________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
व्योमवत्या
काशञ्च दिक् च कालश्च वायुश्च परमाणवश्च मनश्चेति तथोक्तानि तेषु । तथा न परं स्वात्मादिषु संयुक्तेन मनसा योगिनामपरोक्षग्रहणं तत्समवेतेषु गुणकर्मसामान्यादिविशेषेषु संयुक्तसमवायेन, समवाये च संयुक्तविशेषणविशे
ष्यभावेन ग्रहणम् । अतएव समवायस्य पृथगभिधानं विभिन्नसन्निकर्षपरिच्छे5 द्यत्वात् । गुणकर्मसु परमाण्वादिगतेषु यत्सामान्यं तत्र संयुक्तसमवेतसमवायेन।
अथ योगी यदा स्वमन्तःकरणं गृह्णाति तदा किं करणम् ? आत्ममन:संयोगः, तस्मिन् मनःपरिच्छेद्ये मन एव करणमिति । परकीयेन च मनसा सूक्ष्मशरीरस्थं मनः प्रर्यमभिसम्बन्धयति, तत्सम्बद्वञ्च तद्गृह्णातीति ।
वियुक्तानां पुनश्चतुष्टयसन्निकर्षात् * अस्मदादीनामिव प्रत्यक्षमुत्पद्यते ज्ञानम् । केष्वर्थेषु ? सूक्ष्मव्यवहितविप्रकृष्टेषु * इति । सूक्ष्माः परमाणवो व्यवहिता नागभुवनादयो विप्रकृष्टा मेर्वादयस्तेष्वपरोक्षं ज्ञानम् । असमाध्यवस्थानां योगजधर्मानुग्रहसामर्थ्यात् तदुत्पद्यते, योगीन्द्रियाणां हि
धर्मविशेषानुग्रहेण सर्वत्राप्रतिबन्धात् । चतुष्टयसन्निकर्षग्रहणमुदाहरणार्थम्, 15 त्रयसन्निकर्षणापि ग्रहणात् । तथा हि योगी ब्रहमादिभाषितं योगजधर्मानुग्रहादप्रतिबध्यमानसन्तानन्यायेन श्रोत्रदेशमागतं गृह्णाति त्रयसन्निकर्षण ।
ननु सर्वमेतदसत्, योगिनां सद्भावे प्रमाणाभावाद्, बाधकोपपत्तेश्च । तथा च न योगी अतीन्द्रियार्थद्रष्टा प्राणित्वाद् अस्मदादिवत् । योगीन्द्रियाणि
वा न सर्वविषयाणि इन्द्रियत्वाद् अस्मदादीन्द्रियवत् । नैतद् युक्तम्, स्वतन्त्रे 20 योगिनामप्रसिद्धतया प्राणित्वादिहेतोराश्रयासिद्धत्वात् । अथ परव्याप्त्या
परस्यानिष्टापादनमेतत् ? तत्र यदि सम्यक् प्रमाणेन परप्रसिद्धिस्तेनैव बाध्यमानत्वादनुत्थानं तत्प्रतिषेधहेतूनाम् । न च कार्येणैव कारणस्य व्याघातः, तदन्तरेणापक्षधर्मतया तन्मूलस्य हेतोरप्रामाण्यप्रसङ्गात् । अथ प्रमाणं
विनैव परेणाभ्युपगता योगिन इति प्रतिषिध्यन्ते । तर्हि प्रमाणाभावेनैव 25 प्रमेयस्याप्रसिद्धर्व्यर्थं तत्प्रतिषेधानुमानम् ।
अस्ति च योगिनां सद्भावेऽनुमानम् । तथाहि, अस्मदादीनां प्रत्यक्षेणा
For Private And Personal Use Only