SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधर्म्यप्रकरणम् १४३ ग्रहणम् । कुतः ? * प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्याम् तत्समवायात् संख्यादीनां ग्रहणमिति । * बुद्धिसुखदुःखेच्छद्वेषप्रयत्नानां द्वयोरात्मनसोः * सन्निकर्षादुपलब्धिः । बुद्ध्यादयो हि आत्मनि समवेतास्तत्सम्बद्धेन मनसा गृह्यन्ते । भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकै- 5 रिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम् । सामान्ये प्रत्यक्षमाह [* भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम् *] भावश्च द्रव्यत्वञ्च कर्मत्वञ्च तथोतानि, तान्यादिर्येषामित्यादिपदेन पृथिवीत्वोत्क्षेपणत्वादीनां ग्रहणम् । उपलभ्यश्चासावाधारश्च, तत्समवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम् । येन- 10 वेन्द्रियेणाश्रयग्रहणं तेनैव तत्समवेतानां सत्तादीनां ग्रहणमिति । तथाहि, सत्ता द्रव्ये वर्तमाना संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते । गन्धरसरूपस्पशैषु समवेता घ्राणरसनचक्षुस्त्वगिन्द्रियैरुपलभ्यन्ते संयुक्तसमवेतसमवायेन । शब्दे तु समवेतसमवायाच्छोत्रेण । सुखादि तु संयुक्तसमवेतसमवायान्मनसा गृह्यते । गुणत्वमप्येवम् । अतः सत्तायां गुणत्वे च सर्वेन्द्रियं ज्ञानमिति । 15 द्रव्यत्वं संयुक्तसमवायेन चक्षुःस्पर्शनाभ्यामुपलभ्यते । कर्मत्वञ्च संयुक्तसमवेतसमवायात् । रूपत्वादावप्येवं ग्रहणम् । इत्येतदस्मदादीनां प्रत्यक्षम् * इत्युसंहारः । अस्मविशिष्टानान्तु योगिनां युक्तानां योगजधर्मानुग्रहीतेन मनसा स्वात्मान्तराकाशदिक्कालपरमाणुवायुमनस्सु तत्समवेतगुणकर्मसामान्य- 20 विशेषेष समवाये चावितथं स्वरूपदर्शनमुत्पद्यते । वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद् योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते। तथास्मद्विशिष्टानां योगिनां केष्वर्थेषु कथञ्च प्रत्यक्षमुत्पद्यत इति व्याख्यायते । तत्र युक्तानां समाध्यवस्थानां योगजधर्मानुगृहीतेन तत्सहकारिणा 25 मनसा अपरोक्षस्वरूपदर्शनं जन्यते। केष्वर्थेषु ? स्वात्मा चात्मान्तरञ्चा For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy