________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणवैधयंप्रकरणम्
१४१ चक्षुस्त्वक्छोत्रमनांसि * न कर्मेन्द्रियाणि पराभ्युपगतानि । निर्विषयज्ञानस्य प्रतिषेधेन स्मृतिव्यवच्छेदार्थमाह * तद्धि * प्रत्यक्षं यस्मात् * द्रव्यादिषु पदार्थेषूत्पद्यते * तस्मान्न निविषयमिति । अत्र च आदिशब्देन गुणकर्मसामान्यानि गृह्यन्ते । समवायोऽपोत्यन्ये ।
अन्ये तु इन्द्रियस्यार्थेन सन्निकर्षप्रतिपादनार्थं तद्धि द्रव्यादिषु पदार्थेष- 5 त्पद्यते, प्रत्यक्षम् । तस्मादस्तीन्द्रियेण संयुक्तसमवायादिसम्बन्धः ।
यतो वा द्रव्यादिषु पदार्थेषत्पद्यते प्रत्यक्षमतो * द्रव्ये तावत् * व्याख्यायत इति । किं विशिष्टे ? * त्रिविधे * तिस्रो विधा यस्य तत् तथोक्तं तस्मिन् । * महति * महत्त्वाधिकरणे * स्वरूपालोचनम् * निविकल्पक ज्ञानमुत्पद्यते । कुतः ? [ * अनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षात् *] अनेकद्रव्य- 10 [त्वं ? वत्त्वं] च [उद्भूत रूपञ्च प्रकाशश्च चतुष्टयसन्निकर्षश्चेति तथोक्तस्तस्मात् । * धर्मादिसामग्रथे च * इति । अनेकञ्च द्रव्यञ्चेत्यनेकद्रव्यं तद यस्यास्ति तत्, तद्वत् तस्य भावोऽनेकद्रव्यवत्त्वम् । रूपञ्चात्र रूपविशेषो विवक्षितः । तथा च सूत्रम् 'महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम्' (वै० सू० ४।१।६) इति । अपरोक्षज्ञानसद्भावे सति समस्तं 15 व्यस्तञ्चेदं प्रत्यक्षज्ञानस्य कारणं विवक्षितमित्युक्तं वाय्वधिकारे। चतुष्टयसन्निकर्षश्च आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थनेति चतुष्टयसन्निकर्षस्तस्मात् । धर्मादिसामग्रचे चेति आदिपदाद् दिक्कालादेर्ग्रहणमिति ।
अथास्त्वेवं निर्विकल्पकज्ञानोत्पत्तिः । सद्भावे किं प्रमाणम् ? सविकल्पकज्ञानोत्पत्तिरेव । अन्यथा हि विशिष्टार्थानुपलब्धौ विशिष्टस्य सङ्केतस्मरण- 20 स्यानुपपत्तेः सविकल्पकं ज्ञानं न स्यात्, तस्य तत्कार्यत्वात् । न च सङ्केतस्मरणमेव तस्य निमित्तम्, अक्षणिकत्वे सति अर्थस्य निविकल्पज्ञानोत्पत्ताविव सविकल्पकज्ञानोत्पत्तावन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेरित्युक्तन्यायात् ।
सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनःसन्निकर्षात् प्रत्यक्षमुत्पद्यते सद्रव्यम्,पृथिवी, विषाणी, शुक्लो गौर्गच्छतीति ।
25 तदेवं निर्विकल्पकं प्रतिपाद्य सविकल्पकं विशेष्यज्ञानमाह सामान्य
For Private And Personal Use Only