SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् नुपलभ्यमानाः परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति । पक्षीकृतेषु परमाण्वादिषु प्रमेयत्वस्य हेतोः सद्भावात् पक्षधर्मत्वम् । तथा कस्यचित् प्रत्यक्षेण साध्येन प्रमेयत्वस्य हेतोघंटादौ व्याप्तेरुपलम्भः । न चास्य प्रत्यक्षागमाभ्यामस्ति बाधा । नायं सत्प्रतिपक्ष इत्यव्यभिचारित्वाद् गमक एव। सर्वञ्चानुमानं सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तमानं पक्षे विशेष प्रसाधयतीत्यतः कस्यचित् प्रत्यक्षमेव परमाण्वादेः सामान्येन साध्यते। यस्य च प्रत्यक्षाः परमाण्वादयः सोऽस्मदादिविलक्षणो योगी। तथा अभ्यासवशाद् बुद्धस्तारतम्यमुपलभ्यमानं क्वचिद् विश्रान्तं तारतम्यशब्दवाच्यत्वादणुपरिमाणतारतम्यवत् । यत्र विश्रामस्तेऽस्मदादि- 10 विलक्षणा योगिनः इत्यनुमानस्य तु निर्दिष्टतायां योगिसद्भावसिद्धेः । शेषं वचनमात्रं न बाधकमित्युपेक्ष्यते । तत्र सामान्यविशेषेषु स्वरूपालोचनमात्र प्रत्यक्ष प्रमाणं, प्रमेया द्रव्यादयः पदार्थाः, प्रमाता आत्मा, प्रमितिव्यादिविषयं ज्ञानम् । सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्र प्रत्यक्षं प्रमाणम, अस्मिन् 15 नान्यत् प्रमाणान्तरमस्ति, अफलरूपत्वात् । तदेवं योगिनामयोगिनाञ्च प्रत्यक्षं व्याख्याय शिष्यव्युत्पादनाय विप्रतिपत्तिनिरासार्थञ्च प्रमाणफलविभागं निरूपयति * तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रम् * इत्यादिना। सामान्यविशेषेषु द्रव्यत्वगुणत्वकर्मत्वादिषु स्वरूपालोचनमात्रम् । आलोचितिरालोचनं निर्विकल्पकं ज्ञानम् । * प्रत्यक्षं 20 प्रमाणम् * तदुपलक्षिता सामग्री प्रत्यक्षं प्रमाणमिति। मात्राभिधानात् ज्ञानान्तराभावं दर्शयति [* प्रमेयाः * इति ।] प्रमीयन्त इति प्रमेयाः प्रमाणपरिच्छेद्या द्रव्यादयः पदार्थाः, प्रमिणोतीति प्रमाधारत्वात् प्रमाता आत्मा, प्रमितिः प्रमाणादिसाध्या प्रतीतिर्द्रव्यादिविषयं ज्ञानं फलम् । इत्येवमितरेतरव्यावृत्तलक्षणयोगित्वात् प्रमाणादयः परस्परं विभिन्ना इति तदभेद- 25 वादिनो निरस्ता भवन्ति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy