, द्रष्टुमिच्छतो विद्युत्सम्पातदर्शनेन तुल्यं वर्तते, इति तदर्शनवदादरप्रत्ययः । तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणा
दात्मनि संस्कारातिशयो जायते । * यथा देवह्रदे सौवर्णराजतपदादर्शना * -- 10 दिति * । तत्र हि सौवर्णराजतपायोरुत्थानमागमाल्लोकप्रवादतो वा समुपलभ्य पुनविशिष्टयात्रासमये प्रयत्नेन संस्कारातिशयो भवतीति ।।
स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसनिवेशলিহি জ লাং হলঃ হিন্দু ল [এফফথ
स्थापयति । स्थावरजङ्गमविकारेषु धनुःशाखादन्तशृङ्गास्थिसूत्रवस्त्रादिषु 15 भुग्नसंर्वाततेषु स्थितिस्थापकस्य कार्य संलक्ष्यते। नित्यानित्यत्वनिष्पत्तयोऽस्यापि गुरुत्ववत् द्रष्टच्या !
स्थितिस्थापकस्तु संस्कारत्वे सति स्पर्शवत्स्वेव द्रव्येषु वर्तमानत्वादितरस्माद भिद्यते । किं भूतेषु ? * घनावयवसन्निवेशविशिष्टेषु * इति। घनाश्च ते अवयवाश्च, तेषां सन्निवेशो रचनाविशेषः । घन इति सन्निवेशस्य वा 20 विशेषणम्, तद्विशिष्टेषु । * कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावत् स्थापयति * इत्यतः स्थितिस्थापकः ।
सद्भावे प्रमाणमाह स्थावराश्च जङ्गमाश्चेति तथोक्तास्तेषां विकारेषु धनुःशाखादन्तशृङ्गास्थिषु, सूत्रवस्त्रादिषु च भुग्नेषु संवर्तितेषु पिण्डी
कृतेषु तस्य कार्य संलक्ष्यते । तथाहि धनुषि शाखादौ च आकर्षणकर्मण्युप25 जाते नोदनादिभ्यस्तन्निवृत्तावपि कर्मोपलम्भादवश्यमसमवायिकारणं वाच्यम्,
वस्तुनस्तदन्तरेणानुत्पत्तेः । न च नोदनादेरन्यतमः सम्भाव्यत इत्यन्येनासमवायिकारणेन भवितव्यम्, क्रियाविभागयोश्च क्रियोत्पत्तावकारणत्वोपलम्भात् ।
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२२९
तथा तन्निवृत्तावपि प्रतिबन्धकाभावे सति शाखादौ पूर्वावस्थावस्थापककर्मोपलम्भान्निमित्तान्तरमेव न्याय्यम् । अदृष्ट विशेषस्य तु साधारणत्वात् कारणत्वं न प्रतिषिद्धयत इति ।।
* नित्यानित्यत्वनिष्पत्तयोऽप्यस्य गुरुत्ववद् द्रष्टव्या * इति । यथा हि गुरुत्वं नित्येषु नित्यमुत्पत्तिविनासकारणाभावादनित्येषु कारणपूर्वकमाश्रयविनाशाद् विनश्यति एवं स्थितिस्थापकसंस्कारोऽपीति । कार्य तु स्थितिस्थापकसंस्कारप्रसिद्धेस्तदारम्भकपरमाणुष्वपि तत्कल्पना क्रियते । धर्मवैधय॑म्
धर्मः पुरुषगुणः, कर्तुः प्रिय हितमोक्षहेतुः, अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधी, पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः, वर्णा- 10 গল্প মালয়লাল বিশ্ব স্বচ্ছ ও বললি বিবি বিনালি শিক্ষা স্বাক্সিই লাল ফিতানি গ্রন্থাগकर्माणि ।
धर्मस्य लक्षणपरोक्षार्थमाह - धर्मः पुरुषगुणः * इत्यादि । पुरुषगुणत्वं बुद्धयादावपीत्यत: * प्रियहितमोक्षहेतु: * इति । प्रियं सुखम्, हितं तत्साधनम् । 13 नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्ष इति । अथेश्वरज्ञानमप्येषां हेतुरतः कर्तुरिति । येन हि कृतो धर्मस्तत्रैव प्रियहितमोक्षहेतुः, न चैवमीश्वरज्ञानस्य, अकार्यतया कर्तुरभावादिति । अथ तत्त्वज्ञानं कर्तुर्यथोक्तफलहेतुस्तदर्थमतीन्द्रिय इति । संस्कारोऽपि स्मृतिद्वारेणेव भक्तीत्यतोऽन्त्यसुखसंविज्ञानविरोधीति । अन्त्यमावसानिकं सुखं तत्संवेदनेन 20 विरुध्यते।
नन्वेवमपि अतीन्द्रियत्वे सत्यन्त्यसुखसंविज्ञानविरोधित्वात्, धर्म: इतरस्माद् भिद्यत इत्युक्त व्यभिचाराभावाद् व्यर्थं शेषाभिधानम्, न, अन्यत्वात् कर्तुः । प्रियहितमोक्षहेतुरिति विशिष्टार्थक्रियानिरूपणम् । पुरुषगुण इत्यन्यथाभावप्रतिषेधार्थम् ।
अथ पुरुषगुणत्वे किं प्रमाणम् ? अनुमानभागमश्च । तथाहि तनुभुवनादिकार्यम्, पुरुषगुणपूर्वकम्, विचित्रकार्यत्वाद्, रथादिवदिति । यथाहि
25
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
व्योमवत्यां
रथादिकर्ता भोक्तुरभिप्रायं विचित्रमपेक्षमाणस्तथैव तद्रचनां करोति एवं शरीरादिकर्तीपीति । न च शरीरोत्पत्तेः पूर्वमस्मदाद्यात्मनि बुद्धयादयः सन्ति, संस्कारस्तु स्मरणोत्पत्तावेवावगतसामर्थ्य इति गुणान्तरं तद्गतम
पेक्षमाणस्तदुपभोगनिष्पत्तये विचित्रं शरीरादिकमारभत इति । आगमस्तु 5 'यावदात्मनि धर्माधौं तावदायुः शरीरमिन्द्रियाणि विषयाश्चे'ति, तथा 'क्षीयन्ते चास्य कर्माणी'ति ।
येषान्तु बुद्धिगुणो धर्मस्तेषां कथं नाकर्मनिमित्तः स्वर्ग: ? तथाहि प्रलयावस्थायां बुद्धेः प्रधाने प्रलीनतया धर्माधर्मयोरनभिव्यक्ती प्रधानस्य बुद्धयादिभावेन परिणामो न स्यात्, अभिव्यक्तस्य कर्मणः कारणत्वाभ्युपगमात् । न चादावनभिव्यक्तमेव कारणम्, बुद्धिस्थञ्चाभिव्यक्तमिति वाच्यम्, विशेषहेत्वभावात् । बुद्धयादिसम्पादितं कर्म कर्तुर्भोगसम्पादकमित्यभ्युपगमे च अविशेषेण सकलपुरुषोपभोगसम्पादकं स्यात्, नियमहेत्वभावात् । तथा मुक्तात्मनोऽपि शरीरादिसम्पादनाय प्रवर्त्तत, अविशेषादिति संसारित्वप्रसङ्गः ।
गुणपुरुषान्तरविवेकादर्शनच्च प्रधानप्रवृत्तेर्न कारणम्, पूर्वमेव प्रतिषेधात् । 15 येऽपि परमाणुरूपो धर्म इति मन्यन्ते, तेषामपि तस्य नित्यतायां
सकलक्रियाविलोपप्रसङ्गः, मरणाद्यभावश्च । अनित्यता तु परमाणुरूपतायां न सम्भवत्येव, तस्य परमाणुत्वेनोत्पत्तिविनाशकारणाभावात् । तथा परमाणूनां धर्मशब्देनाभिधाने संज्ञाभेदमात्रमेव स्यात् । अथ परमाणुगुणौ
धर्माधर्मी ? एवमपि सर्वपुरुषाणाम् एकाकारो भोगः स्यात्, पुण्यापुण्या20 धिकरणैः परमाणुभिरारम्भाविशेषात् ।।
__अथ केचित् पुण्याधिकरणा: परमाणवोऽन्ये चापुण्याधिकरणाः । तत्राधिकैः पुण्याधिकरणैरारब्धे सुखातिशयोऽधिकैश्चापुण्याधिकरणःखमिति चेत्, अत्रापि तयोनित्यत्वे मरणाद्यभावप्रसङ्गः । अनित्यत्वन्तु न युक्तम् । परमाणुविशेषगुणानामस्मदादिव्यापारेणोपपत्तेरदर्शनात् ।
अन्ये त्वनाश्रितो धर्म इति मन्यन्ते, तत्रापि अनित्यपक्षे न किञ्चिद् अनाश्रितं वस्तुभूतं कार्यं सम्भवतीति दूषणम् । नित्यपक्षे तु यागादिक्रियाविलोपप्रसङ्गः । अथ क्रियाभिव्यक्तः कार्यकारण: ? तर्हि क्षणिकत्वेन क्रिया
25
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
वैधर्म्यप्रकरणम्
विनाशे स्वर्गादिफलं न स्यात् । न च प्रदीपस्येवाभिव्यञ्जकत्वं तत्प्रकाशकत्वं क्रियायाः, तद्भावेऽपि तस्यानुपलम्भात् । अथ यागादिक्रिया धर्मस्य सामर्थ्यमुपजनयतीति चेत् ? तर्हि यत् तत् सामर्थ्यं स एव धर्मः, यत्राश्रितः स चात्मेति संज्ञाभेदमात्रं स्यात् । तथा अमूर्त्तस्यात्मना सम्बन्धाभावात् तत्सम्बन्धित्वेन फलाभाव इत्यलं प्रसङ्गेन । न च बोधात्मकमेव कर्म, व्यतिकानभ्युपगमे बोधरूपतया सर्वत्राविशेषेण जगद्वैचित्र्याप्रसङ्गात् । तस्योत्पत्तिकारणमाह पुरुषान्तःकरणसंयोगादसमवायिकारणादुपजायते । शुद्धाभिसन्धिज * इति अभिसन्धेर्निमित्तकारणत्वं दर्शयति । वर्णाश्रमिणां प्रतिनियतानि साधनानि निमित्तं यस्यासौ तन्निमित्तः । तदेवाह * तस्य तु साधनानि श्रुतिस्मृतिविहितानि ब्राह्मणादयः, आश्रमाश्च ब्रह्मचर्यादयस्तेषाम्, सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणीति ।
1
तत्र सामान्यानि धर्मे श्रद्धा, अहिंसा, भूतहितत्वम्, सत्यवचनम्,
अस्तेयम्, अनुपधा, ब्रह्मचर्यम्, क्रोधवर्जनम्, अभिषेचनम्, शुचिद्रव्यसेवनम् विशिष्टदेवताभक्तिः, उपवासोऽप्रमादश्च ।
* तत्र सामान्यानि साधनानि । धर्मे श्रद्धा भक्तिविशेषः कारणम् ।
蓉
अहिंसा तु यत्यादेः सर्वदा, अन्यस्य देशविशेषे कालविशेषे चेति । यथा तीर्थे
न हनिष्यामि, अमावास्यादौ । भूतहित्वमपि कस्यचित् सर्वदा, कस्यचिद् देशविशेषादाविति । सत्यवचनं धर्मसाधनम् यन्न परेषामनिष्टम् । उक्तञ्च 'न ब्रूयात् सत्यमप्रियमिति । अस्तेयमचौर्यम् । कस्याञ्चिदवस्थायां चौर्येऽपि 20 न दूषणमित्युक्तम् । यथा मुमूर्षोद्विजस्याशनमात्राहरणमिति । अनुपधा पराद्रोहः । ब्रह्मचर्यम् अपत्यसृजः करणस्योपस्थस्य संयमः तच्च कस्यचित् सर्वदा, कस्यचिद् देशकालविशेष इति । क्रोधवर्जनमप्येवम् । अभिषेचनं स्नानम् । शुचिद्रव्याणां सेवनमासनपरिधानाशनैः । विशिष्ट - देवताभक्तिरिति त्रयीप्रसिद्धानुमानावगतदेवताविशेषभक्तिः । उपवासोऽहोरात्रं 25 नैरशनता, कालविशेषादौ धर्मसाधनम् । अप्रमादो विहितानुष्ठाने निरालस्यम् ।
學
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*
२३१
5
| वर्णाश्च 10
15
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३२
20
www.kobatirth.org
2
व्योमवत्यां
ब्राह्मणक्षत्रियवैश्यानामिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः । क्षत्रियस्य सम्यक्प्रजापालनमसाधुविग्रहो युद्धेष्वनिवर्तनम्, स्वकीयाश्च संस्काराः । वैश्यस्य क्रयविक्रयकृषिपशुपालनाति स्वकीयाश्च संस्काराः । शूद्रस्थ ३ पूर्ववर्णपारतन्त्र्यम्, अनस्त्रिका क्रियाः ।
ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि, इज्या यजनम्, अध्ययनं वेदपाठः, दानं सत्पात्रस्य द्रव्यनिवेदनमिति । ब्राह्मणस्यासाधारणानि धर्मसाधनानि * प्रतिग्रहाध्यापनयाजनानि । प्रतिग्रहः शास्त्रेणानिन्दितद्रव्यादानम्, वेदपाठो, याजनं यागे पौरोहित्यम्, स्ववर्णनियताश्च संस्कारा: । क्षत्रियस्या - 10 साधारणानि धर्मसाधनानि सम्यक् प्रजापालनम् असाधुनिग्रहो युद्धेष्वनिवर्तनम्, स्वकीयारच संस्कारा: । वैश्यस्य क्रयविक्रयकृषिपशुपालनानि, स्वकीयाश्च संस्काराः । शूद्रस्य सर्वदा ब्राह्मणाद्याज्ञया वर्तनस्, अमन्त्रकाचोङ्कारादिविवर्जिताः क्रिया इति. * /
आश्रमिणान्तु ब्रह्मचारिणः गुरुकुलनिवासिनः 15 विहितानि गुरुशुश्रूषाग्नीन्धन भैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनश्च । विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्युपाजिते रथैर्भूत मनुष्यदेव पितृब्रह्माख्यानां पन्चानां महायज्ञानां सायम्प्रातरनुष्ठानम्, एकाग्निविधानेन पाकयज्ञसंस्थानाव नित्यानां शक्त विद्यमानायाम् । अग्न्याधेयाशेनाच हविर्यज्ञसंस्थानाम् अग्निष्टोमादीनाम्, सोमयज्ञसंस्थानाञ्च । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योस्पादनश्च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासी वल्कला जिनकेशमधूनसरोनधारणश्व वन्याम्बुहता तिथिशेष भोजनानि वनस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्यो नित्यमभयं दत्त्वा संन्यस्य स्वादि कर्माणि यमनियमेष्वप्रमत्तस्य षट्पदार्थप्रसंख्याताव् 25 योगप्रसाधनं प्रव्रजितस्येति । दृष्टञ्च प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादञ्चापेक्ष्य आत्ममनसोः संयोगाद्धर्मोत्पत्तिरिति ।
*आश्रमिणान्तु धर्मसाधनान्युच्यन्ते । तत्र ब्रह्मचारिणः, किं विशिष्टस्य ? गुरुकुले वसतस्तच्छीलं चेति तद्वासिनो ● गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
स्वशास्त्र
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गुणधर्म्यप्रकरणम्
२३३
गुरुशुश्रूषा तदुपासनम् । अग्नीन्धनम् अग्न्यर्थमिन्धनाहरणम् । भिक्षाणां समूहो भैक्षं माधुकरी भिक्षा, तदाचरणम् । मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनम् । एतत्तु प्रतिवेदं द्वादशवर्षाणीत्यष्टचत्वारिंशद् वर्षाणि विद्याव्रतं यावद् ग्रहणं भवेत् ।
*
www.kobatirth.org
ततो विद्याव्रतस्नातकस्य चीर्णविद्याव्रतस्य कृतदारस्योद्वहितपत्नीकस्य गृहस्थस्य धर्मसाधनान्युच्यन्ते । ते चतुर्विधाः, वार्त्तावृत्तयः, शालीनवृत्तयः, यायावराः, घोरसंन्यासिकाश्चेति । तत्र वार्त्तावृत्तयः कृषिवाणिज्यादिकमनिन्दितं शास्त्रेणैव युञ्जन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तो याजयन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयस्तु यजन्तो याजयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिरात्मानं प्रार्थयन्ते । यायावरास्तु अधीयन्तो न [ अध्यापयन्तः, यजन्तो न ] याजयन्तः ददत्तो न प्रतिगृह्णन्तः, इत्यात्मानं प्रार्थयन्ते । तत्र घोरसंन्यासिका नाम उद्धृतपरपूताभिरद्भिः कार्यं कुर्वाणाः प्रतिदिनमाहृतोञ्छवृत्तिमुपजीवन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । उदाहरणार्थंञ्च गृहस्थद्वयम् । उक्त [ शीलान ? शालीन ] यायावरवृत्त्युपार्जितैर्द्रव्यैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायं प्रातरनुष्ठानम् । सायमपराह्णम्, प्रातः प्रत्युषसि । तत्र बाह्यबलिना भूतयज्ञः हन्तकारेण [ = अतिथिदेयतण्डुलेन ] मनुष्ययज्ञः, पुष्पपत्राद्युत्सर्गेणाग्निसन्तर्पणेन देवयज्ञः । अतिदानेन पितृयज्ञः, वेदाध्ययनेन ब्रह्मयज्ञ इत्येषां सायं प्रातरनुष्ठानम् । एकाग्निविधानेन एकोऽग्निविवाहकाले परिगृहीत इति । नैमित्तिकानान्तु परस्परं व्यावृत्तमनुष्ठानभेदं दर्शयति पाकयज्ञ संस्थानाम् इत्यादिना । पाकयज्ञसंस्थास्तु
पार्वणं श्राद्धं श्रावण्याग्रहायणी तथा ।
و
2
Acharya Shri Kailassagarsuri Gyanmandir
7
For Private And Personal Use Only
5
10
15
20
अष्टकाः
चैत्री चाश्वयुजी चैव (सप्त ? ) पाकसंस्था इमाः स्मृताः ॥ एषाञ्च नित्यानां शक्तौ विद्यमानायामनुष्ठानम् । असमर्थस्य त्वकरणेऽपि न दोष इति । तदेवाह 'जरया ह वा एष एतस्मात् सत्राद् विप्रमुच्यते 25 मृत्युना वेति' । अग्न्याधेयानाञ्च हविर्यज्ञसंस्थानाम् । अग्न्याधेयोऽग्निहोत्रं दर्शपूर्णमासौ च चातुर्मास्याग्रहायणेष्टिनिरूढपशुबन्धसौत्रामणी चेति सप्त
३०
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
व्योमवत्यां हविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर्याम इति सप्त होमयज्ञसंस्थाः । तदाह 'सोमयज्ञसंस्थानामग्निष्टोमादीनामिति' । एवमन्येऽपि यज्ञविशेषास्तच्छास्त्रप्रसिद्धा एव ग्राह्या इति । ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनश्च ।
वनस्थस्य धर्मसाधनमाह * ब्रह्मचारिणो गृहस्थस्य वा वनवासः * इति। उक्तञ्च 'यदि वा ब्रह्मचर्यादेव प्रव्रजेत्' इति । अतो ब्रह्मचारिणो गृहस्थस्य वा अधिकारः । तेऽपि चतुर्विधाः, वैखानसाः,
औदुम्बराः, बालखिल्या:, फेनपाश्चेति । तत्र वैखानसा नाम अकृष्टपच्याभिरौषधीभिमबहिष्कृताभिरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां 10 निवर्तयन्त आत्मानं प्रार्थयन्ते। तत्रौदुम्बरा नाम प्रातरुत्थाय
यां दिशं प्रेक्षन्ते तदाहतैर्बदरनीवारश्यामाकैरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र बालखिल्या नाम जटाधरा चीरवल्कलसंवृताङ्गाः पौर्णमास्यां वा कात्तिक्यां पुष्यादिभक्षमुत्सृजन्त अष्टौ मासान् वृत्युपार्जनं कृत्वा पञ्चमहायज्ञक्रियां निवर्तयन्त आत्मानं प्रार्थयन्ते । तत्र फेनपा नाम उद्दण्डकानुन्मत्ताः शीर्णपत्राभिभोजिनो यत्र तत्र वा वसन्त आत्मानं प्रार्थयन्ते । तदेवाह * वल्कलाजिनकेशश्मश्रुनखरोमधारणं वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य * इति । यत्याश्रममुपदर्शयन्नाह * त्रयाणामन्यतमस्य * इति । त्रयाणां ब्रह्मचारिगृहस्थवानप्रस्थानामन्य
तमस्य । किं विशिष्टस्य ? * श्रद्धावतः । सर्वभूतेभ्यो नित्यं सर्वदा अभयं 20 दत्वा । उक्तञ्च 'न हिंस्यात् सर्वभूतानीति' । * संन्यस्य स्वानि कर्माणि * अग्नि
होत्रादीनि। * यमनियमेष्वप्रमत्तस्य * इति । अहिंसादयो यमाः, शुश्रूषादयो नियमाः, तेष्वप्रमत्तस्य । * षट्पदार्थप्रसंख्यानात् * परिज्ञानाद् * योगसाधनं प्रव्रजितस्य * इति । योग एव तस्य धर्मसाधनम् ।
उक्तन्यायेन तेऽपि चतुर्विधाः; कुटीचकाः, बहूदकाः, हंसाः, परमहंसा25 श्चेति । कुटीचकास्त्रिदण्डकमण्डलुकन्थादिधारिणो ज्ञातिगृहेषु भोजिनः ।
बहूदका नाम ब्राह्मणगृहेषु भिक्षाशिनः शून्यागारदेवगृहवासिनः । हंसा नाम शिखाकमण्डलुदण्डहस्ता ग्रामैकरात्रवासिनस्तीर्थादिषु त्रिपञ्चरात्रम्, एवं पक्षोपवासादिभिरात्मानं प्रार्थयन्ते । परमहंसास्त्वेकदण्डधराः, मुण्डाः,
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरणम्
२३५
कौपीनवाससः, शिखायज्ञोपवीत कमण्डलुभिक्षाकपालादीनाञ्च त्यागिनः ।
न तेषां धर्मो नाधर्मः, न सत्यम्, न चानृतम् । सर्वसहाः, सर्वसमाः, समलोष्टाश्मकाञ्चनाः । एषां चतुर्णामपि दृष्टं प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं शुद्धाभिसन्धिञ्चापेक्ष्य आत्ममनः संयोगादसमवायिकारणाद्धर्मोत्पत्तिरिति ॥
अवैधम्
Acharya Shri Kailassagarsuri Gyanmandir
अधर्मोऽप्यात्मगुणः । कर्त्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी । तस्य तु साधनानि, शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरी तानि हिंसानृतस्तेयादोनि, विहिताकरणम्, प्रमादश्च एतानि दुष्टाभिसन्धिञ्चापेक्ष्यात्ममनसोः संयोगादधर्मस्यो [ त्पत्तिः ? त्पादकानि ] ।
न परं धर्मोऽधर्मोप्यात्मगुणः । कर्त्तुरहितप्रत्यवाय हेतुरतीन्द्रियो ऽन्त्यदुःखसंविज्ञानविरोधी इति । अतीन्द्रियत्वे सत्यन्त्यदुःखसं विज्ञानविरोधित्वात्, अधर्मः, इतरस्माद् भिद्यते । शेषं पूर्ववत् । तस्य साधनानि शास्त्रे विप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि । हिंसा प्राणिवधोऽनृतमसत्यं स्तेयं चौर्यम् । आदिपदेनान्येषामपि धर्मसाधन विपरीतानामवरोधः, अवश्यकर्त्तव्यस्य संध्यावन्दनादेरकरणं विहितकालातिक्रमेणाप्यननुष्ठानम्, प्रमादश्चालस्यम् । एतानि निमित्तानि दुष्टाभिसन्धि दुष्टाभिप्रायं चापेच्यात्ममनःसंयोगादसमवायिकारणादात्मन्यधर्मो [ त्पत्तिरिति ? त्पादकानीति । ]
अविदुषो रागद्वेषवतः प्रवर्त्तकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहिताद् ब्रह्मेन्द्र प्रजापति पितृमनुष्यलोकेष्वाशयानुरूपे रिष्टशरीरेन्द्रिय विषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योतिस्थानेषु अनिष्टशरोरेन्द्रियविषयदुःखादिभियोगो भवति इत्येवं प्रवृत्तिलक्षणाद् धर्मादधर्मसहिताद् देवमनुष्य तिर्यङ्नारकेषु पुनः पुनः संसारप्रबन्धो भवति ।
,
ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्न षट्पदार्थतत्त्वज्ञानस्याज्ञान - निवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्व
For Private And Personal Use Only
5
10
15
20
25
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
व्योमवत्या
5
सञ्चितयोश्चोपभोगानिरोधे सन्तोषसुखं शरीरपरिच्छे? खे]दञ्चोत्पा रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शन सुखं कृत्वा निवर्तते, तदा निरोधात् निर्बीजस्यात्मनः शरीरादिनिवृत्तिः। पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ।
इदानीं कस्योपजातं कर्म संसारसम्पादकं कथञ्च निवर्त्तकमित्युपदर्शयति अविदुषो मिथ्याज्ञानवतो धर्माधर्मावुत्पन्नी संसारं सम्पादयतस्तदाह प्रवर्त्तकात् संसारसम्पादकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् । इष्टानि च तानि शरीरेन्द्रियविषयसुखादीनि तैः । किविशिष्टै: ? आशयानुरूपैः
कर्मानुरूपैर्योगः सम्बन्धो भवतीति । केषु स्थानेषु ? ब्रह्मेन्द्रप्रजापतिपितृ 10 ऋषि?]मनुष्यलोकेष्विति । * तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात्, अनिष्ट
शरीरेन्द्रियविषयदुःखादिभिर्योगः * ! केषु ? * प्रेततिर्यग्योनिस्थानेषु * इति । उपसंहारमाह * इत्येवं प्रवृत्तिलक्षणात् * तत्स्वरूपाद् । * धर्मादधर्मसहिताद् देवमनुष्यतिर्यनारकेषु पुन: पुन: संसारस्य प्रबन्धः सन्तानो भवतीति ।
प्रवर्तकाद्धर्मात् संसारोत्पत्तिमुपदिश्य निवर्त्तकात् तन्निवृत्तिमाह * ज्ञान15 पूर्वकात्तु कृतात् * इति । ज्ञानं पूर्व यस्य स तथोक्तस्तस्मात् । किं रूपात् ?
*असङ्कल्पितफलात् इति । इत्थं मे शरीरेन्द्रियविषयाः सम्पद्यन्ताम्, नेत्थमित्येवं न सङ्कल्पितं फलं यस्य स तथोक्तस्तस्माद्, विशुद्धे कुले जन्म भवति । तस्य जातस्य दुःखविगमोपायजिज्ञासा सम्पद्यते कुतः साधनादत्यन्तं दुःख
सन्ततेवियोगः सम्पद्यत इति । एवं जिज्ञासोराचार्योपसङ्गमः सम्पद्यते । 20 तञ्चोपसङ्गम्य दुःखसन्तानव्यावृत्तरुपायं विजानाति तत्त्वज्ञानाच्छ्रेयः
सम्पद्यत इति । ततः शास्त्राभ्यासात् षटपदार्थतत्त्वज्ञानमुत्पद्यते । तस्य चोत्पन्नषट्पदार्थज्ञानस्य अज्ञाननिवृत्तिर्भवति । तन्निवृत्तौ विरागः, कारणाभावेन कार्यस्यानुत्पत्तेः । विरक्तस्य रागद्वेषाभावात् ताभ्यां जायेते यौ धर्माधर्मों तौ तज्जौ, तयोरनुत्पत्तिरिति, रागद्वेषयोधर्माधर्मजनकत्वेनोपलब्धेः । तदभावे तदभावो भवत्येव। सञ्चितयोश्च निरोधस्तत्त्वज्ञानादुपभोगाद् वा । ततो रागादिनिवृत्तौ सत्यां निवृत्तिलक्षणः केवलो धर्मः सन्तोषसुखं शरीरपरिच्छे?खे]दं चोत्पादयति। तच्चोत्पाद्य परमार्थः सर्वपदार्थानामात्मा
25
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२३७
तद्दर्शनाज्जातं परमार्थदर्शनजं सुखं करोति । तत् कृत्वा निवर्त्तते । तदा निर्गतं धर्माधर्मसमाख्यातं बीजं यस्यासौ तथोक्तस्तस्यात्मनः शरीरादिनिवृत्तिः । बीजाभावादेव पुनः शरीराद्यनुत्पत्तौ सत्यां* दग्धेन्धनानलवदुपशमो भोक्षः इति । यथा दग्धेन्धनस्यानलस्योपशमो ज्वालादिरहितस्यावस्थानम् तद्वदत्यन्तं विशेषगुणविमुक्तस्यात्मनोऽवस्थानं मोक्ष इति निर्णीतमादिवाक्ये ।।
शब्दोऽम्बरगुणः, श्रोत्रग्राह्यः, क्षणिकः, कार्यकारणोभयविरोधी, संयोगविभागशब्दजः, प्रदेशवृत्तिः, समानासमानजातीयकारणः । द्विविधो वर्णलक्षणो ध्वनिलक्षणश्च । तत्र अकारादिलक्षणः, शङ्खादिनिमित्तो ध्वनिलक्षणश्च । तत्र वर्णलक्षणस्योत्पत्तिः, आत्ममनसोः संयोगात् स्मृत्यपक्षाद् वर्णोच्चारणेच्छा, तदनन्तरं प्रयत्नः, तमपेक्षमाणा- 10 दात्मवायुसंयोगाद् वायौ कर्म जायते, स चोय गच्छन् कण्ठादीनभिहन्ति, ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद् वर्णात्पत्तिः। अवर्णलक्षणोऽपि भेरोदण्डसंयोगापेक्षाद् भेयांकाशसयोगानुत्पाद्यते। वेणपर्वविभागाद् वेण्वाकाश विभागाच्च शब्दाच्च संयोगविभागनिष्पन्नान वीचीसन्तानवच्छन्द सन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य । ग्रहणम् (नास्ति ?), परिशेषात् सन्तानसिद्धिरिति ।
शब्दस्य लक्षणपरीक्षार्थमाह * शब्दोऽम्बरगुणः * इत्यादि । अम्बरगुणत्वाच्छब्द इत्युक्ते संख्यादिभिर्व्यभिचारस्तदर्थं श्रोत्रग्राह्य इति । शब्दः, इतरस्माद् भिद्यते, अम्बरगुणत्वे सति श्रोत्रग्राह्यत्वादिति । क्षणिक इति परीक्षार्थम् । पूर्वपदापेक्षं वा लक्षणम् ।
ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेपलम्भात् । यमहमश्रौषं गोशब्दम्, तमेतहि शृणोमि इति श्रोतुर्विज्ञानमुत्पद्यमानमुपलब्धम् । न चेदमप्रमाणम्, अन्यताग्राहकप्रमाणानुपलब्धेः । तथा अर्थापत्त्या च शब्दस्य नित्यत्वं विज्ञायते । अनित्यत्वे हि सङ्केतकालानुभूतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसङ्केतिता तदर्थप्रतिपत्तिर्न स्यात् । सा चोपलभ्यत 25 इति तदन्यथानुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते ।
20
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३८
5
www.kobatirth.org
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
तदेतदसत् गृहीतग्राहित्वेन प्रत्यभिज्ञानस्याप्रमाणत्वात्; 'अनधिगतार्थगन्तृ प्रमाणम्' इति सामान्यलक्षणाभिधानात् । अथानधिगतार्थे प्रत्यभिज्ञानम् ? तन्न, अदृष्टार्थताया मिथ्यात्वप्रसङ्गात् । अथ स्वरूपेणाधिगतार्थमपीदानीन्तनं देशकालाद्यपेक्षयानधिगतार्थञ्चेति ।
,
नन्वेवमप्युभयदोषोपनिपातप्रसङ्गः । प्रमेयसामग्र्याञ्च देशकालादेरन्तर्भावाभ्युपगमेऽनधिगतार्थत्वम्, एतावता प्रमेयस्य पूर्वमप्रतिपत्तेः । न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम् । अथ प्रमाणसामंत्र्यामन्तर्भावः तर्हि प्रमाणस्यान्यत्वेऽपि प्रमेयस्य तादवस्थ्यादधिगतार्थविषयत्वमेव । तदपेक्षया चेदं विशेषणम्, अन्यथा हि व्यवच्छेद्याभावादनुपपन्नमेव स्यात्, प्रमाणसामग्र्या 10 नियतविज्ञानजनकत्वात् । सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्गः । तस्मादनधिगतार्थगन्तृ प्रमाणमित्येवंवादिनो प्रमाणमेव प्रत्यभिज्ञानम् । तथा छिन्नोद्भूतकेशनखादिष्वन्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानम् । सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ शब्दे प्रत्यभिज्ञानम् । न च व्यञ्जकानां सन्दिग्ध15 त्वादप्रमाणत्वम् स्वतः प्रामाण्यस्य पूर्वमेव प्रतिषेधात् अन्यतः प्रमाणाद् अभेदप्रतिपत्त्यभ्युपगमे च तदेवास्त्वलं प्रत्यभिज्ञानेन । तथा व्यञ्जकानां क्षणिकतया शब्दज्ञानानन्तरमेव तिरोभावे शब्दस्य निर्विषयमेव स्यात् प्रत्यभिज्ञानम् । न च व्यञ्जकानां नित्यत्वम्, सर्वदा शब्दव्यक्तिप्रसङ्गात् ।
अथ प्रत्यभिज्ञानान्यथानुपपत्त्या तत्कालं यावदवस्थानम् ? न, 20 अन्यथापि तद्भावात् । अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति । विवादगोचरापन्नः शब्दोऽभिव्यक्तः प्रत्यभिज्ञानकालं यावन्नावतिष्ठते, शब्दप्रत्ययविषयत्वात्, पूर्वानुभूतशब्दवत् । न च प्रत्यभिज्ञानं नित्यत्वप्रतिपादनायालम्, अनित्येऽपि भावात् ।
अथावस्थायित्वं साध्यते ? तत्रापि सन्ततावस्थाने तदेव दूषणम् । 25 अवस्थानमात्रन्तु सिद्धसाधनम्, उपलम्भसङ्केत स्मरणक्रमेणार्थोपलम्भकालं यावदवस्थानाभ्युपगमात् । अथ पूर्वोपलब्धे शब्दे वर्षादिव्यवधानेनापि प्रत्यभिज्ञानाद् अन्तरालेऽवस्थानं साध्यते ? न अन्यत्वेऽपि प्रत्यभिज्ञानोप
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२३९
लब्धेः । यथा बालावस्थायामुपलब्धे देवदत्ते अन्यत्वेऽपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानम् । न चात्रावस्थाभेदमात्रमेव शरीरस्येति वाच्यम्, अवयवरचनापरिमाणरूपादिव्यतिरेकेण तदनुपलम्भात् । बालावस्थायां हि शिथिलावयवरचना कुमारावस्थायां चान्यथाभूतेति तद्भेदात् शरीरस्य भेदोऽवश्यं भावी, असमवायिकरणविनाशेन कार्यद्रव्यस्य विनाशोपलब्धः, 5 परिमाणभेदोपलब्धेश्च । पूर्वपरिमाणनिवृत्तावेवोत्तरपरिमाणम्, परिमाणवति परिमाणारम्भप्रतिषेधात् । एतद् रुपादिष्वपि समानम् । परिमाणविनाशश्चाश्रयविनाशादेव इत्यन्यत्वमेव । बालादिशरीराणां परिमाणभेदस्य कुवलयादावन्यत्वेनैव व्याप्तत्वात् । अथ परस्परं व्यावृत्तो बालाद्यवस्थाशब्दाभिधेयो धर्मः, तस्य च व्यतिरेके वृद्धावस्थायामपि बालादीनामुपलम्भः स्यात्, तेना- 10 विरोधात्, विरोधे वा कथमन्यत्वमसिद्धम्; अव्यतिरेकेऽपि तेषामाविर्भावतिरोभावाभ्यां धर्मिणोऽपि तथाभावप्रसङ्गः । तस्माच्छरीरभेदेऽपि सादृश्यात् स एवायं देवदत्त इति ज्ञानवच्छब्देऽपि प्रत्यभिज्ञानं भविष्यतीति शब्दोपलम्भादनन्तरं श्रोत्रव्यापारेणैव तदभावप्रतीतेरेकत्वग्राहकं प्रत्यभिज्ञानमप्रमाणम् ।
कर्णशष्कुल्यभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, निरावरणस्य व्यापकत्वाविशेषात् । तथैकदेशास्तस्याभिव्यज्यन्ते तेषामभेदे शब्दस्यैवाभिव्यक्तिरिति तदेव दुषणम् । भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्। यदि च शब्दविशेषणश्च शब्दाभावः परिच्छिद्यते, विशेषणविशेष्यभावलक्षणेनैव 20 सम्बन्धेनेत्युक्तं पूर्वम् ।
अथ शब्दस्योपलम्भानन्तर मु?मनुपलब्धिय॑ञ्जकाभावाद् नासत्त्वादिति चेत्, न, सद्भावे प्रमाणाभावाद् आवरणादेरनुपलम्भाच्च । नहि ऐन्द्रियकस्यातीन्द्रियमावरणं प्रमाणेन क्वचिदुपलब्धम् । अभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, 25 निरावरणस्य व्यापकत्वाविशेषात् । यदि च शब्दात्मकानियतार्थप्रतिपादकाश्चैकदेशा: ? संज्ञाभेदमात्रमेव ।
15
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
15
20
२४०
अथ भेरीदण्डसंयोगाद् वेगापेक्षादुत्पन्नक्रियो वायुर्वेगवांश्ोत्रदेशेनागत्याभिसम्बध्यते, तद्गतानि तु स्तिमितवाय्वन्तराणि प्रोत्सारयति, ततः प्रतिबन्धकाभावे सति श्रोत्रं शब्दस्य ग्राहकमिति ? नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, संस्कृते हि श्रोत्र सर्वेषां सान्निध्यम् । न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायुर्नाश्वशब्दं व्यनक्तीति वाच्यम्, व्यञ्जकेषु नियमानुपलब्धेः । यथा घटाभिव्यक्त्यर्थमुत्पादितः प्रदीपः समानेन्द्रियग्राह्यसमानदेशावस्थितपदार्थाभिव्यञ्जक इति । तथाहि न श्रोत्रं प्रतिनियतसंस्कारकसंस्कार्यम्, समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात् चक्षुर्वत् । प्रदीपावष्टब्धदेशव्यतिरेकताज्ञानं प्रदीपसंस्कृतं न चक्षुषा ग्रहणमिति समानदेशावस्थित10 पदम् । एवंविधाश्च रूपरसादयो न गृह्यन्त इति समानेन्द्रियग्राह्यग्रहणम् । शब्दा वा विवादविषयाः प्रतिनियतव्यञ्जकव्यङ्ग्या न भवन्ति, समानेन्द्रियग्राह्यसमानदेशावस्थितत्वात् घटादिवत् । अत्र च ये प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति चक्षर्घटादयस्ते सपक्षास्तत्र हेतोः सद्भावः । तद्विपरीतास्तु विपक्षास्तस्मादत्यन्तं व्यावृत्तिरिति । प्रदीपेन च संस्कृतं चक्षुर्युगपद् घटादिप्रकाशकमिति दृष्टम् । एवं श्रोत्रमप्यशेषशब्दोपलम्भकं स्यात् । अत्र चापेक्षाबुद्धिवदनेकपदार्थालम्बनमेवैकं ज्ञानमाशुभावेन वा युगपच्छब्दप्रयोग इति । नन्वेकस्यामपि पृथिव्यां शुक्लादिभेदानां संस्कृतेनापि चक्षुषा न युगपत् प्रकाशनम्, एवं घ्राणादिना गन्धादेरिति । एवमपि न हेतोर्व्यभिचारः, सपक्षैकदेश वृत्तेरपि गमकत्वात् ।
25
www.kobatirth.org
व्योमवत्यां
Acharya Shri Kailassagarsuri Gyanmandir
अथ यथा चक्षुः समानेन्द्रियग्राह्यसमानदेशावस्थितानामपि शुक्लादि - भेदानां न युगपत् प्रकाशकमेवं श्रोत्रमपि स्यात् । इष्टञ्च पृथिव्यामनेकरूपाधिकरणत्वमपि चित्ररूपसमर्थनावसरे । सत्यमेतत्; तथापि रूपभेदानाग्रहणं सहकार्यभावात् । तथा च नानारूपावयवोपलम्भसहकारीन्द्रियमवयविन्यनेकरूपग्राहकमित्युक्तम् । तत्सद्भावे विचित्रप्रतिभासनात् । न चैवं श्रोत्रस्य वायुना संस्कृतस्य सर्वशब्दानां तत्र सान्निध्यादग्रहणे कारणमस्तीति । सामान्यानि तु प्रतिनियतव्यञ्जकव्यङ्ग्यानि, न तु समानदेशानि स्वविषयसर्वगतत्वादेवेति व्यभिचाराभावः । तथा आतपसम्पर्कात्तैले गन्धाभिव्यक्तिः,
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वैधर्म्यप्रकरणम्
ग्रीष्मावसाने तु दग्धस्थलीषु प्रथमजलधरधारासम्पर्कात्, न च समानदेशत्वम् । यद् वा जलधरधारासम्पर्काद् भूगतानिलोद्भवे सत्यवयव क्रियाक्रमेण पूर्वद्रव्यनिवृत्तावुत्पन्नपाकैर्चणुकादिप्रक्रमेण द्रव्यान्तरोत्पादे सति गन्धोऽभिव्यज्यत इति । यच्चाभिव्यज्यते सामान्यरूपादि, तद् आश्रयस्थमेवेति दृष्टम्, एवं शब्देऽपि स्यात् । तत्तु नास्तीति व्यक्ति धर्मकत्वाभावः ।
तथा वीणाशब्दाभिव्यञ्जकेन रासभशब्दस्याप्यभिव्यक्तत्वाद् ग्रहणे वीणाशब्दस्य सर्वदानुपलम्भ एव स्यात् । न चैतदस्ति । क्वचिदेव रासभशब्देन वीणाशब्दादिशब्दानामभिभवोपलब्धेः । न चायं नित्यपक्षे अभिभाव्याभिभावकभावो घटते, तीव्रतरादिभेदासम्भवात् । तीव्रस्य च ध्वनेर्ग्रहणान्मन्दस्याग्रहणमभिभवः । न च तीव्रेण व्यञ्जकेनैकस्य ग्रहणादन्यस्याग्रहणमुपपद्यते, व्यञ्जकेषु नियमानुपलब्धेरित्युक्तम् । शब्दप्रत्ययसमानाधिकरणश्चायं तीव्र: शब्दो मन्दः शब्द इति प्रत्यय:, न व्यञ्जकप्रत्ययेनेति कथं तीव्रतरादिर्व्यञ्जकधर्मः । तदेवं तीव्रादिभेदभिन्नत्वात् सुखादिवदनित्यत्वं शब्दानाम् । व्यञ्जकानुपलब्धौ चाभूत्वा भवनस्योपलब्धेः कार्यंत्वादनित्यत्वं घटादिवत् । तथा परमात्मगुणान्यत्वे सति व्यापकविशेषगुणत्वात् सुखादिवत् । तच्चोक्त- 15 माकाशाधिकारे । अनित्यविशेषगुणमाकाशम्, सलिलादिपरमाणुव्यतिरेके सति भूतत्वात् क्षित्यादिवत् । पारिमाण्डल्याधारपरत्वानुमेयपरमात्मान्यत्वे सति समवायिकारणत्वात् क्षित्यादिवदेव ।
अथ गुणत्वे शब्दस्यानुमानम्; न द्रव्यकसंजातीयः शब्दः, श्रोत्रग्रहणयोग्यत्वात्, शब्दत्वादिवत् । गुणः शब्द:, द्रव्यकर्मान्यत्वे सति सत्तासम्बन्धि - 20 त्वात्, रूपादिवत् । यच्चेदम् अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दानां नित्यत्वं विज्ञायत इत्युक्तम्, तदसत् अनित्यत्वेऽपि सादृश्योपादाने सत्यर्थप्रतिपत्तेर्भावात् । यत्र यत्र गकारौकारविसर्जनीयानामित्थम्भूतानुपूर्वीमुपलभसे, तत्र तत्र गोत्वविशिष्टोऽर्थः प्रतिपत्तव्यः प्रतिपादयितव्यश्चेति सङ्केतग्रहे सति तथाविधं शब्दमुपलभमानस्तमर्थं प्रतिपद्यते प्रतिपादयति चेति ।
3
Acharya Shri Kailassagarsuri Gyanmandir
तदेवमनित्यत्वे व्यवस्थिते विनाशकारणमाह कार्यकारणोभयविरोधीति । आद्यः शब्दः कार्येण विरुध्यते । अन्त्यस्तु कारणं विरुणद्धि । मध्यगतास्तु कार्येण विरुध्यन्ते कारणञ्च विरुन्धन्तीति ।
३१
For Private And Personal Use Only
२४१
5
10
25
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२४२
व्योमवत्यां संयोगविभागशब्दज इत्युत्पत्तिकारणम् । 'संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः' इति (वै० सू०)।
स द्विविधः । केन रूपेण ? वर्णलक्षणोऽवर्णलक्षणश्चेति । अकारादिहकारपर्यन्तो वर्णलक्षणः । शङ्खादिनिमित्तं यस्यासौ तन्निमित्तोऽवर्णलक्षण इति । आदिपदेनान्येषामपि निमित्तकारणानामवरोधः ।
तत्र वर्णलक्षणस्योत्पत्तिरभिधीयते। आत्ममनसोः संयोगादसमवायिकारणात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा भवति । तदनन्तरं प्रयत्नः । तमपेक्षमाणाद् आत्मवायुसंयोगादसमवायिकारणाद् वायौ समवायिकारणे कर्म । स चोत्पन्नकर्मा वायुरूवं गच्छन् कण्ठादीनभिहन्तीति । आदिपदेन ताल्बोष्ठादेर्ग्रहणम् । ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद्वर्णोत्पत्तिरिति। आकाशं समवायिकारणं स्थानाकाशसंयोगोऽसमवायिकारणं स्थानवायुसंयोगश्चापेक्षाकारणमिति ।
अवर्णलक्षणोऽपि भेर्याकाशसंयोगादुत्पद्यते। भेरीदण्डसंयोगाद्यपेक्षाद् इत्यादिपदेन दिक्कालादग्रहणम् । अत्राप्याकाशं समवायिकारणम् । 15 भेर्याकाशसंयोगोऽसमवायिकारणं भेरोदण्डसंयोगादिनिमित्तकारणमिति ।
तथा वेणुपर्वविभागापेक्षात् पर्वाकाशविभागादसमवायिकारणादाकाशे शब्दो निष्पद्यत इति ।
शब्दजं शब्दमुपदर्शयति । एवं संयोगाद् विभागाच्च परिनिष्पन्नः शब्दः समन्तात् शब्दान्तराण्यारभते । तस्मादप्यसमवायिकारणात् स्वकारण20 प्रत्यासत्त्यपेक्षादाकाशेऽन्यः शब्द इति वीचीसन्तानवच्छब्दसन्तानः ।
यथा हि महतः पाषाणाद्यभिघातादुपजाता वीची वीच्यन्तरमारभते, सापि पुनर्वीच्यन्तरमिति सन्तानास्तद्वच्छब्दसन्तान इत्येवं सन्तानन्यायेन श्रोत्रदेशमागतस्य ग्रहणम् ।
एतच्च कल्प्यते; अन्यथा कर्णशष्कुल्याकाशसंयोगोपलक्षितनभ:25 प्रदेशव्यतिरेकेण प्रदेशान्तरसमवायात्तेषामव्याप्यवृत्तित्वेन विशिष्टप्रत्यासत्तेर
भावादग्रहणमेव स्यात् । तदाह श्रोत्रशब्दयोगमनासम्भवात् सन्तानानभ्युपगमे न परस्परं प्राप्तिः । प्राप्तस्य चोपलम्भ इति सन्तानः कल्प्यते ।
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
२४३
नन्वेतस्मिन् पक्षे शब्दाः स्वावरुद्धनभोदेश एव यदि शब्दान्तरमारभेरन्, न कस्याप्युपलम्भः स्यात्, सर्वेषामेकत्रैवोपक्षयात् । अथ प्रदेशान्तरे, तहि ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादिश्रोत्रदेशे शब्दान्तरारम्भात् ।
__अथाणुविवरमाने स्वदेशानन्तरमारभते। तहि तेषां क्षणशतादिव्यवधानेन ग्रहणं स्यात् । तत्तु न दृष्टं क्षणद्वयादिव्यवधानेन श्रवणात् । । तथा आद्यः शब्दः शब्दान्तरं नारभते, शब्दत्वादन्त्यशब्दवत् । अन्त्यशब्दो वा शब्दान्तरमारभते शब्दत्वादाद्यशब्दवत् । अत: सन्तानप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या वायोर्व्यञ्जकस्यागमनं कल्प्यत इनि मन्यन्ते ।
न चैतद्युक्तम् । व्यक्तिपक्षस्य पूर्वमेव प्रतिपेधाद्वायारागमने प्रमाणाभावाच्च । न च शब्दोपलब्धि रेव प्रमाणम्, सन्तानन्यायेनापि तदुपपत्तेः। 10 यच्चात्र दूषणमुपन्यस्तं तद्वीचीनिदर्शनोपन्यासान्निरस्तम्। यथा हि महतः पाषाणाभिघातादुपजाता वीची स्वदेशानन्तरदेश एव बीच्यन्तरमारभते, न तटादावेवं शब्दोऽपि स्वकारणप्रत्यासत्तिमपेक्ष्यानन्तरदेश एव शब्दान्तरमारभत इति । न च क्षणशतादिव्यवधानेन ग्रहणप्रसङ्गः, पण्णामेव शब्दानां तीव्रादिभेदानामुत्पत्तेः । तथाहि भेरीदण्डाभिघातानुपजाते शब्दे 15 सन्निहितस्य तीव्रतमः शब्द इति ज्ञानम्, तदनन्तरं व्यवहितस्य च तीव्रतरः शब्द इति ज्ञानम्, ततस्तीवो मन्दो मन्दतरो मन्दतमश्चेति षड्भेदाः क्रमेणानुभूयन्त इति न आनन्त्यपक्षोक्तो दोषः। तथाहि मेरीदण्डाभिघातादेक एव शब्दः कल्पितं भूयांसं प्रदेश व्याप्योपजायत इत्यनेकैरप्युपलभ्यत एवेति न सर्वत्र सन्तानः । यच्चेदमुक्तम्--नाद्यः शब्दः शब्दान्तरभारभते 20 शब्दत्वादन्त्यशब्दवद् इति, तन्न स्वतन्त्रसाधनम्, स्वयमाद्यन्तशब्दाप्रसिद्धेः । न च दृष्टान्तदाान्तिकमिणोरप्रसिद्धौ हतोः पक्षवर्मत्वं बहिाप्तिर्वा सम्भवतीति । अथ परव्याप्त्या परस्यानिष्टापादनमेतत् । तन्न । यदि प्रमाणपूविका परव्याप्तिस्तयैव वाध्यमानत्वाद् विपरीतानुमानस्यानुत्थानम् । अथाप्रमाणपूर्विका ? तहि प्रमेयाप्रसिद्धराश्रयासिद्धं साधनम्, धासिद्धश्च 25 दृष्टान्त इति, शब्दस्य शब्दान्तरारम्भप्रतिषेधे स्वयमाद्यन्तविशेषणाप्रसिद्धः । तस्माद् व्यक्तिपक्षप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या सन्तानकल्पना
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
व्योमवत्या
10
क्रियत इति । न चान्त्यशब्दस्यारम्भकत्वपरिकल्पनायां प्रमाणमस्ति, सर्वदोपलम्भप्रसङ्गात् । अतोऽन्त्यशब्दस्य स्पर्शवद्व्यसंयोगैकार्थसमवायेन प्रलयः स्वज्ञानादुपभोगप्रापकादृष्टापक्षयाद् वेति विनाशस्य प्रमाणेनोपलब्धेः, तस्य च निर्हेतुकत्वप्रतिषेधादुक्तकारणादेव विनाशः कल्प्यत इत्यलम् । ॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थधर्मसङ्ग्रहटोकायां
व्योमवत्यां गुणपदार्थः ॥ कर्मसाधर्म्यनिरूपणम्
उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः । एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वञ्च प्रतिनियतजातियोगित्वम् । दिविशिष्ट कार्यारम्भकत्वञ्च विशेषः।
इदानोमितरपदार्थवैधयेण स्वभेदव्यापकमुत्क्षेपणादीनां साधर्म्य तथा 15 परस्परव्यावृत्तं वैधयं कारणञ्च निरूपयन्नाह उत्क्षेपणादीनाम् इति ।
न परं द्वयोस्त्रयाणाञ्च । किं तहि ? पञ्चानामपि कर्मत्वसम्बन्धः, कर्मत्वोपलक्षितः समवायः । तथा चोत्क्षेपणादीनि, इतरस्माद् भिद्यन्ते, कर्माणीति वा व्यवहर्तव्यानि, कर्मत्वाभिसम्बन्धादिति । एकद्रव्यवत्त्व
मिति । एकञ्च तद् द्रव्यञ्चेत्येकद्रव्यम्, तदस्यास्तीति एकद्रव्यवत्, 20 तस्य भाव एकद्रव्यवत्त्वम् । एकं कर्मकस्मिन्नेव द्रव्ये वर्तते, तथैक
मेवैकस्मिन्निति । कुत एतत् ? एकस्मिश्चलिते सर्वेषां चलनानुपलब्धेः । यत्रापि बहूनामेककालं चलनं तत्राप्यनेकत्वमेव, कारणस्याभिघातादेः प्रत्याश्रयं भेदात् । अन्यत्र च समवेतमभिधातादि अन्यत्र समवायि
कारणमित्यभ्युपगमे चाशेषद्रव्याश्रितस्योत्पत्तिः, अविशेषात् । तथैकस्मिन् 25 द्रव्ये संयोगाद् विनष्टे कर्मणि आश्रयान्तरेऽपि तस्यैकतायां विनाशः स्यात् ।
एकस्मिश्चानेककर्माभ्युपगमे विरुद्धदिगभिमुखतायां परस्परं प्रतिबन्धाद् अगमनमेव स्यात् । एकदिगभिमुखतायाञ्च एकेनैव कर्मणा संयोग
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कमसाधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
तस्माद्यत्र
विभागयोर्जनितत्वात् न द्वितीयस्य सद्भावे प्रमाणमस्ति । तदुत्तरसंयोगाच्च प्राक्तनकर्मविनाशः कर्मान्तरोत्पत्तिश्च क्वचिदिष्यत एव । कर्मद्वयप्रतिभासस्तत्र आशुभावित्वेनैवेति द्रष्टव्यम् । अथैकद्रव्यवत्त्वं रूपादेरपीति क्षणिकग्रहणम् ; तथापि बुद्धयादिभिर्व्यभिचारपरिहारार्थं मूर्तद्रव्यवृत्तित्वपदम् ।
२४५
अथ क्षणिकत्वे सति मूर्तद्रव्येष्वेव वर्त्तमानत्वात् कर्मेत्युक्ते व्यभिचाराभावः ? सत्यम्, तथापि पदान्तरं साधर्म्यमात्रप्रतिपादनार्थम्, परीक्षार्थञ्चेति । गुरुत्व[द्रवत्व] प्रयत्नसंयोगेभ्यो जायत इति गुरुत्व[ द्रवत्व] प्रयत्नसंयोगजम् तस्य भावस्तत्त्वमिति । उदाहरणञ्चैतत् अन्यस्मादपि कारणात् तदुत्पत्तेः । व्यस्तञ्च गुरुत्वादिकं कायन्तिरसम्पादकमपि न समुदितं कर्मव्यतिरेकेणान्यस्य इत्यसाधारणमेव । नचैवं सकलकर्मभेदव्यापकमिति वैधर्म्यमात्रमेव । यद् वा गुरुत्वाद्यन्यतमकारणजन्यत्वं विवक्षितम् । तथा स्वकार्यसंयोगविरोधित्वमिति । संयोगमात्रेण विनाशादर्शनादिति स्वकार्यग्रहणम् । कर्मकार्यत्वञ्च विभाग वेगयोरपीति [ तत्र व्यभिचारवारणाय ] संयोगग्रहणम् । अतः स्वकार्यसंयोगविरोधित्वमसाधारणमपि क्वचिदाश्रयविनाशेनापि विनाशान्न पक्षव्यापकमिति वैधर्म्यमात्रमेव । तथा विभागे संयोगेऽपि च कर्त्तव्ये निरपेक्षकारणत्वं कर्मणः स्वरूपम् ।
For Private And Personal Use Only
,
5
10
ननु विभागेऽनपेक्ष कारणत्वमिष्टम्, संयोगे तु पश्चाद्भाविनं प्राक्तनसंयोगविनाशमपेक्षत इत्यनपेक्षत्वमसिद्धम् ? वस्तुभूतकारणापेक्षया 20 तदुपपत्तेः । अभावव्यतिरेकेण च वस्तुभूतं कारणं नापेक्षत इत्यनपेक्षमित्युक्तम् । न चान्यस्यैतत् सम्भवतीत्यसाधारणम् ।
असमवायिकारणत्वमिति असाधारणमितरस्माद् व्यावृत्तम् । गुणानां हि द्वैविध्यम् असमवायित्वं निमित्तत्वञ्च । उत्क्षेपणादीनां चासमवायिकारणत्वमेव न द्वैविध्यमस्तीति विपक्षादत्यन्तं व्यावृत्तिरेव द्वैविध्य - 25 प्रतिषेधस्य विवक्षितत्वात् । तथा स्वपराश्रयसमवेतकार्यारम्भकत्वम् । यस्मिन्नाश्रये समवेतं कर्म, तत्र आश्रयान्तरे च समवेतं विभागं संयोगं
15
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
व्योमवत्या
चारभत इति । समानजातीयानारम्भकत्वम् । तथा चोत्पन्नं कर्म विभागं संयोगं चारभमाणमुपलब्ध न कर्मान्तरमिति । एकस्मिम् धर्मिण्यनेकस्य कर्मणः पूर्वमेव प्रतिषेधात् । द्रव्यानारम्भकत्वम् । न कर्म द्रव्यमारभते, तस्योत्तरसंयोगेन विनश्यदवस्थस्य कारणत्वासम्भवादिति स्वभेदव्यापकं साधर्म्यम् । प्रतिनियतजातियोगित्वमिति । प्रतिनियतजातिरुत्क्षेपणत्वादिका, तयोगित्वं पञ्चानामपि । दिग्विशिष्टकार्यारम्भकत्वञ्च विशेषः [परस्परमिति ?] ।
तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः प्रदेशः संयोगकारणमधोमाग्भिश्च प्रदेशः विभागकारणं कर्मोत्पद्यते गुरुत्व10 प्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम् ।
तद्विपरोतसंयोगविभागकारणं कर्मापक्षेपणम् । ऋजुनो द्रव्यस्थानावयवानां तद्देशैविभागः संयोगश्च मूलप्रदेशः, येन कर्मणावयवी कुटिलः संजायते, तदाकुञ्चनम् ।।
तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते, 15 तत्प्रसारणम् ।
यदनियताहिकप्रदेशसंयोगविभागकारणं तद् गमनमिति ॥
तदेवाह तत्रोत्क्षेपणम् । यदूर्ध्व भजन्त इत्यूर्वभाजस्तैः संयोगकारणम्, अधोभाभिश्च विभागकारणं कर्मोत्पद्यते । केभ्यः केषु चेति ? गुरुत्वद्वत्वप्रयत्नसंयोगेभ्यः समस्तव्यस्तेभ्यः । तदुत्क्षेपणमित्युदाहरणार्थम्, वेगादेरपि तत् कारणत्वात् । शरीरावयवेषु हस्तपादादिषु तत्सम्बद्धेषु मुसलादिष्वित्याश्रयनिरूपणम् ।
तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणमिति । ऊर्ध्वभाभिविभागकारणमधोभाग्भिश्च संयोगकारणमिति ।
आकुञ्चनम् ऋजुनो द्रव्यस्य येऽग्रावयवास्तेषां तद्देशैस्तदुपलक्षिताकाशा25 दिप्रदेशैविभागः, संयोगश्च मूलप्रदेशैरिति तदुपलक्षिताकाशादिप्रदेशैरेव ।
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२४७ येन कर्मणा समुत्पन्नेनावयवी कुटिल: सन् नृजुः सम्पद्यते, तत् प्रसारणमिति ।
__ यदनियतदिग्देशसंयोगविभागकारणं तद् गमनमिति । उक्तप्रदेशेभ्योऽन्येऽनियतदिकप्रदेशास्तैः संयोगविभागकारणमिति ।
एतत् पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्य- 5 यम् असत्प्रत्ययञ्च । यदन्यत् तदप्रत्ययमेव, तेषु अन्येषु च तद्गमनामिति ।
उपसंहारमाह इत्येतत् पञ्चविधमपि कर्म सत्प्रत्ययम् असत्प्रत्ययञ्चेति। प्रत्ययः कारणम्, तच्च सामान्यपदेनापि सदिति विशेषणात् प्रयत्नाख्यमेव विवक्षितम् । पारम्पर्येण वा प्रत्ययकार्यत्वात् प्रयत्नः प्रत्यय इत्युक्तः । अतः सत्प्रत्ययो यस्य तत्तथोक्तं कर्म, प्रयत्नपूर्वकमिति यावत् । असत्प्रत्ययमयत्न- 10 पूर्वकम् । तच्च शरीरावयवेषु तत्सम्बद्धेषु भवतीति । एतस्माद् यदन्यत्, तदप्रत्ययमयत्नपूर्वकम्, अस्मदादिप्रयत्नस्य तत्राव्यापारात् । तच्चैतेष्वन्येषु च द्रव्येषु भवत्युत्क्षेपणादिविलक्षणत्वाद् गमनमेवेति ।
कर्मणां जातिपञ्चकत्वमयुक्तम्, गमनाविशेषात् । सर्व हि क्षणिक জল লললাঙ্গ অজ্বল অ গনি অথি বলাই: 15 प्रदेशः संयोगविभागान करोति, सर्वत्र गमनात्ययोऽविशिष्टस्तस्माद् गमनमेव सर्वमिति । न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । इहो
তা ঘাথাগুলিৗক্তি বঙ্গ মুহ: ৪র্যালুলিয়ালী दष्टे, तद्धेतुः सामान्यविशेषभेदोऽवगम्यते । तेषामुदाधुपसर्गविशेषात प्रतिनियतदिविशिष्टकार्यारम्भल्वादुपलक्षणभेदोऽपि सिद्धः ।।
कर्मणां जातिपञ्चत्वमयुक्तम् । कुतः ? गमनाविशेषात् । गमनादभेदादित्याक्षेपः । तदेवाह सर्वं क्षणिकम् । क्षणिकत्वं नाम सर्वकर्मसु समानमिति न स्वरूपभेदाद् भेदः । चलनमात्रमुत्पन्नं स्वाश्रयस्य संयोगविभागान् करोति । कैः सह ? ऊर्ध्वमधस्तिर्यकपरमाणविवरमात्रैः प्रदेशैरिति । यावति प्रदेशे परमाणोरणुप्रवेशः सम्भवतीति, न कार्यभेदादपि भेदः, 25 सर्वस्याप्येतत्कार्यजनकत्वात् । तथा सर्वत्र च गमनप्रत्ययोऽविशिष्ट इति । ऊर्ध्वं गच्छत्यग्रप्रदेशाच्च मूल] प्रदेशं गच्छति मूलप्रदेशाच्चाग्रप्रदेश
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
15
व्योमवत्यां
गच्छतीति । तस्माद् गमनमेव सर्वमित्युपसंहारः । न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनादिति प्रतिसमाधानवाक्यम् । यदुक्तं सर्वं गमनमिति, एतन्न, उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । तदेवाह इहोत्क्षेपणम्, परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गश इति वर्गे वर्गे प्रत्यया5 नुवृत्तिर्व्यावृत्तिश्च दृष्टा । तथाहि उत्क्षेपणमुत्क्षेपणमित्युत्क्षेपणवर्गेऽनुवर्तते, अपक्षेपणादिवर्गाच्च व्यावर्त्तते । तथा अपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च, व्यावर्त्तत इति । तद्धेतुः अनुगतव्यावृत्तज्ञानहेतुः उत्क्षेपणत्वादिसामान्यविशेषोऽवगम्यत इति । न गमनत्वमेकमेव सामान्यम्, उत्क्षेपणादिभेदानां परस्परव्यावृत्तजातिसम्बन्धिनां उदाद्युपसर्गविशेषात्तेषां 10 परस्परविशेषः । तथाहि उत्पूर्वं क्षेपणमुत्क्षेपणम्, अपपूर्वम् अपक्षेपणम्, आत् पूर्वं कुञ्चनम् आकुञ्चनम् प्रपूर्वं सारणं प्रसारणम्, गमनं तुपसर्गाभावादेव विशिष्यते । प्रतिनियत दिग्विशिष्टकार्यारम्भत्वाद् उपलक्षणभेदोऽप्युक्षेपणादीनां सिद्ध इति । तथा चोर्ध्वं संयोगकारणमवश्च विभागकारणमुत्क्षेपणस्योपलक्षणमित्येवमाद्युक्तम् । उपलक्षणस्य चोत्क्षेपणत्वादेर्भेद इति ।
सद्भावात् ।
Acharya Shri Kailassagarsuri Gyanmandir
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रमणप्रवेशनादिष्वपि वर्गश: प्रत्ययानुवृतिव्यावृत्तिदर्शनात् । यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते, एवश्व निष्क्रमणप्रवेशना विश्वपि । कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत्, न, उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्ति20 प्रसङ्गः । अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति । न, जातिसङ्करप्रसङ्गात् । निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते । कथम् ? द्वयोर्द्वष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपनिष्क्रमण प्रवेशनप्रत्ययौ दुष्टों, तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च । यदा तु प्रतितीराद्यपनीतं भवति, तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः; किन्तु गमनप्रत्यय एव भवति । तथा नालिकायां वंशपत्रादौ पतति बहूनां द्रष्टां युगपद् भ्रमणपतन
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
प्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः । न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः । तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति ।
२४९
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः, उत्क्षेपणादिभ्योऽतिरिच्यमानेषु निष्क्रमणं प्रवेशनमित्यादिषु वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । सामान्यविशेषसद्भावे सति कर्मणाम् आनन्त्यमनिष्टमनुषज्यते । अथ कार्यभेदान्निष्क्रमणादिषु प्रत्ययानुवृत्तिसद्भावो न सामान्यविशषेसद्भावादिति पराशयमाशङ्क्याह उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृतिप्रसङ्ग इति ।
For Private And Personal Use Only
5
यथा बहिर्देशेन संयोगकरणादन्तर्देशेन च विभागजननात् निष्क्रमणम्, 10 विपरीतच प्रवेशनम् एवम् उर्ध्वदेशेन संयोगजननादधोदेशेन विभागजननाच्चोत्क्षेपणमित्यादि भविष्यतोति । अथोत्क्षेपणादिषु निष्क्रमणादिषु च समाने वर्गश: प्रत्ययानुवृत्तिव्यावृत्ति [सद् ] मावे सत्युत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र न विशेषहेतुरस्तीति ।
3
एतन्न जातिसङ्करप्रसङ्गात् । तदाह निष्क्रमणादीनां जातिभेदात् 15 प्रत्ययानुवृत्तिव्यावृत्तौ सत्यां जातिसङ्करो विरुद्ध जातिसमावेश: प्रसज्यते । स चान्यत्रानुपलब्धेरनिष्ट: । यद्यपि सत्ताद्रव्यत्वादिपरापरभेदभिन्नमेकस्यां व्यक्तावस्ति, तथापि न गोत्वाश्वत्वाद्युपलब्धम् । अत्र चैकस्यां व्यक्तौ निष्क्रमणत्वप्रवेशनत्वजातिप्रसङ्गः । कथमित्याह द्वयोर्द्रष्ट्रोरेकस्यां कर्मव्यक्तौ युगपनिष्क्रमणप्रवेशनप्रत्ययौ दृष्टाविति । कस्य तत् कर्मेत्याह एकस्माद- 20 पवरकादपवरकान्तरं गच्छतः पुरुषस्येति । तथाहि द्वयोरपवरकयोरेकमेव द्वारमित्युभयत्र व्यवस्थितयोः पुरुषयोरन्यस्मिश्च व्रजति पुरुषे विशिष्टसंयोगविभागोपलम्भाद् युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टावेव तथा च द्वारप्रदेशे प्रविशति निष्क्रमतीति च । यो हि द्रष्टा स्वापवरकान्तदेशे विभागं बहिर्देशे च संयोगमुपलभते, तस्य निष्क्रमतीति प्रत्ययो भवति । यस्तु स्वापवरकान्तर्देशे संयोगं बहिर्देशे च विभागमुपलभते, तस्य प्रवेशनप्रत्ययो भवति । यदा तु प्रतिसीरादिजवनिकाद्यपनीतं भवतीत्यादिपदेनान्यस्यापि कुड्यादे
३२
25
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
व्योमवत्यां
रावरणस्यापनयनस्तदा विशिष्टस्य कार्यभेदस्यानुपलब्धर्न निष्क्रमणप्रत्ययः, नापि प्रवेशनप्रत्ययः । किं तर्हि ? गमनप्रत्यय एव भवति । तस्मादेतस्यां गमनव्यक्तौ विरुद्धजातिसमावेशप्रसङ्गात् कार्यभेदादेव प्रत्ययभेद इत्युक्तम् ।
तथा नालिकायां वंशपत्रादौ पतति द्रष्टणामूधिस्तिर्यगव्यवस्थितानां 5 युगपभ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातीनां भ्रमणत्वादीनां सङ्करप्रसङ्ग इति।
स्वपक्षे दोषपरिहारार्थमाह न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः, यस्य भयाद् विरुद्धजातिसमावेशप्रसङ्गपरिहारार्थं कार्यभेदेन भेदोऽभ्युप
गम्यत इति । उपसंहारमाह तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानु10 वृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति ।
कथं युगपत्प्रत्ययभेद इति चेत्, अथ मतं यथा जातिसङ्करो नास्ति, एवमनेककर्मसरोऽपि एकस्मिन् वस्तुनि नास्तीत्येकस्मिन् कर्मणि युगपद् द्रष्टणां श्रमणपतनप्रवेशनप्रत्ययाः कथं भवन्तीति ? अन्न
ब्रमः, न, अवयवावयविनोदिविशिष्टसंयोगविभागानां भेदात् । यो हि 15 द्रष्टा अवयवानां पार्श्वतः पये दिकप्रदेशः संयोगविभागान् पश्यत्ति,
तस्य भ्रमणप्रत्ययो भवति, यो झक्यविन ऊर्ध्वप्रदेशविभागमधःसंयोगचावेक्षते तस्य पतनप्रत्ययो भवति । यः पुनर्नालिकान्तदेशे संयोग बहिर्देशे च विभागं पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेद इति ।
परमतमाशङ्कते कथं युगपत् प्रत्ययभेद इति चेत्, इति । अस्य तु विवरणम् अथ मतं यथा जातिसङ्करो नास्त्येवमनेककर्मसङ्करोऽप्येकस्मिन् वस्तुनि नास्तीत्युक्तमेव । अतः कथमेकस्मिन् कर्मणि कारणाभावाद् युगपद् द्रष्टणां भ्रमणपतनप्रवेशनप्रत्ययाः परस्परव्यावृत्तात्मानो भवन्ति, कारणा
भावेन कार्यस्यानुत्पत्तेरिति । अत्र ब्रूमः इत्यादि प्रतिसमाधानम् । 25 यत् त्वयोक्तं कारणाभावेनानुत्पत्तिरेव भ्रमणादिप्रत्ययानामित्येत्, न ।
अध्यवावयविनोदिग्देशसंयोगविभागभेदात् तदुपपत्तेः। अवयवश्वावयवी
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैदप्रकरणम्
२५१
चेत्यवयवावयविनौ
तयोदिग्देशविशिष्टसंयोगविभागाः, तद्भेदादिति । तदेवाह यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेश: संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति । यस्त्ववयविन्यूर्ध्व प्रदेशाद् विभागमधः संयोगञ्चावेक्षते तस्य पतति पत्रमिति पतनप्रत्ययो भवति । यः पुनर्नालि कान्तदेशे गतन्तिर्देशे संयोगं बहिर्देशे च विभागं पश्यति तस्य प्रविशति पत्रमिति प्रवेशनप्रत्ययः । तस्मात् सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेदो न जातिभेदादिति ।
अन्ये तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलनादिभेदेन कर्मणामसङ्ख्यातत्वानिष्क्रमणादीनां जातिभेदात् प्रत्ययभेदसिद्धौ न किञ्चिद् बाधकमस्तीत्यतो नेदं स्वमतमिति । न च भ्रमणरेचनादीनां गमन एवान्तर्भाव इति मन्यन्ते । 10 एतत्तु न युक्तम्, तस्य कर्मत्वपर्यायत्वेन वच्यमाणत्वात्, जातिसङ्करप्रसङ्गस्य च बाधकस्य दृढत्वादिति ।
भवतूत्क्षेपणादीनां जातिभेदात् प्रत्ययभेदः, निष्क्रमणादीनान्तु कार्यभेदादिति । अथ गमनत्वं किं कर्मत्वपर्यायः ? आहोस्विदपरं सामान्यमिति । कुतस्ते संशय: ? समस्तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यतस्तूत्क्षपणादिवद् विशेषसञ्ज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति ? न । कर्मत्वपर्यायत्वात् । आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वमिति । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति ? न श्रमणाद्यविरोधार्थत्वात् । उत्क्षेपणादिशब्दैरनवरुद्धानां श्रमणपत नस्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति । अन्यथा हि यान्येव चत्वारि विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति । अथवा अस्त्वपरं सामान्यं गमनत्वमनियत दिग्देश संयोगविभागकारणेषु भ्रमणादिष्वेव वर्तते । गमनशब्दस्तुत्क्षेपणादिषु भाक्तो द्रष्टवनः स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति ।
भवत्क्षेपणादीनां जातिभेदाद् भेदो न निष्क्रमणादीनाम् । अथ गमत्वं किं कर्मत्वपर्याय: 'घट: कलश:' इति पर्यायवत्, आहोस्विदपरं सामान्यम्,
For Private And Personal Use Only
5
15
20
25
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
व्योमवत्या
उत्क्षेपणत्वादिवदिति चिन्त्यम् । कुतः कारणात् ते संशय इत्याचार्यस्य प्रश्नः । स चानुपपन्नः । तथाहि सन्दिग्धेन प्रश्ने कृते सति तत्प्रतिसमाधानं न्याय्यम्, न तु संशयकरणेन वचनम्, तस्य सामान्यधर्मादिभ्यः पूर्वमेवोत्पत्तिनिरूपणात् । नैष दोषः। संशयकारणज्ञाने सति तदुच्छित्तावुपायानुष्ठानम् उपलब्धव्याधिकारणस्य वैद्यस्येव अप्रयासेनैव घटत इति मन्यमानः कारणं प्रश्नयतीति । तदाह समस्तेषूत्क्षेपणादिषु भ्रमणादिषु च कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यथा ह्यत्क्षेपणकर्मापलेपणकर्मेत्यादिव्यवहारोपलम्भादशेषभेदव्यापकं
कर्मत्वम्, एवमध्वं गच्छत्यधोगच्छतीत्यादिव्यवहारोपलम्भाद् गमनमप्य१० शेषभेदव्यापकमित्यतः कर्मत्वपर्याय इति ज्ञायते।
__न चात्र निश्चय एवेत्याह यतस्तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम्, तस्मादपरं सामान्यं स्यादिति । न हि विशेषदर्शनेन गणनायां तदवसरे सामान्यसंज्ञानिर्देशो दृष्टः । यथा पृथिव्यादि
संज्ञावसरे द्रव्यसंज्ञायाः । तस्मादुभयरूपधर्मोपलम्भाद् विशेषानुपलम्भादिभ्यश्च 10 किं कर्मवद् गमनत्वं परं सामान्यम्, आहोस्विदुत्क्षेपणत्वादिवदपरमिति
संशयः कार्यः ? न संशयः कार्यः, कर्मत्वपर्यायत्वादात्मत्वपुरुषत्ववत् पर्याय एव गमनत्वमिति, सर्वत्र कर्मप्रत्ययवद् गमनप्रत्ययोपलम्भादिति न्यायात् । अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, विशेषसंज्ञावसरे सामान्य
संज्ञोपदर्शनस्यादर्शनात् । न, भ्रमणाद्यवरोधार्यत्वात् । उत्क्षेपणादिशब्दै20 रनवरुद्धानामसगृहीतानां भ्रमणपतनस्यन्दनादीनामवरोधार्थम्, कर्मत्व
ज्ञापनार्थमिति। अन्यथा हि गमनग्रहणमन्तरेण यान्येव चत्वारि विशेषसंज्ञोक्तान्युत्क्षेपणादीनि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरनिति । सामान्यसंज्ञा कर्मसंज्ञा, विशेषसंज्ञा चोत्क्षेपणादिसंज्ञा, तद्विषयाणि चत्वार्येव
प्रसज्येरन्, न भ्रमणादीनि । कुत एतत् ? विशेषसंज्ञाविषयाणामेव सामान्य25 संज्ञाविषयत्वात् । तस्मादुत्क्षेपणादिवद् भ्रमणादीनामपि कर्मत्वज्ञापनार्थं
गमनग्रहणं कृतमिति । न चैतस्मिन् पक्षे भ्रमणादीनामपरजातिसम्बन्धेऽपि दूषणम्, तदपेक्षया आनन्त्यस्याभ्युपगमात् । यच्च गमनग्रहणाद् भ्रमणादयः सङगृहीता इति वाक्यम्, तदन्यथा व्याख्यातम् ।
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम्
२५३
अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्देशसंयोगविभागकारणेषु भ्रमणाविष्वेव वर्त्तते, नोत्क्षेपणादिषु । कथं तहि तेषु गमनव्यवहार इत्याह गमनशब्दस्तूत्क्षेपणादिषु भाक्तो द्रष्टव्यः । कस्मात् ? उपचारबीजात् स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति । यथा उत्पन्नमुत्क्षेपणादि स्वाश्रयस्य पदार्थान्तरैः संयोगविभागान् करोति, तथा गमनमपीति । न चैतस्मा- 5 देव निमित्तादुत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारप्रसङ्गः, कार्यसद्भावेन कारणकल्पनाया: प्रवर्त्तनात् । न चोत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारो दृष्टः, तस्मादचोद्यमेतत् । अथ पक्षद्वयोपन्यासात् किमत्राचार्यस्याभिप्रेतम् ? पञ्चानां प्रतिनियतजातियोगित्वाभिधानाद् गमनत्वमपरं समान्यमित्येतत् ।
10 अन्ये तु वास्तवदूषणस्य परसामान्यपक्षेऽनभिधानात् तदेवाभिप्रेतमिति मन्यन्ते।
सत्प्रत्ययकर्मविधिः । कथम्? चिकोषितेषु यज्ञाध्ययनदान कृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षप्तुं बा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते, तं प्रयत्न गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते 15 कर्म भवति, हस्तवत् सर्वशरोरावयवेषु पादादिषु शरीरे चेति ।
पूर्वं सत्प्रत्ययमसत्प्रत्ययश्च कर्मोक्तम् । तत्र सत्प्रत्ययकर्मविधिः कथमित्याह चिकीर्षितेषु कर्तुमभीष्टेषु। यज्ञाध्ययनदानकृष्यादिष्वित्यादिपदेन भोजनादेग्रहणम् । यज्ञादिषु च तिलादिग्रहणार्थं यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते । तदुत्पत्तावात्मा 20 समवायिकारणम्, आत्ममनःसंयोगोऽसमवायिकारणम्, इच्छा निमित्तकारणम् । तत्प्रयत्नं गुरुत्वञ्चापेक्षमाणाद् आत्महस्तसंयागादसमवायिकारणाद् हस्ते समवायिकारणे कर्मोत्पद्यते, हस्तवत् सर्वशरीरावयवेष पदादिषु शरोरे चेति । यथा आत्महस्तसंयागोऽसमवायिकारणं प्रयत्नस्तु निमित्तकारणं हस्तकर्मोत्पत्तौ, तथा सर्वशरीरावयवेषु शरीरे च समवेत- 25 कर्मोत्पत्ती आत्मसंयोगोऽसमवायिकारणं प्रयत्नो निमित्तकारणमित्यतिदेशार्थः।
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
10
व्योमवत्या
तत्सम्बद्धेष्वपि कथम् ? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति 'उत्क्षिपामि हस्तेन मुसलमिति', तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्महस्तसंयोगाद् यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगात् सुसलेऽपि कर्मेति । ततो 5 दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्त्तते । पुनरपि अपक्षेपणेच्छोत्पद्यते, तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् यथोक्तात् संयोगाद् हस्तमुसलयोर्युगपदपक्षेपणकर्मणो भवतः । ततोऽन्त्येन मुसलकर्मणा उलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति । तत् कर्म अभिघातापेक्षं मुसले संस्कारमारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति । यद्यपि प्राक्तनः संस्कारो विनष्ट:, तथापि मुसलोलूखलयोः संयोगः पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति ।
www.kobatirth.org
२५४
25
Acharya Shri Kailassagarsuri Gyanmandir
अथवा प्राक्तन एवं पदुः संस्कारोऽभिघातादविनश्यन्नवस्थित 15 इति । अतः संस्कारवति पुनः संस्कारारम्भो नास्ति, अतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात् मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति ।
तत्सम्बद्धेष्वपि मुसलादिषु कथं कर्म भवतीत्यव्युत्पन्नप्रश्नानन्तरमाह हस्तेन मुसलं गृहीत्वा इच्छां करोति । किं विशिष्टाम् ? उत्क्षिपामि हस्तेन 20 मुसलमित्येवं रूपाम् । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नस्तदनुरूप:, तमपेक्षमाणाद् आत्महस्तसंयोगादसमवायिकरणाद् यस्मिन् काले हस्ते समवायिकारणे कर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगादसमवायिकारणान्मुसलेऽपि कारणे कर्म । ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा उत्क्षेपणेच्छा निवर्त्तते । स्वकारणात् पुनरपि अपक्षेपेणेच्छोत्पद्यते । तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नः तदनुरूपः, तमपेक्षमाणाद् यथोक्तात् संयोगद्वयाद् इति आत्महस्तसंयोगान्मुसलहस्तसंयोगाच्च प्रयत्नापेक्षाद् हस्तमुसलयोर्युगपद् अपक्षेपणकर्मणी भवतः । ततोऽन्त्येन आवसानिकेन मुसल
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२५५ कर्मणा उलखलमुसलयोरभिघाताख्यः संयोगः क्रियते । स संयोगोऽसमवायिकारणभूतो मुसलगतं वेगमपेक्षमाणोऽप्रत्ययमप्रयत्नं मुसलेऽप्युत्पतनकर्म करोति । तत् कर्म असमवायिकरणमभिघातापेक्षं मुसले समवायिकारणे संस्कामारभते । तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययमप्रयत्नपूर्वकं हस्तेऽप्युत्पतनकर्म करोति ।
ननु मुसलोलूखलसंयोगान्मुसले कर्मोत्पत्तिसमकालं प्राक्तनसंकारविनाशे अपेक्षाकारणभावान्न मुसले कर्म संस्कारमारभते, तदभावे च हस्तमुसलसंयोगः कथं हस्ते अप्रत्ययमुत्पतनकर्म कुर्यादित्याशङ्क्याह यद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलखलसंयोग: पटुकर्मोत्पादकः । कुतः ? संयोगविशेषभावात् । अतस्तस्य कर्मणः संस्कारसाचिव्ये समर्थों भवति । 10 सचिवस्य भावः साचिव्यं साहाय्यं तत्र समर्थो भवतीति ।
अथवा प्राक्तन एव पटु: संस्कारोऽभिधातादविनश्यन्नवस्थित इति पक्षान्तरं दर्शयति । प्राक्तनस्य पटसंस्कारस्यावस्थाने संस्कारवति पुनः संस्कारारम्भो नास्तीत्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणान्मसलहस्त- 15 संयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति ।
पाणिमुक्तेषु गमन विधिः । कथम् ? यदा तोमरं हस्तेन गृहीत्वा उत्क्षोप्तुमिच्छोत्पद्यते तदनन्तरं प्रयल, लमपेक्षमाणाद् यथोक्तात् संयोगद्यात् तोपरहस्तयोर्युगपदाकर्षकर्मणी भवतः । प्रसारितेच हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते, तदनन्तरं तिर्यगूच दरमासन्नं वा 20 क्षिपामीतीच्छा सञ्जायते, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, तस्मात् तोमरे कर्मोत्पन्न नोदनापेक्षं तस्मिन् संस्कारमारसते । ततः संस्कारनोदनाभ्यां तावत कर्माणि भवन्ति यावद् हस्ततोमरविभाग इति । ततो विभागानोदने निवृत्ते संस्कारावं तिर्यग् दरम् आसन्न वा प्रयत्नानुरूपाणि कर्माणि 25 भवन्ति आपतनादिति ।
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
व्योमवत्यां
पाणिमुक्तेषु तोमरादिषु गमनविधिर्गमनप्रकारः । कथमित्याह यदा तोमरं हस्तेन गृहीत्वेच्छां करोति हस्तेन उत्क्षिपामि तोमरम् इति, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् यथोक्तसंयोगद्वयाद् इत्यात्महस्तसंयोगाद् हस्ततोमरसंयोगाच्च तोमरहस्तयोर्युगपदाकर्षणकर्मणी भवतः । प्रसारिते च हस्ते दूरमुत्क्षिप्ते, तदाकर्षणार्थः तस्य तोमरस्याकर्षणार्थः प्रयत्नो व्यावर्त्तते । तदनन्तरं तिर्यगूर्ध्वमधोदूरमासन्नं वा क्षिपामीतीच्छा सञ्जायते, तिर्यक् क्षिपाम्यूलमधो दूरमासन्नं क्षिपामि इति । तदनन्तरं तदनुरूपः प्रयत्न इति आसन्ने मन्दो दूरे तीन एवेति । तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, नोद्यनोद
कयोः सह गमनान्नोद्यस्तोमरो नोदको हस्त इति, तयोः संयोगः प्रयत्नापेक्षः । 10 तस्मात्तोमरे कर्मोत्पन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते। तोमरः
समवायिकारणम्, कर्मासमवायिकारणम्, प्रयत्नो निमित्तकारणमिति । ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद् हस्ततोमरयोविमोचनार्थेन कर्मणा परस्परं विभाग इति । ततो विभागानिवृत्ते नोदने संस्काराद
समवायिकारणात् तदनुरूपाणि कर्माणि भवन्ति आपतनात् पतनं यावदिति । 15 संस्कारस्य तीव्रतरादिभेदभिन्नत्वात् कर्माण्यप्येवं भवन्तीति ।
