________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधर्म्यप्रकरणम्
प्रधानञ्च सत्त्वरजस्तमसां साम्यावस्था, तद्विकारो वैषम्यम् । उपलब्धिस्तु सुखदुःखाकारपरिणतायां बुद्धावात्मनः प्रतिबिम्बोदयो भोगः । तदाह,
विविक्तदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥(आसुरिः)इति । विविक्तदृगविषयाकारपरिणतेन्द्रियाकारपरिणतिर्यस्याः सा तथोक्ता, 5 तस्यां बुद्धौ सत्यामात्मनो भोगः कथ्यते । किं रूपः ? प्रतिबिम्बोदयः, न वास्तवः । यथा चन्द्रमसः प्रतिबिम्बनं स्वच्छे, न कलुषाम्भसि; एवं विशिष्टपरिणामोपचितायां बुद्धावात्मन इति । वास्तवे हि भोगे पुरुषस्य पूर्वस्वरूपनिवृत्तौ स्वरूपान्तरापत्तिविकारः स्यात् । तत्र चाचेतनत्वादनेकदूषणमिति । अन्ये त्वन्यथा भोगं मन्यन्ते । यथा हि,
पुरुषोऽविकृतात्मैव स्वनिर्भासेन चेतनम् ।
मनः करोति सान्निध्यादुपाधिस्फटिकं यथा ॥(विन्ध्यवासी)इति । सान्निध्यादुपाधिस्फटिकमतद्रूपं स्वनिर्भासं स्वाकारं करोति । एवमयं पुरुषोऽविकृतस्वरूपोऽचेतनं मनः स्वनिर्भासं चेतनमिव करोति सान्निध्यात्, न पुनर्वस्तुतस्तस्य चैतन्यं विकारित्वात् । ज्ञानन्तु विषयाकारपरिणतेन्द्रिया- 15 कारतया बुद्धेः परिणामः । तदा भोगोत्सुकं पुरुषं मत्वा बुद्धेराकूतिः सम्पद्यते । तदाकूतसंवेदनाच्चेन्द्रियाणां पूर्वस्वरूपनिवृत्तेविषयाकारपरिणामः । अन्यथा हि पूर्वरूपापरित्यागे प्रागिव पश्चादपि विषयावबोधो न स्यात् । विषयाकारपरिणामश्च प्रतिकर्मव्यवस्थातो नीलस्येदं पीतस्येदमिति ज्ञेयम् । अन्यथा हि विषयाकारं विना परिणामस्याविशेषादियं व्यवस्था न स्यात् । 20 एवं विषयाकारपरिणतेन्द्रियेषु तदाकारतया बुद्धेः परिणामः ।। तथासिद्धयादिप्रत्यया: पञ्चाशद् बद्धेः परिणामविशेषा एव ।
अष्टधा सिद्धिर्नवधा तुष्टि : पञ्चविपर्ययभेदाः ।
तथाशक्तिरष्टाविंशतिधेत्यसिद्धितुष्टयोर्भेदाः ॥ सप्तदशैकादशेन्द्रियवधाश्चेति पञ्चाशद् भवन्तीति पर्यायत्वं बुद्ध्यादि- 25 शब्दानां न सिद्धाः, विभिन्नार्थवाचकत्वात् । अभिन्नप्रवृत्तिनिमित्ताश्चैकार्थवाचकाः शब्दाः पर्याया इति ।
For Private And Personal Use Only