________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
व्योमवत्यों
विशेषद्रव्यगुणकर्मविशेषणापेक्षात् इत्यादिना । सामान्यञ्च सामान्यविशेषश्च द्रव्यञ्च गुणश्च कर्म चेति तथोक्तानि । तान्येव विशेषणानि, तान्यपेक्षत इति तदपेक्षः समुच्चये। न केवलं स्वरूपालोचनमात्रमुक्तकारणेभ्यो निष्पद्यते, सामान्यादिविशेषणापेक्षञ्च तत एवोत्पद्यत इति ।
ननु चतुष्टयसन्निकर्षस्यापवादं विना ऊर्ध्वं सर्वत्रानुवृत्तेरभ्युपगमाद् व्यर्थम् आत्ममनःसन्निकर्षस्याभिधानम् ? न, अनन्तरज्ञानेऽप्यस्यासमवायिकारणत्वज्ञापनार्थत्वात् ।
तत्र सदिति सत्ताविशेषणं द्रव्यमिति सामान्यम्, विशेषापेक्षं पृथिवीति, तथा विषाणीति द्रव्यविशेषणम्, शुक्ल इति गुणविशेषणापेक्षम्, गौरिति सामान्यविशेषविशेषणापेक्षम्, गच्छतीति क्रियाविशिष्टं ज्ञानमित्युदाहरणानि ।
रूपरसगन्धस्पशेष्वनेकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्निकर्षान्नियतेन्द्रियनिमित्तमुत्पद्यते । शब्दस्य त्रयसन्निकर्षाच्छोत्रसमवेतस्य तेनैवोपलब्धिः । संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व
स्नेहगत्ववेगकर्मणां प्रत्यक्षद्रव्यसमवायाच्चक्षुःस्पर्शनाभ्यां ग्रहणम् । 15 बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः ।।
गुणादिषु प्रत्यक्षमाह * रूपरसगन्धस्पर्शेषु * विषयेषु अनेकद्रव्येण सह समवायात् । * स्वगतविशेषात् * च, यत् कृता क्वचिद् विषये तेषामुपलब्धिर्यदभावाच्चानुपलब्धिः स उद्भवसमाख्यातो रूपादिधर्मः सहकारिविशेष
स्तस्मात् । * स्वाश्रयसन्निकर्षात् * च । स्वाश्रयेण द्रव्येण संयुक्तमिन्द्रियं 20 तत्समवायात्, धर्मादिसामग्रये च सति प्रतिनियतेन्द्रियनिमित्तमुत्पद्यते
ज्ञानम् । * शब्दस्य त्रयसन्निकर्षात् * इति । आत्मा मनसा संयुज्यते मन इन्द्रियेणेति त्रयस्य सन्निकर्षः । * श्रोत्रसमवेतस्य * इति । इन्द्रियार्थसन्निकर्षोऽप्युपदर्शित एव । तेनैव श्रोत्रणोपलब्धिर्नेन्द्रियान्तरणेति ।
अन्ये तु त्रयश्चासौ सन्निकर्षश्चेतीन्द्रियार्थसन्निकर्षोऽप्युपलभ्यते । 25 तस्माच्छ्रोत्रसमवेतस्य तेनैवोपलब्धिरिति ।
* संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणाम् *
For Private And Personal Use Only