तथा यन्त्रनुक्तेषु जमनविधिः । कथम् ? यो बलवान् कृतव्यायामो वामेन करेण धनुविष्टभ्य दक्षिणेन शरं सन्धाय सशरा ज्यां मुष्टिना गृहीत्वा आकर्षणेच्छां करोति 'सज्येष्वाकर्षयाम्येनं धनुरिति' तदनन्तरं
प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् आकर्षणकर्म हस्ते यदै26. वोत्पद्यते तदेव तमेव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् ज्यायां
शरे च कर्म, प्रयत्नविशिष्टहस्तज्याशरसंयोगमपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्यां कर्मणी भवतो धनुष्कोटयोरित्येतत् सर्व युगपत् । एवम् आकर्णादाकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानं ततस्तदा
कर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते, 25 तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्मागुलिसंयोगाद् अङ्गुलिकर्म,
तस्माज्ज्याङशुलिविभागः, ततो विभागात संयोगविनाशः, तस्मिन् विनष्टे प्रतिबन्धकाभावाद् यदा धनुषि वर्तमानः स्थितिस्थापकः
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२५७
संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति, तदा तमेव संस्कारमपेक्षमाणाद् धनुासंयोगाज्यायां शरे च कर्मोत्पद्यते, तत् स्वकारणापेक्षं ज्यायां संस्कारं करोति, तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते । तस्मात् संस्कारानोदनसहायात तावत् कर्माणि भवन्ति, यावदिषुज्याविभागः, विभागा- 5 निवृत्ते नोदने कर्माण्युत्तरोत्तराणि इषुसंस्कारादेव आपतनादिति । बहनि कर्माणि क्रमशः । कस्मात् ? संयोगबहुत्वात् । एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावादिति ।
तथा यन्त्रमुक्तेषु शरपाषाणादिषु गमनविधिः । कथम्, किं विशिष्टश्च पुरुषस्तान् प्रयुङ्क्ते, केन वा प्रकारेणेत्याह यो बलवान् कृतव्यायामो 10 ह्यस्नयन्त्रसिद्धः, वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धायेति, बाहुल्यापेक्षयैतत् । सह शरेण वर्तत इति सशरा, तां ज्यां मुष्टिना गृहीत्वेच्छां करोति 'सज्येषमाकर्षयाम्येनं धनुः' इति । सह ज्यया वर्तत इति सज्यः, स चासाविषुश्चेति तथोक्तः, तमेनं सज्येषुमाकर्षयामि धनुश्चेति ।
न च एनमिति पदं धनुःशब्देनाभिसन्धानीयम्, तस्य नपुंसकलिङ्ग- 15 तयैतद्धनुरिति स्यात् । अथोऽर्द्ध दिपाठात् प्रयोगदर्शनाद् वा कथञ्चिदुभयलिङ्गतेष्यते ? तथाप्येनं धनुषमिति स्यात्, नत्वेनं धनुरिति । पुंल्लिङ्गविवक्षायामपि इति शब्देन कर्मणोऽभिहितत्वात्, द्वितीयाविभक्तिर्न भवति इत्यन्ये । तदनन्तरम् इच्छानन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् असमवायिकारणाद् हस्ते समवायिकारणे यदैव आकर्षणकर्मोत्पद्यते, 20 तदैव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् असमवायिकारणाद ज्यायां शरे च समवायिकारणे कर्मोत्पद्यते । प्रयत्नविशिष्टं हस्तज्यासंयोगम् अपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्याम् असमवायिकारणाभ्यां धनुष्कोटयोः समवेते कर्मणी भवतः । धनुषि च समवेतं कर्म ज्याधन :संयोगाद् असमवायिकारणाद् हस्तज्यासंयोगं विशिष्टमपेक्षमाणादित्येतत् सर्वं युगपदेकस्मिन् काले 25 भवति, कारणस्य यौगपद्यात् ।
३३
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
व्योमवत्यां
एवम् आकर्णात् कर्णं यावद् आकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानम् ततस्तदाकर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते । तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् आत्माङ्गुलि
संयोगाद् असमवायिकारणाद् अङ्गुलिषु मोचनार्थं कर्मोत्पद्यते । तस्मा5 दगुलिज्याविभागः, ततो विभागात् तत्संयोगविनाशः, तस्मिन् विनष्टे
प्रतिबन्धकाभावान्मण्डलीभूतं धनुर्यथावस्थितं स्थापयतीति स्थितिस्थापकसंस्कारो धनुषि कर्मारभते । तत्र धनुः समवायिकारणं स्थितिस्थापकसंस्कारोऽसमवायिकारणमदृष्टादिनिमित्त कारणमिति । यदैव धनुष्याकर्षणकर्मणा मण्डलीकृते स्थितिस्थापनार्थ स्थितिस्थापकसंस्कारात् कर्मोत्पद्यते तदा तमेव संस्कारमपेक्षमाणाद् धनुष: ज्यासंयोगाद् ज्याशरसंयोगाद् असमवायिकारणात् ज्यायां शरे च कर्मोत्पद्यते । तद् उत्पन्नं स्वकारणापेक्षं ज्यायां संस्कारमारभते । तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तयोः सह गमनात् तस्माद् इषावाद्यं कर्मोत्पद्यते। तच्च नोदनापेक्षमिषौ संस्कारमारभते ।
तत्रेषुः समवायिकारणम्, कर्मासमवायिकारणम्, नोदनं निमित्तकारणमिति । 15 तस्मात् संस्कारान्नोदनसहायात् तावत् कर्माणि भवन्ति यावदिषुज्याविभागः,
तदुत्पतौ ज्येष्वोः समवायिकारणत्वम्, इषुकर्मणोऽसमवायिकारणत्वम्, शेषं निमित्तकारणम् । ततो विभागान् निवृत्ते नोदने कर्माणि उत्तरोत्तराणि इषुसंस्कारादेव, आपतनादिति पतनं यावत् तावदिति । बहूनि कर्माणि
क्रमशः । कस्मात् ? संयोगबहुत्वात् । तत् सद्भावेऽपि अविनाशे सर्वदा 20 इषोरपातः स्यात् ।।
अथैकमपि कर्मानेकं संयोगं कृत्वा शक्तिमान्द्याद् विनश्यतीति ? तर्हि संस्कारस्यानारब्धकार्यस्यावस्थानाद् अन्यत् कर्मान्तरमित्यपात एव स्यात् । न च संस्कारस्य संयोगजनकत्वम्, येन अनेककार्यकरणे शक्तिमान्द्याद्
विनाशः स्यात् । तेषां कर्मकार्यत्वात्, तत्तस्तदुत्पादे कर्मणामेव विनाशो 25 युक्तः । न च संस्कारादभिन्नमेव कर्मेति वाच्यम्, प्रत्ययभेदस्य भेदलक्षण
त्वात् । तथा च वेगेन गच्छतीति वेगानुरक्तो गमनानुरक्तश्च प्रत्ययो दृष्ट: । तस्माद् वेगः संयोगवत् कर्मणोऽर्थान्तरमिति । अभेदे तु मन्दगमनादावपि वेगेन गच्छतोति प्रत्यय: स्यात्, न चैतदस्ति ।
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___10
कर्मवैधयंप्रकरणम्
२५९ अथ संयोगविभागोपलम्भादनुमीयते कर्मेति चेत्, न, संयोगवदिन्द्रियव्यापारेणैव कर्मण्यपि अपरोक्षज्ञानसद्भावस्याविशेषात् । यथा हि वस्तुनः प्रदेशान्तरैः संयोगविभागाः प्रत्यक्षेण प्रतीयन्ते, तद्वत् कर्मापीति ।
यच्च प्रदेशान्तरैः संयोगविभागोपलम्भे सति चलतीति ज्ञानम् आनुमानिकमितीष्टम्, तन्न युक्तम्, नदीस्रोतस्यूविस्थितस्य स्थाणोस्त- 5 त्सद्भावेऽपि चलनप्रत्ययादर्शनात् । आकाशे प्रक्षिप्तस्येषोस्तदभावेऽपि तत्सद्भावदर्शनात् ।
यच्चेदम् एकस्मिन् स्थाने प्रतिक्षणमुत्पादात् तिष्ठतीति व्यवहारः, देशान्तरे च तद्भावाद् गमनव्यवहार इत्युक्तम्, तन्न युक्तम्, क्षणभङ्गप्रतिषेधात् ।
अथ संयोगबहुत्वाद् बहूनि कर्माणीति सत्यम् । न चैवं संस्कारस्यापि संयोगबहुत्वाद् बहुत्वम्, तस्य संयोगमात्रेणाविनाशात् । विनाशे वा कर्मान्तराणामुत्पत्तिर्न स्यात्, असमवायिकारणाभावात् । न च चात्मेषुसंयोग एव अदृष्टापेक्षोऽसमवायिकारणम्, प्रत्यक्षानुमानाभ्यां कारणान्तरानुपलम्भे सति तत् कल्पनायाः समाश्रयणात् । उपलभ्यते च अक्षव्यापारेणैव वेगः, 15 तस्य प्रत्याख्यानमशक्यम् ।।
__ अथ संस्कारादुपजातकर्मणि उत्तरसंयोगाद् वेगस्य कर्मणश्च विनश्यत्ता, अन्ययोश्च वेगकर्मणोरुत्पद्यमानता, अतस्तयोरुत्पादः प्राक्तनयोश्च विनाश इति कल्पनायां किं दूषणम् ? विनश्यदवस्थस्यासमवायिकारणत्वस्याभाव इत्येतत् । तथाहि न प्राक्तनं कर्म संस्कारान्तरमारभते, नापि प्राक्तनो वेगः 20 कर्मान्तरम्, उभयोविनश्यदवस्थत्वेनासमवायिकारणत्वाभावात् । न चान्यदसमवायिकारणम् अन्तराले कर्मणः सम्भवतीत्युक्तम् । यच्च संस्कारादुत्पन्न कर्म तन्न संस्कारान्तरमारभते, अपेक्षाकारणाभावात् । नापि प्राक्तनः संस्कारोऽपेक्षाकारणम्, संस्कारवति संस्कारारम्भप्रतिषेधाद् अवश्यं कर्मान्तरोत्पत्तिसमकालमुत्तरसंयोगात् पूर्वकर्मनिवृत्तिवत् पूर्वसंस्कारस्यापि 25 निवृत्तिर्वाच्या । न च संयोगमात्रमपेक्षाकारणं कर्मणः संस्कारारम्भे,
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्या
२६० मन्दगतावदर्शनात् । तथाहि मन्दगतौ संयोगसद्भावेऽपि न कर्म संस्कारमारभत इत्युपलब्धम् । तस्मादेक एव संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति।
नन्वेवं तर्हि संस्कारस्यैकरूपत्वात् कथं तीव्रतरादिभेदभिन्नानां कर्मणामुत्पत्तिः ? सहकारिभेदात् । स च कार्यभेदेनैव ज्ञेयः । तत्र दृष्टस्यानुपलब्धेरदृष्टाख्यः कल्पत इति । क्षिप्तस्येषोः पातोपलम्भेन च वेगविनाशप्रसिद्धेः, तस्य सहेतुत्वादन्यस्य च विनाशहेतोरभावादनेककार्यकरणे सति शक्तिप्रक्षयाद्विनाशः कल्प्यत इति । सा च शक्तिरदृष्टविशेष एव अनेककर्म
सम्पादकः । एतच्चानेकसंस्कारवादिनाप्यभ्युपगन्तव्यम् । अन्यथा हि 10 पुनः संस्कारोत्पत्तेरिषोरपात एव स्यात् । तस्मादुक्तन्यायेनैक एव संस्कार इति।
एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम् ।
उपसंहारमाह एवमात्माधिष्ठितेषु प्रयत्नद्वारेण अनधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कक्तिम् ।
अनधिष्ठितेषु बाह्येषु चतुएं महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति । तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नात् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणम् । तस्माच्चतुर्वपि महाभूतेषु कर्म भवति । यथा
पकाख्यायां पृथिव्याम् । 20 इदानीमनधिष्ठितेषु बाह्येषु शरीरासम्बद्धेषु, आकाशादिनिवृत्त्यर्थं
चतुर्पु, महाभूतेष्विति परमाणुनिवृत्त्यर्थम् । अप्रत्ययमप्रयत्नपूर्वकं कर्म गमनमेव नोदनादिभ्यो भवति । आदिपदेनाभिघातसंयुक्तसंयोगगुरुत्वादेर्ग्रहणम् । तत्र नोदनं व्याख्यायते, गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाणो
यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणमिति । यः 25 संयोगस्तन्नोदनमित्युक्तेऽतिप्रसङ्गः, तदर्थं कर्मणः कारणमिति । अभिघातोऽ
प्येवं भवतीति अविभागकृत इति पदम् । तथाप्युत्पन्नस्य कर्मणोऽवश्यं
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कर्मवैधर्म्यप्रकरणम्
Acharya Shri Kailassagarsuri Gyanmandir
२६१
विभागजनकत्वम्, अतः परस्परमिति पदम् । तथापि परस्परं संयोगिनो विभागजनकस्य कर्मणः कारणं संयुक्तसंयोगोऽपीत्यतो गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाण इति । तत्र यदा चुलुकेनोदकं गृहीत्वा वेगेन प्रतिक्षिपति, तदा सर्वे गुरुत्वादयः सम्भवन्तीति तदपेक्षं चुलुकोदकसंयोगो नोदनम् । व्यस्तपक्षे तु गुरुत्वमपेक्षणमाणः संयोगो नोदनम्, यथा सूक्ष्मशाशाखोपरि व्यवस्थापितमतिशयेन गुरुद्रव्यमधोगतिहेतुर्भवति शाखायाः । द्रवत्वमपेक्षमाणस्तृणोदकसंयोगस्तृणे गमनमारभते । वेगमपेक्षमाणो वायुवनस्पतिसंयोगो वृक्षादिषु चलनकारणम् । प्रयत्नापेक्षस्तु हस्तमुसलसंयोगो मुसलकर्मोत्पत्तौ । यदा च प्रयत्नेन पङ्के पादमुपक्षिपति, तदा प्रयत्नगुरुत्वे चापेक्ष्य पादपङ्कसंयोगः पङ्कमधो नयतीति । यदा च पाषाणादेर्वेगेन पाते सति पङ्केन संयोगस्तदा पाषाणादिगतं गुरुत्वं वेगश्च अपेक्षमाणं पाषाणपङ्कसंयोगो नोदनमिति । यदा कश्चिद् वेगेन कूपादौ पतति, तदा गुरुत्वप्रयत्नवेगान् अपेक्ष्य देवदत्तोदकसंयोगोऽधोगतिहेतुर्भवति । यदा च जलधरधारासम्बन्धात् तृणादेरधोगमनम्, तदा गुरुत्वद्रवत्ववेगानपेक्षत इत्यादि द्रष्टव्यम् । तस्माद् यथोक्तान्नोदनाच्चतुर्ष्वपि महाभूतेषु कर्म भवतीत्युदाहरण - 15 माह यथा पङ्काख्यायां पृथिव्यां पादादिसंयोगाद् यथोक्तविशेषणादिति ।
5
For Private And Personal Use Only
10
वेगापेक्षा यः संयोगविशेषो विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघातः । तस्मादपि चतुर्षु महाभूतेषु कर्म भवति । यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु । तथा पादादिभिर्नुद्यमानायाम् अभिहन्यमानायां वा पङ्काख्यायां पृथिव्यां यः संयोगो नोदनाभिघा- 20 तयोरन्यतरापेक्षः, उभयापेक्षो वा स संयुक्तसंयोगः, तस्मादपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते ।
अभिघातस्येतरस्माद् भेदार्थमाह वेगापेक्षो यः संयोगाविशेषः परस्परं विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघात इति । विभागहेतुकर्मकारणं 25 नोदनादिरपीति परस्परं विभागहेतोरिति पदम् । तथापि आत्ममनः संयोगेन
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
व्योमवत्यां व्यभिचारपरिहारार्थं वेगापेक्ष इतिपदम् । न चात्ममनःसंयोगः परस्परविभागहेतुसम्पादको वेगापेक्ष इति ।
नन्वेकस्येति पदं व्यर्थम, अभिघातादूभयत्रापि कर्मोपलब्धेः । सत्यम्। तथाप्येकस्येति आद्यकर्मज्ञापनार्थम् उत्तरोत्तराणि वेगादेव भवन्तीति । नोदनादिश्चोत्तरकर्मणां बहूनामपि कारणमिति । अन्ये तु एकस्य कारणणमेव, न त्वेकस्यैवेत्यवधारणं मन्यन्ते । नोदनेऽप्येकस्येति विशेषणमेवं व्याख्येयम् । उदाहरणन्तु यथा पाषाणादिषु पाषाणाद्यभिघातादिति । संयुक्तसंयोगनिरूपणार्थमाह तथा पादादिभिर्नुद्यमानायामित्यादि ।
परस्परमविभागकृतः कर्मणः कारणं नोदनमपीत्यतो नोदनाभिघात10 योरन्यतरापेक्ष उभयापेक्षो वा यः संयोगः, स संयुक्तसंयोगः । क्वचिन्नोद
नापेक्षः, क्वचिदभिघातापेक्षः, क्वचिदुभयापेक्ष इति । उदाहरणन्तु यथा पकाख्यायां पृथिव्याम् । कि विशिष्टायाम् ? पादादिभिर्नुद्यमानायाम् अभिहन्यमानायां पृथिव्यां वा ये प्रदेशा न नुद्यन्ते, न साक्षात्पादेन सम्बद्धयन्ते
नाप्यभिहन्यन्ते न साक्षात् पाषाणादिना सम्बद्धयन्ते, तेष्वपि कर्म सञ्जायते । 15 प्रदेशाः समवायिकारणम्, पादादिभिश्च सम्बद्धप्रदेशैः सह संयोगो असमवायिकारणम्, पादादिसंयोगाश्च निमित्तकारणम् ।
पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सति गुरुत्वाद् यदधोगमनम्, तत्पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यं गुरुत्वात्, द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् ।
पतननिरूपणार्थमाह गुरुत्वाद् यदधोगमनम् तत् पतनम् । वायोरप्यधोगमनं वृक्षकोटरादिषूर्ध्वप्रदेशेन प्रविष्टस्य सम्भवतीति तद्व्यवच्छेदार्थ गुरुत्वादिति । पृथिव्युदकयोरित्याश्रयनिरूपणम् । पतनाश्रयः समवायिकारणम्, गुरुत्वमसमवायिकारणम्, गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे
सतीति निमित्तकारणं दर्शयतीति । यथा मुसलशरीरादिष्वित्युदाहरणम् । 25 हस्तमुसलसंयोगाभावान् मुसले पतनम्, प्रयत्नाभावाच्छरीरे, वेगाभावादिषा
विति । तत्राद्यं गुरुत्वादेवासमवायिकारणादुत्पद्यते पतनम्, तच्चोत्पन्न
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम् स्वकारणापेक्षं संस्कारमारभते, तस्माद् द्वितीयादीनि तु पतनानि गुरुत्वसंस्काराभ्यामसमवायिकारणाभ्यामुत्पद्यन्ते ।
स्रोतोभतानामपां स्थलानिम्नाभिसर्पणं यत् तद् द्रवत्वाद स्यन्दनम् । कथम् ? समन्ताद रोधःसंयोगेनावयविद्वत्वं प्रतिबद्धम, अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धम्, उत्तरोत्तरावयव- 5 द्रवत्वानि संयुक्तसंयोगैः प्रतिबद्धानि। यदा तु मात्रया सेतुभेदः कृतो भवति तदाः समन्तात् प्रतिबद्धत्वादवयविद्वत्वस्य कार्यारम्भो नास्ति । सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः । ततः क्रमशः संयुक्तानामेवाभिसर्पणम् । ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयवैर्दोघं द्रव्यमारभ्यते । तत्र 10 च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते । तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यादवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यामिति ।
स्यन्दननिरूपणार्थमाह स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनमिति । स्थलान्निम्नाभिसर्पणं पाषाणादेरपीति स्रोतोभूतानामिति पदम् । सर्पादेरप्येवं प्रवाहः सम्भवतीत्यपामिति ग्रहणम् । 15 तथाप्यपां दृढहस्तपरिगृहीतानां स्थलान्निम्नाभिसर्पणं न भवतीत्यतः स्रोतोभूतानामिति । अपामिति च बाहुल्यापेक्षया, न त्वपामेवेत्यवधार्यते, तैलादावपि सद्भावात् । अतो यद् उक्तरूपमभिसर्पणम्, तत् स्यन्दनं द्रवत्वाद् भवतीति ।
__कथमित्यव्युत्पन्नस्य विस्तरपरिज्ञानापेक्षया प्रश्नान्तरमाह समन्ताद् 20 रोधःसंयोगेनावयविद्रवत्वं प्रतिबद्धमित्यादि । समन्तात् सर्वतो रोधसा सह संयोगेन सेतुसंयोगेन अवयविद्रवत्वं प्रतिबद्धम् उदके क्रियां न करोति, नाप्यवयवद्रवत्वं स्यन्दनमारभत इत्याह अवयवद्रवत्वमप्येकार्थसमवेतम्, यत्र ह्यवयवद्रवत्वं तत्रैव रोधःसंयोगोऽपीत्यतस्तेनैव प्रतिबद्धम्, उत्तरोत्तरावयवद्रवत्वानि तु संयुक्तसंयोगैः प्रतिवद्धानि। रोधःसंयुक्तावयवेनान्यः 25 संयोगः, तेनाप्यन्य इत्युत्तरोत्तरावयवसंयोगैस्तद्गतद्रवत्वानि प्रतिबद्धानि
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
व्योमवत्यां
क्रियां नारभन्ते । यदा तु सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्वत्वस्य कारम्भो नास्तीति । अयमस्यार्थः महापरिमाणसम्बन्धित्वादवयविनो न सूक्ष्मरन्ध्रदेशनिष्क्रमणम्, सेतोस्तु समीपस्थस्यावयवद्रवत्वस्थ कार्यारम्भकत्वम्, तत्प्रतिबन्धकस्य संयोगस्य व्यावृत्तेः । ततः क्रमेणोत्तरोत्तरावयवद्रवत्वानां वृत्तिलाभः कार्यजनकत्वम् । तथाहि सेतुसमीपस्थस्यावयवस्य चलने सति अवयवान्तरेण विभागात् तत्संयोगो निवर्तते, ततो द्वितीयावयवद्रवत्वं प्रतिबन्धकाभावात् क्रियामारभते, ततस्तृतीयावयवसंयोगनिवृत्तौ तद्गतं द्रवत्वं कारभत इत्येवमुत्तरोत्तराणां
वृत्तिलाभः, ततः संयुक्तानामेवाभिसर्पणमिति । 10 यद्यपि संयोगस्य प्रतिबन्धकस्य विनाशे सत्यन्यस्य सर्पणम्; तथापि
तज्ज्ञापनार्थ क्रमशः संयुक्तानामेवाभिसर्पणमित्युक्तम् । ततो द्रव्यारम्भकसंयोगविनाशे सति पूर्वद्रव्यविनाशः, तस्मिन् सप्रतिबन्धेन सन्तानेनावस्थितैरवयवैर्दीर्घद्रव्यमारभ्यते, तत्र च द्रव्ये कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते ।
कारणद्रवत्वानि असमवायिकारणमवयविनि द्रवत्वोत्पत्ताविति। तत्र 15 कारणानां प्रबन्धेन परिपाट्या गमनेऽवयविनि यत् कर्मोत्पद्यते, तत् स्यन्द
नाख्यमिति ।
संस्कारात् कर्म इष्वादिषूक्तम् । तथा चक्रादिश्ववयवान पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संकारादनियत
दिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति । एवमादयो गमन20 विशेषाः ।
उपसंहारमाह संस्कारात् कर्मेष्वादिषूक्तम्, गुरुत्वादिभ्यश्च । तथाभ्रमणं संस्कारादेव भवतीत्याह-चक्रादिषु तदवयवानाञ्च पार्श्वतः प्रतिनियतदिगदेशसंयोगविभागोत्पत्ताविति । प्रतिनियता हि दिग्देशाश्चक्रावष्टब्धाः, तैः सह
संयोगे विभागे च कर्त्तव्ये यदवयविनि कर्मोत्पद्यते । कुतः ? संस्कारादिति । 25 आद्यदण्डचक्रसंयोगादसमवायिकारणाद् दण्डहस्तसंयोगापेक्षाद् उपजातं चक्र
कर्म स्वकारणविशेषापेक्षं संस्कारमारभते । ततः संस्कारनोदनाभ्यां कर्माणि
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधर्म्यप्रकरणम्
२६५
पुनः पुनः संस्कारादेव । अवयवेषु चाद्यकर्मोत्पत्तौ नोदनापेक्षः संयुक्तसंयोगोऽसमवायिकारणम्, ततः संस्कारोत्पादे सति संस्कारोऽपीति । अनियतदिग्देशसंयोगविभागनिमित्तं कर्म तभ्रमणमिति, अनियतैदिग्देशैः संयोगविभागान् करोतीति ।
प्राणाख्ये तु वायो कर्म आत्मवायुसंयोगाद् इच्छाद्वेषपूर्वकप्रयत्ना- 5 पेक्षाद् जाग्रत इच्छानुविधानदर्शनात, सुप्तस्य तु जीवनपूर्वक प्रयत्नापेक्षात् । आकाशकालदिगात्मना सत्यपि द्रव्यभावे निष्क्रियत्वम्, सामान्यादिमूर्तत्वात् । मूतिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया, सा चाकाशादिषु नास्ति, तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
कार्यभेदेन भेदं दर्शयति प्राणाख्ये तु वायौ कर्म कुतो भवतीत्याह 10 आत्मवायुसंयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षादुत्पद्यते । किं विशिष्टस्येत्याह जाग्रत इति। कुत एतत् ? इच्छानुविधानदर्शनादिति । रेचनेच्छातो रेचनम्, पूरणेच्छातश्च पूरणमिति । सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षादात्मवायुसंयोगादसमवायिकारणात् प्राणाख्ये वायौ कर्मोत्पद्यत इति । किमत्र प्रमाणम् ? सुप्तस्य जीवनपूर्वकात् प्रयत्नाद् वायौ कर्मेत्यन- 15 मानम् । तथाहि सुप्तस्य वायुक्रिया, प्रयत्नकार्या, परिगृहीतवायुक्रियात्वात्, जाग्रदवस्थायां तवायुक्रियावत् । यत्र च प्रत्यक्षानुमानाभ्यामन्यत् कारणं नोपलभ्यते, तत्रादृष्टस्यैव कारणत्वम् । अत्र चानुमानात् प्रयत्नकार्यत्वप्रसिद्धाविच्छाद्वेषपूर्वकप्रयत्नाभावात् सुप्तस्य जीवनपूर्वकप्रयत्नकार्यत्वं निश्चीयत इति ।
एवं चतुर्ष महभूतेषु नोदनादिभ्यः कर्मव्याख्यायाम् आकाशादौ क्रियाशून्यत्वे कारणमाह आकाशकालदिगात्मनः, सत्यपि द्रव्यभावे निष्क्रियाः, सामान्यादिवद् अमूर्तत्वात् । यथाहि सामान्यादेरमूर्तत्वानिष्क्रियत्वं तद्वदाकाशादेरपीति । मूर्तत्वेन हि क्रियावत्त्वं व्याप्तम्, तच्च व्यावर्त्तमानम् आकाशादिभ्यः स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति । तदेवाह मूर्ति- 25 रसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया । यत्र यत्र क्रिया, तत्र तत्र
३४
20
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२६६
व्योमवत्यां मूतिरिति । सा च मूतिराकाशादिषु नास्ति । तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति ।
सविग्रहे मनसोन्द्रियान्तरसम्बन्धार्थम्-जानतः कर्म आत्ममन:संयोगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्, अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात, सुप्तस्य प्रबोधकाले जीवनपूर्वक प्रयत्नापेक्षात् । अपसर्षणकर्मोपसर्पणकर्म चात्मनः संयोगाददृष्टापेक्षात् । कथम् ? यदा जीवनसहकारिणोधर्माधर्मयोल्पभोगात प्रक्षयः, अन्योन्याभिभवो वा, तदा जोवनसहाययोर्वकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृत शरीराद् विभागकारणमसर्पणकर्मोल्पद्यते । ततः शरीराद् অভিজ্বল লাল থাকি এলুংথলল নিকান্দিহাই सम्बध्यते, तत्सङकान्त च स्वर्ग नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्धयते, तत्संयोगार्थ कर्मोपतर्पणमिति। योगिनाञ्च बहिस्नेचितस्य
বলম্বীন্সিসঘাত লাল। সত্বা স্বীকাল সদ্য 15 शरीरेण सम्बन्धार्थ कर्म अदृष्टकारितम् । एवमन्यदपि महाभूतेषु
यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणनुपकारापकारसमर्थच भवति तदप्यदृष्टकारितम् । यथा सदावणुकर्म, अग्निवाययोरूर्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम्, अभिषिक्तानां मणीनां तस्करं प्रतिगमनम्, अयसोऽयस्कान्ताभिसर्पणञ्चेति ।
अथ यदि मूर्त्यनुविधायिनी क्रिया मनसः तहि मूर्त्तत्वात् क्रियासम्बन्धो वाच्य इत्याह सविग्रहे शरीरावरुद्ध मनसि इन्द्रियान्तरसम्बन्धार्थं यज्जाग्रतः कर्मोत्पद्यते तत् कुत इत्याह आत्ममनसोः संयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात् । कुत एतदित्थंभूतात् प्रयत्नाज्जाग्नतो मनः क्रियेति ?
तदाह अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । अभिप्राय25 मनु इति अभिप्रायानतिक्रमेण । येनैवेन्द्रियेण विषयग्रहणाभिप्रायो भवति तेनैव
विषयोपलब्धिदर्शनाद् विज्ञायते अन्तःकरणस्येच्छानुविधायिक्रियाश्रयत्वम् । तेनानधिष्ठितस्येन्द्रियस्य विषयग्राहकत्वासम्भवाद् इति मनः सम्बन्धो
20
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवैधयंप्रकरणम
२६७
निश्चीयते । स चेच्छानुविधानात् तत्पूर्वकप्रयत्नजनितक्रियाकार्य इति । सुप्तस्य तु यन्मनसो निरिन्द्रियात्मप्रदेशे प्रलीनस्य इन्द्रियान्तरसम्बन्धार्थ प्रबोधकाले कर्म तदात्ममनसोः संयोगादसमवायिकारणाज्जीवनपूर्वकप्रयत्नापेक्षादुपजायते। तथाहि सुप्तस्य मनःक्रिया, प्रयत्नकार्या, परिगृहीतान्तःकरणक्रियात्वात्, जाग्रदवस्थायां तक्रियावत् । अपसर्पणकर्मोपसर्पणकर्म । चात्ममनसोः संयोगादसमवायिकारणाददृष्टापेक्षादुत्पद्यत इति । मृतशरीराद् विभागार्थं कर्म अपसर्पणम्, गर्भशरीरेण संयोगार्थम् उपसर्पणमिति । कदा पुनस्तदपसर्पणम्, कथं भवतीत्याह यदा जीवनसहकारिणोरित्यादि । जीवनं व्याख्यातम् । तत्सहकारिणोर्धर्माधर्मयोरुपभोगात् सुखदुःखसंवेदनात् प्रक्षयस्तदा तेन शरीरेण भोक्तव्यस्य कर्मणोऽभावाच्छरीरान्तरोपभोगसम्पादककर्म- 10 सद्भावेऽपि शरीरस्य पात एव । अन्योन्याभिभवो वेति सम्भाविनः पक्षान्तरस्योपन्यासः । तथाहि शरीरान्तरोपभोगदायकेन बलीयसा परिपक्वेन कर्मणा आरब्धशरीरस्योपभोगदायकत्वेन अभिप्रवृत्तस्य कर्मणोऽभिभवो भोगदानसामर्थ्यापगमस्तीवशब्दोपलम्भन मन्दस्याग्रहणमिवेति । ततो जीवनसहायस्य कर्मणो वैकल्ये सति तत्पूर्वकस्य प्रयत्नस्य वैकल्याच्च प्राणनिरोधः, 15 तन्निरोधे सति अन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामिति। वृत्तिः सहकारिकारणम्, तया लब्धौ तत्सहकृतौ यो धर्माधौ ताभ्यामात्ममनःसंयोगसहकारिभ्यां मृतशरीराद् विभागकारणम् अपसर्पणकर्मोत्पद्यते। ततस्तस्माच्छरीराद् बहिरपगतं ताभ्यामेव धर्माधर्माभ्यां सम्पादितं यद् आतिवाहिकं सूक्ष्मशरोरम्, तेनाभिसम्बद्धयते । तत्सङ्क्रान्तश्च स्वर्ग नरकं वा गच्छति, गत्वा चाशयानु- 20 रूपेण शरीरेण संयुज्यते, तत्संयोगार्थ कर्म उपसर्पणाख्यमिति । आतिवाहिकशरीरं चागमबलादभ्युपगतम्, अन्तःकरणस्य परिगृहीतत्वादिति। तथा न केवलमेतद् अदृष्टाद् भवति, योगिनाञ्च बहिरुद्रचितस्येति । बहिर्देशैरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं पुन: पुन: प्रत्यागमनञ्च । तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थ कर्म अदृष्टकारितमिति । न केवलमेतद् अन्यदपि 25 च महाभूतेषु यत् कर्म । कि विशिष्टम् ? प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणम् उपकारापकारसमर्थमित्यर्थः । तदपि अदृष्टकारितम् । तदेवाह,
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
व्योमवत्या
यथा सर्गादौ सृष्टयादावणुषु कर्म शरीरादिसम्पादनार्थम्, अग्निवाय्वोरूर्ध्वतिर्यग्गमने इति । अग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनं प्राणिनामुपकारापकारसमर्थमिति । महाभूतानां भूगोलकदेवकुलादीनां प्रक्षोभणं तत्कम्पनं
मणीनां तस्करं चौरं प्रति गमनम्, अयसो लोहस्यायस्कान्ताभिमुखतया 5 अभिसर्पणञ्चेति ।
॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां कर्मपदार्थः समाप्तः॥
॥ अथ सामान्यपदार्थनिरूपणम् ॥ सामान्यं द्विविधम, परमपरञ्च। स्वविषयसर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुव्वात्मस्वरूपानु गमप्रत्ययकारि स्वरूपाभेदेनाधारेषु 10 प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् १ प्रतिपिण्ड सामान्या
पेक्ष प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यदनुगतमस्ति तत् सामान्यमिति ।
अथ सामान्यस्य लक्षणपरीक्षार्थं परमपरञ्च द्विविधं सामान्यमित्यादिप्रकरणम् । अत्र च पूर्व विभागस्याभिधानादनियमज्ञापनेन कार्यकारणभावा15 शङ्काव्युदासः सामान्यलक्षणविभागयोः, यथा द्रव्यं पृथिव्यप्तेज इत्यादि प्रयोजनमित्युपदर्शयति । स्वविषयसर्वगतमिति विप्रतिपत्तिव्युदासः ।
तथाहि परे मन्यन्ते सर्व सामान्यं सर्वगतम् । गोत्वमश्वपिण्डेष्वप्यस्ति, अश्वत्वञ्च गोपिण्डादिष्वपीति । अनुपलम्भस्तु व्यञ्जकाभावात् । यत्र च व्यञ्जकसद्भावस्तत्राभिव्यक्तिः, यथा गोपिण्डेषु गोत्वस्याश्वपिण्डेऽश्वत्वस्येति ।
तच्चासत् । गोत्वस्याश्वादिपिण्डेष सदभावे प्रमाणाभावाद । व्यवस्थिते हि सद्भावेऽभिव्यञ्जकाभावाद् अनुपलब्धिः कल्प्यते । अथ सामान्यं सर्वैः सम्बध्यते, व्यापकत्वादाकाशवदित्य स्ति?त्र किं]प्रमाणम् । तत्र सर्वैः समवाये साध्ये साध्यविकलमुदाहरणम्, आकाशस्य सर्वत्र समवायाभावात् । संयोगित्वे तु साध्ये सामान्यस्य द्रव्यरूपताप्रसङ्गः । न चैतद्युक्तम् । गुणकर्मसु
20
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
समवेतस्योपलम्भाद् । द्रव्यस्य च द्रव्य एव संयोगो नान्यत्रेति, तथा युतसिद्धयभावाच्च । युतसिद्धानाञ्च संयोग इति । अथ सामान्येन सम्बन्धमात्रं साध्यते ? तत्रापि सिद्धसाधनम्, स्वाधारेण संयुक्तसंयोगस्य सर्वत्र सद्भावात् । तथाहि गोत्वाधारेण संयुक्तमाकाशादि तेन च संयुक्तं सर्वमूर्त्तमिति । एवं व्यापकत्वमपि यदि सर्वैः संयोगित्वम्, तदसिद्धम् । पक्षे तदेव हि सर्वगतत्व- 5 मिति साध्येनाविशेष एव । तथा आकाशादेापकत्वेऽपि न सर्वैः सम्बन्ध इत्यनेकान्तः । अथ सर्वैः सम्बन्धः साध्यते सर्वत्र सन्निहितत्वादिति हेतुना ? तदप्यसत् । आकाशादेस्तभावे गुणकर्मादिना सम्बन्धाभावात् । न च विशिष्ट सम्बन्धानभ्युपगमे भावस्य अन्यसान्निध्यं पश्यामः । अतः स्वविषयसर्वगतमेव सामान्यम् । गोत्वं गोपिण्डेष्वेवाश्वत्वमश्वपिण्डेष्वेव, तत्रैवोप- 10 लम्भात् ।
अभेदात्मकमनेकवृत्तीति लक्षणं दर्शयति अभेदात्मकमेकस्वभावम् । अनेकत्र वृत्तिर्यस्य तदनेकवृत्तीति । एकत्वे सत्यनेकत्र वर्तमानत्वात् सामान्यम्; तथापि अवयविसंख्यादिभिर्व्यभिचारपरिहारार्थं नित्यत्वे सतीति विशेषणमर्थाद् व्याख्येयम् । तथापि सलिलादिपरमाणुरूपादयो नित्याश्चा- 15 नेकत्र वर्तन्ते, तदर्थमेकत्वे सतीति विशेषणम् । ते तु अनेकत्वे सत्यनेकत्र वर्तन्ते इति । तथापि एकत्वे नित्यत्वे च सत्यनेकत्र वर्त्तते समवायः, तदर्थं स्वव्यतिरिक्तया वृत्त्या वर्तमानत्वे सतीति च विशेषणमध्याहार्यम् ।
सर्वमत्रैव वाक्ये लभ्यते अध्याहारो न कार्य इति चान्ये । तथाहि न विद्यते भेदो नानात्वं विनाशश्च यस्येति तथोक्तम्, तदेवात्मा स्वरूपमस्येति 20 अभेदात्मकमेकमविनाशि चेति लभ्यते । अनेकत्र वृत्तिर्यस्य इति बहुव्रीहिणा वृत्तेर्वृत्तिमतो भेदाऽप्युपर्शित एव । तस्मादेकत्वे नित्यत्वे च सति समवायेन अनेकत्र वर्तमानत्वात् सामान्यमितरस्माद् भिद्यते ।
नन्वाश्रयासिद्धमेतल्लक्षणम्, सामान्यसद्भावे प्रमाणाभावात् । यच्चानुगतज्ञानं न तत् सामान्यसत्तां दर्शयति, कल्पनाज्ञानत्वात् । तथा चानादि- 25 वासनावशादनुगतज्ञानमुत्पद्यते, न पुनर्वास्तवं सामान्यमस्ति । तदुक्तम्
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
व्योमवत्या
पररूपं स्वरूपण यया संवयते धिया । एकार्थप्रतिभासिन्या भावान्नाश्रित्य भेदिनः ।। (प्र. वा. ३।६७)
अस्यार्थः । भेदिनः परस्परं व्यावृत्तात्मानो भावास्तेषां रूपं भिन्नम्, स्वरूपेणाभिन्नेन संवृयते प्रच्छाद्यते यया धिया, किं विशिष्टया ? एकार्थप्रतिभासिन्येति । एकश्चार्थः प्रतिभासतेऽस्यां स्वगताकार एव बाह्यः, तस्या निविषयत्वादिति ।
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।। अभेदिन इवाभान्ति भावा रूपेण केनचित् ।। ( प्र. वा. ३।६८ )
अस्यार्थः । स्वयं भेदिनोऽपि भावास्तया संवृत्या संवृतनानात्वाः सन्तः 10 अभेदिन इवाभान्ति, न परमार्थतः । कथं तहि सामान्यमुच्यते ? तदाह
तदभिप्रायवशात् सामान्यं सत्प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ (प्र. वा. ११७१) परमार्थतोऽसदपि सामान्यं सत् प्रकीतितम् । (प्र. वा. ?? )
तदभिप्रायवशादेकाकारप्रतिभासवशादिति । न च सामान्यम्, व्यक्तीनां 15 व्यावृत्तरूपत्वादन्यस्य चाप्रतिभासनादित्याह
व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तञ्चेत् कथमर्थान्तरं व्रजेत् ॥ (प्र. वा. ३।७० )
तस्माद् बुद्धिरेव तदन्यव्यतिरेकिणः पदार्थान् आश्रित्योत्पद्यमाना विकल्पिता स्ववासनाप्रकृतिमनुविदधातीति भिन्नमेषां रूपं तिरोधाय अभिन्नमात्मीयं 20 रूपमध्यवस्यति संसृजन्ती संदर्शयति । सा च एकसाधनसाध्यतया
बुद्धिवर्तिनामेव भावानां बहिरिव परिस्फुरन्ती सामान्यमित्युच्यते । सा च स्वव्यतिरिक्तेषु भावेषु भवतीति विशेषविषयेत्युच्यते, न परमार्थतः । तस्मादनुगतव्यावृत्तस्वरूपत्वात् सामान्यं विशेषश्च, न तु बाह्या विवेकिनः पदार्थाः ।
न च तेषु विकल्पवृत्ति : कथं तेषु भवतीति ? परीक्षका: खल्वेवं विवेचयन्ति 25 जात्या, न तु व्यवहारः, ते तु स्वालम्बनामेव बुद्धिमनुगताकारां बहीरूप
तया मन्यमाना दृश्य विकल्पाववेकीकृत्य प्रवर्त्तन्ते प्रतिपादयन्ति चेति । न तु नित्यमेकमनुगतं विशेषव्यतिरिक्तं सामान्यं प्रतिभासत इति ।
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
२७१
पुनरप्युक्तम् शब्दोऽर्थांशकमाहेति तत्रान्यापोह . उच्यते । आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक्कथम् ।। इति ।
(प्र. वा. ३।१६७ ) वृत्त्यनुपपत्तेश्च न वास्तवं सामान्यमस्तीति । तथा चैकत्र वर्तमानं 5 सामान्यं नैकदेशेन वर्तते, तदभावात्; न सर्वात्मना, अन्यत्र वृत्त्यभावप्रसङ्गात् । तथा येनैव रूपेणैकत्र वर्त्तते तेनैव अन्यत्रापीत्यभ्युपगमे सर्वपिण्डानामेकताप्रसङ्गः । अथ स्वरूपान्तरेण, तर्हि स्वरूपभेदात् तस्य नानात्वं प्रसज्यते । स्वभावान्तरनिवृत्तौ चानेकत्र वृत्तित्वं विरुध्यत इत्युक्तम् । देशकालावस्थाविशेषविनियतैकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहादनेकत्र वृत्ते- 10 रेकस्य न देशादिविशेषवता अन्येन योग इति ।
तत्र देशविशेषो नगरादिः, कालविशेषो वसन्तादिः, अवस्थाविशेषो बाल्यादिः, तेषु विनियतः सर्वात्मना प्रतिष्ठितो यथोक्तस्वभावश्चासौ एकश्च, तेन संसर्गः सम्बन्धः, तत्संसर्गेण अव्यवच्छिन्नमक्रोडीकृतम् उक्तस्वभावात् स्वभावान्तरम्, तेन विरहो वियोगः, 15 तद्रहितत्वादिति हेत्वर्थः । अनेकवृत्तरेकस्येति मिनिर्देशः, न देशादिविशेषवता अन्येन योग इति साध्यधर्मनिर्देशः, रूपादिवदिति दृष्टान्तः । प्रयोगः पुनरेवं भवति यस्य यथोक्तस्वभावान्तरविरहः, न तस्य देशादिविशेषवता अन्येन योगः, यथा रूपादिः । अस्ति च सामान्यादेरसाविति विरुद्धोपलब्धिः। यदि चैकं तेन च स्वरूपेण सर्वैः सम्बध्येत सामान्यम् 20 सर्वपिण्डानामेकदेशकालावस्थायोगिताप्रसङ्गः, तद्देशादिविशेषितपिण्डवृत्तिस्वरूपत्वात् सामान्यस्य। यदा चैकस्मिन् पिण्डे देशादिविशेषिते समुपलभ्यते, तदैवाशेषस्याश्रयविशेषितस्योपलम्भ: स्यात्, तस्यैकरूपत्वादिति । अनेकवृत्तित्वानभ्युपगमे च रूपादिवदेकाश्रयत्वात् सामान्यरूपता न स्यादिति । ___न च सामान्यस्य स्वभावान्तरमस्ति येनानेकवृत्तित्वं 25 स्यादित्युक्तम् । न च सामान्यस्य नियताश्रयेण सम्बन्धे नियमहेतुरस्तीति ।
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
व्योमवत्यां
तथा गोत्वं सम्बध्यमानं न गवा सम्बध्यते, गोत्वसम्बन्धात् पूर्व पिण्डस्य तद्रूपत्वासम्भवात् । अथ अगवा सम्बध्यते, तर्हि तस्याश्वेनापि सम्बन्धः स्यात्, गोत्वाभिसम्बन्धात् पूर्वम् अगोरूपतायाः सर्वत्र साधारणत्वात् ।
यत्र च गोपिण्डादिर्वर्त्तते न तत्र गोत्वादिसामान्यं समवैतीति तदाश्रयिणा 5 तु सम्बद्धयत इति चित्रम् ।
यत्रासौ वर्त्तते भावस्तेन सम्बद्धयते न तु । तद्देशिनन्तु व्याप्नोति किमप्येतन्महाद्भुतम् ।।
(प्र० वा० १।१५५) तथा पिण्डे व्रजति न सामान्यस्य गमनमस्ति, निष्क्रियत्वात् । 10 नाप्यवस्थानम्, पिण्डस्य तच्छून्यताप्रसङ्गात् । न भागेन गमनमवस्थानञ्च,
निरंशत्वात् । नापि पश्चादागत्य अभिसम्बद्धयते, पूर्वं तच्छून्यस्यानुपलब्धेः । तदुक्तम्
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ।।
(प्र० वा० ३।१५१) तदेतदसत् । जातिप्रद्वेषान्धतया प्रमाणमार्गपरिभ्रष्टैरभिहितमिति समाधीयते । तथा हि चक्षुरादिव्यापारेण अनुगतज्ञानस्याबाध्यमानस्योपलब्धेरवश्यमनुगतं निमित्तं वाच्यम् । न च वासनैव निमित्तम्, तस्याः
पूर्वमेव प्रतिषेधात् । यदि च वासना विशिष्टप्रत्ययहेतुर्बाह्या चेति, संज्ञा20 भेदमात्रमेव स्यात् । बोधान्तर्भाव तु बोधरूपतया तस्याः सर्वत्राविशेषाद्
विकल्पवैचित्र्यं न स्यात्, गोपिण्डदर्शनाद् गवाकारों विकल्पोऽश्वपिण्डदर्शनाच्चाश्वाध्यवसायी इत्यादि । न च देशादिभेदेनापि अबाध्यमानोऽध्यवसायो निविषयः सम्भवतीति "पररूपं स्वरूपेण यया संवियत" (प्र० वा० ११६९ ) इत्यपास्तमेव ।
यच्चेदम् 'व्यक्तयो नानुयन्त्यन्यदनुयायि न भासत' इति, असदेतत्, अनुगतज्ञानेन तस्य प्रतिभासनात् । यथाहि स्वलक्षणं व्यावृत्तरूपतया प्रतिभासनाद् अस्ति एवम् अनुगतस्वरूपतया प्रतिभासनात् सामान्यमप्यस्तीति । यदि च व्यावृत्तिज्ञाने सामान्यस्याप्रतिभासनाद् असत्त्वम् स्यात् ?
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम
२७३
अनुगतज्ञानेऽपि स्वलक्षणस्याप्रतिभासनाद् असत्त्वम् [एव स्यात् । तस्माद् यथा अबाध्यमानज्ञाने नीलादेः प्रतिभासनात् सत्त्वम्, एवमनुगतज्ञाने प्रतिभासनात् सामान्यस्यापि सत्त्वमभ्युपगन्तव्यम् । वृत्तिविकल्पादेबर्बाधकस्याप्रमाणत्वादिति । तथा हि वृत्त्यनुपपत्तेरसत्त्वमिति नेदं स्वतन्त्रसाधनम्, अनेकान्तात् । स्वतन्त्र हि रूपादीनां सत्त्वमनुपपद्यमानवृत्तित्वञ्चेति । एवं 5 परपक्षेऽनुपपद्यमानवृत्तित्वेऽपि आकाशादीनां सत्त्वमिति । स्वरूपासिद्धश्च. वृत्तेः समवायस्य सत्त्वात् । एकदेशेन सर्वात्मना च न वर्तत इति अयुक्तो विशेषप्रतिषेधः, प्रकारान्तरस्यासम्भवात् । अभिन्नस्वरूपत्वाच्च सामान्यस्य न तत्र एकदेशसर्वशब्दयो: प्रवृत्तिः, तयोभिन्नेष्वेव प्रवृत्तिदर्शनात् । समवायेन च वर्त्तते सामान्यम्, नैकदेशेन स्वरूपेण वा, तस्य एकदेशस्य 10 स्वरूपस्य चावृत्तिरूपत्वादिति। यदेव चैकस्मिन् पिण्डे स्वरूपं सामान्यस्य तदेव पिण्डान्तरेऽपि, अनुगतज्ञानजनकत्वस्य सर्वत्र सम्भवात् । तदाह एकद्विबहुषु पिण्डेष्वात्मस्वरूपानुवृत्तिदर्शनात् स्वप्रत्ययकारणमिति । सामान्यस्यात्मस्वरूपमनुवृत्तमभिन्नम्, अतोऽनुवृत्तिप्रत्ययस्यानुगतज्ञानस्य कारणमिति ।
न च सामान्यस्याभेदे पदार्थानां तथाभावः, ततोऽन्यत्वात् । अत एव नैकस्मिन् देशादिविशेषिते पिण्डे सामान्यस्योपलम्भाद् अशेषविशेषितस्याप्युपलम्भप्रसङ्गः, तेषामनियतदिग्देशसम्बन्धित्वेनोपलम्भाभावात् । यथैव च क्रमेण विशेषा उपलभ्यन्ते तथैव तद्विशेषितं सामान्यमपीति । यदा हि पण्य ? ञ्च पुरावस्थितगोपिण्डानां वसन्तसमये बालाद्यवस्थाविशेषिता- 20 नामुपलम्भस्तदा तद्विशेषितं सामान्यमुपलभ्यते अन्यदा त्वन्यविशेषितमिति पिण्डेष्वनुगतज्ञानजनकत्वं सामान्यस्य सर्वत्राव्यभिचारिस्वरूपम् । तस्मादभेदात्मकमनेकवृत्ति च सामान्यं प्रत्यक्षेणोपलम्भाद् अभ्युपगन्तव्यम् । यथा हि रूपमेकमेव एकत्र वर्तमानं प्रत्यक्षेणोपलब्धं तद्वदेकं सामान्यमनेकत्रेति ।
यच्चेदं देशादिविशेषितस्वभावाद् अनेकवृत्तेरेकस्य न देशादिविशेषवता अन्येन योग इत्युक्तम्, तत्र व्यर्थविशेषणता हेतोमणश्च । तथा हि एकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहान्न सामान्यस्य विशेषान्तरेण
25
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
व्योमवत्यां
योग इति प्रतिषेधे साध्ये व्यभिचाराभावात् साध्यसाधनयोर्देशादिविशेषणमनर्थकम्, व्यवच्छेद्यसद्भावे हि विशेषणस्यार्थवत्तोपपत्तेः । ___ अथ यथोक्तस्वभावान्तरविरहे कथमन्ययोगः सामान्यादेः, अन्ययोगे
वा कथं यथोक्तस्वभावान्तरविरहः ? तयोरन्यत्र रूपादौ प्रतिबन्धसिद्धिरिति 5 चेत्, न, व्यभिचारात् । तथा हि रूपाश्रयस्य रूपसंसर्गाव्यवच्छिन्न
स्वभावान्तरविरहेऽपि रसादिभिर्योगो दृष्टः; तद्वत् सामान्यस्याप्याश्रयान्तरेण योगः केन वार्यते, रूपाश्रयवत् सामान्येऽपि यथोक्तस्वभावान्तरासत्त्वस्याविशेषादिति । अस्ति च रूपस्याश्रयो द्रव्यमित्युक्तम् ।
अथैकत्वात् सामान्यस्य अनेकत्र समवायः प्रतिषिद्धयते ? तर्हि यदने10 कत्र समवेतम् तदनेकमेवेत्यभ्युपगमे हेतोय॑तिरेकाव्यभिचारेणैव गमकत्वाद्
एकत्र समवेतानां रूपादीनामेकता प्रसज्येत, न चैतदस्ति । अथ एकत्वादेकत्रैव समवायः साध्यते ? तदप्यनैकान्तिकम् । आकाशादेरेकत्वेऽप्येकत्रैव समवायाभावात् । यद्यनेकत्र समवायादनेकत्वप्रसङ्गोऽभिधीयेत्, तथापि
यदेकं तदेकत्र समवेतमिति व्यतिरेकाभावः, सत्यपि आकाशादावेकत्वे 15 तदभावात् । एकत्र समवायादेकत्वम् इत्येतदपि रूपशब्दादिभिरनैकान्तिकम् ।
एकत्वस्य सामान्यविशेषरूपत्वात् तस्मिन् साध्ये हेतोरन्वयव्यतिरेकाभावादगमकत्वम् । एवं निर्विशेषणस्य हेतोरन्तरः साध्यसाधनभावप्रकारो निरस्तः । तथा सविशेषणस्यापि हेतोराकाशादिनानैकान्तिकत्वम्, तस्य हि देशादिविशेषवता अन्येन योगेऽपि तधोक्तस्वभावान्तरविरहोपलब्धेः ।
यच्चेदं प्रदीपप्रभाया देशादिविशेषणविशिष्टाया न देशादिविशेषवता अन्येन योग इत्युदाहरणम्, तत्रापि उत्पत्तेरू+मवयवक्रियाक्रमेण विनाशाभ्युपगमाद् अनेककालव्यवधाने देशादिविशेषवता अन्येनापि योगः सम्भवत्येव । न च प्रदीपप्रभायां साध्यसाधनसद्भावेऽपि हेतोर्व्यभिचारोपदर्शनाद्
गमकत्वम् । तथा सामान्यस्य स्वभावान्तरविरहोऽसिद्धः, 'तदाधारान्तरस्य 25 तद्विशेषकत्वेन तत्स्वभावान्तरत्वात् । प्रतीयते चाधाराधेययोर्विशेषण
विशेष्यभावः, यथा सद्रव्यम्, द्रव्यस्य सत्तेति । तस्मात् स्वभावान्तरविरहोऽपि साध्य एवेति । तथानेकवृत्तेरेकस्य न देशादिविशेष वता
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम
२७५
अन्येन योग इति प्रसङ्गनिर्देशे स्ववचनविरोधः । तथाहि अन्ययोगप्रतिषेधे न अनेकवृत्तित्वं भवतीति । अथ सामान्यादिपर्यायोऽयमनेकत्र वृत्तिरिति । तथाप्यनेकवृत्ति त्व] प्रतिषेधोऽनुपपन्नः, सामान्यस्व नित्यत्वैकत्वे सत्यनेकवृत्तित्वलक्षणत्वात् । प्रत्यक्षेण च सामान्यस्य अनेकवृत्तित्वप्रसिद्धेः, तेन बाध्यत्वादनुमानमप्रमाणम् । तथा हि एकद्विबहुषु पिण्डेष्वक्षव्यापारादनुगतज्ञानमुत्पद्यमानं दृष्टम् । न चेदं भ्रान्तम्, प्रत्यक्षागमसंवादेन विसंवादनिवृत्तौ तद्व्याप्तस्य भ्रान्तत्वस्य निवृत्तेरिति ।
न च अपोहादेवानुगतज्ञानम्, तस्य व्यावृत्तिरूपतायामवस्तुत्वेनाजनकत्वात्, जनकत्वे वा तस्य अर्थक्रियाकारित्वात् वस्तुत्वप्रसङ्गः । अथ व्यावृत्तादन्या व्यावृत्तिर्नेष्यते ? तहि तेषां परस्परव्यावृत्तस्वरूपतया अनुगत- 10 ज्ञानजनकत्वं न स्यात् ।
यच्चेदम् अगोव्यावृत्तिर्गोत्वम् इत्युक्तम्, तत्र गवां स्वरूपप्रतिपत्तिमन्तरेण ततोऽन्येषामगोरूपतायामप्रसिद्धिः, तदप्रसिद्धौ च न गवां स्वरूपप्रतिपत्तिरित्यन्योन्याश्रयत्वं स्यात् । यदि चैकस्माद् गोपिण्डादन्येषामगोरूपता हि गोपिण्डानामप्यन्येषामगोरूपताप्रसङ्गः, तेषामप्येकस्माद् 15 गोपिण्डादन्यत्वात् ।
अथ सर्वस्माद् गोपिण्डादन्येषामगोत्वम्, तदसत्, वर्गीकरणनिमित्तासम्भवे सर्वेषां गोपिण्डनामप्रतिपत्तौ ततोऽन्येषां प्रतिपत्तुमशक्यत्वात् । येषाञ्च अनुगतमभिन्नं निमित्तमस्ति तेषां गोस्वरूपप्रसिद्धौ ततोऽन्यव्यावृत्तिः प्रतीयत एव । अथ अर्थक्रियासामान्यादनुवृत्तिप्रत्यय इति चेत्, 20 न, अर्थक्रियाणामपि परस्परं व्यावृत्ततया अनुगतज्ञानाजनकत्वात् । अथ अर्थक्रियाणामनुगतमभिन्नं निमित्तमुपग्राहकमिष्येत, तदेव तहि सामान्यम् ।
का चेयमर्थक्रिया यत्साम्यादनुगतज्ञानमिति वाच्यम् । यदि वाहादिरूपा ? सा च मनुष्यादावपि सम्भवतीति तत्रापि गौ¥रित्यनुगतज्ञानप्रसङ्गः । न 25 च पक्षे सर्वत्रैतदस्तीत्यनुगतज्ञानाभावप्रसङ्गः ।
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
व्योमवत्या
10
अथ ज्ञानमेवानुगतव्यावृत्ताकारं सामान्यमिति चेत्, सोऽयम् 'अश्वारूढस्य विस्मृतोऽश्वः' इति न्यायः, न ह्यनुगतनिमित्तं विना अनुगतज्ञानं सम्भवति, वासनादेनिमित्तस्य प्रतिषेधात् ।
यदपीदं सामान्यस्याधारे व्रजति, गमने क्रियावत्त्वम्, अवस्थाने चाना5 धारत्वमिति । तदसत् । बाधकोपपत्तौ गमनप्रत्ययस्य भाक्तत्वात् । तथा
च मूर्त्तत्वेन क्रियावत्त्वं व्याप्तम्, तच्च सामान्यादिभ्यो व्यावर्त्तमानं स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति निष्क्रियं सामान्यादि, मूर्त्तत्वे सत्येव अन्वयव्यतिरेकाभ्यामर्थेषु क्रियोपलब्धेः । सैव योग्यता, तदभावाच्चाकाशादौ क्रियाभावो न विभुत्वप्रतिबन्धात्, तदभावे हि गुणकर्मादावपि क्रियावत्त्वप्रसङ्गात् । यदि च कस्यचित् सामान्याधारस्य गमनात् सामान्यस्यापि गमनम्, तर्हि तस्यावस्थानेऽवस्थानञ्चेति 'न गच्छेन्नापि तिष्ठेत्' इति दुरुद्धरं व्यसनमापद्येत । तस्मात् संयोगविभागैकार्थसमवायाद् आधारगतं गमनमाधेयेऽप्यारोप्य प्रतिपद्यते सामान्यं गच्छति इति ।
___ यच्चेदम् 'न याति न च तत्रासोदस्ति पश्चान्न चांशवत्' इत्युक्तम्, .5 तत्सामान्यस्वरूपोपवर्णनम्, न तस्य प्रतिषेधपरम् । द्रव्यस्वरूपानुपलम्भेन
सामान्यस्यासत्त्वे सर्वस्याप्यसत्त्वं स्यात्, तदितरासत्त्वस्य सर्वत्राविशेषात् । सामान्यञ्च विशेषेष्वनुवर्त्तमानं प्रत्यक्षेणैव प्रसिद्धमिति तस्यानुपलम्भोऽसिद्धः । यदि च असत्त्वं सामान्यस्य, कथं स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानमिति स्यात् । अथ
अतद्रूपपरायत्तवस्तुमात्रप्रकाशनात् । सामान्यं सदिति प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः ।। (धर्मकीतिः ?) इति ।
अयमस्यार्थः, दाहपाकादिसमर्थाग्निव्यतिरेकिणो जलादयोऽतद्रूपाः, तेभ्यो व्यावृत्तस्य तार्णपार्णादिविशेषरहितस्याग्निमात्रस्य ज्ञापनात् सामान्य
विषयो धूमः, तथा धूमज्ञानमपि अधूमव्यावृत्ततार्णादिविशेषरहितधूममात्र25 विषयमिति ।
_ नैतद्युक्तम् । सामान्यानभ्युपगमे मात्राभिधानस्य अर्थासम्भवात् । न चापोह एव मात्राभिधानस्यार्थः, तस्य अवस्तुत्वेनाजनकत्वात् । वस्तुत्वे च
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७
10
सामान्यवैधयंप्रकरणम् वास्तवमेव सामान्यमभ्युपगतमिति कः प्रतिकूलोऽनुकूलमाचरतीति ? न चाग्निव्यक्तीनां सामर्थ्यम्, तद्ग्राहकाविनाभावस्यैवाप्रसिद्धेः । न च धूमोपलम्भादग्निसामस्त्यप्रतिपत्तिर्दृष्टेति । अथ तार्णादीनामन्यतमो विशेषो मात्राभिधानविषयः ? हि कथं सामान्यविषयमनुमानम् । न चाग्निव्यक्तिषु विशिष्टार्थक्रियाकारितया समाना बुद्धिः, क्रियाणामपि परस्परं व्यावृत्तत्वा- 5 दित्युक्तन्यायात् । एतेन यदुक्तम्
लिङ्गलिङ्गिधियोरेव पारम्पर्येण वस्तुनि ।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ।। (प्र. वा. २१८२) इत्येतदपास्तं भवतीति । तयोर्द्वयोः सामान्याभावे पारम्पर्येणापि वस्तुप्रतिबन्धाभावात् ।
न च अधूमव्यावृत्ताकाराद् विकल्पाद् अनग्निव्यावृत्ताकारो विकल्पः, तयोरविनाभावस्याप्रसिद्धः । अग्निप्रतिपत्तिमन्तरेणानग्नयो न प्रतीयन्ते, तदप्रतिपत्तौ नाग्निप्रतिपत्तिरितरेतराश्रयत्वप्रसङ्गात् । न च कार्यत्वेन धूमस्य गमकत्वमित्युक्तं व्याप्तिसमर्थनावसरे। तस्मात् सामान्यवतामविनाभावप्रसिद्धरनुमानमिच्छता अवश्यं सामान्यमभ्युपगन्त- 15 व्यम् । अन्यथा हि वास्तवसामान्यं विना भावस्याप्रसिद्धौ सङ्केताप्रतिपत्तेश्च नानुमानशब्दयोः प्रमाणता स्यादिति । अस्ति च तयोः प्रामाण्यम् । तस्मादर्थप्रतिपत्तौ प्रवर्त्तमानस्य अर्थक्रियासंवादेन विसंवादिनिवृत्तौ तद्व्याप्तस्य भ्रान्तत्वस्य निवृत्तिरित्युक्तं पूर्वम् । अतः स्वात्मरूपानुवृत्तिप्रत्ययकारणमिति ।
सङ्ग्रहवाक्यस्य विवरणमाह स्वरूपाभेदेनैकरूपेणाधारेषु शाबलेयादिपिण्डेषु प्रबन्धनानुपरमेण पूर्वपिण्डापरित्यागेन समवायवृत्त्या वर्तमानमनुवृत्तिबुद्धिकारणमिति । एकद्विबहुष्वित्यस्य विवरणमाधारेष्विति । अभेदात्मकपदस्य तु स्वरूपाभेदेनेति । कथम् इत्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा । तथा चैकपिण्डोपलम्भकाले नानुगतं सामान्यं प्रतिभाति। 25 द्वितीयपिण्डोपलम्भकालेऽपि प्रथमपिण्डस्याग्रहणादनुगतज्ञानाभाव एव । यत्रापि एकं ज्ञानमनेकपिण्डालम्बनम्, तत्राप्यनुगज्ञानस्यानुपलम्भ एव इत्याक्षेपे सति प्रतिसमाधानमाह प्रतिपिण्डं सामान्यापेक्षमित्यादि ।
20
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
व्योमवत्या
पिण्डं पिण्डं [प्रति] प्रबन्धन सातत्येन ज्ञानानामुत्पत्तिः, तस्याञ्च सत्यां पूर्वपूर्वानुभवजनितसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः, तेन जनितः संस्कारः, तस्माच्चातीतज्ञानप्रबन्धप्रत्यवेक्षणं भवति । अतीतश्चासौ ज्ञानप्रबन्धश्च, तस्मिन् प्रत्यवेक्षणं स्मरणं भवति। ज्ञायत इति ज्ञानम्, ज्ञप्तिश्च ज्ञानम् इत्युभयविषयं स्मरणं भवतीति । एतत् सदृशो मया प्रागुपलब्ध इत्येवं स्मरणात् समनुगतं यदस्तीति ज्ञायते, तत् सामान्यमिति । तत्सदृशोऽयमिति प्रत्यभिज्ञानाच्च यत् तत्सादृश्यं भिन्नेष्वभिन्नप्रत्ययजनकम् तत्सामान्यमिति व्यवस्थितम् ।
तत्र सत्ता पर सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर10 विशिष्टेष चर्मवस्त्रकम्बलादिष्वेकस्मानीलद्रव्याभिसम्बन्धाद नीलं
नीलमिति प्रत्ययानवत्तिः, तथा परस्परविशिष्टेष द्रव्यगुणकर्मस्वविशिष्टा सत्तदिति प्रत्ययानुवृत्तिः, सा चान्तिराद् भवितुमर्हतीति यत् तदर्थान्तरं सा सत्तेति सिद्धा। सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सा सामान्यमेव ।
भेदं निरूपयति तत्र सत्ता पर सामान्यम् । अत्र च महाविषयत्वादित्युक्तमेव साधनम् । सा तु सत्ता सामान्यमेव । कुतः ? यतोऽनुवृत्तिप्रत्ययस्यैव कारणम् । यद्यपि अभावादिभ्यो व्यावृत्तिज्ञानस्यापि हेतुः, तथापि सामान्यवत्सु अनुवृत्तामेव बुद्धिं जनयति, न व्यावृत्ताम् । अत: सामान्यमेवेति ।
20
तत्र सामान्यमात्रस्य सद्भावे व्यवस्थापिते विस्पष्टार्थं सत्तायाः सद्भावानुमानमाह; यद्वा पूर्व प्रत्यक्षमुक्तमिदानीमनुमानमुच्यते । तत्र व्याप्तिसमर्थनार्थ दृष्टान्तं व्याचष्टे, यथा परस्परविशिष्टेषु व्यावृत्तेषु चर्मवस्त्रकम्बलादिषु अन्यस्मादर्थान्तरभूताद् नीलद्रव्यसम्बन्धान्नीलं नीलमिति
प्रत्ययानुवृत्तिः तथा परस्परविशिष्टे द्रव्यगुणकर्मसु अविशिष्टा सत् सदिति 25 प्रत्ययानुवृत्तिरिति दार्टान्तिकनिरूपणम् । सा च प्रत्ययानुवृत्तिरर्थान्तर
सम्बन्धाद् भवितुमर्हति, यत्तदर्थान्तरं सा सत्तेति सिद्धा। सत्तासम्बन्धात्
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
२७९
सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सामान्यमेव । प्रयोगस्तु द्रव्यगुणकर्मसु सत्सदिति प्रत्ययः, विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनः, भिन्नेष्वनुगतप्रत्ययात्, कम्बलादिषु नीलद्रव्यसम्बन्धान्नीलं नीलमिति ज्ञानवत् । सामान्येन च विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनत्वे साध्ये न पाचकादिज्ञानैव्यंभिचारः, तेषामपि सपक्षत्वात् । तथाहि पाचक इति ज्ञाने पचिक्रिया 5 निमित्तम्, तदभिज्ञता वा, तत्सद्भावे क्रियोपरमेऽपि पाचक इति व्यवहारात् । एवं दण्डीति ज्ञाने दण्डो निमित्तम्, शुल्क इति ज्ञाने च गुणो निमित्तमिति सर्वत्र व्यतिरिक्तमेव निमित्तम् । दण्डोदेस्तु परस्परं विलक्षणत्वाद् अनुगतज्ञानोत्पत्तौ एकमभिन्नं निमित्तमुपग्राहकमभ्युपगन्तव्यम्। अन्यथा ह्यनुगतज्ञानाजनकत्वमेव स्यात् । अतो दण्डेषु दण्डत्वम्, शुक्लादिषु च 10 तत्सामान्यमिति वाच्यम् ।
यच्चेदं सामान्यं सामान्यमित्यनुगतज्ञानम् अत्राप्येकत्वे नित्यत्वे सत्यनेकत्र समवायो निमित्तम् । एवं सर्वत्र निमित्तान्तरमभ्यूह्यम् ।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्या- 15 दिष्वनुवृत्तिहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः । तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवत्तिहेतुत्वात सामान्यम्, द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः । तथा कर्मत्वं परस्परविशिष्टेफूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं अव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद् विशेषः ।
एवं पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राज्यप्राणिगतानामनुवृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि, स्वाश्रयाविशेषकत्वाद् भक्तया विशेषाख्यानोति ।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि इत्यादिपदेन पृथिवीत्वादेर्ग्रहणम् । 25 अनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवतीति तदेवाह तत्र
20
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
व्योभवत्यां द्रव्यत्वं परस्परविशिष्टेषु व्यावृत्तस्वरूपेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद् विशेषः । यथा द्रव्यत्वम् तथा गुणत्वमपि परस्परविशिष्टेषु रूपादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं द्रव्य
कर्मभ्यो व्यावृत्ति प्रत्यय हेतुत्वाद् विशेषः । तथा कर्मत्वं परस्परविशिष्टे5 षत्क्षेपणादिष्वनुवृत्ति प्रत्यय हेतुत्वात् सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्ति
प्रत्यय हेतुत्वाद्विशेषः । एवं पृथिवीत्वरूपत्वोक्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनवृत्तिव्यावृत्ति प्रत्यय हेतुत्वात् सामान्यविशेषभावः सिद्ध इत्यतिदेशः । प्राणसम्बन्धिनि पिण्डे गतानि गोत्वाश्वत्वादीनि, अप्राणिगतानि पृथिवीत्वादीनि प्राणशून्याधारगतानि, स्वभेदेऽनवृत्तिप्रत्ययहेतुत्वाद् भेदान्तराद् व्यावृत्तिप्रत्ययहेतुत्वाच्च तेषां] सामान्यविशेषभावः सिद्ध इति ।
न चैकस्य वस्तुनो द्वैरूप्यानुपलब्धेः कथं तदेव सामान्यं विशेषश्चेति ? अथैकमत्र पारमार्थिकम्, अन्यच्चोपचरितमित्यविरोधः । तत्र किं मुख्यवृत्त्या
सामान्यानि, विशेषा वेत्याह एतानि द्रव्यत्वादीनि प्रभूतविषयत्वात् 15 प्राधान्येन मुख्यवृत्त्या सामान्यानि । न हि विशेषाणां प्रभूतविषयत्वं सम्भवति,
एकैकद्रव्यवृत्तित्वात् । स्वाश्रयविशेषकत्वाद् भक्तया उपचारेण विशेषाख्यानीति । व्यावृत्तिप्रत्ययजनकत्वं विशेषाणां स्वरूपम्, तस्येहाप्युपलब्धरुपचारः प्रवर्तत एव । तथाहि द्रव्यत्वादि सामान्यं स्वाश्रयमाश्रयान्तराद् व्यावृत्तं विशिनष्टि व्यावतयतीति इत्यतो विशेषाख्यामपि लभते ।
लक्षणभेदादेषां द्रव्यगणकर्मभ्यः पदार्थान्तरत्वं सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् । प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद् विशेषलक्षणाभावाच्चैकत्वम् । यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति, तथाप्युपलक्षणनियमात
कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि । अन्तराले च संयोग25 समवायवृत्त्यभावादव्यपदेश्यानीति ।
अथ द्रव्यत्वादीनि द्रव्यगुणकर्मभ्योऽर्थान्तरम् स्वरूपाणि वा इत्याह लक्षणभेदादेषां द्रव्यगुणकर्मभ्य: पदार्थान्तरत्वं सिद्धम्। तच्चोक्तमभेदात्मक
20
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामान्यवैधयंप्रकरणम्
२८१ मनेकवृत्तीति पदेन । अत एव च नित्यत्वम् । यत एव द्रव्यादिभ्यः पदार्थान्तरत्वम्, अत एव च नित्यत्वम् । द्रव्यगुणकर्मात्मकस्य भावस्यानित्यत्वोपलब्धेः ।
ननु चानुत्पत्तिमत्त्वेन नित्यत्वम्, न द्रव्यादिभ्यः पदार्थान्तरत्वेन, सामान्यादित्रयस्यापि नित्यत्वेन साध्यत्वात् । नैतदेवम् । यतो द्रव्यादिभ्यो 5 विभिन्नस्वरूपसम्बन्धित्वेन प्रतिभासनाद् अर्थान्तरत्वम्, अत एव च नित्यत्वम्, उत्पत्तिविनाशकारणासम्भवात् । तथाहि सामान्यस्योत्पत्तिकारणं नास्ति, तदाधाराणां युगपदसम्भवेन, समवायिकारणाभावादित्येवं निर्णीतं पदार्थसङ्करे।
अथैकमेव सामान्यं सत्तालक्षणमुपाधिभेदाद् भिन्नप्रत्ययसम्पादकमित्ये- 10 तस्य निरासार्थमाह द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वमिति । (ए?द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वमित्यादिवृत्तिनियमः । प्रत्ययभेदस्तु द्रव्येष्वेव द्रव्यं द्रव्यमिति द्रव्यत्ववशाजज्ञानम्, गुणेषु च गुणत्वयोगाद् गुणो गुण इत्यादि । तस्मात् प्रत्ययभेदाद् द्रव्यादिषु वृत्तिनियमाच्च परस्परतोऽप्यन्यत्वम् । अन्यथा हि सर्वपदार्थेष्वेकत्वात् सामान्यस्य 15 वृत्तिनियमः प्रत्ययभेदश्च न स्यात् ।
अथास्तु परस्परतोऽन्यत्वम्, तथापि स्वाश्रयेषु द्रव्यमिति द्रव्यत्ववशाजज्ञानं गुणेषु च गुण इत्यादि यस्मात् तत् किमेकमनेकं वेत्याशङ्कानिरासायाह प्रत्येकं स्वाश्रयेष्वेकं द्रव्यत्वम्, गुणेष्वेकं गुणत्वम्, इत्येवं शेषेष्वपीति । कुत एतत् ? लक्षणाविशेषात्, अनुगतस्वरूपाविशेषात् । यद् वा लक्ष्यतेऽ- 20 नेनेति वा लक्षणम्, द्रव्यं द्रव्यमित्याद्यनुगतज्ञानम्, तस्य अविशेषाद्] एव द्रव्येषु द्रव्यत्वम्, गुणेषु गुणत्वमन्यथा ह्य[न] नुगतज्ञानमेव स्यात् ।
अथ रूपभेदानामनेकत्वेऽपि रूपं रूपमिति ज्ञानमस्ति । सत्यमेतत् । नीलादिज्ञानस्य भेदव्यवस्थापकस्योपपत्तेः । न चैवमत्र भेदव्यवस्थापक प्रमाणमस्तीत्याह विशेषलक्षणाभावाच्चैकत्वमिति । अथैकस्मिन्नेव देशे 25 समुत्पद्यमानस्य घटादेः प्रतिनियतसामान्यसम्बन्धे हेतुर्वाच्यः, अन्यथा
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5
२८२
व्योमवत्यां ह्यनियतदेशत्वात् सामान्यानां नियतेन धर्मिणा सम्बन्धो न स्यादित्याह यद्यपि अपरिच्छिन्नदेशानि सामान्यानि, तथापि उपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानीति । उपलक्ष्यतेऽनेनेत्युपलक्षणमनुगतज्ञानमेव । तथाहि द्रव्यं द्रव्यमित्यनुगतं ज्ञानं द्रव्येष्वेव, न गुणादौ, अतः स्वविषयसर्वगतमेव द्रव्यत्वम्, विषयान्तरे तत् सद्भावे प्रमाणाभावात् । एवं गुणत्वादावपीति । उपलक्षणं सामान्याभिव्यञ्जकं वा तन्नियमात् स्वविषयसर्वगतम् । तथाहि सास्नाद्युपलक्षितपिण्डस्य गोत्वेनाभिसम्बन्धः, केसराद्यपलक्षितस्याश्वत्वेनाभिसम्बन्ध इत्येवं सर्वत्र नियतं सद् व्यञ्जकमभ्यूह्यम् ।
अथास्तु व्यञ्जकनियमात् स्वविषय एवोपलम्भात् स्वविषयसर्वगतत्व10 मत्र कारणं वाच्यम्, नियामकाभावे नियताश्रयसम्बन्धस्यैवाभावप्रसङ्गादित्याह कारकसामग्रोनियमाच्च स्वविषयसर्वगतमिति । तथाहि गोत्वजातिसम्बन्धोपभोगित्वप्रापकादृष्टोपलक्षितसामग्रीसम्पादितो गोपिण्डो नाश्वादि इतरः, तन्नियमात् स एव गोत्वेनाभिसम्बध्यते नान्यः, तथा अश्वत्वजाति
सम्बन्धोपभोगप्रापकादृष्टोपलक्षितसामग्रोजन्यत्वाद् अश्वपिण्डोऽश्वत्वेनाभि15 सम्बद्धयत इति । एवमन्यत्राऽपीति । अतो यदुक्तं 'यत्रासौ वर्तते भावस्तेन
सम्बद्धयते न तु' इत्यादि, तदपास्तम् । नियताश्रयसमवेतस्यैवोपलम्भसिद्धौ नियमकारणस्यानभिधानात् ।
ग्रच्चेदं कि गौर्गोत्वेनाभिसम्बध्यते अथागौरिति चोद्यम्, तन्न प्रतिसमाधानाहम्, निष्ठासम्बन्धयोरेककालत्वादिति । स्वकारणैः सत्तादिभिश्च 20 पिण्डस्याभिसम्बन्ध एवात्मलाभः, न पूर्वं तस्य गोरूपताऽगोरूपता वा, तत्सत्त्वस्यैवासम्भवात् ।
अथ यया मणिमन्त्रौषधादीनि विशिष्टार्थक्रियासम्पादनसमर्थानि स्वकारणादुत्पन्नानि एवं गोपिण्डा गौरितिज्ञानोत्पादनसमर्थाः स्वकारणादेवोत्पन्ना न अश्वादिज्ञानमुत्पादयन्तीति चेत्, तहि यत् तत् सामर्थ्य येन सता गौरित्यनुगतज्ञानमुत्पादयन्ति, तद् यद्यर्थान्तरं संज्ञाभेदमात्रम् । अव्यतिरेके त्वनुगतज्ञानाभावप्रसङ्गः । तस्मादनुगतस्य वस्तुनः प्रत्यक्षेण प्रतिभासनात् सामान्यनिराकरणे सर्वं दूषणमसाधनमेवेति ।
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषवैधर्म्यप्रकरणम्
२८३
अथ स्वविषयसर्वगतत्वे गोपिण्डयोरन्तरालेऽपि सामान्यमुपलभ्येत, न चैतत्तत्?दस्ति तस्मात् कथं स्वविषयसर्वगतमित्याशङ्क्याह अन्तराले च संयोगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति । संयुक्तसमवायेन गोत्वादिसामान्यस्योपलम्भाद् गोत्वमिति व्यपदेशो न चासाविहास्ति, अतोऽव्यपदेश्यानीति । तथा किमिदमन्तरालं नाम यत्र सामान्यस्योपलम्भप्रसङ्गश्चोद्यते ? यदि 5 मूलद्रव्याभाव: ? न तत्र गोत्वादिसामान्यम्, अभावत्वादेव । अथ शब्दानुमेयमतीन्द्रियमाकाशम्, अन्तरालावस्थितं वा घटादि द्रव्यम्, तत्रापि न गोत्वादेः समवाये प्रमाणमस्तीत्यनुपलम्भो घटत इत्यलम् ।
॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां सामान्यपदार्थः ।।
10
॥ अथ विशेषपदार्थनिरूपणम् ॥ अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममानस्सु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः ।
यथा अस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृलिगुणनियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा, गौः शुक्लः शीघ्रगतिः पीनककुमान् 15 महाघण्ट इति । तथा अस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्तु च अन्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानञ्च भवति, तेऽन्त्या विशेषाः।
यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाधर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानश्च स्यात् ततः किं स्यात्, नैवं भवति । यथा च[7] योगजाधर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टे च प्रत्यभिज्ञानम्, यदि स्यान्मिथ्या भवेत् । तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हति ।
25
20
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
व्योमवत्यां
अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्ल्यत इति चेत्, न, तादात्म्यात् । इह अतदात्मकेष्वन्यानिमित्तः प्रत्ययो भवति, यथा घटादिषु प्रदीपात्, न तु प्रदोपे प्रदीपान्तरात् । यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषाम्, तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति ।
विशेषाणां परीक्षार्थमाह अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद् विशेषा इति । उत्पत्तिविनाशयोरन्ते व्यवस्थितत्वाद् अन्तशब्दवाच्यानि नित्यद्रव्याणीति । तथा हि परमाणून अवधिं कृत्वा द्वयणुकादिकार्यस्योत्पत्तिः,
तथा पृथिव्यादीनामपि तावदुत्पादो यावदाकाशादीति पाठापेक्षया तस्या10 प्यन्तशब्दवाच्यत्वम् । एवं विनाशान्ते व्यवस्थानं परमाण्वादीनाम् । तथा
च तावद् द्रव्यं विनश्यति यावत् परमाणवः, पाठापेक्षया पृथिव्यादीनामप्याकाशादिकं यावद् विनाश इति । तेषु भवाः तद्वृत्तयोऽन्त्या इत्यपदिश्यन्ते । तथा हि भूरित्ययं धातुः सत्ता यां]वाप्युपलब्धौ, यथेदानी देवदत्तो गृहे भवत्यास्त इति । सङ्ग्रहोक्तविवरणमाह विनाशारम्भरहितेष्वित्यादि । तत्रान्तपदस्य विवरणं विनाशारम्भरहितेषु नित्यद्रव्येष्वेव, अण्वा काशकालदिगात्मनस्स्विति विशेषसंज्ञाया निर्देशः स्पष्टार्थम् । प्रत्ययार्थ व्याचष्टे प्रतिद्रव्यमेकैकशो वर्तमाना इति । द्रव्यं द्रव्यं प्रत्येकैको विशेषो वर्तते, नैकस्मिन्ननेकः, वैयर्थ्यप्रसङ्गात् । तथा चैकेनैव विशेषेण व्यावृत्तप्रत्ययस्य
जनितत्वाद् विशेषान्तरवैयर्थ्यमेव । नाप्येकोऽनेकस्मिन्, सामान्यरूपता20 प्रसङ्गादिति । द्वितीयपदस्य तु विवरणम् अत्यन्तव्यावृत्तिबुद्धिहेतव इति ।
नित्यद्रव्येष्वेव वर्तन्त एव इत्ययोगान्ययोगव्यवच्छेदेन नित्येषु वर्तमानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति । लक्षणं पूर्वमेवोक्तम् ।।
अथ विशेषाणां सद्भावे किं प्रमाणम् ? अनुमानम् । तत्र व्याप्तिसमर्थनार्थं दृष्टान्तं निरूपयति । यथा अस्मदादीनां गवादिष्वश्वादिभ्यः प्रत्यय25 व्यावृत्तिर्दृष्टा तुल्याकृतिगुणादपि सजातीयाद् व्यावृत्ततक्रियावयवसंयोग
निमित्ता। तत्र जातिनिमित्ता प्रत्ययव्यावृत्तिः, यस्माद् गौरयम्, अतोऽश्वादिविलक्षण इति । सजातीयत्वेऽपि कृष्णादिगुणसम्बन्धिभ्यः शुक्ल इति
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५
विशेष वैधर्म्यप्रकरणम्
प्रत्ययव्यावृत्तिः । तथा शीघ्रगतिरिति क्रियाविशेषनिमित्ता । तेन हि सता समान गुणादपि सजातीयाद् व्यावर्त्तत इति । पीन इत्यवयवोपचयनिमित्ता, तेन सता समान गुणक्रियादपि समानजातीयाद् व्यावर्त्तते । ककुद्मान् इत्यवयवविशेषनिमित्ता, तेन सता अन्यस्माद् विलक्षणप्रत्ययजननादिति । महाघण्ट इति संयोगनिमित्ता, तत्सद्भावे व्यावृत्तप्रत्ययजननात् ।
तद्दान्तिकव्याख्यार्थमाह अस्मद् विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च प्रत्ययव्यावृत्तिः, एतस्माद् विलक्षणोऽयं विलक्षणोऽयमिति दृष्टा । सा चान्यनिमित्तासम्भवाद् विशेषसम्बन्धादेव भवतीति । तथा च तुल्याकृतिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः, व्यावृत्तज्ञानविषयत्वात्, गवादिवत् । न च गवादिष्विव जातिगुणक्रियात्मका एव विशेषा भविष्यन्तीति वाच्यम्, समानजातिगुणक्रियाधारत्वेन विशेषितत्वादिति । तथाऽपि सर्वे तैजसाः परमाणवः तेजस्त्वसम्बन्धिनः समानगुणाधाराः समानाक्रियासम्बन्धिनश्च पक्षीकृता इति न तेषु तन्निमित्ता प्रत्ययव्यावृत्तिः । तथा च भास्वरं रूपमुष्णस्पर्श: परिमाणमेकत्वैकपृथक्त्वादयः साधारणत्वात्र व्यावृत्तज्ञानहेतवः । क्रियापि वाताहतानामेकदिगभिमुखतया गमनात् साधारणतया वैलक्षण्यप्रतिपत्तौ न कारणम् । अतो द्रव्यादिस्वरूपस्य विशेषस्यासम्भवाद् यतो निमित्तात् प्रत्ययव्यावृत्तिस्तेऽन्त्या विशेषाः । तथा मुक्तात्मानो मुक्तमनांसि च व्यावृत्तज्ञानविषयत्वाद् विशेषमपेक्षन्ते । शरीरसम्बन्धस्य चात्यन्तं व्यावृत्तेर्न आत्मनि बुद्धयादिविशेषो व्यावृत्तज्ञानहेतु:, असम्भवात् । मनसोऽपि शरीरसम्बन्धशून्यस्य संख्यादिगुणानां साधारणत्वाद् विशेषं विना न व्यावृत्तज्ञानोत्पत्तौ कारणमस्तोति । यथोक्तविशेषणाध्यासितेषु व्यावृत्तप्रत्ययः, विशेषकार्य:, व्यावृत्तप्रत्ययत्वाद्, गवादिव्यावृत्तप्रत्ययवत् 1
20
अथातीन्द्रियत्वात् परमाण्वादेः व्यावृत्तज्ञानविषयत्वे किं प्रमाणम् ? अनुमानमेव । तथाहि परमाण्वादयः, व्यावृत्तज्ञानविषयाः, द्रव्यत्वात्, गवादिवत् । संशयविषयत्वञ्च परमाण्वादेः सत्तासम्बन्धित्वात् स्थाण्वादिवत् । यत्र च संशयस्तत्रावश्यं निर्णय इति । परमाण्वादयः, विशेषसम्बन्धिनः, निर्णयविषयत्वात्, स्थाण्वादिवदेव । अत इदमाह अन्यनिमित्तासम्भवाद् येभ्यो
For Private And Personal Use Only
5
10
15
25
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
व्योमवत्यां निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिस्ते अन्त्या विशेषाः । तथा देशकालविप्रकृष्टऽदृष्टे परमाणौ स एवायमिति प्रत्ययः प्रमाणम्, विशेषसम्बन्धे सति प्रत्यभिज्ञानस्य देवदत्तादावुपलब्धेः । अतो व्यावृत्तप्रत्ययविषयत्वात् प्रत्यभिज्ञायमानत्वाच्च परमाण्वादेविशेषसम्बन्धित्वम् । अस्ति च योगिनां पूर्वोपलब्धे परमाणौ स एवायं परमाणुः यः पञ्चपुरावस्थितो वसन्तसमयोपलब्ध इति । __अथ इतरेतराभावात् पृथक्त्वाद् वा प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वेति, न ततोऽन्यो विशेष इति चेत्, न, तदुपलम्भेऽपि स्थाण्वादौ संशयदर्शनात् ।
तथाहि इतरेतराभावोपलब्धौ पृथक्त्वोपलम्भे च सति सामान्यदर्शनादिभ्यः 10 किमयं स्थाणुः पुरुषो वेति संशयो दृष्टः, तद्व्यतिरिक्तशिरःपाण्यादिविशेषोप
लम्भे च सति पुरुष एवायमिति च निर्णयदर्शनाद् इतरेतराभावपृथक्त्वान्य एव विशेषः परमाण्वादौ वाच्य इति । __ अन्ये तु इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव, व्यावृत्तज्ञानञ्च तस्माद् विलक्षणम्, अतो निमित्तान्तरकार्यमिति मन्यन्ते । पृथक्त्ववशाच्च पृथगिति व्यवहारः, न विलक्षण इति ।
अथ योगिनां योगजधर्मादे: प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्चेति । तदेवाह यदि पुन: अन्त्यविशेषमन्तरेण योगिनां योगजधर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्च स्यात् को दोषः ? तदाह एवं नैव भवतीति । यथा चा
योगजाद् धर्माद् अशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टपूर्वे च प्रत्य20 भिज्ञानञ्चेति । यदि कदाचित् स्याद् योगिनामशुक्ले शुक्लप्रत्ययः, प्रत्य
भिज्ञानञ्च, मिथ्या भवेत् । तथेहाप्यन्त्यविशेषमन्तरेण योगजधर्मान्न प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हतीति ।
अथ अन्त्यविशेषाणां परमाणूनामिव व्यावृत्तज्ञानविषयत्वाद् विशेषान्तरसम्बन्धे तत्राप्यन्यो विशेषस्तत्राप्यन्य इत्यनवस्था स्यात् । न च 25 व्यावृत्तप्रत्ययविषयत्वे समानेऽपि परमाणूनामेवायं विषयसम्बन्धो न
विशेषाणामिति विशेषहेतुरस्तीति । अभ्युपगमे वा, विशेषेषु विशेषान्तरसम्बन्धं विना व्यावृत्तप्रत्ययवत् परमाणुष्वपि स्यादित्याह अथान्त्यविशेषेष्विव
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषवैधयंप्रकरणम्
२८७
परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यत इति । अस्य प्रतिषेधार्थमाह यदुक्तं परमाणुषु विशेषाभावो विशेषेषु च विशेषान्तरमित्येतन, कुत एतत् ? तादात्म्यात्, तत्स्वरूपत्वाद् विशेषाणाम् । ये हि अविशेषस्वरूपास्ते व्यावृत्तज्ञानजन्मनि विशेषमपेक्षन्ते, यथा परमाण्वादयः । न चैवं विशेषास्तदात्मका न भवन्ति, अतस्तादात्स्याद् विशेषा: समानलक्षणं विशेषं । नापेक्षन्ते । तथा चेह अतदात्मकेष्वतत्स्वरूपेष्वन्यनिमित्तः प्रत्ययो दृष्टो यथा घटादिषु प्रदीपात् । तथाहि घटादिष्वप्रकाशस्वरूपेष्वन्वयव्यतिरेकाभ्यां प्रदीपाद् विज्ञानं दृष्टम्, न तु प्रदीपे प्रदीपात्, तस्य प्रकाशरूपतया प्रदीपं विनापि प्रकाशनात् । न चैवं घटादिष्वपि प्रकाशं विनैव प्रकाशोऽस्तु, अदर्शनात् । आगमिकमुदाहरणं दर्शयति यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं 10 तद्योगादन्येषां मोदकादीनाम् । न तु श्वमांसस्यापि अशुच्यन्तरसम्बन्धाद् अशुचित्वम्, अदर्शनात् । नापि श्वमांसवत् भक्तादीनामपि स्वत एवाशुचित्वमदर्शनादेव । तथेहापि तादात्म्याद् विशेषस्वरूपत्वाद् अन्त्यविशेषेषु स्वत एब प्रत्ययव्यावृत्तिस्तद्योगात् परमाणुष्वित्युपसंहारः ।
अथ विशेषाणां नित्यत्वमुतानित्यत्वम् ? उत्पत्तिविनाशकारणानुप- 15 लब्धेनित्यत्वमेव । तथाहि विशेषाणां स्वाश्रयः समवायिकारणम्, असमवाय्यादिकारणञ्च नास्ति इति, विनाशाभ्युपगमेऽपि विशेषाणां पुनर्व्यावृत्तिज्ञान - त्पत्तौ न कारणमस्तीति । अथ विशेषान्तराद्व्यावृत्तज्ञानम्, तन्न, अन्यत्वे प्रमाणाभावादित्यलमतिविस्तरेण।
॥ इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसाहटोकायां विशेषपदार्थः॥ 20
॥ अथ समवायपदार्थनिरूपणम् ॥ अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्य
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
२८८
व्योमवत्यां कारणभूतानां वा अयुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमिति बुद्धिर्यतो भवति, यतश्नासर्वगतानामधिगतान्यत्वानाम् अविष्वग्भावः स কাহাঃ প্রঃ। জ্বথ ? ঘঈ জুট্ট বিসয়ঃ স্বচ্ছ
सति दृष्टः, तथेह तन्तुष पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, 5 इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते ।
न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वाद् अन्यतरकर्मादिनिमित्तासम्भवान् विभागान्तत्वादर्शनादधिकरणाधिकर्तव्ययोरेव भावादिति । - स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थे विहेतिप्रत्ययदर्शनात तेभ्यः पदार्थान्तरत्वमिति । न च संनोगवन्नानात्वं भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैक: समवाय इति ।
ननु योकः समवायः, द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न, आधाराधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येऽवेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मष्वेव कर्मत्व
मित्येवमादि । कस्मात् ? अन्यव्यतिरेकदर्शनात्, इति समवाय20 निमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रकः समवाय इति गम्यते, द्रव्यत्वादि
निमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदछनोः संयोगैकत्वे भवत्याश्रयायिभावनियमस्तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति ।
सम्बन्ध्यनित्यत्वेऽपि न संयोगवनित्यत्वम्, भावववकारणत्वात् । 25 यथा प्रमाणतः कारणानुपलब्नित्यो भाव इत्युक्तम् तथा समवायोऽ
पीति । न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते, न संयोगः सम्भवति, तस्य गुणत्वेन
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समवायवैधयंप्रकरणम
द्रव्याजितत्वाद् नापि समवायः, तस्यैकत्वात्, न चान्या वृत्तिरस्तोति ? न, तादात्म्यात् । यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नायः सत्तायोगोऽस्ति, एवमविभागिनो वृत्तात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवत्तिः । अत एवातीन्द्रियः, सत्तादीनामिव प्रत्यक्षेष वृत्त्यभावात, स्वात्मगतसंवेदनाभावाच्च । तस्मादिह बुद्धयन- 5 मेयः समवाय इति ।
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् ।
चक्ने वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ।। ॥ इति प्रशस्तपादाचार्यविरचितं द्रव्यादिषट्पदार्थभाष्यं समाप्तम् ।।
अथ समवायस्य लक्षणपरीक्षार्थमयुतसिद्धानामित्यादिप्रकरणम् । 10 अयुतसिद्धानामेव आधार्याधारभूतानामेव यः सम्बन्धः, स समवाय इति लक्षणं व्याख्यातमेव । अथ केषामयुतसिद्धानामसौ सम्बन्धस्तदाह---- द्रव्यगुणकर्मसामान्यविशेषाणाम् । अनियमोपदर्शनार्थं कार्यकारणभूतानान्तु पटादीनाम्, न?अ कार्यकारणभूतानाञ्च सामान्यादितद्वतामिति । अयतसिद्धानामाधार्याधारभूता[वस्थान?ना] मिति चायं नियमः । इहेदमिति 15 बुद्धिर्यतो निमित्ताद् भवति, स समवायाख्यः सम्बन्धः । तथा च सूत्रम् 'इहेदमिति यतः कार्यकारणयो: स समवायः' (वै० सू० ७।२।२६) इति । इह इत्यधिकरणम्, इदमित्याधेयम्, तयोः सम्बन्धं विना 'इहेदम्' बुद्धिर्न भवतीति । यतश्चासर्वगतानामिति नियमाशङ्कानिरासार्थम् । तथा हि सर्वगतानामप्याकाशादीनां स्वगुणादिभिः समवायोपलब्धेः असर्वगतानाम् 24 इति वाक्यं नियमाशङ्कानिरासार्थं व्याख्येयम् । तथा च सर्वगतानामेव समवाय इत्ययं नियमो न घटते, यतश्चासर्वगतानामपि समवायो दृश्यत इति । 'च' शब्दस्य चानुक्तसमुच्चयार्थत्वाद् असर्वगतानां सर्वगतानाञ्चेति लभ्यते । अधिगतान्यत्वानामिति । अधिगतमन्यत्वं नानात्वं येषां ते तथोक्ताः, तेषामिति तादात्म्यव्युदासः । तथाप्यधिगतान्यत्वा 25
३७
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
5
२९०
www.kobatirth.org
15
व्योमवस्यां
गवाश्वादयो भवन्ति इति अविष्वग्भावेनावस्थितानामिति पदम् | अविष्वभावोऽपृथग्भाव देशापृथक्त्वम्, न त्वभेदः, स्वरूपभेदस्योपलब्धेः । तथाहि तन्तवो विभिन्नजातिसम्बन्धिनो विभिन्नस्वरूपाश्च पृथक्त्वे पटोऽप्येवमिति परस्परतोऽन्यत्वमेव, विरुद्धधर्माध्यासात्, प्रतिभासभेदाच्चेति । तथा च रूपादयोऽपि विरुद्धधर्माध्यासाच्च भिद्यन्ते । स च तन्तुपटादीनामस्ति इत्यन्यत्वमेव । सूत्रमप्येवं व्याख्येयम् । कार्यकारणयोरेकत्वपृथक्त्वा - भावाद् परस्परं प्रतिभासभेदाद् एकत्वपृथकत्वे न विद्येते । तस्मादधिगतान्यत्वानामविष्वग्भावेनावस्थितानाम् इहेदमिति बुद्धिर्यतः सम्बन्धाद् भवति, स समवायाख्यः सम्बन्धः । कथमित्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा । तथा च न समवायसद्भावे प्रमाणमस्तीति ।
10
Acharya Shri Kailassagarsuri Gyanmandir
सर्वमेतदसम्बद्धम् । अथेहबुद्धिः प्रमाणम् ? न तस्याः समवायालम्बनत्वमाधारविषयत्वात् । तदुक्तम्
इहेति चानया बुद्ध्या समवायो न गृह्यते । आधारग्राहिणी चैषा समवायाप्रतिष्ठिता || (?)
,
अथ सम्बन्धनिमित्ता ? स तु तादात्म्यलक्षण एव भविष्यति, समवायपक्षे बाधकोपपत्तेः । तथा हि न अनिष्पन्नयोः समवायो घटते, सम्बध्यभावे सम्बन्धस्यादर्शनात् । अथ निष्पन्नयोः सम्बन्धः समवायः ? तर्हि युतसिद्धिः स्यात् । तथा समवायस्यापि सम्बन्धानभ्युपगमे सर्वतोऽन्यत्वाविशेषाद् अनयोः सम्बन्धिनो: सम्बन्धः, न पदार्थान्तराणामिति प्रतिनियमे हेतुर्नास्तीति । 20 अथवा गृहीतं विशेषणं विशेष्यज्ञानोत्पत्तौ लिङ्गञ्च लिङ्गिज्ञानोत्पत्तौ व्याप्रियते, समवाये तु तद्रूपता नास्तीति तद्ग्रहणे प्रमाणाभावः । तथा हि इह तन्तुषु पट इति ज्ञानमाधेयानुरक्ताधारं विशेषयन् न समवायानुरक्तमिति स्वात्मगतसंवेदनाभावाद् इह बुद्धौ अप्रत्यक्ष एव समवायः । निर्विकल्पके तु अवयवावयविनोः संश्लेषज्ञाने समवायः प्रत्यक्ष एव केवलमिहेति बुद्धेः 25 सम्बन्धनिमित्तत्वेनान्यत्रोपलब्धेरिहापि तदुपलम्भादनुमानं प्रवर्त्तते । यत एवं तस्मादिबुद्धयनुमेयः समवायो न त्विह बुद्धौ प्रत्यक्ष इत्युपसंहारः ॥
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समवायवैधयंप्रकरणम्
२९१ ग्रन्थपरिसमाप्तौ च सन्तोषादाचार्यः पुनरपरस्य गुरोर्नमस्कारं करोति
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥ [इति] इति विरचितमेतद् व्योमनास्ना शिवेन
प्रतिहतपरपक्षं स्वार्थसिद्धौ समर्थम् । कणचरमतवृत्तेवर्तनं बाधxxxx
xx xxxxxxxxxx
॥ इति श्रीव्योमशिवाचार्यविरचिता पदार्थसंग्रहटीका व्योमवती समाप्ता॥
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं परिशिष्टम् ग्रन्थेऽस्मिन् प्रसङ्गादुद्धतानां शास्त्रवचनानां सूत्राणाञ्च . वर्णानुक्रमेणोपन्यासः सन्दर्भाः
पृष्ठाकाः
अ
अनेकद्रव्येण समवायात् अप्रसिद्धोऽनपदेशो अर्थादर्थगती शक्तिः अविभागोऽपि बुद्धयात्मा अस्येदं कार्य कारण
( वै० सू० ४।१८) ( वै०स० ३।१।१५) (प्र० वा० ४.१५) (प्र०वा० २।३५४) ( वै० सू० ९।२।१)
१९१ १०७
इहेदमिति यतः कार्यकारणयोः
( वै० सू० ७।२।२६ )
२८९
एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टवि० ( वै०स० ७।२।२१) एतेन नित्येष्वनित्यत्वं
(वै० स० ४११३८)
कस्यचित्तु यदीष्येत कारणबहुत्वात् कारणमहत्त्वात्
( श्लो० वा० ७६) ( वै० सू० ७।१।१०)
Wी
गुणकर्मसु गुणकर्माभावात् गृहीत्वा वस्तुसद्भावं
( वै० सू० ८।१८) ( श्लो० वा० ४८२)
.
जातेऽपि यदि विज्ञाने ज्ञानायोगपद्यवचनेन
(श्लो० वा० ४९) ( वै० स० ३।२१३)
uro
तत्र ज्ञानान्तरोत्पादः तथैव दर्शनात्तेषां तदतद्रूपिणो भावाः तदभावादणु मनः तदभिप्रायवशात्
(श्लो० वा० ५०) (प्र० वा० २।३५६) (प्र० वा० २।२५१) ( वै० सू० ७।११२४) (प्र० वा० १७१)
१०८ २१९
२७०
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमं परिशिष्टम्
२९३
१६८
तद्वचनादाम्नायस्य तयोः संवृतनानात्वाः तस्यापि कारणे शुद्धे तां ग्राह्यलक्षणप्राप्तां त्रपुसीसलोहरजतसुवर्णानां
(वै० सू० १।१।३ ) (प्र० वा० ३।६८) ( श्लो० वा० ५१) (प्र० वा० २१५१ .) ( वै० म० २०१७)
9 More
0 0 0
दृष्टञ्च दृष्टवत् दोषज्ञाने त्वन त्पन्ने द्रव्याणि द्रव्यान्तरमारभन्ते
( वै० स० २।२।१८) ( श्ला० वा० ६०) ( वै० म० १।१।१०)
धियो नीलादिरूपत्वे
(प्र० वा० २१४३३ )
११२
२७२
न याति न च तत्रासीत् नान्योऽनुभाव्यो बुद्धयास्ति निवृत्तिर्यदि तस्मिन्न
(प्र० वा० ३११५१) (प्र० वा० ॥३२७) (प्र० वा ४।२२४)
१०७
प
पदमभ्यधिकाभावात परमार्थतोऽसदपि पररूपं स्वरूपेण पश्यतश्चक्षुषा रूपं प्रकाशमानस्तादात्म्यात् प्रत्यक्षादेरनुत्पत्तिः प्रत्यक्षाधवतारस्तु प्रमाणपञ्चकं यत्र प्रमाणषटकविज्ञातो
(श्लो० वा० ४१२) (प्र. वा० १७१) (प्र० वा० १६९) (श्लो० वा० ९४) (प्र० वा० २।३२९) (श्लो० वा० ४७५) (श्लो० वा० ४७८) (श्लो० वा० ४७३ ) (इलो० वा० ४५०)
१८८
२७० २७०, २७२
१८७ १०८
oror
१७७
मन्त्राद्युपप्लुताक्षाणां महत्त्वादनेकद्रव्यवत्वात्
(प्र० वा. रा३५५) ( वै० सू० ४११६)
१०८
२७२
यत्रासौ वर्तते भावः यथादृष्टमयथादृष्टञ्च
(प्र० वा १४१५५) ( बै० सू० २।२।१९)
रूपरसगन्धस्पर्शाः
( वै० सू० ११११६)
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
लिङ्गलिङ्गिधियोरेव
(प्र० वा० २।८२)
२७७
१८१
वस्तुमात्रं गृहीत्वापि विमृश्य पक्षप्रतिपक्षाभ्यां व्यक्तयो नानुयन्त्यन्यत् व्यापारः कारकाणां हि
( श्लो० वा०, ४८३ ) (न्या०स० ११११४१) (प्र० वा० रा७०) ( श्लो० वा० ५४)
२११ २७०
श
शब्दोऽर्थाशकमाहेति
(प्र० वा० ३।१६७ )
२७१
४७
१४२
समवायिनः श्वैत्याच्छ्रत्यबुद्धेश्च सम्बद्धं वर्तमानञ्च संयुक्तसमवायादग्नेः संयोगाद्विभागाच्छब्दाच्च संयोगानां द्रव्यम् सपिर्जतुमधूच्छिष्टानां स्वतः सर्वप्रमाणानां साध्याभिधानात् पक्षोक्तिः सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात्
( वै० सू० ८.११९) ( श्लो० वा० १६०) ( वै० स० १०१२।७) (वै० म० २।२१३२) (वै० सू० १३१॥२७) (वै० सू० २१११५४) (श्लो० वा० २१७६) (प्र० वा० ४।१७) (वै० सू० २।२।१७)
room
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नामानि
अस्मद्गुरुभिः आचार्यः
आचार्यस्य
उद्योतकरपादैः
कालिदासः
काश्यपः
गुरवस्तु
गुरुभि:
गुरोः
चाणक्यः
जैना:
द्वितीयं परिशिष्टम्
ग्रन्थेऽस्मिन् चचितानां शास्त्रकाराणां वर्णानुक्रमेण नामानि
पृष्ठाङ्काः नामानि
जैमिनीया:
नैयायिकाः
परमशिवः
भगवानृषिः
भाष्यक :
www.kobatirth.org
भाष्यकार:
महर्षिणा मीमांसकः
१३०, १४९, १७१
२९१
१५३
११६
१४०, १७३
२९१
मीमांसकानाम्
मुनिः
२५२
१९२ वेदकर्तुः
१६७
लोकायतिकानाम्
२११
१२७
७२
४०, ११८, १९६
२०९
७३
१९५
वैशेषिकस्य
वैशेषिकशास्त्र
वैशेषिकाणाम्
वैशेषिकेषु
वैशेषिकैरपि
१६७ शाक्या:
१२५ शाक्यैः
१२६
शौद्धोदनिः
साङ्ख्याः
साङ्ख्यानाम्
सूत्रकारेण
सौगत जैनानाम्
सौगतानाम् सौत्रान्तिकानाम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
पृष्ठाङ्काः
१२६
११८
१२६, १३०
१६८
१९२
१९३
१३७, १८२
१२७, १३०
१८२
१०८
१५
१२६
१, १०२
१२६, १२७, १३०
२०१
१३०
१२६, १४० १४०
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पदानि
अगस्त्योदय :
अध्वर्यु' :
अननुगताः
अनन्धः
अनुमानपूर्विका
अनुमेय: अनुसन्धाननिरूपणम्
अनुसन्धानम्
अन्धस्य
अन्ये
अन्ये तु
www.kobatirth.org
अपदेशाभासाः
अपोहः
अपोहवादः
अपोहविषयत्वे
तृतीयं परिशिष्टम्
( विशिष्टपदसूची)
१५९, १६०
१५८, १५९
२०३
१७३
१७८
१८९
२०४
२०५
१७३
६६, ८७, ११७, १६७, २०३,
२१८, २२६, २५७, २६९ । २०, २१, २५, २६, ३२, ३३, ४३, ४६, ४७, ५५, ५७, ६३, ६८, ८०, ८१, ८२, ९१, ९२, ९५, १०३, १०५, ११५, ११९, १२१, १२४, १२६, १३२, १३५, १३७, १३८, १४१, १४६, १४८, १५५, १५६, १५९, १६०, १६४, १७६,
१८५, १८६, १८७, १९२,
१९४, १९६, २०३, २०९, २१२, २१३,
२१७, २३०,
२५१, २५३, २६२
पठाङ्काः पदानि
१९४
१७४, २७६
२७५
१७२
अप्रत्ययः
अभावपूर्विका
अभिनयस्य
अमावास्यादी
अर्थापत्तिः
अर्थापत्तिजम्
अर्थापत्तिपूर्विका
अर्द्धर्चादिपाठात्
अष्टक्षणाः
आगमपूर्विका
आगमात्
आगमे
आदिपुरुषः
आदेशिकेन
आलोचनज्ञानम्
आसन्दिका
इषुकारस्य
उपमानपूर्विका
उपेत्यवादेन
ऊहज्ञानम्
ऊहोत्पत्ती
एतदाह
एषाम्
औदुम्बराः
कर्परादीनाम्
कर्षकवणक्
कुटीचका:
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठाङ्काः
२२८
१७८
१७५
२३१
१७८
१७६
१७८
२५७
१७८
१७३
३२
१६४
११९
४९
१२८
१३१
१७८
१८१
११५
११६
१०७
४
२३४
३०
१६१
२३४
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततीयं परिशिष्टम
२९७
१५१
२२१
५७
१५१
पट:
२९०
२८९
पर:
०
४७, २०१
१४० २७३ २३४
२०७
परपदा
-20
१७६
१८३
परे
२९०
कृत्तिकोदयः
१५७ पक्षदोषः केचित् ६९, १२१, १२४. १३७, १७५,
पञ्चपलम् १८०, २११, २३०
पञ्चपलैः कैश्चित्
१७९
पञ्चावयवम् चान्ये चिन्तामणिः
२१५
पटादीनाम् चोदनाया:
१७१ पदार्थसङ्करे जटाधराः
२३४ ज्ञानवाद:
१४६
परकीयञ्च डिण्डिकरागम्
परपक्षः तत्त्ववादी
१०९ परमहंसाः तदाह
परस्य
परार्थानुमानम् तदुक्तम् १०६, १७८, १८८, २१९,
परीक्षकाः २६९, २७२ तन्तवः तन्तुषु
परैः तपस्विनः
पलस्य तोमरम्
पाचकः दशपलम्
२२१
पित्तप्रकृतिः दशावयवेन
पितृयज्ञः दिग्दाहादिः
२१५
पूरणम् देवकुलम्
पूर्वपक्षवादी देवकुलमात्रम्
१८२ प्रकरणसमत्वम् देवकुले
१८३ प्रतिज्ञा देवयज्ञः
२३३
प्रत्यक्षपूर्विका देवहदे
२२८ प्रधानवादः द्वयवयवेन
१८४ प्राश्निकैः धातुदोषात्
फेनपा: नगरादिः
२७१ बहूदकाः नवक्षणाः
बालखिल्याः नारिकेलद्वीपवासिनः
१३२ बाल्यादिः निरात्मकम्
१५२ बालपण्डितौ पक्षः
१८९ ब्रह्मभाषितस्य
२, ५७, २६८ १८०, २१४, २१५
५७ २७९ १३६
२५६
१८४
२३३
१८१
२६५
८५ १५१
V9mmer
اللهم
ل
२७१ १०८ १७७
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९८
भक्तादीनाम् भिन्नाक्ष :
भूतयज्ञः मनचैतन्यवादी
मनुष्ययज्ञः
महाघण्ट:
मूर्त्तगुणा:
यव
यच्वेदम्
यत्तु
यद्वा
www.kobatirth.org
व्योमवत्यां
यदपि
यदपीदम्
यदुक्तम्
यथोक्तम्
या भूमौ
यादृच्छिकानाम्
यायावराः
युक्तानाम् येsपि
२८७ येषाञ्च
१७२
येषान्तु
२३३
योगबलात्
१२६
योगिनः
३०
योगिनाम्
२३३
योगी
२८५
३
७४, १२९, १६७, १८८, २४३ २५, ३७, ३८, ३९, ५५, १०४, १११, ११३, ११४, १२१, १२३, १२९, १३०, १३५, १५०, १६८, १६९, १७०, १७३, १८२, १९१, २४१. २४३, २५७, २७२, २७३, २७४, २७५, २७६, २७९,
२८२
३७, ११३, १७३, १७४
२, ४७, ५२, ५५, ५६, ६२, ६६, ७८, ८२, ८७, ९१, ९२, १२०, १२१, १२२, १२६, १२७, १३४, १३९, १४७, १५९, १६४, १८५, १९८, १९९, २०१, २०३, २१५, २४५, २७८, २८१
१८८, २७६
२५, १०५
४८, ४९, २४८, २७७, २८२
१०८
१५९
१७४
राजपुत्रस्य
राजपुरुषाणाम्
रेचनम्
लौकिकानाम्
वक्ष्यामः
वसन्तसमये
वसन्तादिः
वाचकत्वम्
वात दूषितश्च
वातप्रकृतिः
वाय्वाधिकारे
विज्ञानवादी
विपाक:
विरुद्धभेद:
विरुद्धवादी
विषयद्वैते
वेदानाञ्च
वैखानसाः
वैदिकानाम्
वैद्यस्य
व्रतवश्च
व्यायामः
शमः
शाब्दम्
शून्यवादः
२३३ शेषः
१४३
२३०
षट्क्षणाः
सङ्ग्रहवाक्यम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२७५
१४८, २३०
१७३
१४५, १५५
१४४, २६७, २८५, २८६
१४४, १४५
२०७
१६१
२६५
१६७
६७
२७३
२७१
१८७
१३६
१३६
१४१
११२
२१५
१९९
१९०
१९९
१२७
२३४
१६७
२५२
११४
२२८
२१६
१७६
११५
२१२
३०
४८
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततीयं परिशिष्टम
२९९
مالي
للر
१
ooooooo
و
०३
ه له
३० स्वभाववादिनाम ११७ स्ववचनविरोधः
स्वशास्त्रविरुद्धः स्वसंवित स्वापाख्यः
हन्तकारण २१५ हस्ती २१५ हस्त्यादिषु
हस्त्यादेः १८४ हंसाः
२४ हिठकः १२३ हेत्वाभासाः २६३ हेयज्ञानम्
सप्तक्षणाः समानतन्त्रम् संप्लवः साकारवादः साधनविकलम सिद्धदर्शनम सिद्धानाम् सिद्धेन्द्रियाणाम् स्फोटसिद्धिः स्फोटात्मा स्फोटादिः स्मृतिप्रमोषः स्यन्दनम् स्वतन्त्रे
ناو
0 0
१३४ १८२
२३४
१३१ १९४
ANNA
२७३ होतुः
१५८, १५९
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठाङ्काः
२१८
२७५ १४९
ur ord
२४२ २७७, २९०
१९५
चतुर्थं परिशिष्टम्
( विशिष्टवाक्यांशसूची) স্বায়ালি
पृष्ठाङ्काः वाक्यानि अ
अभ्यवहरणेच्छा अभिलाषः अक्षमा असहिष्णुता
अयोगान्ययोगव्यवच्छेदेन अणुविवरमात्रे
२४३ अर्थक्रिया अतिवाहिकशरीरम्
अवधारणपक्षः अतीतविषयः
अवयविसमानार्थावसरे अधोमुखं कमलम्
अवर्णलक्षणः अध्ययनं वेदपाठः
२३२ अव्युत्पन्नः प्रश्नः अनागतक्रियायामिच्छा संकल्पः
असमर्थविशेषणासिद्धः अनुपजाततिमिरस्य
१७४
असमर्थविशेष्यासिद्धः अनुपधा पराद्रोहः
२३१
असर्वगतद्रव्यपरिमाणञ्च अनुमेयासिद्धः
१९५
असिद्धविशेषणः पक्षः अनुसन्धानवचनम्
२०६ अस्मत्सिद्धान्तात अनेकान्तवादस्य
११५ आ अनेकाश्रितत्वम
आकाक्षायोग्यतासन्निधिः अनैकान्तिकावसरे
आकारमात्रसंवेदनवादिनः अन्तर्वेद्याम्
१३८ आकाशसत्त्ववाचिनः अन्तेवासिनाम ज्वर्थपरिज्ञानमेव
आक्षिप्तविशेषस्य अन्धानन्धयोः
१७१ आगमिकमुदाहरणम् अन्यतरविशेषणासिद्धः
१९५ आदिवाक्यम् अन्यतरासिद्धः
१९४, १९५ आनन्त्यपक्षः अन्यथासिद्धविशेषणासिद्धः
१९६ आप्तलक्षणम् अन्विताभिधानम्
आम्नायो वेदः अपराक्षज्ञानम्
२१४
आरभ्यारम्भकवादे अपोद्धरणमपोद्धारः
आश्रमाश्च ब्रह्मचर्यादयः अपाद्धारव्यवहारः
आर्पज्ञानस्य अप्रमादो विहितानुष्ठाने निरालस्यम अभिषेचनं स्नानम्
२३१ इज्या यजनम्
१५१ १८९
१८८
२०३ १६२ २८७
२३७
२४३
२१३
Vrar
२३२
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
उ
उदयास्तमयप्रतिपत्तिः
उन्मत्त भाषितम् उन्मत्तवादिकत्वम्
उपनयवचनम्
उपनयवादोऽहोरात्रं नैरशनता
उपनयवैयथ्यं च
उपादेयज्ञानम्
उपेक्षणीयज्ञानम्
उभयविलम्
उभयविकलमिन्द्रियम्
उभयविशेषविकलम्
उभयव्यावृत्तम्
उभयविशेषणासिद्धः उभयोविशेष्यासिद्धः उल्कापातादिः
ऊ
ऊहशक्तेः संवर्धनार्थकम्
ऋ
ऋग्यजुः सामलक्षणाः
學
कलकलाशब्दश्रवणात्
कल्पनाज्ञानम्
कष्टव्याख्यानम्
कायिको व्यापारः कालात्ययापदिष्ट:
कुमारावस्थायाम्
केदारगिरिमा रोहताम्
क्रमयौगपद्याभ्याम्
क्षणभङ्गनिषेधात्
क्षणभङ्गस्य प्रतिषेधात् क्षणभङ्गावसरे
www.kobatirth.org
चतुर्थं परिशिष्टम्
१५७
१०९
१९१
२०५
२३१
१५६, १५७
१६२
१६२
१६९, २०३
१६९
१६९
७
२०४
१९५ ज्योतिषामयनम्
१९५
२१५
१९५
१५७
३६
२०
ग
गुरुकुलम्
गोपाल
ग्रन्थोपनिबद्धेषु
घ
घटासत्त्ववादिनः
घोरसन्न्यासिकाचेति
१७५
१५०
२३९
१५७
२
७५
६५
१८३
च
चतुर्विधोऽनैकान्तिकः चतुर्विंशतितत्त्वानि चर्मवस्त्र कम्बलादिषु
ज जयपराजयव्यवस्था
त
तत्त्वज्ञानम्
तत्त्ववादिमतम्
तत्त्वातत्त्ववादिनः
तदभेदवादिनः
तद्गुणसंविज्ञानपक्षे
तद्भावसिद्धः
तार्णपार्णादिः
द
दानं सत्पात्रस्य द्रव्यनिवेदनम्
दिग्वाससां मतम्
दिव्यान्तरिक्षभौमानाम्
ध
धर्मासिद्धम्
ิ
Acharya Shri Kailassagarsuri Gyanmandir
न चारभ्यारम्भकवादः
For Private And Personal Use Only
३०१
२३२
१६५
२१४
२०४
२३३
१९७
१२९
२७८
१०९, १७३
२१५
२३२
११५
२१५
दृष्टान्तदोषेण
१९०
दृष्टान्तवचनम्
२०२
दोषदर्शनाद् विषयेषु परित्यागेच्छा वैराग्यम् २१८
२१६
१९१
१९०
१४५
१६४
१९५
२७६
२०४
१७
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
व्योमवत्यां
२८१
१५०
नवानामात्मविशेषगणानामत्यन्तो
प्रसंगसाधनम्
३८ च्छित्तिर्मोक्षः २२९ प्रातिभं ज्ञानम्
२१३ नाट्यशास्त्रप्रसिद्धाः १७५ प्रादिसमासः
१३७ नारिकेलद्वीपवासिनः
पुरस्तुभयतटव्यापकोदकसंयोगः निगमनप्रयोगः निगमनम्
२०८ फलविशेषणपक्षः
१३९,१४० निदर्शनाभासाः
२०३ नैरात्म्यप्रतिषेधेन
१११ बालावस्थायाम्
२३९
ब्रह्मचर्यमपत्यसजः करणस्योपस्थस्य संयमः २३१ पक्षोक्तिः प्रतिज्ञावचनम्
ब्रह्मभाषितस्य
२४३ पञ्चपुरावस्थितः
२८६ ब्रह्मभाषितस्याप्युपलम्भप्रसंगात् पदार्थसङ्गरे
ब्रह्मादिपदारूढम् परप्रतारणाभिप्रायेण
ब्रह्मादिभाषितम् परवञ्चनेच्छा उपधा
२१८ पर्युदासप्रतिषेधस्य
भागासिद्धम्
२१० परामर्शज्ञानम्
भिक्षालाभादिकम् परार्थानुमानप्रवृतिः परार्थानुमानम्
भूगोलकदेवकुलादीनाम्
२६८ परिमण्डलत्वात्
भूसञ्चलनादिः
२१५
भेदाभेदपक्षः पारिमाण्डल्यम् ५१,७२
११५ पृथिव्यधिकारे प्रज्वलनस्वरूपो द्वेषः
२१९ मक्षिकादिगुरुत्वम् प्रणिधानादेः २१२ मणिमन्त्रौषधादीनि
१८२ प्रतिग्रहः शास्त्रेणानिन्दितद्रव्यादानम् २३२ मीमांसकसौगतजनानाम
१२७ प्रतिज्ञा हि प्रतियोगिप्रतिज्ञान्तरमपेक्षमाणो मूकताप्रसंगः
१५२
मतत्वञ्च अव्यापिपरिमाणसम्बन्धित्वम विवादः
मुत्तिरसर्वगतद्रव्यपरिणामम् १३८
२६५ प्रतितन्त्रन्यायेन
मैथुनेच्छा कामः
२१८ प्रत्यक्षबाधया
म्लेच्छादिशब्दश्रवणात्
१६४ प्रत्याम्नायवचनम्
२०७ प्रत्याम्नायेन
२०८ प्रयत्नाधिकारे १३४ यादृच्छिकशब्दानाम्
१६४ प्रयोजनमिति चिन्त्यम् ७ युतसिद्धिः
२९० प्रशस्तो भगवान् १७६ योगिन्यायेन
२०७
२२१
१५०
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
योगिसदभावसिद्धेः
र
रूपादिसमुदायो द्रव्यम्
ल
लिङ्गवाक्यार्थक्षे लिङ्गवाक्यार्थवादिनः
व
वचनदोष:
वध्यघातकपक्षे
वनेचरवाक्यात्
वर्णलक्षण:
वर्णाश्च ब्राह्मणादयः
वसन्तसमयः
वाक्यार्थप्रतिपत्तिः
वादिप्रतिवादिनः
वार्त्तावृत्तयः
विधिर्व्याप्तिः
विपरीतानुगताः
विपर्यस्ताक्षेपः
विभागावसरे
विरुद्धविशेषणासिद्ध:
विरुद्धाव्यभिचारिणः
विरुद्धाव्यभिचारी
विवरणवाक्यम्
विवरणवाक्येषु
विशेषगुणत्वम्
विषमव्याप्तिकम्
विषयानुरञ्जनेच्छा रागः
वृद्धव्यवहारतः
वृश्चिकाद् वृश्चिको जायते
वेदान्तमते
वैदिकवाक्यानाम्
व्यतिरेकाव्यभिचारेण
www.kobatirth.org
चतुर्थं परिशिष्टम्
२१३
१८
१९३
२०७
२०३
४५,४८
१७६
२४२
२३१
२८६
१८६,१८७
१५०
२३३
१५५
२०३
२७७, २९०
७४
१९६
१५१
१५१
१४८
१३९
४
व्यधिकरणविशेषणासिद्ध:
व्यधिकरणविशेष्यासिद्ध :
व्यर्थविशेष्यता
श
शब्दपरीक्षायाम्
शाक्यदर्शनाभ्यासात्
शाक्यादिदर्शनविपरीतत्वात्
शाक्यादिदर्शनानि
शाक्यादिदर्शनेषु
शब्दज्ञानस्य
शालीनवृत्तयः
शीघ्रगतिः
शून्यं निरात्मकम्
शेषानुव्यवसाय: •
स
सन्दिग्धोऽनैकान्तिकः समवायपदार्थ
समव्याप्तिक
समानतन्त्रगतम्
समानतन्त्रतासिद्धिः
समानतन्त्रन्यायेन
सङ्कलनाज्ञानम्
सङ्केतप्रतिपत्तिः
सङ्ग्रहवाक्ये
संघातदर्शनात् संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः
संयोगादीनामवचने
साधनव्यावृत्तम्
साधनसहिता तु प्रतिज्ञा साध्यवाक्यार्थपक्षः
२०३
२१८
१६४
१५८
११५ साध्यविकल:
१६७
साध्यविकलम्
१५१
साध्यव्यावृत्तम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
३०३
१९५
१९६
१५६
१६८, १८५
१२५
१२५
१२५, १२६
१२५, १२६
१३७
२३३
२८५
१२५
२१२
१९७
३
२०३
१५०
११७
१५४
४७
१६४
३३
२२३
१७७
19
२०४
१९१
१८४
१६१
२०३
२०४
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवत्यां
साध्यार्थवाक्यार्थवादिनाम सामग्रीविशेषणपक्षे सामान्यविषयमनुमानम् साङ्ख्याभ्युपगतम् सुरसिद्धमनुष्याणाम् सूक्ष्मरन्ध्रदेशनिष्क्रमणम् स्नेहपरीक्षायाम् स्फोटादिलक्षण: स्वतःप्रामाण्यम् स्वप्नान्तिकम स्वप्नान्तिकमतम्
१८३ स्वरूपविशेषणतैव १३९ स्वरूपविशेषणपक्षः १७१ स्वलक्षणविषयम् २०४ स्वसमवेतविशेषविशिष्टत्वे २१५ स्वसंविवादिनः २६४ स्वामिनोऽपकारी द्रोहः
६ स्वार्थमनपेक्ष्य परदुःखप्रवाहणेच्छा
१७४ कारुण्यम १७०, १७१ स्वार्थानुमानकाल:
११२ २१९
२१८ २०५
१३३ हेत्वाभासान्तरम्
१५०
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धिपत्रम्
पतौ
१३१
१६८
१७०
१७२ १७६ १८६ १९२ १९८
0 orrNNY
Mowerm
SM WOG WW
अशुद्धम् मेर्याकाश तथा हिं एवभिप्रेता रूण्श्मश्रु बाहीकस्य (4० सू०) नन्मिथ्या शब्दार्धा गोशाद काक्य सर्वकार्य शास्त्रेतत्र 'बहिव्याप्ति वहिाप्ति अनुपनिवद्धेषु भावस्त द्रव्यत्वम् इतरस्माद्भिद्यते भूतहित्वमपि ददत्तो व्यक्ति धर्म इनि मन्यते धासिद्धश्च भ्रमणाविष्वेव समान्य
शुद्धम् भेर्याकाश तथा हि एवाभिप्रेता रूढश्मश्रु बालीकस्य ( वै० सू०) तन्मिथ्या शब्दार्था गोसाद वाक्य सर्व कार्य शास्त्रे तत्र बहिाप्ति बहिव्याप्ति अनुपनिबद्धेषु भावास्त द्रवत्वम् इतरस्माद्भिद्यते भूतहितत्वमपि ददतो व्यक्तिधर्म इति मन्मते धम्यसिद्धश्च भ्रमणादिष्वेव सामान्य शुक्ल: अथेह बुद्धिः चानया सम्बन्ध्यभावे °दिह बुद्धय त्विह बुद्धौ
२३३ २४१ २४३ २४३ २५३ २५३ २७९ २९० २९० २९०
शुल्कः
So9mm War
अथेहबुद्धिः चानय सम्बध्यभावे °दिहब द्धय त्विहबुद्धी
२९०
२९०
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only